पञ्चाधिकद्विशततमः सर्गः २०५
श्रीराम उवाच ।
एवं यथैतद्भगवन्स्वप्ने दृश्यं परं नभः ।
तथैव जाग्रतीत्यत्र न चेत्सन्देहजालिका ॥ १ ॥
विवर्तमात्ररूपेयं स्वप्नतुल्या जगत्स्थितिः ।
नोद्भूता न स्थिता नास्ता चिन्मात्रमिति वर्ण्यते ॥
एवं जगताः स्वप्नवद्विवर्तमात्रत्वं यथोक्तमभ्युपगम्य कूटस्थाद्वयचिन्मात्रे
विवर्तोऽप्यसम्भावित एव हेत्वभावादिति रामः पृच्छति - एवमिति द्वाभ्याम् ॥ १ ॥
इदं मे भगवन्ब्रूहि महाप्रश्नमनुत्तमम् ।
कथं भवत्यदेहा चिज्जाग्रत्स्वप्ने स्वदेहवत् ॥ २ ॥
श्रीवसिष्ठ उवाच ।
दृश्यं जाग्रत्यथ स्वप्ने खाधारं खात्मकं खजम् ।
खं च नान्यत्परं जातु सन्देहोऽस्त्युपपत्तितः ॥ ३ ॥
हेत्वभावाद्धि त्वया विवर्तस्यानुत्पत्तिरनुत्पन्नस्य न स्थितिः स्यादिति शून्यतैव
स्यादित्यापादनीयं तच्चेष्टमेव तस्येति निरुपपत्तिकस्ते प्रश्नहेतुः सन्देह इति
भगवानुत्तरमाह - दृश्यमित्यादिना । यतः खजं हेतुशून्यादुत्पन्नमतः
शून्याधारं शून्यात्मकमेव स्यादित्यापादनीयम् । खं शून्यं च परं
ब्रह्मैव नान्यत् । अत उत्पत्त्यादिशून्ये ब्रह्माद्वैताविरोधिनि विवर्ते अनुपपत्तिसन्देहो
नोपपद्यत इत्यर्थः ॥ ३ ॥
समस्तकारणाकारप्रत्यस्तमयरूपिणि ।
सर्गादावेव भूतानि सम्भवन्ति न कानिचित् ॥ ४ ॥
अनुत्पत्तिमेवोपपादयति - समस्तेत्यादिना ॥ ४ ॥
पृथ्व्यादिनियतस्तेन देहोऽयं नास्ति किञ्चन ।
भूतान्येव किलैतानि देहस्तानि न सन्त्यलम् ॥ ५ ॥
कथं भवत्यदेहा चिज्जाग्रत्स्वप्ने सदेहवत् इति प्रश्नोऽप्यनुपपन्नः ।
पृथ्व्याद्यभावे चतुर्विधभूतग्रामरूपदेहानामप्यसत्त्वादित्याह -
पृथ्व्यादीति ॥ ५ ॥
तेन स्वप्नवदाभासमिदं पश्यति चिन्नभः ।
स्वरूपमात्रकचनमाकारवदिवाकुलम् ॥ ६ ॥
अतो विवर्तपक्षो निर्दोष इत्याह - तेनेति । आकुलं मायागुणविक्षुब्धम् ॥ ६ ॥
भानमाभानमात्रत्वमिदं यत्तच्चिदात्मना ।
नभसा स्वप्नशब्देन कथ्यते जगदाकृतिः ॥ ७ ॥
यत्तदाभानमात्रत्वं तदेव स्वप्नभानं सैव जगदाकृतिर्नभसा
चिदाकाशरूपेणैव स्वप्नविवर्तजगदादिशब्देन कथ्यते ॥ ७ ॥
यदेतद्वेदनं नाम चिद्व्योम्नो व्योमनिर्मलम् ।
एतदन्तश्चितो रूपं स्वप्नो जगदिति स्थितम् ॥ ८ ॥
तथा च वेदनान्तर्भासमानं जगद्रूपं सौक्ष्म्ये स्वप्न इति स्थौल्ये जगदिति
वेदनमेव तथा स्थितमित्यर्थः ॥ ८ ॥
एतस्मिन्नेव तेनाथ स्वभावकचने तते ।
चिद्रूपेण कृताः सञ्ज्ञाः पृथक्पृथ्व्यादिका इमाः ॥ ९ ॥
एवंरूपप्रपञ्चस्य वेदनमात्रत्वे नामप्रपञ्चोपि वेदनस्यैव नामभेद इति
पर्यवस्यतीत्याह - एतस्मिन्नेवेति । तेन रूपभेदकल्पकेन चिद्रूपेण चिदात्मना । अथ
अनन्तरम् ॥ ९ ॥
चिद्भानमेव तत्स्वप्नजगच्छब्दैः प्रकथ्यते ।
भानं चास्याः स्वभावः खं तत्कदाचिन्न शाम्यति ॥ १० ॥
अत एव स्वप्नादिशान्तावपि तत्तत्त्वं भानं कदापि न शाम्यतीत्याह -
चिद्भानमेवेति । स्वभावस्तत्त्वम् ॥ १० ॥
बह्व्यः सर्गदृशो भिन्ना ब्रह्मैव ब्रह्मखे च ताः ।
शून्यतानभसी वातस्तिष्ठन्ति च विशन्ति च ॥ ११ ॥
तत्सद्भावादेव तत्र बहवो विवर्ताः प्रवृत्ता इत्याह - बाह्य इति ॥ ११ ॥
श्रीराम उवाच ।
सर्गाणां कोटयः प्रोक्ता भगवन्भवता किल ।
काश्चिद्ब्रह्माण्डकोशस्थाः काश्चिदण्डविवर्जिताः ॥ १२ ॥
कौतुकादेतद्ब्रह्माण्डस्वरूपं श्रोतुकामो रामः प्रश्नपीठिकां रचयति -
सर्गाणामित्यादिना । प्रोक्ताः लीलोपाख्यानभुशुण्डाख्यानादौ ता उक्ता एवानुवदति
- काश्चिदित्यादिना । एते श्लोकाः प्राग्व्याख्याताः ॥ १२ ॥
काश्चिन्महीकोशगताः काश्चिदाकाशसंस्थिता ।
तेजःकोशगताः काश्चित्काश्चित्पवनकोशगाः ॥ १३ ॥
काश्चिद्व्योमस्थभूपीठा ऊर्ध्वाधस्थविनिश्चयाः ।
बुध्नाकाशादूर्ध्वखुरा लम्बमानवनाचलाः ॥ १४ ॥
व्योमस्थगोलकाकारभूपीठाः । ऊर्ध्वाधस्थानां पिपीलिकावद्भूगोलसंलग्नानां
देवासुरादीनां वयमेवोर्ध्वं वयमेवोर्ध्वमिति विविधा निश्चया यत्र । तदेव
स्पष्टमाह - बुध्नाकाशादिति । यतः सर्वेषां दृशा भूमेरधोदेशे प्रजाः
बुध्नाकाशाद्भूमिमूलाकाशादूर्ध्वखुरा ऊर्ध्वपादाः अधःशीर्षाः ।
एवमूर्ध्वमूलाधःशाखशिखरत्वाल्लम्बमानानीव वनान्यचलाश्च येषु ॥ १४ ॥
काश्चिद्वातात्मभूतौघाः काश्चिन्नित्यं तमोधराः ।
व्योमसंस्थानकाः काश्चित्काश्चित्क्रिमिकुलाकुलाः ॥ १५ ॥
वातात्मानो वायुशरीरा भूतौघाः प्राणिसमूहा यासु तमोधराः सान्धकाराः ।
व्योमेव प्राणिदेहसंस्थानं यासु ॥ १५ ॥
काश्चिदाकाशकोशस्थाः काश्चिच्चोपलकोशगाः ।
काश्चित्सकुण्डकोशस्थाः काश्चित्खे खगवत्स्थिताः ॥ १६ ॥
सकुण्डाः सभाण्डा ये गृहमण्डपादिकोशास्तत्स्थाः यथा । मण्डपोपाख्याने
दर्शिताः ॥ १६ ॥
तासां मध्ये यथा हीदं ब्रह्माण्डं यादृशं स्थितम् ।
अस्माकं भगवंस्तन्मे ब्रूहि तत्त्वविदां वर ॥ १७ ॥
इदमस्माकमाश्रयभूतमिव ब्रह्माण्डं यादृशं स्थितं तन्मे ब्रूहीति
प्रश्नः ॥ १७ ॥
श्रीवसिष्ठ उवाच ।
यदपूर्वमदृष्टं वा नानुभूतं न वा श्रुतम् ।
तद्वर्ण्यते सुदृष्टान्तैर्गृह्यते च तदूह्यते ॥ १८ ॥
नायं तत्त्वविषयस्तत्त्वज्ञानोपयोगी वा प्रश्नो नापि प्रयोजनवान्
प्रकृतोपयुक्तोऽपूर्वो वा नापि नियतार्थः । मुनिभिर्ज्योतिषसिद्धान्तभेदेषु
भूमिभुवनादिस्थितेरन्यथान्यथावर्णनात् । तच्चोपदर्शितमेव पुरस्तादतो
मायामये स्वप्नोपमेऽस्मिन्नैकतरपक्षपातेन सिद्धान्तकथने किञ्चित्प्रयोजनं
प्रमाणं वास्तीति मन्यमानो वसिष्ठः शास्त्रान्तरस्य विषयोऽयं ततस्त्वया ज्ञात
एवेति न प्रश्नार्ह इत्येवोक्त्या समाधत्ते - यदिति । अपूर्वं मानान्तराविषयः ।
तस्यैव प्रपञ्चो न दृष्टं नानुभूतं न वा श्रुतमिति
प्रत्यक्षानुमानागमार्थत्वपरम् । तदेव गुरुणा सुदृष्टान्तैर्वर्ण्यते शिष्येण च
श्रवणेन गृह्यते मननेनोह्यते नेतरदित्यर्थः ॥ १८ ॥
इदं तु राम ब्रह्माण्डमागमैर्मुनिभिः सुरैः ।
शतशो वर्णितं तच्च ज्ञातमेतत्त्वयाऽखिलम् ॥ १९ ॥
शतशः अनेकधा अनेकप्रकारेण च ॥ १९ ॥
यथेदं भवता ज्ञातमागमैर्वर्णितं यथा ।
स्थितं तदेतदखिलं किमन्यदिह वर्ण्यते ॥ २० ॥
त्वज्ज्ञातप्रकारस्यैव त्वां प्रति वर्णनं नापूर्वमिति न युक्तमित्याह - यथेति ॥
२० ॥
श्रीराम उवाच ।
कथमेतद्वद ब्रह्मन्सम्पन्नं चिन्महानभः ।
कियत्प्रमाणमेतद्वा कियत्कालं च वा स्थितम् ॥ २१ ॥
तर्हि ब्रह्म कथं ब्रह्माण्डाकारं सम्पन्नं कियत्कालं वा एवं स्थास्यति
तद्वदेति रामः पृच्छति - कथमिति ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
अनादिनिधनं ब्रह्म नित्यमस्त्येतदव्ययम् ।
आदिमध्यान्तता नास्ति नाकाराः परमाम्बरे ॥ २२ ॥
न ब्रह्म कदापि साकारं सम्पन्नम् नापि तस्य कालिकपरिच्छेदोऽस्ति किन्तु
यावदप्रबोधं सुप्त इव स्वात्मानमेव जगदाकारमिव पश्यतीत्याशयेनोत्तरमाह
- अनादीत्यादिना ॥ २२ ॥
ब्रह्माकाशमनाद्यन्तमेतदव्ययमाततम् ।
एतन्मयमिदं विश्वं विष्वगाद्यन्तवर्जितम् ॥ २३ ॥
परमस्यास्य चिद्व्योम्नः स्वयं यद्भानमात्मनि ।
तदेतद्विश्वमित्युक्तं स्वयं तेनैव तन्मृषा ॥ २४ ॥
तेन स्वयमेव विश्वमिति उक्तं तच्च मृषा ॥ २४ ॥
पुरुषस्य यथा स्वप्नपुरसन्दर्शनं तथा ।
तत्तस्य भानं पुरवत्तदिदं विश्वमुच्यते ॥ २५ ॥
कठिना नेह गिरयो न द्रवाणि जलानि च ।
न शून्यमेतदाकाशं कालोन कलनात्मकः ॥ २६ ॥
चिदेकस्वभावे ब्रह्मणि तद्विरुद्धा गिरिकाठिन्यादिस्वभावाः कथं सत्याः
स्युरित्याह - कठिना इति ॥ २६ ॥
यद्यथा [यद्यथात्मघनं यत्र इत्यपि पाठः ।] चाव्ययं यत्र स्वतः
सञ्चेतितं चिता ।
तत्तथा तत्र चित्तत्त्वे अलं शैलादिवत्स्थितम् ॥ २७ ॥
तथा च चिदेव भ्रान्तिचेतनेन तता तथा स्थितेव न वस्तुत इत्याह - यदिति ॥ २७ ॥
अशिलैव शिला स्वप्ने नभ एवानभो यथा ।
भवेत्तथेह सर्गादि स्वप्ने दृश्यस्थितिश्चितौ ॥ २८ ॥
एवकारो भिन्नक्रमः । अनभ एव यथा नभ इति ॥ २८ ॥
अनाकारैव चिच्छान्ता स्वप्नवद्यत्स्वचेतनम् ।
वेत्ति तज्जगदित्युक्तं तच्चानाकारमेव सत् ॥ २९ ॥
उक्तं शतशो मयेत्यर्थः ॥ २९ ॥
वायोः स्पन्दो यथान्तस्थो वात एव निरन्तरः ।
तथेदं ब्रह्मणि ब्रह्म न चोदेति न शाम्यति ॥ ३० ॥
द्रवत्वमम्भसि यथा शून्यत्वं नभसो यथा ।
यथा वस्तुनि वस्तुत्वं ब्रह्मणीदं जगत्तथा ॥ ३१ ॥
न प्रयातं न वाऽऽयातमकारणमकारणात् ।
न च नास्ति न वास्तीदं भिन्नं ब्रह्मपदे जगत् ॥ ३२ ॥
प्रयातं प्रलयेन तिरोभूतम् । आयातमाविर्भूतम् ॥ ३२ ॥
न चानादि निराभासं निराकारं चिदम्बरम् ।
दृशः कारणमन्यस्याः क्वचिद्भवितुमर्हति ॥ ३३ ॥
ब्रह्म तु कारणत्वादियोग्यं न भवत्येवेत्याह - न चेति । अन्यस्याः सर्गदृशः ॥
३३ ॥
तस्माद्यथावयविनोऽवयवाः स्वात्ममात्रकाः ।
तथानवयवे ब्रह्मव्योम्नि व्योम जगत्स्थितम् ॥ ३४ ॥
स्वात्ममात्रकाः पृथगसन्तः ॥ ३४ ॥
सर्वं शान्तं निरालम्बं ज्ञप्तिमात्रमनामयम् ।
नेह सत्ता न वासत्ता न च नानास्ति किञ्चन ॥ ३५ ॥
सर्वापलापे नेह नाना इति श्रुतिः प्रमाणमिति भावः ॥ ३५ ॥
सङ्कल्पस्वप्ननगरनृत्तवत्सर्वमाततम् ।
स्थितमेव समं शान्तमाकाशमजमव्ययम् ॥ ३६ ॥
तथाविधस्यापि प्रतिभासे दृष्टान्तमाह - सङ्कल्पेति ॥ ३६ ॥
परमचिदम्बरहृदयं चित्त्वाद्यत्कचति कान्तममलमलम् ।
तदिदं जगदिति कलितं तेनैव तदात्मरूपमाकल्पम् ॥ ३७ ॥
अमलं स्वच्छं कान्तं स्फुरद्रूपं परमस्य चिदम्बरस्य हृदयं सारभूतं
स्वरूपमेव चित्स्वभावाद्यद्यदाकारं भ्रान्त्या अलं समर्थं कचति तदेव
स्वकल्पितमात्मरूपमाकल्पमाप्रलयं तेनैव जगदिति कलितं बुद्धं
नान्यदित्यर्थः ॥ ३७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० म्० नि० उ० सर्गकारणनिरासो नाम
पञ्चाधिकद्विशततमः सर्गः ॥ २०५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सर्गकारणनिरासो नाम पञ्चाधिकद्विशततमः सर्गः ॥ २०५ ॥
षडधिकद्विशततमः सर्गह् २०६
श्रीवसिष्ठ उवाच ।
यदकारणकं भाति भानं तन्नैव किञ्चन ।
तत्तथा परमार्थेन परमार्थः स्थितोऽनघ ॥ १ ॥
ब्रह्मैव सज्जगन्नास्तीत्येतन्निर्णयहेतवः ।
कुशद्वीपेश्वरप्रोक्ताः प्रश्ना इह निरूपिताः ॥
परमार्थो ब्रह्मैव परमार्थेन स्थितः । अकारणकं यज्जगद्भानं भाति
तत्किञ्चनापि नैवास्ति इति पूर्वग्रन्थफलितार्थ उत्तरग्रन्थावतारायोपन्यस्तः ॥ १ ॥
अत्रेमं केनचित्पृष्टोऽयमहं तं महामते ।
सम्यग्बोधस्य पुष्ट्यर्थं महाप्रश्नं परं शृणु ॥ २ ॥
अत्रास्मिन्नर्थे सम्यग्बोधस्य पुष्ट्यर्थमिमं वक्ष्यमाणं महाप्रश्नं
परमन्यं शृणु ॥ २ ॥
अस्त्यब्धिभ्यामुभयतो व्याप्तं ख्यातं जगत्त्रये ।
कुशद्वीपमिति द्वीपं भूमौ वलयवत्स्थितम् ॥ ३ ॥
अब्धिभ्यां सुरोदघृतोदाभ्यामुभयतो वलयवद्व्याप्तम् ॥ ३ ॥
तत्रास्तीलावती नाम हैमी पूर्वोत्तरे पुरी ।
दीप्तिज्वालामयस्तम्भप्रोतावनिनभस्तला ॥ ४ ॥
पूर्वोत्तरयोरन्तराले दिग्भागे । दिङ्नामान्यन्तराले इति बहुव्रीहिः ।
दीप्तिलक्षणज्वालावलिस्तम्भैः प्रोते अवनिनभस्तले यत्र ॥ ४ ॥
पूर्वे तस्यामभूद्राजा प्रज्ञप्तिरिति विश्रुतः ।
अनुरक्तजगद्भूतः शक्रः स्वर्ग [सर्ग इति पाठः ।] इवापरः ॥ ५ ॥
तस्यां पुरि पूर्वे भागे ॥ ५ ॥
केनचित्कारणेनाहं कदाचित्तस्य भूपतेः ।
प्राप्तः समीपं नभसः प्रलयार्क इव च्युतः ॥ ६ ॥
ज्योतिश्चक्राच्च्युतः प्रलयकालेऽर्क इव ॥ ६ ॥
पुष्पार्घ्याचमनीयैर्मां पूजयित्वोपविश्य सः ।
मध्ये कथायां कस्याञ्चिदपृच्छत्प्रणयादिदम् ॥ ७ ॥
भगवन्सर्वसंहारे जाते शून्यतते स्थिते ।
अवाच्ये परमे व्योम्नि सर्वकारणसङ्क्षये ॥ ८ ॥
शून्यतया तते विस्तीर्णे नामप्रवृत्तिनिमित्तजात्यादिरूपचतुष्टयाभावादवाच्ये
सर्वकारणानां बीजादीनां पृथ्व्यादीनां च सङ्क्षये जाते सति ॥ ८ ॥
सर्गारम्भस्य भूयः स्याद्वद किं मूलकारणम् ।
कानि वा सहकारीणि कारणानि कुतः कथम् ॥ ९ ॥
मूलकारणमुपादानम् । सहकारीणि निमित्तकारणानि । तानि यदि सन्ति तर्हि कुत
उपादानादेः कथं केनोपायेन जातानि ॥ ९ ॥
किं जगत्किं च सर्गादि काश्चिन्नित्यं तमोधराः ।
व्योमसंस्थार्णवाः काश्चित्काश्चित्कृमिकुलाकुलाः ॥ १० ॥
उत्पन्नं जगच्च तत्त्वतः किम् । तस्य सर्गादिप्रलयान्ता विकाराश्च किम् । तत्रापि
काश्चिद्भूमयो नित्यं तमोधराः । काश्चिद्ब्रह्मलोकादयो व्योमसंस्थार्णवाः ।
अरश्च ण्यश्चार्णवौ इति श्रुतेः । काश्चिन्नरकादिभूमयः कृमिकुलैराकुला
इत्यादिवैचित्र्यं च किम् ॥ १० ॥
काश्चिदाकाशकोशस्थाः काश्चिच्चोपलकोशगाः ।
किं च वा भूतभूतादि कुतो बुद्ध्यादयः कथम् ॥ ११ ॥
आकाशकोशस्था अन्तरिक्षादिलोकाः । उपलकोशगाः शिलोदरगता
दैत्यदानवादिनगर्यः । भूतानि पृथिव्यादीनि तद्गतचतुर्विधभूतग्रामादि च
तत्त्वतः किम् । तेषामाध्यात्मिका बुद्ध्यादयश्च किं कथं वा ॥ ११ ॥
कः कर्ता कोऽथ वा द्रष्टा काधाराधेयता कथम् ।
न कदाचिन्महानाशो जगतामिति निश्चयः ॥ १२ ॥
एतेषां सर्वेषां कर्ता निर्माता कः । अथ को वा द्रष्टा । यदि तु
कर्मब्रह्मोभयकाण्डात्मकसमस्तवेदशास्त्रार्थाविरोधाय जगतां कदाचिदपि
महानाशः प्रलयो नास्ति किन्तु तत्तत्प्राणिकर्मानुसारेण सदैव व्यवहाराः
प्रवर्तन्ते न कदाचिदनीदृशं जगदिति निश्चयः समर्थितस्तर्हि यथा संवेदनं
तथैवानुभूतय इति प्रसिद्धेः संवेदनं देहादिहेतुरित्युच्येत उतान्यत् । तत्राद्ये पक्षे
तत्संवेदनं किमनाशं शाश्वतं किं वा असन्मयं नश्वरमिति । यद्यनाशं
तर्हि कूटस्थमेवेति न देहादिविकारं स्यात् । यदि नश्वरं तर्हि तदुत्पत्तौ कारणं
वाच्यम् तच्च दुर्वचम् विना संवेदनं तस्यासिद्धेरिति विरोधादित्युत्तरश्लोकाभ्यां
सहान्वयः ॥ १२ ॥
समस्तवेदशास्त्रार्थाविरोधाय समर्थितः ।
यथा संवेदनं नाम तथा नामानुभूतयः ॥ १३ ॥
यतस्ततो वेदनं स्यात्किमनाशमसन्मयम् ।
अन्यच्च जम्बूद्वीपादौ देशेऽद्य मुनिनायक ॥ १४ ॥
द्वितीयेऽपि शङ्कते - अन्यच्चेत्यादिना ॥ १४ ॥
मृतानामग्निदग्धानामिह वा देहनाशिनाम् ।
नरकस्वर्गभोगाय विदेहे देहकारणम् ॥ १५ ॥
इह कुशद्वीपादौ वा देहनाशवताम् । विदेहे देहोत्पादकमातापित्रादिशून्यप्रदेशे
देहं प्रति उपादानकारणं सहकारीणि निमित्तकारणानि वा कानि ॥ १५ ॥
किं तस्यात्सहकारीणि कारणान्यथ कानि वा ।
धर्माधर्मावमूर्तौ द्वौ तस्यामूर्तस्य मूर्तता ॥ १६ ॥
ननु धर्माधर्मावेव देहाद्याकारेण परिणंस्येते तत्राह - धर्माधर्मान्निति ।
तस्य अमूर्तस्य द्वयस्य मूर्तता असमञ्जसेत्यपकृष्य सम्बन्धः ॥ १६ ॥
निर्द्रव्यं कुरुते द्रव्यैर्युक्तिरित्यसमञ्जसा ।
मातापित्राद्यभावो हि बीजं किं तत्र कारणम् ॥ १७ ॥
किं च निर्द्रव्यं अद्रव्यं द्रव्यभिन्नं तदुभयं द्रव्यैः
पार्थिवादिभागैर्देहादिनिर्माणं कुरुते इति युक्तिरप्यसमञ्जसा ।
निर्बीजत्वादप्यसमञ्जसमित्याह - मातापित्रादीति ॥ १७ ॥
अन्ये वा हेतवः के स्युः कथं द्रव्यादिसम्भवः ।
परलोकोऽस्य नास्तीति यथासंवेदनं स्थितेः ॥ १८ ॥
तर्ह्यस्तु नास्तिकपक्षस्तत्राह - परलोक इति । अस्य धर्माधर्मादिकर्तुः परलोको
नास्तीति च असमञ्जसम् । अस्यैव जन्मनः पूर्वजन्मापेक्षया परलोकत्वात् । अस्य च
यथासंवेदनं स्थितेः ॥ १८ ॥
समस्तलोकवेदादिविरोधाच्चासमञ्जसम् ।
अनिच्छितेहितैर्दूरदेशान्तरगतैः फलम् ॥ १९ ॥
समस्तलोकवेदादिविरोधप्रसङ्गाच्च नास्तिकपक्षो न ग्राह्य इत्याह - समस्तेति ।
किञ्चेयं प्रजा स्वेच्छाचेष्टाद्यविषयैरपि देशान्तरगतैरत
एवासम्बन्धैरमूर्तैरपि राजाज्ञादिभिर्वधवन्धदण्डादिफलं प्राप्नोति तत्र च
कः क्रमः का उपपत्तिः ॥ १९ ॥
प्रजा प्राप्नोत्यसम्बन्धैरमूर्तैरत्र कः क्रमः ।
स्तम्भो वरेण सौवर्णो विना हेमगमागमैः ॥ २० ॥
क्षणात्सम्पद्यते तत्र सम्पत्तिः कथमुच्यताम् ।
विधीनां प्रतिषेधानां निर्निमित्तं विवल्गताम् ॥ २१ ॥
किं च शिलादिमयः स्तम्भो देवमुन्यादिवरेण हेम्नः अर्जनार्थं
गमनागमनैर्विनापि यत्र सौवर्णः स्तम्भः क्षणात्सम्पद्यते तत्रापि सा सम्पत्तिः
कथं कया उपपत्त्या । निर्निमित्तं अचेतनत्वात्प्रयोजनसिद्धिरूपं निमित्तं विनैव
प्रवल्गतां प्रवर्तमानानान्न् विधिप्रतिषेधशास्त्राणां लोके प्रचारेण
निरूढानां कैरप्यननुष्ठानादरूढानामपि किं प्रयोजनम् ॥ २१ ॥
रूढानामप्यरूढानां किं प्रयोजनमुच्यताम् ।
असदासीज्जगत्पूर्वं सत्सम्पन्नमनन्तरम् ॥ २२ ॥
तथा असद्वा इदमग्र आसीत्ततो वै सदजायत असदेवेदमग्र आसीत् सदेव सोम्येदमग्र
आसीदेकमेवाद्वितीयम् नासदासीन्नो सदासीत्तदानीम् इत्यादिश्रुतेः कथं परस्परं
सङ्गतार्थता ॥ २२ ॥
इति श्रुतेः कथं ब्रह्मन्कथ्यतां सङ्गतार्थता ।
अयं भवेत्कथं ब्रह्मा भवेच्चेत्तन्महामुने ॥ २३ ॥
किं च सर्गादौ शून्यान्नभसः सकाशादयं ब्रह्मा हिरण्यगर्भः कथं भवेत् ।
यदि नभस एवम्प्रभावता अस्तीत्युच्येत
तर्ह्येवम्प्रभावात्सर्वस्मात्सर्वप्रदेशभिन्नात्सर्वत्र ब्रह्मा कुतोऽन्यो न जायते ॥ २३
॥
एवम्प्रभावान्नभसः किं सर्वस्मान्न जायते ।
ओषधीनामथार्थानां सर्वेषां वा स्थितिं गताः ॥ २४ ॥
औषधीनां स्वस्वपूर्वबीजादिजननस्वभावा अथान्येषां
वह्न्यादीनामैष्ण्यादिस्वभावाश्च कथं तत्कथय ॥ २४ ॥
कथं स्वभावाः कथय यथाबोधं मुनीश्वर ।
एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा ॥ २५ ॥
किञ्चैकस्यैव पुंसः सुहृदा द्विषा च युगपज्जीवितं मरणं च प्रयागादौ
कामप्रदे क्षेत्रे मृत्वा यदा अर्थितमर्थयित्वा मृतम् । मरणकाले तदुत्तरकालं
च कामवासनानुवृत्तेर्मुखं व्यादाय स्वपितीतिवदौत्तरकालिकांशापेक्षया
कथञ्चिन्मरणस्य पूर्वभावं प्रकल्प्य क्त्वाप्रयोगः । तत्कथं सम्पद्यते ॥ २५ ॥
मृत्वार्थितं प्रयागादौ क्षेत्रे तत्कथमुच्यताम् ।
खे स्यामक्षयपूर्णेन्दुरिति ध्यायिचितैः फलैः ॥ २६ ॥
किं च अहं खे नभसि पूर्णेन्दुः स्यामिति कामनया
चन्द्रभावप्रापकोपासनविध्यनुसारेण
ध्यायिभिर्बहुभिरुपासकैश्चितैरवश्यभावित्वेन
सञ्चितैस्तुल्यकालमनुप्राप्तैश्चन्द्रभावफलैर्नभो युगपत्सहस्रेन्दु
अनेकचन्द्रसहितं किं न जायते ॥ २६ ॥
तुल्यकालमनुप्राप्तैः सहस्रेन्दु न किं नभः ।
अन्यच्च ध्यायिनां लक्षैर्ध्यातैका स्त्री यथाक्रमम् ॥ २७ ॥
जायात्वेन समं कालं लब्धं ध्यानफलं च तैः ।
साध्व्यसाध्वी गृहे भर्तुः संस्थिता तपसा परा ॥ २८ ॥
तेषां सर्वेषां च जाया कथं सम्पन्ना । सा च तेषां भिन्नदेशे गृहे एका कथं
स्थिता । सा च स्वतपसा परा ब्रह्मचारिणी तेषां प्रत्येकं तपसा साध्वी
बहुभोग्यत्वादसाध्वी च कथं सम्पन्ना ॥ २८ ॥
तेषां च जाया सम्पन्ना कथमेतन्महामुने ।
गृहानिर्गच्छमाकल्पं नृपः स द्वीपसप्तके ॥ २९ ॥
अहं गृहादनिर्गच्छं निर्गमनं विनैव आकल्पं द्वीपसप्तके नृपः सन् गृहे
तिष्ठेयमिति च विरुद्धम् । यत्र वराच्छापाद्वा सम्पादितं तत्र गृहान्तर्भोग्यं
वरस्य वरत्वं क्व तिष्ठति । कथमुपपद्यत इत्यर्थः ॥ २९ ॥
वरत्वं वरशापाभ्यामिति अन्तः क्व तिष्ठति ।
दानधर्मादितपसामौर्ध्वदेहिककर्मणाम् ॥ ३० ॥
किं च दानधर्मादितपसामौर्ध्वदेहिकश्राद्धादिकर्मणां चादृष्टं
क्रियोत्पत्तिप्रदेशे यद्युत्पद्यते तर्हि इहस्थानां परलोके तच्छून्यदेशे कथं फलम्
। किञ्चादृष्टं मूर्तदेहादौ प्रीतिजननेन सत्फलं वाच्यम् । न च तत्रत्ये मूर्ते देहे
तत्सत्त्वमस्तीत्यर्थः ॥ ३० ॥
इहस्थानाममूर्तानां मूर्तं प्रीत्यास्ति सत्फलम् ।
व्यवहर्ता न मूर्तोऽत्र विद्यते लोकयोर्द्वयोः ॥ ३१ ॥
यदि ब्रूया व्यवहर्ता जीवस्तत्समवेतं तददृष्टं यत्र तस्य भोगस्तत्रास्तीति । तन्न ।
यतो द्व्योरपि इहलोकपरलोकयोर्व्यवहर्ता जीवो मूर्तो न विद्यते । न चात्रत्या देहादिमूर्ता
देशान्तरे कालान्तरे च विद्यन्ते । यदाश्रयेणास्य भृशं फलं सम्भवतीत्यर्थः
॥ ३१ ॥
देशान्तरे भृशं जीवो भृशं कालान्तरेऽपि वा ।
फलं सम्भवतीयत्तद्विनानुभवनं मुने ॥ ३२ ॥
असमञ्जसमेवाति कथं स्यात्सुसमञ्जसम् ।
इत्यादिसंशयगणं गिरा शीतावदातया ।
छिन्धि मेऽभ्युदितं भासा सान्ध्यमान्ध्यमिवोडुपह् ॥ ३३ ॥
इत्याद्यसमञ्जसं सर्वं कथं समञ्जसं स्यात् । इत्यादिसंशयगणं
शीतावदातया गिरा उडुपश्चन्द्रः सन्ध्यायां भवं सान्ध्यमान्ध्यं तव इव
छिन्धि ॥ ३३ ॥
परमवस्तुनि संशयनाशनादुभयलोकहितं भवति स्फुटम् ।
तदिह मे कुरु साधुसमागमस्तनुफलो भवतीह न कस्यचित् ॥ ३४ ॥
हे भगवन् परमवस्तुनि परमात्मनि विषये उपदेशेन
सर्वसंशयनाशनादुभयलोकहितं विरुद्धसहस्रफलमप्यविरुद्धं स्फुटं
भवति । अतस्तत्परमवस्तुबोधनं मे कुरु । ननु महाफलमिदं कथं सहसैव
मया कार्यं तत्राह - साध्विति ।
भवत्सदृशमहत्समागमस्तनुफलस्तुच्छफलः कस्यचिन्मादृशस्यापि न
भवतीत्यर्थः ॥ ३४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० महाप्रश्नो नाम
षडधिकद्विशततमः सर्गः ॥ २०६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महाप्रश्नो नाम षडधिकद्विशततमः सर्गः ॥ २०६ ॥