२०७

सप्ताधिकद्विशततमः सर्गः २०७

श्रीवसिष्ठ उवाच ।

शृणु राजन्यथा स्पष्टमेतत्ते कथयाम्यहम् ।
येन ते सर्वसन्देहा यास्यन्त्यलममूलताम् ॥ १ ॥

क्रमव्युत्क्रमतः प्रश्नाः केचिदत्र समाहिताः ।
समाधास्यत्यथान्यांश्च सर्गैस्त्रिभिरुदारधीः ॥

तत्रैकविज्ञानेनैव सर्वविज्ञानात्सर्वसंशयानां मूलोच्छेदेन
परिहारात्सामान्यतः सर्वप्रश्नसमाधानं करिष्यामीति प्रतिजानीते - शृण्विति ।
स्पष्टं करतलामलकवत्स्फुटमेतदात्मतत्त्वं कथयामि ॥ १ ॥

सर्वे तावज्जगद्भावा असद्रूपाः सदैव हि ।
सद्रूपाश्च सदैवेमे यथासंवेदनं स्थितेः ॥ २ ॥

तत्रादौ स्वतःप्रमाणस्वसंवेदनानुसारिणामर्थतत्त्वव्यवस्थायां कोऽपि क्वापि
संशयोऽनुपपन्न इत्याह - सर्वे इति । यत्र यदस्तीति प्रत्ययो यत्र च नास्तीति
तत्रोभयत्रापि संविदैव भगवत्या तदुभयरूपसमर्थनादिति भावः ॥ २ ॥

इदमित्थमिति प्रोता यत्र संवित्तदेव तत् ।
भवत्यवश्यं तत्त्वङ्ग सदेवास्त्वसदेव वा ॥ ३ ॥

यत्र विषये इदं वस्तु नीलं पीतं घटः पटः अस्ति नास्तीति वा इत्थमेवेति अवधारणेन
संवित्तिः प्रोता व्याप्ता हे अङ्ग तस्य विषयस्य तद्रूपमवश्यं भवत्येव तत्तु सद्वा
असदेव वास्तु न तत्राग्रह इत्यर्थः ॥ ३ ॥

ईदृक्स्वभावा संवित्तिस्तया देहो विभाव्यते ।
एक एव स्वरूपेण तस्यास्ते न च तद्विदा ॥ ४ ॥

तत्कुत इति चेत्संवित्तेर्यथाप्रतिभासमर्थसाधकस्वभावादित्याह - ईदृगिति । तथा
च नरकस्वर्गभोगाय विदेहे देहकारणं किं तत्स्यादिति प्रश्नः समाहित इत्याह ##-
तेन देहेन तस्याः संविदो विदा अबिव्यक्तिश्च विभाव्यते देहस्यात्मता संविदो
देहधर्मता चेति वैपरीत्यमध्यस्यत इति यावत् ॥ ४ ॥

विदमेव विदुर्देहं स्वप्नादावितरेतरा ।
संवित्काचित्सम्भवति न चान्यास्ति शरीरता ॥ ५ ॥

अत एव हि जनाः स्वप्नजाग्रतोर्देहं वेत्तीति वित् तथाविधं चेतयितारमेव
विदुरनुभवन्ति । इतरा संवित्तु इतरा चेतयितुर्धर्मो न स्वयं चेतयित्रीति विदुः । अतः
काचिद्भ्रान्तिरूपा संविदेव शरीरता सम्भवति तदन्या शरीरता नास्तीत्यर्थः ॥ ५ ॥

आश्रितस्वप्नसन्दर्शस्तथेदं भासते जगत् ।
समस्तकारणाभावात्सर्गादावन्यतात्र का ॥ ६ ॥

आद्यप्रश्नत्रयमप्यनयैव दिशा समाधेयं जगतोऽपि संवेदनबलादेव
सिद्धेरित्याशयेनाह - आश्रितेति । सर्गादौ जगदपि
समस्तकारणाभावादवश्याश्रयणीयः स्वप्नं सम्पश्यतीति स्वप्नसन्दर्शः
संविदात्मैवेत्थं भासते । अत्र जगति अन्यता स्वप्नवैधर्म्यरूपा का । न काचिदपि ।
अथवा अस्ति भातीति प्रत्यगात्मस्वभावेनैव जगदनुभवात्तदन्यता का । न
काचिदपीत्यर्थः ॥ ६ ॥

एवं यदेव विमलं वेदनं ब्रह्मसञ्ज्ञितम् ।
तदेवेदं जगद्भाति तत्केव जगतोऽन्यता ॥ ७ ॥

तदेवाह - एवमिति ॥ ७ ॥

एवं पूर्वापरं शुद्धमविकार्यजगत्स्थितेः ।
लोकवेदमहाशास्त्रैरनुभूतमुदाहृतम् ॥ ८ ॥

एवमविकार्यस्य ब्रह्मण एव जगद्रूपेण स्थितेर्विद्वल्लोकैर्वेदैरध्यात्मशास्त्रैश्च
प्रमाणैरेवमेवास्माभिरनुभूतं तदेवोदाहृतं नान्यदित्यर्थः ॥ ८ ॥

अपलाप्यैव ये मूढा अन्धकूपकमेकवत् ।
समस्तभूतसंवित्तौ रूढपूर्णं महात्मभिः ॥ ९ ॥

समस्तानां भूतानां प्राणिनां संवित्तौ रूढं दृढानुभवसिद्धं
सत्तात्मना सर्वत्र पूर्णं च महात्मभिरुक्तं जगतो
नित्यसंविन्मात्रत्वमपलाप्यैव ये मूढा
आपातवर्तमाननामरूपमात्रानुभवनमात्रप्रमाणकाः सन्तः संविन्न नित्यास्ति
किन्तु शरीरमेव कारणं यस्यास्तथाविधा जडोपादानिका जडात्मनो गुण इति
मोहमुपागतास्ते अज्ञा नैयायिकचार्वाकादय उन्मत्ता एवेति त्रयाणामन्वयः ॥ ९ ॥

वर्तमानानुभवनमात्रमोहप्रमाणकाः ।
शरीरकारणा संविदिति मोहमुपागताः ॥ १० ॥

उन्मत्ता एव तेऽज्ञास्ते योग्या नास्मत्कथासु ते ।
अक्षीबक्षीबयोर्मूढबुद्धयोः कैव सङ्कथा ॥ ११ ॥

कुतो न योग्यास्तत्राह - अक्षीबेति ॥ १ ॥

यया विपश्चित्कथया सर्वसंशयसङ्क्षयः ।
न भवेत्त्रिषु लोकेषु ज्ञेया मूर्खकथैव सा ॥ १२ ॥

यस्तु मूढा आस्था बुद्धिर्यस्य तथाविधश्चार्वाकः असौ प्रपञ्चः
प्रत्यक्षमात्रं निष्ठा प्रमाणं यस्य तथाविधो नाप्रत्यक्षप्रमाणमस्तीति
श्रुत्यादिसिद्धं न ग्राह्यमिति वक्ति स तेन निर्युक्तिनोक्तेन सर्वविरुद्धेन
अभिज्ञजनकर्णकठोरत्वाच्छिलासदृशवृत्तिना स्वोक्तेनैव निमित्तेन
सर्वैर्विद्वद्भिरज्ञः कूपान्धदर्दुर इति प्रोक्तः । यतोऽसौ पूर्वापरविचारधियं
त्यक्त्वा वर्तमानमात्रगोचरे प्रत्यक्षे स्वमत्या पशुवत्स्थित इति द्वयोरन्वयः ॥ १२ ॥

प्रत्यक्षमात्रनिष्ठोऽसौ मूढास्य इति वक्ति यत् ।
तेन निर्युक्तिनोक्तेन शिलासदृशवृत्तिना ॥ १३ ॥

प्रोक्तः सर्वविरुद्धेन सोऽज्ञः कूपान्धदर्दुरः ।
पूर्वापरधियं त्यक्त्वा वर्तमाने मतिस्थितः ॥ १४ ॥

वेदा लोकादयश्चैते पृष्टाः स्वानुभवान्विताम् ।
वदन्तीमां दृशं सर्वे यथा नश्यन्ति संशयाः ॥ १५ ॥

न च चार्वाकाद्युक्त्या संशया नश्यन्ति अनुमानादिप्रमाणानभ्युपगमेन
तदुक्तेर्निर्युक्तित्वात् । वेदादयस्तु गुरुमुखेन पृष्टाः सर्वसंशयोच्छेदेन
पुरुषार्थसिद्धिक्षमाः । यतस्ते स्वानुभवान्वितां इमां मदुक्तां दृशं
वदन्तीत्याह - वेदा इति । लोकास्तत्त्वज्ञजनाः ॥ १५ ॥

संविदेव शरीरं चेच्छवं कस्मान्न चेतति ।
इति यस्य मतिस्तस्मै मूढायेदमिहोच्यते ॥ १६ ॥

यदि प्रत्यगात्मसंविदेव देहादि जगत्तर्हि शवं मृतशरीरमपि संवित्त्वात्कुतो न
चेततीति मतिः शङ्का यस्य तस्मै मूढाय शुश्रूषवे इदमुच्यते शृणु ॥ १६ ॥

ब्रह्मणो ब्रह्मरूपस्य सङ्कल्पनगरं ततम् ।
इदं तावज्जगद्भानं तव स्वप्नपुरं यथा ॥ १७ ॥

ब्रह्मरूपस्य हिरण्यगर्भवेषस्य ब्रह्मण इदं जगद्रूपं भानं
सङ्कल्पनगरं ततं विस्तृतम् ॥ १७ ॥

तत्समस्तं सदैवेदं चिन्मात्रात्म निरन्तरम् ।
भव्त्यत्र न ते भ्रान्तिः स्वे स्वप्ननगरे यथा ॥ १८ ॥

तद्वस्तुतो निरन्तरं चिन्मात्रात्मैव तथापि अत्र ते स्वे स्वप्ननगरे चेतनभ्रान्तिर्यथा न
तथा शवादिजडेऽपि नेति बोध्यमित्यर्थः ॥ १८ ॥

तत्र तावद्दिशः शैलाः पृथ्व्यादि नगरादि च ।
सर्वं चिन्मयमाकाशमिति ते स्वानुभूतिमत् ॥ १९ ॥

तत्र स्वस्वप्ने स्वानुभूतिमत् विचारे स्वानुभवसिद्धम् ॥ १९ ॥

संविद्व्योम घनं ब्रह्म तत्सङ्कल्पपुरं विराट् ।
शुद्धसंविन्मयो ब्रह्मा तदिदं जगदुच्यते ॥ २० ॥

तद्वज्जगत्यपि चिन्मयत्वं सम्भावनीयमित्याह - संविदिति । ब्रह्मा
हिरण्यगर्भः । विराट् ब्रह्माण्डशरीरम् । तत्तादृशमेवेदं
जगच्छुद्धसंविन्मयमित्यर्थः ॥ २० ॥

ब्राह्मे सङ्कल्पनगरे यद्यत्सङ्कल्पितं यथा ।
तथानुभूयते तत्तत्त्वत्सङ्कल्पपुरे यथा ॥ २१ ॥

सङ्कल्पनगरे यद्यद्यथा सङ्कल्प्यते तथा ।
तत्तथास्त्येव च तदा त्वत्सङ्कल्पपुरे यथा ॥ २२ ॥

तस्माद्देहस्य नियतौ यथेतौ ब्रह्मणा चिता ।
स्पन्दास्पन्दौ कल्पितौ द्वौ स तथैवानुभूतवान् ॥ २३ ॥

देहस्य जीवत एव स्पन्दो मृतस्य त्वस्पन्द इति नियतौ स्पन्दास्पन्दौ ब्रह्मणा
हिरण्यगर्भरूपया चिता यथा कल्पितौ तथैव सत्त्वमनुभूतवान्न वैपरीत्येनेति शवे
न चेतनताव्यञ्जकस्पन्दप्रसक्तिरित्यर्थः ॥ २३ ॥

महाप्रलयपर्यन्ते पुनः सर्गः प्रवर्तते ।
समस्तकारणाभावाद्द्रव्यं तावन्न विद्यते ॥ २४ ॥

निर्द्रव्यं कुरुते द्रव्यैर्युक्तिरित्यसमञ्जसा इति प्रश्नं समाधातुं तदाशयं
परिष्करोति - महाप्रलयेति सार्धेन ॥ २४ ॥

विमुक्तत्वात्प्रजेशस्य न च सम्भवति स्मृतिः ।
ब्रह्मैवेयमतो दीप्तिर्जगदित्येव भासते ॥ २५ ॥

ननु पूर्वप्रजापतिनिर्मितं द्रव्यमत्रोपयोक्ष्यते तत्राह - विमुक्तत्वादिति ।
पूर्वप्रलयात्पूर्वमेव पूर्वप्रजेशस्य विमुक्तत्वात्तत्कृतजगतो निःशेषं
प्रलयादित्यर्थः । अतस्तत्प्रकारस्मृत्यादिनिमित्तकारणान्यपि न सन्तीति त्वदाशय इति
भावः । अयं च त्वदाशयोऽस्मत्सिद्धान्तसिद्धावनुकूल एवेति समाधत्ते -
ब्रह्मैवेति । दीप्तिः स्वयञ्ज्योतिर्ब्रह्मैव जगदिति भासते न द्रव्यरूपं
जगदन्यदस्तीत्यर्थः ॥ २५ ॥

तस्मादाद्यात्मना भातं स्वमेव ब्रह्मणा स्वतः ।
जगत्सङ्कल्पनगरमिति बुद्धं च खेन खम् ॥ २६ ॥

तदेव स्पष्टयन्नुपसंहरति - तस्मादिति । ब्रह्मणा प्रथमं आद्यो
हिरण्यगर्भस्तदात्मना भातम् । भावे क्तः । ततस्तेन स्वयमेव सङ्कल्पनगरं
जगद्बुद्धं च ॥ २६ ॥

यथा सङ्कल्पनगरं चिन्मात्रं भाति केवलम् ।
तथैवाकारणं भाति चिन्मात्रोन्मेषणं जगत् ॥ २७ ॥

शरीरमस्तु वा मास्तु यत्र यत्रास्ति चिन्नभः ।
वेत्त्यात्मानं तत्र तत्र द्वैताद्वैतमयं जगत् ॥ २८ ॥

एतेन मातापित्राद्यभावेऽपि इति प्रश्नोऽपि समाहित इत्याह - शरीरमिति ॥ २८ ॥

तस्माद्यथा स्वप्नपुरं यथा सङ्कल्पपत्तनम् ।
तथा पश्यति चिद्व्योम मरणानन्तरं जगत् ॥ २९ ॥

मरणानन्तरं जगद्दर्शनेऽप्ययमेव न्यायो बोध्य इत्याह - तस्मादिति ॥ २९ ॥

अपृथ्व्यादिमयं भाति पृथ्व्यादिमयवज्जगत् ।
यथेदमाऽऽप्रथमतो मृतस्याप्यखिलं तथा ॥ ३० ॥

आप्रथमतः आदिसर्गे ॥ ३० ॥

देशकालौ न सर्गेण प्रबुद्धस्येव तौ यथा ।
अणुमात्रमपि व्याप्तौ तथैव परलोकिनः ॥ ३१ ॥

यथा प्रबुद्धस्य तत्त्वविदः स्वप्नात्प्रबुद्धस्य वा स्वाप्नदेशकालौ जाग्रत्सर्गेण
अणुमात्रमपि न व्याप्तौ तथा परलोकप्राप्तस्यापि नैहिकदेशकालौ तत्र व्याप्नुत
इत्यर्थः ॥ ३१ ॥

इदं प्रबुद्धविषये स्वानुभूतमपि स्फुटम् ।
जगन्न विद्यते किञ्चित्कारणं गगने यथा ॥ ३२ ॥

एवं तत्त्वविद्विषये जगदपि न व्याप्नोतीत्याह - इदमिति ॥ ३२ ॥

अप्रबुद्धस्यासदेव यथेदं भाति भासुरम् ।
तथैव सर्गवद्भाति व्योमैव परलोकिनः ॥ ३३ ॥

अप्रबुद्धस्य निद्राणस्य । व्योम चिद्व्योमैव ॥ ३३ ॥

द्युधराद्रियमाद्याढ्यं खमेव परलोकिनः ।
अभूतपूर्वमाभाति भूतपूर्ववदाततम् ॥ ३४ ॥

भूतपूर्ववत्पूर्वसिद्धवत् ॥ ३४ ॥

मृतोऽयं पुनरुत्पन्नो यमलोके शुभाशुभम् ।
भुञ्जेऽहमित्यतिघनं मृतो भ्रान्तिं प्रपश्यति ॥ ३५ ॥

अयमहं मृतः पुनर्नारकिभावेनोत्पन्नो यमलोके आगतस्तत्र शुभाशुभं
भुञ्जे इत्यादिभ्रान्तिम् ॥ ३५ ॥

मोक्षोपायानादरिणामेष मोहो न शाम्यति ।
बोधादवासनत्वेन मोह एष प्रशाम्यति ॥ ३६ ॥

सा भ्रान्तिर्निःशेषं मोक्षोपायसेवनादेव नश्यति नान्यथेत्याह - मोक्षेति ॥ ३६ ॥

अप्रबुद्धस्य या संवित्सा धर्माधर्मवासना ।
ख एव खात्मिका भाति यत्तदेव जगत्स्थितम् ॥ ३७ ॥

एतेन धर्माधर्मावेव जगदाकारेण परिणमेते इत्यास्तिकपक्षोऽप्यनुगृहीत
इत्याशयेनाह - अप्रबुद्धस्येति । संविद्विहितनिषिद्धाचरणानुभवरूपा ॥ ३७ ॥

न शून्यरूपं न च सत्स्वरूपं ब्रह्माभिधं भाति जगत्स्व्रूपम् ।
तच्चापरिज्ञानवशादनर्थभूतं परिज्ञातवतः शिवात्म ॥ ३८ ॥

जगत्स्वरूपं स्वतः शून्यरूपमपि न सत्स्वरूपं च न किन्तु ब्रह्माभिधं
चैतन्यमेव जगत्स्वरूपं भाति । तच्च अज्ञानवशादेवानर्थभूतं परिज्ञातवतस्तु
शिवात्म परमकल्याणनिरतिशयानन्दात्मकमेवेत्यर्थः ॥ ३८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० महाप्रश्नोत्तरं नाम
सप्ताधिकद्विशततमः सर्गः ॥ २०७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महाप्रश्नोत्तरं नाम सप्ताधिकद्विशततमः सर्गः ॥ २०७ ॥