द्व्यधिकद्विशततमः सर्गः २०२
श्रीवाल्मीकिरुवाच ।
एतच्छ्रुत्वा वसिष्ठस्य वचः संसदि पार्थिवाः ।
सिक्ता इवामृतापूरैरन्तःशीतलतां ययुः ॥ १ ॥
प्रबोधहृष्टा राजानो रामश्चात्रोपवर्णिताः ।
रामेण च स्थितिः स्वीया निर्मृष्टा ज्ञाननिर्मला ॥
पार्थिवग्रहणं सर्वजनोपलक्षणम् ॥ १ ॥
रामः कमलपत्राक्षो रराज वदनेन्दुना ।
क्षीरोद इव सम्पूर्णः सुधापूरेण चारुणा ॥ २ ॥
सुधाभिः पूर्यत इति सुधापूरः पूर्णचन्द्रस्तेनोदितेन क्षीरोद इव ॥ २ ॥
वामदेवादयः सर्वे तत्त्वज्ञानविशारदाः ।
अहो भगवता ज्ञानमुक्तमित्यूचुरादरात् ॥ ३ ॥
अहो आश्चर्यभूतमुक्तम् ॥ ३ ॥
शान्तान्तःकरणो राजा मुदा दशरथो बभौ ।
तुष्ट्यैव सम्प्रहृष्टाङ्गो नवां द्युतिमुपागतः ॥ ४ ॥
तुष्ट्या सन्तोषातिशयेन सम्प्रहृष्टाङ्गो रोमाञ्चितगात्रः ॥ ४ ॥
ज्ञातज्ञेयेषु बहुषु साधुवादकथास्वथ ।
उवाच गलिताज्ञानो रामो वाक्यमिदं पुनः ॥ ५ ॥
बहुषु साधुवादकथासु प्रवृत्तासु सतीषु ॥ ५ ॥
श्रीराम उवाच ।
भगवन्भूतभव्येश त्वयास्माकमलं मलम् ।
सम्प्रमृष्टमिदं हेम्नः श्यामत्वमिव वह्निना ॥ ६ ॥
मलमज्ञानम् ॥ ६ ॥
अभूम वयमात्मीयकायमात्रदृशः पुरा ।
प्रभो सम्प्रति सम्पन्ना विष्वग्विश्वावलोकिनः ॥ ७ ॥
कायमात्रदृशो देहपरिच्छिन्नात्मदृष्टयः । विश्वावलोकिनः सर्वात्मदर्शिनः ॥
७ ॥
स्थितोऽस्मि सर्वसम्पूर्णः सम्पन्नोऽस्मि निरामयः ।
जातोऽस्मि विगताशङ्को बुधो जागर्मि सम्प्रति ॥ ८ ॥
सर्वः सन् सम्पूर्णः ॥ ८ ॥
आनन्दितोऽस्म्यखेदाय सुखितोस्मि चिराय च ।
स्थितोऽनस्तमयायैव शाश्व्तार्थोदयो मम ॥ ९ ॥
मम शाश्वतस्यार्थस्य परमपुरुषार्थस्य उदय आविर्भावोऽभूदिति शेषः ॥ ९ ॥
अहो बत पवित्रेण शीतेन ज्ञानवारिणा ।
त्वया सिक्तोस्मि हृष्यामि पद्मवद्धृदये स्वयम् ॥ १० ॥
पद्मवच्छारदाब्जवत् ॥ १० ॥
इयमद्य मया लब्धा पदवी त्वत्प्रसादतः ।
यस्यां स्थितस्य मे सर्वममृतत्वं गतं जगत् ॥ ११ ॥
पदवी साम्राज्यपदवी ॥ ११ ॥
अन्तःप्रसन्नमतिरस्तसमस्तशोकः शोभां गतोऽहममलाशय एव शान्त्या ।
आनन्दमात्मनि गतः स्वयमात्मनैव नैर्मल्यमभ्युपगतोऽस्मि नमोस्तु
मह्यम् ॥ १२ ॥
अन्तः प्रसन्ना मतिर्यस्य । अत एवास्तसमस्तशोकः । यतोऽहं शान्त्या
सकार्यमूलाज्ञाननाशेनामलाशय एवात्मनि आनन्दं गतः । आत्मनैव
सम्यक्परीक्ष्य दृष्टेन स्वतःसिद्धनैर्मल्यमभ्युपगतोऽस्मि । अतो मह्यमेव
नमोऽस्त्वित्यर्थः ॥ १२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उत्तरार्धे
आत्मविश्रामाङ्गीकरणं नाम द्व्यधिकद्विशततमः सर्गः ॥ २०२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
आत्मविश्रामाङ्गीकरणं नाम द्व्यधिकद्विशततमः सर्गः ॥ २०२ ॥