चतुरधिकद्विशततमः सर्गः २०४
श्रीवसिष्ठ उवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
आदर्शो राजतेऽत्यर्थं पौनःपुन्येन मार्जितः ॥ १ ॥
निष्कृष्टयुक्त्या भूयोऽत्र दृश्यं चिति विमार्ज्यते ।
वसिष्ठेन च रामेण चिदात्मपरिशुद्धये ॥
परमं युक्तिसङ्क्षेपेण स्फुटं दृश्यमार्जनोपायोपदेशित्वादुत्कृष्टम् ॥ १ ॥
अर्थो वेदनसङ्केतः शब्दो जलरवोपमः ।
दृश्यमेतच्चिदाभानं स्वप्नवत्क्वाभवज्जगत् ॥ २ ॥
रूपं नाम चेति हि द्विविधं दृश्यं तत्राद्यमार्जनोपायमाह - अर्थ इति ।
जातिगुणक्रियासंस्थानानि हि चतुर्विधानां शब्दानामर्थः । यथा गौर्नीला चपला
भद्राख्येति । ते चैकस्मिन्नेवार्थे व्यावर्त्यभेदाधीनभेदकल्पनरूपाः
शब्दभेदप्रवृत्तिनिमित्ततया कल्पिता भ्रान्तिवेदनसङ्केता एव न वास्तवाः । न हि
तत्र वस्तुचतुष्टयमस्तीत्यर्थमार्जनमित्यर्थः । द्वितीयमार्जनोपायमाह - शब्द
इति । अर्थे मार्जिते निरर्थकः । शब्दो जलध्वनिसदृशः सन्नामतां
त्यजन्नर्थतामेवापन्नस्तन्मार्जनेनैव मार्जित इत्येतद्द्विविधमपि दृश्यं
चिदाभानमात्रं स्वप्नवदिति सिद्धमित्यर्थः ॥ २ ॥
जागद्वै स्वप्नसन्दृष्टः स्मरणात्म स्थितं पुरः ।
संविद्वेदनमात्रं सत्तदन्याकारवत्ततम् ॥ ३ ॥
यदा जाग्रदेव मिथ्या तदा सैव स्वप्नसन्दृष्टार्थः संस्कारमुखेन सम्पद्यते
तच्च स्मरणमिव आत्मार्थशून्यरूपं पुरः स्थितमिति संविद्वेदनमात्रमेव
सत्तदन्याकारवत्ततं न तत्रापि संविद्व्यतिरिक्तं किञ्चिदस्तीत्यर्थः ॥ ३ ॥
यथाच्छं संविदाकाशं मयि स्वप्नपुरात्मकम् ।
सरूपमपि नीरूपं तथेदं भुवनत्रयम् ॥ ४ ॥
तथा चोभयोस्तुल्यतया चिदाकाशमात्रत्वमित्याह - यथेति । मयि प्रत्यक्चिति ॥ ४ ॥
श्रीराम उवाच ।
सम्पन्नेयं कथं भूमिः सम्पन्ना गिरयः कथम् ।
कथं सम्पन्नमम्भश्च सम्पन्ना उपलाः कथम् ॥ ५ ॥
चिति जाड्यं तत्र भूम्यादिवैचित्र्यं च कथं सम्पन्नमिति प्रश्नः ॥ ५ ॥
कथञ्च तेजः सम्पन्नं सम्पन्ना च कथं क्रिया ।
कथं च कालः सम्पन्नः सम्पन्नः पवनः कथम् ॥ ६ ॥
कथं च शून्यं सम्पन्नं सम्पन्नं चिन्नभः कथम् ।
इति ज्ञातं मया भूयो बोधाय वद मे प्रभो ॥ ७ ॥
इत्येतत्सर्वं प्राक् त्वद्वचनाञ्ज्ज्ञातमपि पुनरसम्भावनाशान्त्या
बोधाभिवृद्धये वद ॥ ७ ॥
श्रीवसिष्ठ उवाच ।
ब्रूहि राघव तत्त्वेन स्वप्नदृष्टमहापुरे ।
सम्पन्ना भूः कथमिव सम्पन्नं कथमम्बरम् ॥ ८ ॥
स्वप्नवदेव सर्वं सम्भावनीयमित्याशयेन प्रतिबन्द्येव स्वयं प्रश्नव्याजेन
वसिष्ठ उत्तरमाह - ब्रूहीत्यादिना ॥ ८ ॥
कथं वारि च सम्पन्नं सम्पन्ना उपलाः कथम् ।
कथं च तेजः सम्पन्नं सम्पन्नाश्च कथं दिशः ॥ ९ ॥
सम्पन्नश्च कथं कालः सम्पन्ना च कथं क्रिया ।
कथमेतन्निमित्तादि [नियत्यादीति पाठः ।] सर्वं सम्पन्नमुच्यताम् ॥ १०
॥
केनेदं निर्मितं दग्धमानीतं रचितं चितम् ।
उत्पादितं प्रकटितं किमाचारं किमात्मकम् ॥ ११ ॥
श्रीराम उवाच ।
आत्मास्य केवलं व्योम न सद्भूम्यचलादिकम् ।
जगतः स्वप्नरूपस्य निराकारो निरास्पदः ॥ १२ ॥
दृष्टान्तवदेव दार्ष्टान्तिकेऽपि पृथ्व्यादिसम्पत्तिं सम्भावयन् रामः स्वयमपि
जगतो मिथ्यात्वं प्रपञ्चयति - आत्मास्येत्यादिन । अस्य जगत आत्मा स्वरूपं
केवलं व्योमैव ॥ १२ ॥
आत्मैव व्योमरूपोऽस्य निराधारो निराकृतिः ।
विनाकृतेर्वा व्योम्नोऽस्य किमाधारेण कारणम् ॥ १३ ॥
तर्हि किं शून्यरूपमेव नेत्याह - आत्मैवेति । कारणं प्रयोजनम् ॥ १३ ॥
न किञ्चिदेतत्सम्पन्नं सद्यथैतन्न संविदः ।
एतच्चित्कचनं नाम मन एव तथा स्थितम् ॥ १४ ॥
अभ्युपेत्य पृथ्व्याद्याकारसम्पत्तिमिदमुक्तं वस्तुतस्तु तत्सम्पत्तिरपि नास्त्येवेत्याह
- न किञ्चिदिति । एतज्जगदाकारं चित्कचनं स्वप्नवन्मन एव तथा स्थितं नान्यत् ॥
१४ ॥
दिक्कालाद्यत्र चिद्भानं चिद्भानमचलादिकम् ।
चिज्जलादि तथा बोधाच्चित्खं वाय्वादि तद्विदह् ॥ १५ ॥
मनसश्च चित्स्फुरणमात्रत्वात्तदेव सर्वमित्याह - दिक्कालेत्यादिना । तद्विदः
सर्वतत्त्वविदः ॥ १५ ॥
संविदेव किल व्योम तिष्ठति व्योमतामिता ।
दृषत्तयास्ते काठिन्याद्द्रवाज्जलमिव स्थिता ॥ १६ ॥
वस्तुतस्तु न भूम्यादि किञ्चित्तन्न च दृश्यता ।
चिदाकाशमनन्तं तत्सर्वमेकं तदात्मकम् ॥ १७ ॥
द्रव्त्वादम्बु हृद्याब्धेर्नानावृत्तितया यथा ।
अनानैव भवेन्नाना चिद्व्योमात्मनि वै तथा ॥ १८ ॥
हृद्यस्य प्रसन्नस्याब्धेरम्बु द्रवत्वादेव यथा
तरङ्गफेनावर्तादिनानावृत्त्यात्मना अनानैव नाना सम्भवेत्तथा
चिद्व्योमापीत्यर्थः ॥ १८ ॥
काठिन्यवेदनादुर्वी गिरितामागतेव चित् ।
शून्यतावेदनाच्छून्यं वेत्ति व्योमेव चिद्वपुः ॥ १९ ॥
द्रवत्ववेदनाद्वेत्ति वारि स्पन्दतयानिलम् ।
औष्ण्यसंवित्ततो वह्निमत्यजन्ती निजं वपुः ॥ २० ॥
चित् आत्मनि द्रवत्ववेदनाद्वारि वेत्ति । एवं स्पन्दतया वेदनादनिलं वेत्ति । निजं
वपुरधिष्ठानचिद्रूपमत्यजन्तीति विवर्तता दर्शिता ॥ २० ॥
एवंस्वभाव एवायं चिद्धातुर्गगनात्मकः ।
यदेवं नाम कचति निष्कारणगुणक्रमम् ॥ २१ ॥
निष्कारणगुणक्रममिति दृष्टसृष्टिसिद्धान्तः प्रकटितः ॥ २१ ॥
न चैतद्व्यतिरेकेण किञ्चिन्नापीह विद्यते ।
अन्यच्छून्यत्ववारिभ्यामृते खार्णवयोरिव ॥ २२ ॥
यथा अर्णवस्य वारित्वादृते अन्यत्तत्त्वं नास्ति । खस्य च शून्यत्वादृते तथा
एतस्माच्चिदात्मनो व्यतिरेकेण किञ्चिज्जगतस्तत्त्वं न विद्यते ॥ २२ ॥
न तु चिद्गगनादन्यन्न सम्भवति किञ्चन ।
इदं त्वमहमित्यादि तस्मादाशान्तमास्यताम् ॥ २३ ॥
इदं त्वमहमित्यादि जगत् चिद्गगनादन्यन्न तु । यतः किञ्चन तद्विना न सम्भवति ॥
२३ ॥
त्वं यथास्मिन् गृहे कुर्वन्नग्निशैलादिकां विदम् ।
तदेव पश्यस्यवपुरेवं चिद्गगनं तथा ॥ २४ ॥
कुर्वन् स्वप्नमनोरथादिना रचयन् ॥ २४ ॥
चिद्व्योम भाति देहाभं सर्गादौ न तु देहकः ।
अकारणत्वादसतश्चिदुदेतीति चिन्त्यताम् ॥ २५ ॥
यदा देहको नास्ति तदा अकारणत्वादसतोऽज्ञानाद्देहाकारा चिदुदेति । न तत्त्वत इति
चिन्त्यतां विचार्यतामभिज्ञैरित्यर्थः … २५ ॥
मनोबुद्धिरहङ्कारो भूतानि गिरयो दिशः ।
शिलाजठरवन्मौनमयं सर्वं यथास्थितम् ॥ २६ ॥
मौनमयमनिर्वाच्यमेवेत्यर्थः ॥ २६ ॥
एवं न किञ्चिदुत्पन्नं नष्टं न च न किञ्चन ।
यथास्थितं जगद्रूपं चिद्ब्रह्मात्मनि तिष्ठति ॥ २७ ॥
चितौ यत्कचनं नाम स्व्रूपप्रविजृम्भणम् ।
तदेतज्जगदित्युक्तं द्रव एव यथा जलम् ॥ २८ ॥
स्वरूपस्य प्रकर्षेण विजृम्भणं बृंहणम् ॥ २८ ॥
इदं जगद्भानमभानमेव चिद्व्योम शून्यं परमार्थ एव ।
यथार्थसन्दर्शनबुद्धबुद्धेरबुद्धबुद्धेस्तु यथा तथास्तु ॥ २९ ॥
यथार्थसन्दर्शनेन प्रबुद्धदृष्ट्या इदं जगद्भावेन भानमप्यभानमेव
चिद्व्योमैव परमार्थः । अबुद्धबुद्धेर्मूर्खस्य तु यथा तथास्तु किं
तद्विचारेणेत्यर्थः ॥ २९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० चिदाकाशैकताप्रतिपादनं
नाम चतुरधिकद्विशततमः सर्गः ॥ २०४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
चिदाकाशैकताप्रतिपादनं नाम चतुरधिकद्विशततमः सर्गः ॥ २०४ ॥