एकाधिकद्विशततमः सर्गः २०१
श्रीवाल्मीकिरुवाच ।
अथार्वाक्साधुवादेषु प्रशान्तेषु शनैःशनैः ।
ज्ञानोपदेशमासाद्य प्रोल्लसत्स्विव राजसु ॥ १ ॥
अत्र रामेण भूयोऽपि पृष्टेन गुरुणादरात् ।
पूर्णानन्दपदे स्वस्य विश्रान्तिः प्रकटीकृता ॥
अर्वाक् अधःसभाप्रदेशे ॥ १ ॥
प्रशान्तसंसृतिभ्रान्तौ जने चरितमात्मनः ।
स्वयं हसति चित्तेन सत्यं समनुधावता ॥ २ ॥
आत्मनः स्वस्य चरितमज्ञदशाचरित्रं स्वयमेव सत्यं तत्त्वं समनुधावता
सम्यक्पश्यता चित्तेन हसति सति ॥ २ ॥
वलच्चित्तकलं ज्ञानसमास्वादनतत्परे ।
विवेकिनि सभालोके शान्ते ध्यानमिवास्थिते ॥ ३ ॥
सभागते लोके जने वलन्ती परावृत्ता प्रत्यक्प्रवणा चित्तकला चित्तवृत्तिर्यस्मिन्कर्मणि
तद्यथा स्यात्तथा ज्ञानस्य चिदेकरसानन्दस्य सम्यगास्वादनतत्परे जाते सति ॥ ३ ॥
बद्धपद्मासने रामे सभ्रातरि गुरोः पुरः ।
स्थिते कृताञ्जलौ दीप्तगुरुवक्त्रगतेक्षणे ॥ ४ ॥
दीप्तं शोभमानं यद्गुरुवक्त्रं तद्गतेक्षणे ॥ ४ ॥
पार्थिवे किमपि ध्यानमिवास्वादयति स्थितिम् ।
जीवन्मुक्तात्मिकामन्तरादिमध्यान्तपावनीम् ॥ ५ ॥
पार्थिवे दशरथे ध्यानमिवालम्ब्य जीवन्मुक्तात्मिकां स्थितिमास्वादयति सति ॥ ५ ॥
ग्रहीतुमर्चां भक्तानां मानितार्थजनो मुनिः ।
तूष्णीं क्षणमिव स्थित्वा प्रोवाचानाकुलाक्षरम् ॥ ६ ॥
मुनिर्वसिष्ठो भक्तानां राजादीनामर्चां पूजां ग्रहीतुं पूर्वोक्तरीत्या क्षणं
तूष्णीमिव स्थित्वा तदनन्तरं प्रोवाच ॥ ६ ॥
स्वकुलाकाशशीतांशो राम राजीवलोचन ।
किमन्यदिच्छसि श्रोतुं कथयाभिमतेच्छया ॥ ७ ॥
स्थितिं च कीदृशीमेनामद्यानुभवसि स्वयम् ।
किंरूपमिदमाभासं जागतं वद पश्यसि ॥ ८ ॥
इत्युक्ते मुनिना तेन प्राह राजकुमारकः ।
अविह्वलं मृदु स्पष्टं गुरोरालोकयन्मुखम् ॥ ९ ॥
श्रीराम उवाच ।
त्वत्प्रसादेन यातोऽस्मि परां निर्मलतां प्रभो ।
शान्ताशेषकलङ्काङ्कं नभस्तलम् ॥ १० ॥
शान्ताशेषकलङ्कः पूर्णचन्द्रः अङ्कश्चिह्नं यस्मिंस्तथाविधं नभस्तलमिव
॥ १० ॥
सर्वा एवोपशान्ता मे भ्रान्तयो भवभङ्गदाः ।
स्वरूपेणावदातेन तिष्ठाम्यच्छमिवाम्बरम् ॥ ११ ॥
स्थितोऽहं गलितग्रन्थिः शान्ताशेषविशेषणः ।
स्फटिकालयमध्यस्थस्फटिकामलधीरहम् ॥ १२ ॥
स्फटिकालयमध्यस्थस्फटिक इव ब्रह्मभावविशुद्धे जगति तथाविधा
[ब्रह्मभावविशुद्धेत्यर्थः ।] धीर्यस्य ॥ १२ ॥
अन्यच्छ्रोतुमथाहर्तुं शान्तं नेच्छति मे मनः ।
परां तृप्तिमुपायान्तं सुषुप्तमिव संस्थितम् ॥ १३ ॥
आहर्तुं सम्पादयितुं चेत्यर्थः ॥ १३ ॥
शान्ताशेषपरामर्शं विगताशेषकौतुकम् ।
सन्त्यक्ताशेषसङ्कल्पं शान्तं मम मुने मनः ॥ १४ ॥
परामर्शो विषयस्मरणं तद्भोगे कौतुकं तदर्थाः सङ्कल्पा इति भेदः ॥ १४ ॥
परिनिर्वामि शाम्यामि जाग्रदेव जगत्स्थितौ ।
अस्वप्नमपुनर्बोधं स्वपिमीव निरामयम् ॥ १५ ॥
अस्वप्नं मानसविषयालोचनरहितं अपुनर्बोधं जाग्रदैन्द्रियकविषयालोचनरहितं
च स्वपिमीव । इवशब्दः सुषुप्तभानस्यापि मिथ्यात्वात्तुरीयावस्थितिद्योतनार्थः ॥ १५ ॥
आशाविधुरितामात्मसंस्थितिं प्राक्तनीं तनौ ।
प्रविहस्य स्फुरत्सूक्तैः स्वस्थस्तिष्ठाम्यसंशयम् ॥ १६ ॥
आशाभिर्विधुरितां विह्वलितां प्राक्तनीं तनौ देहे आत्मबुद्ध्या स्थितिं प्रविहस्य
स्फुरद्भिर्भवत्सूक्तैरुपदेशवाक्यैः साम्प्रतं स्वस्थस्तिष्ठामि ॥ १६ ॥
नोपदेशेन नार्थेन न शास्त्रैर्न च बन्धुभिः ।
त्यागेन च न चैतेषामधुना मम कारणम् ॥ १७ ॥
अधुना मम उपदेशेन अर्थेन तत्प्रयुक्तप्रयोजनान्तरेण । एतेषां सर्वेषां त्यागेन
च कारणं प्रयोजनं नास्ति ॥ १७ ॥
साम्राज्यस्याथवा व्योम्नि या स्थितिः क्षोभवर्जिता ।
तामेवानुभवाम्यत्र मच्चित्तामनपायिनीम् ॥ १८ ॥
मच्चित्तां प्रत्यगात्ममात्रप्रतिष्ठितचित्तामनपायिनीं नित्यां जीवन्मुक्तस्थितिं
व्योम्नि स्वर्गे साम्रज्यस्य असुरादिक्षोभवर्जिता या स्थितिस्तामेवानुभवागीति
लोकदृश्ल्तिः ॥ १८ ॥
खादप्यतितरामच्छं चिदाकाशांशमात्रकम् ।
जगदित्येव पश्यामि लोचनाद्यङ्गतां [यथाकामं यथारम्भं
यथाप्राप्तं यथास्थितम् इत्येवंरूपे] गतः ॥ १९ ॥
अहं बहिर्दृशालोचनाद्यङ्गकादङ्गतां गतोऽपि जगत् खादप्यतितरामच्छं
चिन्मात्रमित्येव पश्यामि नाज्ञवज्जडमित्यर्थः ॥ १९ ॥
आकाशमात्रमेवेदं जगदित्येकनिश्चयः ।
दृश्यनाम्नि नभस्यस्मिन्क्षये जागर्मि चाक्षयः ॥ २० ॥
अस्मिन् जगति क्षये मोहनिद्रया सह बाधिते सति अक्षयोऽहं सदैव जागर्मि ॥ २० ॥
यथाकामं यथाप्राप्तं यथास्थितमिव स्थितम् ।
यद्वक्ति तदविघ्नेन करोम्यपगतैषणम् ॥ २१ ॥
भाविकार्यं यथाकामं वर्तमानकार्यं यथाप्राप्तं प्रागवस्थितं कार्यं तु
यथास्थितं यद्भवान्वक्ति तदहमपगतैषणं फलाभिसन्धिरहितं
गुरुशास्त्रानुसारेण करोमि । पाठान्तरे [यथाकामं यथारम्भं यथास्थितम्
इत्येवंरूपे ।] खकार्यविषये यथाकामं यथारम्भम् । परकार्यविषये
यथाप्राप्तं यथास्थितम् ॥ २१ ॥
न तुष्यामि न हृष्यामि न पुष्यामि न रोदिमि ।
कार्यं कार्यं करोम्येको भ्रान्तिर्दूरं गता मम ॥ २२ ॥
न तुष्याम्यन्तर्मनसि न हृय्सामि । न पुष्यामि बहिर्देहे इष्टप्राप्त्या ।
एवमनिष्टप्राप्त्या न रोदिमि । कार्यमवश्यकर्तव्यं लौकिकं वैदिकं च कार्यं
करोमि ॥ २२ ॥
अन्यतामेतु सर्गोऽयं वातु वा प्रलयानिलः ।
सौम्यो भवतु वा देशः स्वस्थोऽहं स्वात्मनि स्थितः ॥ २३ ॥
एवंस्थितस्य ममाज्ञाभिमतैर्बन्धुधनराज्यादिनाशैर्दशाविनिमयैर्वा
नानर्थप्राप्तिशङ्कास्तीत्याशयेनाह - अन्यतामिति । सौम्यः सोममार्गवच्छून्यो
वा भवतु । स्वस्थो निर्विक्षेपः ॥ २३ ॥
विश्रान्तोस्मि विलक्ष्योस्मि दुर्लक्ष्योस्मि निरामयः ।
नाशाभिर्बन्धमाप्नोमि मुने खमिव मुष्टिभिः ॥ २४ ॥
विलक्ष्यो बाह्येन्द्रियैरलक्ष्यः । मनसापि दुर्लक्ष्यः । आशाभिस्तृष्णाभिः ॥ २४ ॥
यथा तरुगतात्पुष्पाद्गन्धः प्राप्य नभःपदम् ।
तिष्ठत्येवमहं देहादतीतः संस्थितः समः ॥ २५ ॥
देहे अभिव्यक्तस्य देहमतीत्यावस्थाने दृष्टान्तमाह - यथेति । समः अस्य
पुष्पस्य देहस्य वायमिति विशेषयितुमशक्यत्वात्साधारणः ॥ २५ ॥
यथैव सर्वे राजानो विहरन्ति यथासुखम् ।
अप्रबुद्धाः प्रबुद्धाश्च राज्येषु बहुकर्मसु ॥ २६ ॥
तर्हि त्वमग्रे कथं क इव व्यवहरिष्यसि तत्राह - यथैवेति ॥ २६ ॥
शान्तहर्षविषादाशः स्थिरैकसमदर्शनः ।
स्थित आत्मनि निःशङ्कं तथैव विहराम्यहम् ॥ २७ ॥
अप्रबुद्धेभ्यो विशेषमाह - शान्तेति ॥ २७ ॥
सर्वस्योपर्यपि सुखी सुखं नेहामि मे प्रभो ।
जनसाम्येन तिष्ठामि यथेच्छं मां नियोजय ॥ २८ ॥
सर्वस्य विषयैश्वर्यानन्दस्योपरि ब्रह्मानन्देनाहं सुखी । अत एव मे देहे
विषयसुखं नेहामि नेच्छामि । नियोजयस्व सेवादिविषये आज्ञापय ॥ २८ ॥
बालो लीलामिव त्यक्तशङ्कं संसारसंस्थितिम् ।
यावद्देहमिमां साधो पालयाम्यमलैकदृक् ॥ २९ ॥
अहं यावद्देहं बालः स्ववयोनुरूपां लीलां क्रीडामिव यथाप्राप्तां
संसारसंस्थितिं पालयामि ॥ २९ ॥
भुञ्जे पिबामि तिष्ठामि पालयामि निजक्रियाम् ।
जातोऽहं विगताशङ्कस्त्वत्प्रसादान्मुनीश्वर ॥ ३० ॥
श्रीराम उवाच ।
अहो बत महापुण्यं पदमासादितं त्वया ।
अनादिमध्यपर्यन्तमिदं यत्र न शोच्यते ॥ ३१ ॥
यत्र पदे स्थितैर्न शोच्यते । भावे लः ॥ ३१ ॥
सम्यक्समसमाभोगे शीतले स्वात्मनि स्वयम् ।
नभसीव नभः शान्ते विश्रान्तिमसि लब्धवान् ॥ ३२ ॥
दिष्ट्या जातो विशोकस्त्वं दिष्ट्या सम्यगवस्थितः ।
दिष्ट्या लोकद्वयेऽनर्थशङ्का ते शममागता ॥ ३३ ॥
लोकद्वये इहलोके परलोके च दृष्टादृष्टश्रुतानर्थशङ्का ॥ ३३ ॥
दिष्ट्या रघूणां तनय सञ्ज्ञः पावितवानसि ।
भूतभव्यभविष्यस्थां बोधेन कुलसन्ततिम् ॥ ३४ ॥
तनयेति प्रीत्यतिशयेन सम्बोधनम् । सम्यग्जानातीति सञ्ज्ञ आत्मतत्त्ववित्सन् रघूणां
भूतभव्यभविष्यस्थां कुलसन्ततिं बोधेन पावितवानसि ॥ ३४ ॥
अधुना मुनिनाथस्य विश्वामित्रस्य राघव ।
पूरयित्वार्थितां भुक्त्वा [तिष्ठेति शेषः ।] पित्रा सह महीमिमाम् ॥ ३५ ॥
अर्थितां यज्ञविघ्नपरिहारार्थिताम् । पित्रा सहेति जीवत्येव पितरि तदाज्ञया
राक्षसवधेन महीं पालयित्वेत्याशयः ॥ ३५ ॥
त्वयान्विताः सतनयभृत्यबाधवाः पदातयः सरथगजाश्वमण्डलाः ।
निरामया विगतभयाः स्थिरश्रियः सदोदयाः सुभग भवन्तु राघवाः
[रघुकुलसम्बन्धिनो भृत्यादयः ।] ॥ ३६ ॥
हे सुभग त्वया अन्विताः सङ्गताः सतनयाः पुत्रपौत्रसहिता भृत्यबान्धवाश्च
सरथगजा"ष्वमण्डलाः पदातयश्चेति द्विविधा अपि जना निरामयाः शरीरे
विगतभयाश्चित्ते सदोदया गृहेषु भवन्त्वित्याशीः प्रार्थना वा ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उत्तरार्धे
विश्रान्तिप्रकटीकरणं नामैकाधिकद्विशततमः सर्गः ॥ २०१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विश्रान्तिप्रकटीकरणं नामैकाधिकद्विशततमः सर्गः ॥ २०१ ॥