२०८

अष्टाधिकद्विशततमः सर्गः २०८

श्रीवसिष्ठ उवाच ।

शुभाशुभं यथोदेति प्रजानां गृहसङ्गमे ।
असम्बद्धैरप्रतिघैर्दूरस्थैस्तदिदं शृणु ॥ १ ॥

दूरदेशगतैर्यत्नैरन्यत्रापि प्रजाफलम् ।
यथा प्राप्नोति तादृक्षा धातुरिच्छात्र वर्ण्यते ॥

अनिच्छतेहितैर्दूरदेशन्तरगतैः फलम् । प्रजा प्राप्नोत्यसम्बद्धैरमूर्तैरत्र कः
क्रमः इति प्रश्नस्योत्तरं श्रावयितुं प्रतिजानीते - शुभाशुभमिति ।
अप्रतिघैरमूर्तैः ॥ १ ॥

ब्रह्मसङ्कल्पनगरं जगत्तावदिदं स्थितम् ।
यद्दृश्यं दृश्यबोधेन ब्रह्मैव ब्रह्मबोधतः ॥ २ ॥

यद्यस्माद्धेतोर्ब्रह्मैवाज्ञानाद्दृश्यबोधेन दृश्यं ब्रह्मबोधतश्च
ब्रह्मैव भवति तस्मादिदं जगत् ब्रह्मसङ्कल्पनगरमिति तावत्स्थितम् ॥ २ ॥

यद्यत्सङ्कल्पनगरे यदा सङ्कल्प्यते यथा ।
तथानुभूयते तत्तत्तादृग्विरच्नं तदा ॥ ३ ॥

किं ततस्तत्राह - यद्यदिति ॥ ३ ॥

एवमस्मिन्गृहे याते सम्पन्नैवमियं प्रजा ।
एवं सङ्कल्पसम्पन्ने जगत्येवं भवत्यलम् ॥ ४ ॥

ततोऽपि किं तत्राह - एवमिति । यथा ते तव अस्मिन्सङ्कल्पमये गृहे येयं प्रजा
एवं त्वत्सङ्कल्पानुसारिणी सम्पन्ना तथैव ब्रह्मसङ्कल्पसम्पन्ने जगत्यपि इयं
प्रजा ब्रह्मसङ्कल्पानुसारिण्येव भवतीत्यर्थः ॥ ४ ॥

एतत्स्वसङ्कल्पपुरे यादृशं ते तथा स्थितम् ।
यथा सङ्कल्पयसि यत्तत्तथा किल पश्यसि ॥ ५ ॥

तदेव स्पष्टमाह - एतदिति ॥ ५ ॥

यथैव वरशापाभ्यां शुद्धसंविदवाप्यते ।
संवित्तथैव भवति ब्राह्ममेवेति कल्पनम् ॥ ६ ॥

यत्तु जगत्यस्मत्सङ्कल्पनगरवैलक्षण्यमनुभूयते तत्र
वरशापसङ्कल्पसिद्धवद्बोध्यमित्याशयेनाह - यथैवेति । मुनीनां
यमनियमादिनिषेवणशुद्धा संविद्वरशापाभ्यां यथा व्यवहारक्षमा अवाप्यते
ब्रह्मसंविदपि तथैव भवतीत्यर्थः । यद्वरशापाभ्यां भवति तदपि ब्रह्मणैव
तपस्विनां वरशापाः सिद्ध्यन्त्विति कल्पनाद्ब्राह्ममेव सत्यसङ्कल्पनं
बोध्यमित्यर्थः ॥ ६ ॥

प्रजाविधिनिषेधाभ्यामेकयाश्थाव्यवस्थया ।
तथैव फलमाप्नोति ब्राह्ममेवेति कल्पनम् ॥ ७ ॥

प्रकृते प्रजाविधिनिषेधशास्त्राभ्यां बोधितयोर्धर्माधर्मयोर्मध्ये एकया
आस्थाव्यवस्थया तत्फलं यदाप्नोति तदपि ब्राह्ममेवेत्येवंविधं
सङ्कल्पनमित्यर्थः ॥ ७ ॥

देहिनो ये जगत्यस्मिंस्तान्प्रत्यनुपलम्भतः ।
असदासीज्जगत्पूर्वं सत्यमित्युपलभ्यते ॥ ८ ॥

चिद्रूपब्रह्मसङ्कल्पवशादेवैतदङ्ग सत् ।
चिदुन्मेषनिमेषौ यौ तावेतौ प्रलयोदयौ ॥ ९ ॥

असतो जगतः किञ्चित्कालं सत्त्वेन भानमपि ब्रह्मसङ्कल्पवशादेवेत्याह -
चिद्रूपेति । हे अङ्ग एतज्जगत् ॥ ९ ॥

राजोवाच ।

किं नोपलभ्यते पूर्वं किं पश्चादुपलभ्यते ।
जगच्चलद्वपुरिदं सुस्थिरारम्भभास्व्रम् ॥ १० ॥

यदि जगत् ब्रह्मसङ्कल्पवशात्सत्तर्हि पूर्वं सुषुप्तिप्रलययोः किं कुतो नोपलभ्यते ।
पश्चाज्जाग्रत्सर्गकालयोः किमर्थमुपलभ्यते चलद्वपुः सदा विक्रियमाणमिदं
जगत्सुस्थिरारम्भवद्भास्वरं भासमानं किं कथमित्यर्थः ॥ १० ॥

श्रीवसिष्ठ उवाच ।

अस्मिंश्चिद्व्योमसङ्कल्पपुरस्थे भाव ईदृशः ।
यद्भूत्वा न भवत्येव पुनर्भवति च क्षणात् ॥ ११ ॥

मायिकस्यास्य स्वभावे एवेदृश इत्युत्तरमाह - अस्मिन्निति । सर्गे
स्वप्नजाग्रतोर्भूत्वा प्रलयसुषुप्तिमोक्षेषु न भवत्येवेति यद सावीदृशो भावः
स्वभाव एव ॥ ११ ॥

बालसङ्कल्पपुरवद्व्योमकेशोण्ड्रकादिवत् ।
किलैते सदसद्रूपा भान्ति सर्गाश्चिदात्मनि ॥ १२ ॥

बालसङ्कल्पपुरादौ यावत्सङ्कल्पभ्रान्तिकालमात्रावस्थाननियमदर्शनेन
सदसद्रूपत्वावधारणाद्वा तस्य तथात्वमित्याह - बालेति ॥ १२ ॥

त्वं सङ्कल्पपुरं कृत्वा विनाश्यसि तत्क्षणात् ।
स्वतोऽन्यसंविद्वशतः स्वस्वभावः स ते यथा ॥ १३ ॥

जगत्सङ्कल्पयित्रैव तत्प्रलयस्यापि सङ्कल्पनाद्वा तथात्वमित्याह - त्वमिति ।
अन्यसंविद्वशतस्तत्प्रलयसङ्कल्पवशत आकारान्तरसङ्कल्पवशतश्च यथायं ते
स्वः स्वभावस्तथा चिद्व्योमसङ्कल्पपुरे तस्य ब्रह्मणो विमलं स्वभावकचनमिति
परेणान्वयः ॥ १३ ॥

चिद्व्योमकल्पनपुरे यदुन्मज्जनमज्जनम् ।
स्वभावकचनं तस्य तद्विद्धि विमलं तथा ॥ १४ ॥

संविद्घनस्त्वनाद्यन्तव्योमैव त्रिजगन्नभः ।
तेनासावद्य यन्नाम करोत्यपि च चेतति ॥ १५ ॥

अतस्त्रिजगन्नभः संविद्धनमात्रं सदनाद्यन्तं व्योम ब्रह्माकाशमेव यतः
स्वयमेव जगत्तेन हेतुना असौ परमेश्वरो यद्यच्चेतति करोत्यपि च
तत्सर्वमनावरणस्यास्य सत्यसङ्कल्पबलाद्योजनानां शतेष्वपि बहुभिर्युगैरपि
व्यवहितं पुण्यपापादिकर्म परलोकादिषु समीपे
वर्तमानव्त्स्वर्गनरकभोगैश्वर्यादिकार्यकृद्भवतीत्यर्थः ॥ १५ ॥

तदनावरणस्यास्य योजनानां शतेष्वपि ।
युगैरपि स्वप्न इव कार्यकृद्वर्तमानवत् ॥ १६ ॥

किल देशान्तरे नित्यमथ लोकान्तरेऽपि च ।
निरावृतो य एकात्मा स किं नाम न चेतति ॥ १७ ॥

बहिर्देशकालव्यवधाने कर्मतत्फलोभयाध्यासाधिष्ठानभूतो निरावरणो य
एकात्मा तत्रोभयोः सदैव सन्निधानात्किं नाम कर्मफलं स जीवो न चेतति । सर्व
चेतत्येवेत्यर्थः ॥ १७ ॥

यथा मणौ प्रकचति प्रोन्मज्जननिमज्जने ।
परावर्तः स्वभासास्य चिन्मणौ जगतां तथा ॥ १८ ॥

यथा प्रकचति मणौ स्वभासैव कान्तिविशेषस्य प्रोन्मज्जननिमज्जने अनुभूयेते तथा
चिन्मणौ जगतां सृष्टिप्रलयात्मको नानाकर्मफलवैचित्र्यभोगात्मकश्च
स्वभासास्य परावर्तनं परावर्तोऽनुभूयत इत्यर्थः ॥ १८ ॥

विधीनां प्रतिषेधानां लोकसंस्थाप्रयोजनम् ।
सैव संविदि रूढत्वात्प्रेत्यापि फलदा स्थिता ॥ १९ ॥

विधिप्रतिषेधशास्त्रसाफल्यप्रयोजिका लोकसंस्थैव वा ब्रह्मणि
निरूढत्वाद्दूरस्थकर्मणामपि फलं कल्पयतीत्याह - विधीनामिति ।
प्रेत्यमृत्वा परलोकं गत्वा स्थितस्येति शेषः ॥ १९ ॥

न कदाचन यात्यस्तमुदेति न कदाचन ।
ब्रह्म ब्रह्मचिदाभानं सर्वदात्मन्यवस्थितम् ॥ २० ॥

वस्तुतस्तु जन्ममरणे एवात्मनो न स्तः किन्त्वस्य स्वात्मनिव भ्रान्त्या
तत्कल्पनमित्याह - न कदाचनेति ॥ २० ॥

यथा तु द्रष्ट्टदृश्यत्वात्कल्पना कल्पनापुरम् ।
स्वयं जगदिवाभाति जातमित्युच्यते तथा ॥ २१ ॥

तथा जातं जन्मापि उच्यते वाचा व्यपदिश्यते न तु वस्तुत इत्यर्थः ॥ २१ ॥

यदा स्वभावात्कचनं संहृत्यात्मनि तिष्ठति ।
ब्रह्मचिद्गगनैकात्मा शान्त इत्युच्यते तथा ॥ २२ ॥

तथा मरणमपि पूर्वदेहादिभ्रान्तिकचनोपसंहार एव नान्य इत्याह - यदेति ।
शान्तो मृत इत्युच्यते जीव इत्यर्थः ॥ २२ ॥

कचनाकचने यस्य स्वभावो निर्मलोऽक्षयः ।
यथैतावात्मनो नान्यौ स्पन्दास्पन्दौ नभस्वतः ॥ २३ ॥

दृश्याकारकचनाकचने चाज्ञानोपहितचितः स्वभाव एवेत्याह - कचनेति ॥ २३ ॥

जरामरणहन्तृणि क्षणान्यत्र पृथक्पृथक् ।
भवन्त्विति यथैतानि सन्ति त्वत्कल्पनापुरे ॥ २४ ॥

मणिमन्त्रौषधीनां प्रभावविशेषा अपि ब्रह्मणः सत्यसङ्कल्पस्वभावा एव
तथोदिता इति सदृष्टान्तमाह - जरेति द्वाभ्याम् ॥ २४ ॥

ब्रह्मसङ्कल्पनगरे स्वभावा उदितास्तथा ।
ओषधीनां पदार्थानां सर्वेषां च जगत्त्रये ॥ २५ ॥

न सङ्कल्पयिता राजन्सङ्कल्पनगरे स्वयम् ।
तृणं तृणं कल्पयति बालः क्रीडनकानिव ॥ २६ ॥

तर्हि किमीश्वरः प्रतिक्षणं प्रतिवस्तु शक्तिकार्यादिभेदान्सङ्कल्पयिता कल्प्यते
नेत्याह - न सङ्कल्पयितेति । प्रतिवस्तु प्रतिक्षणमीश्वरो न सङ्कल्पयिता कल्प्यते
किन्तु बालः क्रीडनकान्यन्त्रविशेषानिव सकृदेव
सङ्कल्पयत्येतज्जातीयमेतज्जातीयकार्यकृद्भवतु तच्च तज्जातीयमित्थमुत्पद्यतामिति ।
तदेवशादेव बीजाङ्कुरादिक्रमेण पूर्वपूर्वतृणमुत्तरोत्तरतृणं कल्पयति ॥ २६

स्वयं स्वभाव एवैष चिद्घनस्यास्य सुस्फुटम् ।
यद्यत्सङ्कल्पयत्याशु तत्र तेऽवयवा अपि ॥ २७ ॥

आशु क्षणेनैव यद्यत्सङ्कल्पयति तत्र ते ते पदार्थाः सदवयवाः
शक्तिकार्यादिभेदा अपिशब्दात्कार्यपरम्पराश्च सकृत्सङ्कल्पादेव सिद्ध्यन्तीत्येष
चिद्घनस्य स्वभावः ॥ २७ ॥

चिदात्मकतया भान्ति नानात्मकतयात्मना ।
अप्येकसारास्तिष्ठन्ति नानाकारस्वभावगाः ॥ २८ ॥

ते सङ्कल्पकल्पितपदार्था आत्मना स्वभावेन नानात्मकतया स्थिता अपि
प्रथमानस्वभावे चिदेकात्मतया भान्ति एवं स्व्तो नानाकारस्वभावा अपि सद्रूपेण
एकसारास्तिष्ठन्ति ॥ २८ ॥

प्रत्येकं किल तत्रास्ति ब्रह्मचिन्मात्रतात्मनि ।
सर्वात्मिका सा यत्रास्ते यथान्तर्भाति तत्तथा ॥ २९ ॥

तत्र तेषु पदार्थेषु प्रत्येकमात्मनि ब्रह्मचिन्मात्रता अस्ति । यतः सैव चित्सर्वात्मिका
यन्न यथा आस्ते तत्र तथा भातीत्यर्थः ॥ २९ ॥

अनादिमध्यान्तमनन्तवीर्यं किञ्चिन्न किञ्चिच्च सदप्यसत्यम् ।
स्थितं यथा यत्र तदात्म तत्र सर्वात्मभूर्भूततृणादिजातौ ॥ ३० ॥

एवमनादिमध्यान्तमनन्तवीर्यमपरिच्छेद्यशक्तिकं ब्रह्म किञ्चिन्न किञ्चिच्च
स्थितमसत्यं सदपि स्थितम् । सत्यं चानृतं च सत्यमभवत् इति श्रुतेः ।
यतस्तत्सर्वात्म भवतीति सर्वात्मभूः अतो भूतेषु प्राणिषु तृणादिजातौ च यत्र
यद्वस्तु यदात्म यत्स्वभावं प्रसिद्धं तत्र स्वयमेव तत्स्वभावं भूत्वा
स्थितमित्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महाप्रश्नमोक्षणो
नामाष्टोत्तरद्विशततमः सर्गः ॥ २०८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महाप्रश्नमोक्षणो नामाष्टाधिकद्विशततमः सर्गः ॥ २०८ ॥