द्विशततमः सर्गः २००
श्रीवाल्मीकिरुवाच ।
निर्वाणवाक्यसन्दर्भसमाप्तौ मुनिनायके ।
पाश्चात्यवाक्यविरतिं कुर्वति क्रमपालिताम् ॥ १ ॥
सिद्धानां साधुवादोऽत्र पुष्पवृष्टिः सदुन्दुभिः ।
वर्ण्यते प्रकृतः सर्वैर्गुरुपूजामहोत्सवः ॥
निर्वाणप्रकरणान्तमात्मोपदेशं श्रुत्वा कृतार्थानां सिद्धर्षिमानवानां
तस्यां सभायां वसिष्ठपूजामहोत्सवं वर्णयिष्यन् श्रीवाल्मीकिरुवाच -
निर्वाणेति । सर्वेषां सप्तम्यन्तानां षष्ठश्लोके कोलाहलः समुदभूदित्यत्रान्वयः
। एतत्प्रकरणरूपस्य निर्वाणवाक्यसन्दर्भस्य समाप्तौ सत्यां मुनिनायके वसिष्ठे
क्रमपालितां क्रमप्राप्तां पाश्चात्यवाक्यविरतिं कुर्वति सति ॥ १ ॥
निर्विकल्पसमाधानसमतां समुपागते ।
शान्तस्वच्छमनोवृत्तौ सर्वस्मिंश्च सभाजने ॥ २ ॥
सर्वस्मिन्सभागते जने चान्नभोगतदेवादिजने च
मुनिवाक्यश्रवणान्निर्विकल्पसमाधानेन समतां ब्रह्मैकरसतां समागते सति ॥ २
॥
सत्त्वकोटिमुपारूढे परां पावनतां गते ।
संवित्तत्त्वे समग्रस्य जनस्य श्रुतशालिनः ॥ ३ ॥
निर्विकल्पसमाधिक्रमेण संवित्तत्त्वे प्रतीचि सत्त्वकोटि सन्मात्रकाष्ठां समारूढे
अत एव परां पावनतां गते सति ॥ ३ ॥
झटित्येवाम्बरहृता पूर्वमुक्तधियां मुखात् ।
सिद्धानां साधुवादेन व्योमकोटरवासिनाम् ॥ ४ ॥
व्योमकोटरवासिनां पूर्वमुक्तधियां सनकादीनां अम्बरं हरति
व्याप्नोतीत्यम्बरहृत् तथाविधेन साधुवादेन प्रशंसावाक्येन ॥ ४ ॥
तथा सभास्थितानां च मुनीनां भावितात्मनाम् ।
गाधेयप्रमुखानां च साधुवादगिरोच्चया ॥ ५ ॥
तथा सभायां स्थितानां गाधेयो विश्वामित्रस्तत्प्रभुखानां मुनीनामुच्चया
साधुवादगिरा च झटित्येव भूरिपूरितदिङ्मुखो मधुराः कोलाहलः समुदभूदिति
परेण सम्बन्धः ॥ ५ ॥
कोलाहलः समुदभूद्भूरिपूरितदिङ्मुखः ।
मधुरः पवनात्तानां कीचकानामिवारवः ॥ ६ ॥
पवने आत्तानां व्याप्तानां पूर्णरन्ध्राणां कीचकानां वेणुमेदानामारव इव ॥ ६
॥
सिद्धानां साधुवादेन सह वै सहसा ततः ।
देवदुन्दुभयो नेदुः प्रतिश्रुत्पूरिताचलाः ॥ ७ ॥
प्रतिश्रुद्धिः प्रतिध्वनिभिः पूरिता अचला भूरचलाः पर्वताश्च यैः ॥ ७ ॥
देवदुन्दुभिभिः सार्धं तुषारासारसुन्दरी ।
दिग्भ्यः स्थगितदिक्चक्रा पुष्पवृष्टिः पपात ह ॥ ८ ॥
तुषाराणामासार इव सुन्दरी शुभ्रा । स्थगितान्याच्छादितानि दिक्चक्राणि यया ॥ ८ ॥
पुष्पौघपूरितस्थानः शब्दापूरितकन्दरः ।
रजःसंरञ्जिताकाशो गन्धरञ्जितमारुतः ॥ ९ ॥
पुष्पौघादिभिश्चतुर्भिः पूरितं सभास्थानादिचतुष्टयं यत्र तथाविधः
साधुवाद"अब्दादित्रयस्य स समवायः समूहो रराजेति द्वयोरर्थः ॥ ९ ॥
स साधुवादशब्दस्य देवतूर्यरवस्य च ।
कुसुमासारघोषस्य समवायो रराज ह ॥ १० ॥
उन्मुखाखिलसभ्याक्षिरश्मिश्यामलितान्तरः ।
उत्कर्णमृगमातङ्गहयपक्षिपशुश्रुतः ॥ ११ ॥
तमेव समवायं वर्णयति - उन्मुखेत्यादिद्वाभ्याम् ॥ ११ ॥
सविस्मयभयोन्नेत्रबालकान्ताजनेक्षितः ।
विस्मयस्मेरवदनराजलोकावलोकितः ॥ १२ ॥
सविस्मयैः सभयैश्च अत एव उन्नेत्रैर्बालैः कान्ताजनैश्च ईक्षितः ॥ १२ ॥
कुसुमासारसारेण शब्दशोभातिशायिना ।
संरम्भेण जगामाशु रोदोरन्ध्रमपूर्वताम् ॥ १३ ॥
रोदोरन्ध्रं द्यावाभूम्यन्तरालम् । अपूर्वतामलौकिकचमत्कारिताम् ॥ १३ ॥
पुष्पवर्षसुधाधौतं रटद्भूतसुघुङ्घुमम् ।
समतां सदनेनागात् ध्मातशङ्खशतेन खम् ॥ १४ ॥
पुष्पवर्षेण सुधाभिर्मकरन्दैर्धौतं क्षालितम् । रटद्भिर्भूतैः प्राणिभिः
सुघुङ्घुमं पुण्यशब्दम् । ध्माताः शङ्का यस्मिंस्तथाविधं खमाकाशं
सदनेन दशरथगृहेण समतामगात् ॥ १४ ॥
भुवनं भूरिभाङ्कारभासुरं सुरचारणैः ।
वृतं मत्तोत्सवं रेजे समं कुसुममण्डितम् ॥ १५ ॥
भुवनं जगदपि मत्त उपचित उत्सवो यत्र तथाविधं सत् अर्थाद्दशरथगृहेण
समं तुल्यरूपं रेजे ॥ १५ ॥
शनैर्दुन्दुभिसिद्धौघवाक्यपुष्पभरः समम् ।
प्रययौ रोदसीरन्ध्रे वेलाचलमिवाम्बुधौ ॥ १६ ॥
दुन्दुभिपदेन तच्छब्दा लक्ष्यन्ते । तेषां सिद्धौघवाक्यानां पुष्पाणां च भरः
समं तुल्यकालं रोदस्योः रन्ध्रे दिगन्ते शनैः प्रययौ यथा अम्बुधौ कल्लोलो
वेलाचलं याति तद्वत् ॥ १६ ॥
तस्मिन्विबुधसंरम्भे क्षणेन समये गते ।
वाक्यानीमानि सिद्धानामभिव्यक्तिमुपाययुः ॥ १७ ॥
विबुधानां संरम्भे पुष्पव्र्षोद्योगकोलाहले । इमानि वक्ष्यमाणानि ॥ १७ ॥
सिद्धा ऊचुः ।
आकल्पं सिद्धसङ्घेषु मोक्षोपायाः सहस्रशः ।
व्याख्याताश्च श्रुताश्चालमीदृशास्तु न केचन ॥ १८ ॥
अस्माभिर्व्याख्याता अन्येभ्यश्च श्रुताः ईदृशा एतद्ग्रन्थसदृशाः ॥ १८ ॥
तिर्यञ्चो वनिता बाला व्यालाश्चानेन निर्वृतिम् ।
मुनेर्वाक्यविलासेन यान्ति नास्त्यत्र संशयः ॥ १९ ॥
अत्र यो गुणातिशयस्तमाहुः - तिर्यञ्च इति । मुनेर्वसिष्ठस्यैतद्ग्रन्थरूपेण
वाक्यविलासेन श्रुतेन ॥ १९ ॥
दृष्टान्तैर्हेतुभिर्युक्त्या यथा रामोऽवबोधितः ।
तथा चारुन्धती साक्षात्सम्बोधयति वा न वा ॥ २० ॥
भगवतो वसिष्ठस्य श्रीरामे मुख्याधिकारिणि स्नेहातिशयं प्रशंसन्ति -
दृष्टान्तैरिति ॥ २० ॥
अनेन मोक्षोपायेन तिर्यञ्चोऽपि गतामयाः ।
स्थिता मुक्ता भविष्यन्ति के नाम भुवि नो नराः ॥ २१ ॥
तिर्यञ्चः पशुपक्ष्यादयोऽपि । भुवि नराः के नाम मुक्ता नो भविष्यन्ति यदि
शृण्वन्तीत्यर्थः ॥ २१ ॥
श्रवणाञ्जलिभिः पीत्वा ज्ञानामृतमिदं वयम् ।
परां पूर्णनवीभूतसिद्धयः श्रियमागताः ॥ २२ ॥
इति शृण्वन्सभां लोको विस्मयोत्फुल्ललोचनः ।
कुसुमासारसम्पूर्णां राजीवानां ददर्श ताम् ॥ २३ ॥
लोकः अयोध्याजनः इति एवंविधानि सिद्धवाक्यानि शृण्वन् सन् तां सभां
राजीवानां पद्मादीनां कुसुमासारैः सम्पूर्णां ददर्श ॥ २३ ॥
मन्दारादिमहापुष्पच्छन्नच्छादनसञ्चयाम् [घनच्छादनेति पाठः ।
] ।
पारिभद्रलतागुच्छनीरन्ध्राजिरभूमिकाम् ॥ २४ ॥
पारिभद्रलता कल्पलताभेदः । मन्दारादीनि पञ्चदेवतरुभेदपुष्पाणि ॥ २४ ॥
पारिजातप्रसूनाढ्यमहीतलविराजिताम् ।
सन्तानकमहाम्भोदव्याप्तसभ्यशिरःकराम् ॥ २५ ॥
मौलिरत्नविटङ्काग्रविश्रान्तहरिचन्दनाम् ।
वारिपूरप्रलम्बाभ्रवदालम्बिवितानकाम् ॥ २६ ॥
वारिपूरैः प्रलम्बैरभ्रैस्तुल्यं प्रलम्बाभ्रवत्पुष्पभारालम्बिनो वितानका यस्याम्
॥ २६ ॥
इति पश्यन्सभां लोकः साधुवादेन भूरिणा ।
तत्कालोचितवाक्येन तेन तेन तथोद्यतः ॥ २७ ॥
तेन तेन तत्कालोचितप्रशंसावाक्येन तथा । उद्यत उद्युक्तः सन् वसिष्ठं
पूजयामासेति सम्बन्धः ॥ २७ ॥
वसिष्ठं पूजयामास सर्वेन्द्रियगणानतः ।
कुसुमाञ्जलिमिश्रेण प्रणामसहितेन च ॥ २८ ॥
सर्वैरिन्द्रियगणैरानतः प्रह्वीभूतः ॥ २८ ॥
नृपप्रणाममालासु किञ्चिच्छान्तासु तास्वथ ।
मुनिमापूजयन्नाह सार्ध्यपात्रकरो नृपः ॥ २९ ॥
अर्घ्यपात्रेण सहितः सार्घ्यपात्रः करो यस्य । नृपो दशरथः ॥ २९ ॥
दशरथ उवाच ।
क्षयातिशयमुक्तेन परमेणात्मवस्तुना ।
परान्तः पूर्णतोत्पन्ना बोधेनारुन्धतीपते ॥ ३० ॥
हे अरुन्धतीपते त्वदुपदेशलब्धेन बोधेन परमेण
निरतिशयानन्दरूपेणात्मवस्तुना अन्तः परा सर्वोत्कृष्टा पूर्णता उत्पन्ना ॥ ३० ॥
न तदस्ति महीपीठे दिवि देवेषु वापि च ।
महत्किञ्चिद्यदप्राप्तं तव पूज्यस्य पूजनम् ॥ ३१ ॥
एवमीदृशपरमपुरुषार्थदातुस्तव पूजनं योग्यं यत्स्यात्तत्तादृशं वस्तु
महीपीठे मनुष्येषु दिवि देवेषु अपि च पाताले वा नास्ति ॥ ३१ ॥
तथाप्यात्मक्रमं ब्रह्मन्निमं नेतुमवन्ध्यताम् ।
अहं वच्मि यथाप्राप्तं न कोपं कर्तुमर्हसि ॥ ३२ ॥
तथाप्यहमात्मनः स्वस्य अवश्यकर्तव्यमिमं शास्त्रलोकप्रसिद्धं यथाप्राप्तं
गुरुपूजनक्रममवन्ध्यतां सफलतां नेतुं किञ्चिद्वच्मि प्रार्थयामि ॥ ३२ ॥
आत्मना सकलत्रेण लोकद्वयशुभेन च ।
राज्येनाखिलभृत्येन भवन्तं पूजयाम्यहम् ॥ ३३ ॥
लोकद्वये भुवि स्वर्गे च भोगार्थं यन्मया सञ्चितं शुभं सुकृतं तेन ।
अखिलाः सामन्ता भृत्या यस्मिंस्तथाविधेन राज्येन । अखिलभृत्यवर्गेणेति
पृथग्वा । भवते समर्पितेनेति शेषः ॥ ३३ ॥
एतत्सर्वं तव विभो स्वायत्तं स्व इवाश्रमः ।
नियोजय यथादेशं यथाभिमतयेच्छया ॥ ३४ ॥
मया तुभ्यं दत्तमेतत्सर्वं तव स्वायत्तम् । त्वं नियोजय स्वामी भूत्वा आज्ञापय ॥
३४ ॥
श्रीवसिष्ठ उवाच ।
प्रणाममात्रसन्तुष्टा ब्राह्मणा भूपते वयम् ।
प्रणामेनैव तुष्यामः स एव भवता कृतः ॥ ३५ ॥
स प्रणामो भवता कुत एवेत्यन्वयः ॥ ३५ ॥
पातुं त्वमेव जानासि राज्यं भाति तवैव च ।
भवत्वेतत्तवैवेह ब्राह्मणाः क्व महीभृतः ॥ ३६ ॥
पातुं रक्षयितुम् ॥ ३६ ॥
दशरथ उवाच ।
कियन्मात्रं तु राज्यं स्यादिति लज्जामहे मुने ।
प्रकर्षेणात्र तेनेश यथा जानासि तत्कुरु ॥ ३७ ॥
अत्र अस्मिन्परमपुरुषार्थस्वरूपमोक्षदानोपकारे प्रत्युपकारतया राज्यं
प्रकर्षेण कियन्मात्रं स्यात् । मानुषानन्दपरमावधिर्हि
निष्कण्टकवित्तपूर्णनिरामयसप्तद्वीपाधिपत्यम् । तदपेक्षया शतगुणो
मनुष्यगन्धर्वाणामानन्दस्तदपेक्षयापि देवगन्धर्वाणां स शतगुण इत्येवं
क्रमेणोत्कृष्यमाणविषयानन्दानां हैरण्यगर्भानन्दः परमावधिः सोपि
यस्मिन् मोक्षानन्दसमुद्रे सीकरप्रायस्तत्रेदं कियन्मात्रं क्व गणनार्हं
स्यादित्यर्थः ॥ ३७ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवति भूपाले रामः पुष्पाञ्जलिं ददत् ।
उवाच प्रणतो वाक्यं पुरस्तस्य महागुरोः ॥ ३८ ॥
तस्य महागुरोः पादयोः पुष्पाञ्जलिं ददत्सन् ॥ ३८ ॥
निरुत्तरीकृतमहाराज ब्रह्मन्प्रणौमि ते ।
प्रणाममात्रसारोऽहं रामः पादाविमौ प्रभो ॥ ३९ ॥
प्रणामेनैव तुष्याम इति त्वद्वचनात्प्रणाममात्रं सारः सर्वोत्कृष्टतया
आवश्यको यस्य ॥ ३९ ॥
इत्युक्त्वा पादयोस्तस्य शिरोवन्दनपूर्वकम् ।
तत्याजाञ्जलिपुष्पाणि हिमानीव वनं गिरेः ॥ ४० ॥
यथा वनं गिरेः पादयोर्हिमानि पल्लवसक्तान्यवश्यायजलानि त्यजति तद्वत् ॥ ४० ॥
आनन्दबाष्पसम्पूर्णनयनो नयकोविदः ।
गुरुं परमया भक्त्या प्रणनाम पुनःपुनः ॥ ४१ ॥
शत्रुघ्नो लक्ष्मणश्चैव तथान्ये तत्समाश्च ये ।
निकटस्थास्तथैवाशु ते प्रणेमुर्मुनीश्वरम् ॥ ४२ ॥
तत्समाः शत्रुघ्नलक्ष्मणसदृशा रामसखाः ॥ ४२ ॥
दूरप्रणामैर्दूरस्थाः पुष्पाञ्जलिसमीरणैः ।
राजानो राजपुत्राश्च प्रणेमुर्मुनयश्च तम् ॥ ४३ ॥
दूरस्थयोग्यैः प्रणामैः ॥ ४३ ॥
अस्मिन्नवसरे तत्र कुसुमाञ्जलिवर्षणैः ।
हिमैरिव हिमाद्रीन्द्रो मुनिरन्तर्धिमाययौ ॥ ४४ ॥
अन्तर्धिमाच्छादनम् ॥ ४४ ॥
अथ शान्ते सभाक्षोमे प्रणामनिवहे तथा ।
संस्मरञ्छासनं किञ्चित्सत्ये कृष्णसिताशयम् ॥ ४५ ॥
मुनीनां मान्यानां पुरतः स्वकृतं शासनमुपदेशात्मकं शास्त्रं सत्ये
वस्तुनि विषये कृष्णाशयं बुद्धिमालिन्यप्रयुक्तं सदोषं सिताशयं
स्वच्छबुद्धिप्रयुक्तनिर्दोषं वा स्यादिति सन्दिहान इव स्वचरित्रेण जनस्य विनयं
शिक्षयितुं किञ्चिन्मुनिषु वक्ष्यमाणप्रकारेण प्रष्टव्यं संस्मरन्सन् मुखं
सन्दर्शयामासेति सम्बन्धः ॥ ४५ ॥
मुनिः कुसुमराशिं तं बाहुभ्यां प्रविचाल्य सः ।
मुखं सन्दर्शयामास सिताभ्रादिव चन्द्रमाः ॥ ४६ ॥
सिताभ्रात् सिताभ्राणि निरस्य । ल्यब्लोपे पञ्चमी । चन्द्रमा इव ॥ ४६ ॥
शान्ते सिद्धवचोराशौ तथा दुन्दुभिनिःस्वने ।
नभःकुसुमवर्षे च सभाकलकले तथा ॥ ४७ ॥
प्रणामानन्तरं तस्मिन्रामाद्यैः स्वसभाजने ।
शान्तवात इवाम्भोदे जने सौम्यत्वमागते ॥ ४८ ॥
स्वं सभाजयति पूजयतीति स्वसभाजने जने सौम्यत्वमव्यग्रतामागते सति ॥ ४८ ॥
आकर्णयन्साधुवादं विश्वामित्रं मृदुस्वनम् ।
उवाचेदमनिन्द्यात्मा वसिष्ठो मुनिनायकः ॥ ४९ ॥
मुने गाधिकुलाम्भोज वामदेव निमे क्रतो ।
भरद्वाज पुलस्त्यात्रे घृष्टे नारद शाण्डिले ॥ ५० ॥
गाधिकुलस्य यशःसौरभजनकत्वाद्गाधिकुलाम्भोज हे विश्वामित्र ॥ ५० ॥
हे भासभृगुभारण्डवत्सवात्स्यायनादयः ।
मुनयस्तुच्छमेतन्नु भवद्भिर्मद्वचः श्रुतम् ॥ ५१ ॥
भासो विपश्चिदन्यो वा । हे मुनयः भवद्भिर्मान्यैरेतन्मद्वचनं तुच्छं
सदोषत्वात्क्षुद्रमनुपादेयम् । नु इति वितर्के । एवं सम्भावयामीत्यर्थः ॥ ५१ ॥
यदत्रानुचितं किञ्चित्तदनुग्रहतोऽधुना ।
दुरर्थं विगतार्थं वा भवन्तः कथयन्तु मे ॥ ५२ ॥
अतोऽत्र यत्किञ्चिदनुचितं दुरर्थं विगतार्थं निरर्थकं वा सम्भावितं तदधुना
सशिष्ये मय्यनुग्रहतो मे कथयन्त्विति भगवतो विनयोक्तिर्लोके विनयशिक्षणार्थं
महर्षिवचनेन ग्रन्थस्य निर्दोषताख्यापनार्थं च ॥ ५२ ॥
सभ्या ऊचुः ।
वसिष्ठवचने ब्रह्मन्परमार्थैकशालिनि ।
दुरर्थो भवतीत्यद्य नवैव खलु गीः श्रुता ॥ ५३ ॥
सभ्याः सम्बोधिता गाधिसुताद्याः मुनय ऊचुः । जगति क्वाप्यप्रसिद्धत्वान्नवैव
गीर्वाणी श्रुता ॥ ५३ ॥
यत्सम्भृतमनन्तेन जन्मदोषेण नो मलम् ।
तत्प्रमृष्टं त्वयेहाद्य हेम्नामिव हविर्भुजा ॥ ५४ ॥
ब्रह्मबृंहितया वाचा विभो विकसिता वयम् ।
कुमुदानीन्दुदीप्त्येव परमामृतशीतया ॥ ५५ ॥
ब्रह्मणि बृंहितया विस्तारितया । इन्दुदीप्तिपक्षे ब्रह्मसदृशे आकाशे विस्तारितया ॥
५५ ॥
सर्वसत्त्वमहाबोधदायिनं मुनिनायकम् ।
भवन्तमेकान्तगुरुं प्रणमाम इमे वयम् ॥ ५६ ॥
एकान्तो नियमः । गुरुमेव न तु कुतश्चिदगुरुमिति अपरविद्यागुरुभ्योऽस्योत्कर्षकाष्ठा
सूचिता ॥ ५६ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा मुनिनाथाय नमस्त इति ते पुनः ।
वदन्त एकशब्देन तारेणाब्दरवौजसा ॥ ५७ ॥
ते पुनर्नमस्ते इति वदन्तः सन्तः खात् आकाशात्सिद्धैः समं
स्वयमप्युज्झितैरर्वाक्पुष्पाञ्जलिव्रातैर्वसिष्ठं पुनः पूरयामासुः अचलं
हिमवन्तमिव ॥ ५७ ॥
अर्वाक्यपुष्पाञ्जलिव्रातैः खात्सिद्धैः सममुज्झितैः ।
वसिष्ठं पूरयामासुर्हिमैरब्दा इवाचलम् ॥ ५८ ॥
इत्थं दशरथं भूपं शशंसुश्चाथ राघवम् ।
माधवं चतुरात्मानं राघवोदन्तकोविदाः ॥ ५९ ॥
अथ दशरथप्रशंसानन्तरं चतुरात्मानं माधवं राघवं प्रशशंसुः ।
यतस्ते राघवस्य विष्ण्ववतारत्ववृत्तान्तकोविदा इत्यर्थः ॥ ५९ ॥
सिद्धा ऊचुः ।
नमाम चतुरात्मानं नारायणमिवापरम् ।
रामं सभ्रातरं जीवन्मुक्तं राजकुमारकम् ॥ ६० ॥
चतुरब्धिनिखातान्तधरावलयपालकम् ।
त्रिकालस्थमहीपालचिह्नं दशरथं नृपम् ॥ ६१ ॥
त्रिकालस्थानि कदाप्यनपायीनि महीपालचिह्नानि राजलक्षणानि यस्मिंस्तथाविधं
दशरथं नृपं श्रीरामजनकत्वात्त्वं धन्यतमोऽसीति पुनः प्रशशंसुः ॥ ६१ ॥
मुनिसेनाधिपं भूपं भास्करं भूरितेजसम् ।
वसिष्ठं सुप्रवादाढ्यं विश्वामित्रं तपोनिधिम् ॥ ६२ ॥
मुनिसेनायाः अधिपं स्वामिनं भूरितेजसं भास्करमिव स्थितं वसिष्ठं
तत्सन्निहितं विश्वामित्रं च प्रशशंसुः ॥ ६२ ॥
एषामेव प्रभावेन ज्ञानयुक्तिं परामिमाम् ।
श्रुतवन्तो वयं सर्वे भ्रान्तिसंरम्भनाशिनीम् ॥ ६३ ॥
एतेषां प्रशंसायां को हेतुस्तमाहुः - एषामेवेति । भ्रान्तिसंरम्भनाशिनीं
वसिष्ठवाणीमिति शेषः ॥ ६३ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा गगनात्सिद्धा भूयः पुष्पाणि चिक्षिपुः ।
सभायामथ तूष्णीं च तस्थुर्मुदितचेतसः ॥ ६४ ॥
तथैव व्योमगाः सिद्धाः शशंसुस्तं जनं पुनः ।
तथैव सभ्यास्तांस्तत्र समानर्चुर्घनस्तवम् ॥ ६५ ॥
तान्सिद्धान्घनस्तवं बहुस्तवसहितं यथा स्यात्तथा समानर्चुः ॥ ६५ ॥
नभश्चरा धरणिचरा मुनीश्वरा महर्षयो विबुधगणा द्विजा नृपाः ।
अपूजयन्निति जनमोजसैव ते गिरोच्चया सह कुसुमार्घ्यदानया ॥ ६६ ॥
नभश्चरा महर्षयो विबुधगणा धरणिचरा द्विजा नृपा उभयचरा
मुनीश्वराश्च ते इति वर्णितप्रकारेण ओजसा स्वस्वसामर्थ्यानुसारेण प्रतिजनं सह
कुसुमार्घ्यदानया उच्चया गिरा अपूजयन् ॥ ६६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ०
साधुवादसपर्यादिवर्णनं नाम द्विशततमः सर्गः ॥ २०० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
साधुवादसपर्यादिवर्णनं नाम द्विशततमः सर्गः ॥ २०० ॥