२०३

त्र्यधिकद्विशततमः सर्गः २०३

श्रीवाल्मीकिरुवाच ।

इत्थं विचारपरयोर्मुनिराघवयोस्तयोः ।
भास्करः श्रवणायेव व्योममध्यमुपाययौ ॥ १ ॥

मध्याह्नतूर्यघोषोऽत्र दिनकृत्यं निशाक्रमः ।
प्रातः सभायां रामस्य निःसन्देहश्च वर्ण्यते ॥

इत्थं विचारपरयोः सतोः । भावलक्षणे सप्तमीद्विवचनम् ।
अर्थात्तदुभयविचारश्रवणायेवेत्युत्प्रेक्षा ॥ १ ॥

तीक्ष्णतामाजगामाशु सर्वदिक्कमथातपः ।
पदार्थौघविकासार्थं रामस्येव महामतिः ॥ २ ॥

सर्वासु दिक्ष्विति सर्वदिक्कम् । पदार्थौघस्य विकासः स्फुटदर्शनम् ॥ २ ॥

उत्फुल्लहृदयाम्भोजस्फाराकारतया तदा ।
लीलापद्माकरा रेजुस्तत्रस्थाः पार्थिवा इव ॥ ३ ॥

लीलापद्माकारा उद्यानतटाकाः । तत्रस्थास्तत्सभास्थाः । पार्थिवग्रहणं
सर्वजनोपलक्षणम् ॥ ३ ॥

जालं मुक्ताकलापानन्तरमाक्रान्तभास्करम् ।
ननर्तेव तरद्व्योम विज्ञानश्रवणादिव ॥ ४ ॥

मुक्ताकलापा अनन्तरा अव्यवधानखचिता यस्मिंस्तथाविधं
स्फटिकवातायनजालकं प्रतिबिम्बभावेनाक्रान्तः सङ्क्रान्तो भास्करो
यस्मिंस्तथाविधं सद्दीप्त्यतिशयेन व्योम तरत् प्लवमानमिव सत् ननर्तेव ।
वसिष्ठोपदिष्टविज्ञानश्रवणाद्व्योम ब्रह्माकाशं तरदिवेत्यनुभवचमत्कारिणी
उत्प्रेक्षा ॥ ४ ॥

पुस्फुरुः पद्मरागेषु लग्नार्कतरुणत्विषः ।
भासो व्योमतलोड्डीना धियो ज्ञानकला इव ॥ ५ ॥

पद्मरागेषु लग्नस्यार्कस्य तरुणत्विषो भासः प्रतिबिम्बकान्तयः । यथा स्वच्छाया
धिय उपदेशज्ञानकलाः स्फुरन्ति तद्वत् ॥ ५ ॥

एवं निर्वृतिमायाते रामे स्वकुलकैरवे ।
मुनीन्द्रवदनालोकात्सविकासमिव स्थिते ॥ ६ ॥

मुनीन्द्रवदनस्य आलोकयोगात्कैरवविकासकत्वाच्चानुक्तापि चन्द्रता गम्यते ॥ ६ ॥

रवावौर्वोपमे व्योम महाब्धेर्नाभितां गते ।
तेजःपुञ्जलसज्ज्वाले समग्ररसपायिनि ॥ ७ ॥

और्वोपमे वडवाग्निसदृशे । तत्साम्यमेव विशेषणैरुपपाद्यते ॥ ७ ॥

नभोनीलोत्पले नीले गलद्रजसि राजति ।
घर्मांशुकर्णिकाकान्ते स्फुरत्किरणकेसरे ॥ ८ ॥

एवं नभसो नीलोत्पलत्वमपि विशेषणैरुपपाद्यते - नभ इत्यादिना ।
धर्मांशुः सूर्यस्तल्लक्षणया कर्णिकया कान्ते ॥ ८ ॥

अवतंसे जगल्लक्ष्म्यास्त्रिलोकीकर्णकुण्डले ।
अन्तर्लीनस्फुरत्तारारत्नराजिविराजिते ॥ ९ ॥

अवतंसे इत्यन्तमुत्पलोत्प्रेक्षा । त्रिलोकीकर्णकुण्डले इत्युत्प्रेक्षान्तरम् । अन्तर्लीनेति
तदुपपादकम् ॥ ९ ॥

दिग्वधूभिर्बृहच्छृङ्गपाणिभिर्मुकुरेष्विव ।
धृतेषु तापभिन्नेषु महाभ्रेषु निरम्बुषु ॥ १० ॥

दिग्वधूभिर्बृहद्गिरिशृङ्गलक्षणैः पाणिभिर्महाभ्रेषु मुकुरेष्विव धृतेषु
सत्सु तापैरातपैर्भिन्नेषु सम्भिन्नेषु विभक्तेषु वा ॥ १० ॥

सूर्यकान्तवरोत्थेन वह्निनेव समेधिते ।
द्विगुणं प्रज्वलत्यर्कशून्ये गगनधामनि ॥ ११ ॥

अर्कशून्येऽपि गगनधामनि सूर्यकान्तश्रेष्ठेभ्यः उत्थितेन वह्निना समेधिते
अर्कापेक्षया द्विगुणमिव प्रज्वलति सति ॥ ११ ॥

विनेदुर्मेदुरोद्दाममुखमारुतपूरिताः ।
मध्याह्नशङ्काः कल्पान्तवातपूर्णा इवार्णवाः ॥ १२ ॥

प्रालेयश्रीरिवाब्जेषु घर्मश्रीर्वदनेष्विव ।
चकार पदमाकीर्णशुद्धमुक्ताफलोपमा ॥ १३ ॥

घर्मश्रीः स्वेदबिन्दुशोभा जनानां वदनेषु पदं चक्रा ॥ १३ ॥

गृहभित्तिपरावृत्ता सत्त्वसंरम्भमांसला ।
शब्दश्रीः पूरयामास कर्णमर्ण इवार्णवम् ॥ १४ ॥

गृहभित्तिष्वभिघातात्प्रतिध्वन्यात्मना परावृत्ता । सत्त्वानां प्राणिनां
कार्यत्वराशब्दसंरम्भैर्मांसला पुष्टा । अर्णो वृष्टिनदीजलमर्णवमिव
कर्णं पूरयामास ॥ १४ ॥

पुरन्ध्रीभिर्निदाघौघशान्तये समुदीरिता ।
उल्ललास नवा पाण्डुकर्पूरजलदावलिः ॥ १५ ॥

सकर्पूरजलसेकलक्षणा जलदावलिः ॥ १५ ॥

स राजा सहसामन्तः सभूपः सपरिच्छदः ।
सवसिष्ठः समुत्तस्थौ सहरामः स संसदः ॥ १६ ॥

मण्डलदेशाधिपत्यभेदात्सामन्तभूपयोर्भेदः । संसदः सभायाः ॥ १६ ॥

राजानो राजपुत्राश्च मन्त्रिणो मुनयस्तथा ।
अन्योन्यं पूजिता जग्मुर्मुदिताः स्वं निवेशनम् ॥ १७ ॥

अन्तःपुरगृहाग्रेषु तालवृन्तानिलाहृतैः ।
कर्पूरधूलिभिरभून्नवैवाम्बुदमालिका ॥ १८ ॥

गृहाग्रेषु गृहमुखेषु ॥ १८ ॥

अथ मध्याह्नतूर्याणां रवे स्फूर्जति भित्तिषु ।
उवाच वचनं वाक्यकोविदो मुनिनायकः ॥ १९ ॥

स्फूर्जति अभिघातेन वर्धमाने ॥ १९ ॥

सर्वमेव श्रुतं श्राव्यं ज्ञेयं ज्ञातमशेषतः ।
त्वया राघव भो नास्ति ज्ञातव्यमपरं वरम् ॥ २० ॥

यथा मयोपदिष्टोऽसि यथा पश्यसि शास्त्रतः ।
यथानुभवसि श्रेष्ठमेकवाक्यं तथा कुरु ॥ २१ ॥

गुरूपदेशवेदान्तादिशास्त्रस्वानुभवानामविसंवादाय एकार्थनिष्ठतालक्षणा
एकवाक्यता कार्येत्याह - यथेति ॥ २१ ॥

उत्तिष्ठ तावत्कार्याय वयं स्नातुं महामते ।
मध्याह्नसमयोऽस्माकमयमङ्गातिवर्तते ॥ २२ ॥

अपरं यत्त्वया भद्र स्वाकाङ्क्षाविनिवृत्तये ।
प्रष्टव्यं तच्छुभं प्रातः प्रष्टव्यं भवता पुनः ॥ २३ ॥

प्रष्टव्यं प्रश्नार्हमस्ति चेत्तत्प्रातरवश्यं प्रष्टव्यं नोपेक्षितव्यमित्यर्थः ॥
२३ ॥

श्रीवाल्मीकिरुवाच ।

इत्युक्ते मुनिनाथेन राजा दशरथः स्वयम् ।
पूजयामास तान्सभ्यान्सर्वान्साधून्सपर्यया ॥ २४ ॥

सह रामेण धर्मात्मा मुनिविप्रान्नृपांश्च सः ।
वसिष्ठाद्युपदिष्टेन क्रमेण व्योमगांस्तथा ॥ २५ ॥

मणिमुक्तागणार्थेन दिव्येन कुसुमेन च ।
मणिरत्नप्रदानेन मुक्ताहारार्पणेन च ॥ २६ ॥

कांश्चिन्मणिमुक्तागणनिष्क्रियभूतेनार्थेन धनेन । कांश्चित्तु
प्रत्यक्षमणिमुक्ताप्रदानेन ॥ २६ ॥

प्रणयेन प्रणामेन प्रदानेनार्थशालिना ।
वस्त्रासनान्नपानेन कनकेन तथा भुवा ॥ २७ ॥

कन्यादिप्रदानेन ॥ २७ ॥

धूपेन गन्धमाल्याभ्यां यथोदितमनिन्दितः ।
पूर्वान्सम्पूजयामास सर्वानेव महीपतिः ॥ २८ ॥

अथोत्तस्थौ सभामध्यात्सभया सह मानदः ।
सवसिष्ठादिदेवर्षिः सायमिन्दुरिवाम्बरात् ॥ २९ ॥

सभया सभास्थेन जनेन सह ॥ २९ ॥

ससभोत्थानसमयः ससंरम्भो व्यराजत ।
जानुदघ्नसुरोन्मुक्तपुष्पसञ्जातकर्दमः ॥ ३० ॥

ससंरम्भः सत्वरः ससभाया उत्थानसमयः सभोत्थानसमयसहितः स
संरम्भ इति वा ॥ ३० ॥

सङ्घट्टाघट्टकेयूररत्नचूर्णारुणावनिः ।
छिन्नहारस्फुरन्मुक्ताताराजितनिशाम्बरः ॥ ३१ ॥

तमेव वर्णयति - सङ्घट्टेत्यादिना । सङ्घट्टो घर्षणं आघट्टः
परस्परमाघातस्ताभ्यां केयूररत्नचूर्णैः अरुणावनिः । छिन्नहारेभ्यः
स्फुरन्तीभिर्मुक्ताताराभिर्जितं निशाकालप्रसिद्धं सनक्षत्रमम्बरं येन ॥ ३१ ॥

देवर्षिमुनिविप्रेन्द्रपार्थिवस्पन्दसङ्कुलः ।
व्यग्रभृत्याङ्गनाहस्तकेशचञ्चलचामरः ॥ ३२ ॥

ज्ञानप्रमेयीकरणस्पन्दमानो न दारुणः ।
शिरःकरत्रिनयनजिह्वेष्वेव विराजितः ॥ ३३ ॥

तर्हि किं सर्वजनानां स्वार्थप्रवृत्तित्वरया दुर्बलपरोपमर्दाद्दारुणो नेत्याह ##-
प्रमेयीकरणार्थमेव स्पन्दमानो नान्यस्वार्थत्वरयेति हेतोर्न दारुणः । किं च
कदाचिदीषदङ्गघट्टनेपि परस्परक्षमापणार्थं शिरःकराः शिरसि
बद्धाञ्जलयो ये पुरतः पार्श्वयोश्चेति त्रिषु भागेषु अवलोकनाय क्षमापणाय च
प्रवृत्तं नयनजिह्वं येषां तथाविधास्तेष्वेव सर्वजनेषु विराजितो न
प्रमत्तनिष्ठुरजनविसंष्ठुल इति न तत्र परपीडादिदोषलेशस्यापि प्रसक्तिरित्यर्थः ॥
३३ ॥

परस्परमथापृच्छ्य पूजिताः पेशलोक्तयः ।
राजानो मुनयश्चैव सर्वे दशरथादयः ॥ ३४ ॥

पेशला मृदुमधुरा उक्तयो येषाम् ॥ ३४ ॥

स्वाश्रमान्साधवो जग्मुस्तुष्टस्निग्धाशया मिथः ।
लोकसप्तकवास्तव्या देवाः शक्रपुरादिव ॥ ३५ ॥

मिथः परस्परं गुणस्पृहया तुष्टः स्निग्धः स्नेहयुक्तश्च आशयो येषाम् ।
शक्रपुराद्देवा इवायोध्यातो लोकसप्तकवास्तव्या जग्मुः ॥ ३५ ॥

अन्योन्यं प्रणयात्सर्वे पूजयित्वा यथाक्रमम् ।
तद्विसृष्टाः स्वमागत्य गृहं चक्रुर्दिनक्रियाम् ॥ ३६ ॥

दिनक्रियामाह्निकम् ॥ ३६ ॥

अथ सर्वे वसिष्ठाद्यास्तथा दशरथादयः ।
चक्रुर्दिवसकार्याणि राजानो मुनयस्तथा ॥ ३७ ॥

यथाप्राप्तं क्रियां तेषु कृतवत्स्वथ दैवसीम् ।
क्रमेणाकाशपथिको भास्करोऽस्तमुपाययौ ॥ ३८ ॥

दैवसीं दिवससम्बन्धिनीम् ॥ ३८ ॥

तयैव कथया तेषां रामस्य च महामतेः ।
प्रबोधवशतः शीघ्रं सा व्यतीयाय शर्वरी ॥ ३९ ॥

प्रबोधो जागरणं तद्वशतः ॥ ३९ ॥

उत्सारिततमःपांसुताराकुसुमनिर्भरम् ।
भुवनं भवनीकुर्वन्नाजगाम दिवाकरः ॥ ४० ॥

प्रातर्गृहसम्मार्जनेनेव उत्सारितास्तमःपांसवस्ताराकुसुमनिर्भराश्च
यस्मिंस्तथाविधं भुवनं जगद्भवनं गृहमिव परिष्कुर्वन् ॥ ४० ॥

करवीरकुसुम्भाभैः करैररुणयन् दिशः ।
विवेश गगनाम्भोधिमथ बालदिवाकरः ॥ ४१ ॥

राजानो राजपुत्राश्च मन्त्रिणो मुनयस्तथा ।
वसिष्ठाद्याः समाजग्मुः पुनर्दाशरथीं सभाम् ॥ ४२ ॥

यथाक्रमं यथासंस्थं यथादेशं यथासनम् ।
सा विवेश सभा तत्र धिष्ण्यश्रीरम्बरे यथा ॥ ४३ ॥

धिष्ण्यश्रीर्देवधिष्ण्यभूतनक्षत्रशोभा ॥ ४३ ॥

ततो दशरथाद्येषु सुमन्त्रादिषु वाप्यलम् ।
वसिष्ठं सम्प्रशंसत्सु मुनिमासनसंस्थितम् ॥ ४४ ॥

वसिष्ठं सम्प्रशंसत्सु स्तुवत्सु ॥ ४४ ॥

वसिष्ठस्य पितुश्चाग्रे राजीवदललोचनः ।
उवाच राघवो धीमान्मृदुवर्णमिदं वचः ॥ ४५ ॥

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ सर्वज्ञानमहार्णव ।
सर्वसन्देहपरशो परशोकभयापह ॥ ४६ ॥

परेषां शत्रूणामपि शोकभयापह ॥ ४६ ॥

श्रोतव्यमपरं किं मे विद्यते वेद्यमेव वा ।
श्रोतव्यं विद्यते यद्वा तत्सर्वं वक्तुमर्हसि ॥ ४७ ॥

यदि विद्यते तर्हि तद्वक्तुमर्हसि ॥ ४७ ॥

श्रीवसिष्ठ उवाच ।

राम सम्प्राप्तबुद्धिस्त्वं श्रोतव्यं ते न विद्यते ।
कृतकृत्या तवैषा धीः प्राप्तप्राप्या स्थितात्मनि ॥ ४८ ॥

त्वमेव तावत्कथय प्रविचार्य धियात्मना ।
कीदृशोऽद्य भवानन्तः किं शेषं श्राव्यमस्ति ते ॥ ४९ ॥

अद्य भवान् स्वानुभवेन कीदृशः । ते शिष्यत इति शेषं श्राव्यमवश्यश्रोतव्यं
किमस्तीति त्वमेव वदेत्यर्थः ॥ ४९ ॥

श्रीराम उवाच ।

ब्रह्मन्नेवमहं मन्ये यथाहं कृतकृत्यधीः ।
निर्वाणोस्मि प्रशान्तोस्मि नाकाङ्क्षा मम विद्यते ॥ ५० ॥

वक्तव्यमुक्तं भवता ज्ञातं ज्ञेयं मयाखिलम् ।
तव विश्रान्तिमायातु कृतकृत्या सरस्वती ॥ ५१ ॥

विश्रान्तिमुपरमम् । सरस्वती वाणी ॥ ५१ ॥

अधिगतमधिगम्यं ज्ञेयमाप्तुं मयेदं विगतमखिलमैक्यं द्वैतमस्तं
प्रयातम् ।
परिगलितमशेषं दृश्यभेदावभानं ननु
निपुणमपास्ताशेषसंसारितास्था ॥ ५२ ॥

अखिलं जगदैक्यं ब्रह्मैकरस्यं विशेषेण गतं विगतम् । द्वैतं
जीवब्रह्मभेदः । यतस्तदुपाधिभूतं दृश्यभेदावभानं परिगलितम् । तदपि
कुतस्तत्राह - नन्विति । यतो मया संसारितास्था निपुणं विचार्य अपास्ता
त्यक्तेत्यर्थः ॥ ५२ ॥

इत्यार्षे वासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० निर्वाणवर्णनं नाम
त्र्यधिकद्विशततमः सर्गः ॥ २०३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणवर्णनं नाम त्र्यधिकद्विशततमः सर्गः ॥ २०३ ॥