नवनवत्यधिकशततमः सर्गः १९९
श्रीराम उवाच ।
नित्यं ज्ञानैकनिष्ठत्वादात्मारामतया तथा ।
मुक्तैः कर्मपरित्यागः कस्मान्न क्रियते मुने ॥ १ ॥
मुक्तानां न कृतैरर्थो नाकृतैः कर्मभिः क्षतिः ।
तथापि तेऽनुवर्तन्ते सत्कर्माणीति वर्ण्यते ॥
मुक्तैर्जीवन्मुक्तैः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
हेयोपादेयदृष्टी द्वे यस्य क्षीणे हि तस्य वै ।
क्रियात्यागेन कोऽर्थः स्यात्क्रियासंश्रयणेन वा ॥ २ ॥
स्वभ्यस्तस्य करणे श्रमाभावात्त्यागे प्रयोजनाभावाल्लोकानुग्रहवशाच्च तैः
कर्मत्यागो न क्रियत इत्युत्सर्ग इत्याशयेनोत्तरमाह - हेयेत्यादिना ॥ २ ॥
न तदस्तीह यत्त्याज्यं ज्ञस्योद्वेगकरं भवेत् ।
न वास्ति यदुपादेयं तज्ज्ञसंश्रेयतां गतम् ॥ ३ ॥
संश्रेयतामवश्यानुष्ठेयताम् ॥ ३ ॥
ज्ञस्य नार्थः कर्मत्यागैर्नार्थः कर्मसमाश्रयैः ।
तेन स्थितं यथा यद्यत्तत्तथैव करोत्यसौ ॥ ४ ॥
यद्यद्वर्णाश्रमोचितत्वेन यथास्थितं तत्तत् तथैव करोति ॥ ४ ॥
यावदायुरियं राम निश्चितं स्पन्दते तनुः ।
तद्यथाप्राप्तमव्यग्रं स्पन्दतामपरेण किम् ॥ ५ ॥
जीवद्देहस्य स्पन्दनावश्यम्भावे स्वभ्यस्तसदाचाररूपमेव स्पन्दनं तद्देहे
प्रवर्तत इत्याह - यावदायुरिति । अपरेण स्पन्दत्यागेनान्यथा स्पन्दनेन च ॥ ५ ॥
अन्यथान्यत्र चेत्कार्या क्रिया त्यक्त्वा निजं क्रमम् ।
समाने हि क्रियास्पन्दे को दोषः सत्क्रमे किल ॥ ६ ॥
शास्त्रीयाशास्त्रीयक्रिययोः क्रमे समानेऽपि शास्त्रीये सत्क्रमे सदाचारे को दोषो येन
निजं क्रमं त्यक्त्वा अन्यथाचरणं स्यादित्यर्थः । अन्यत्रेति दृष्टान्तार्थम् । यथा
स्वगृहे निर्दोषे अन्यत्रावस्थाने प्रयोजनं नास्ति तद्वदिति ॥ ६ ॥
समया स्वच्छया बुद्ध्या सततं निर्विकारया ।
यथा यत्क्रियते राम तददोषाय सर्वदा ॥ ७ ॥
समया सिद्ध्यसिद्ध्योस्तुल्यया ॥ ७ ॥
इह मह्यां महाबाहो बहवो बहुदृष्टयः ।
बहुधा बहुदोषेषु विहरन्ति विचक्षणाः ॥ ८ ॥
यद्यपि कर्मसु प्रवृत्तानां द्रव्यार्जनऋत्विगावर्जनादिषु अनुष्ठेयार्थनिर्णयेषु
च श्रमसाध्यत्वाद्बहुदोषप्रसक्तिरस्ति तथापि सा तैः समदर्शनता विचक्षणता
बलादेव सुपरिहरेत्याशयेनाह - इहेति । बहुदृष्टयः
सर्वशास्त्रलोकरहस्यदर्शिनः प्रपञ्चयिष्यमाणबहुदृष्टयश्च
समदर्शनबलाल्लोकसङ्ग्रहेऽपि विचक्षणाः ॥ ८ ॥
गतसङ्गतया बुद्ध्या विहरन्ति यथास्थितेः ।
गृहस्थारम्भिणः केचिज्जीवन्मुक्ताः स्थिता भुवि ॥ ९ ॥
बहुधेत्युक्तिं प्रपञ्चयति - गतसङ्गतयेत्यादिना । यथास्थितेः
यथाप्राप्तानुवृत्तेः ॥ ९ ॥
तज्ज्ञा राजर्षयश्चान्ये वीतरागा भवादृशाः ।
असंसक्तधियो राज्यं कुर्वन्ति विगतज्वराः ॥ १० ॥
भवादृशा इति भाविनीं वृत्तिमाश्रित्य रामं प्रत्युक्तिः ॥ १० ॥
केचित्प्रकृतवेदार्थव्यवहारानुसारिणः ।
यज्ञशिष्टाशिनो नित्यमग्निहोत्रे व्यवस्थिताः ॥ ११ ॥
केचिच्चतुर्षु वर्णेषु ध्यानदेवार्चनादिकाम् ।
स्वक्रियामनुतिष्ठन्तः स्थिता विविधयेहया ॥ १२ ॥
स्वक्रियां स्वस्ववर्णाश्रमोचितं कर्म तत्र ध्यानं चतुर्थाश्रगोचितम् । ईहया
चेष्टया ॥ १२ ॥
केचित्सर्वपरित्यागमन्तः कृत्वा महाशयाः ।
सर्वकर्मपरा नित्यं तज्ज्ञा एवाज्ञवत्स्थिताः ॥ १३ ॥
सर्वपरित्यागं फलासङ्गत्यागम् ॥ १३ ॥
स्वप्नेऽप्यदृष्टलोकासु मुग्धमुग्धमृगासु च ।
वनावनीषु शून्यासु केचिद्ध्यानपरायणाः ॥ १४ ॥
स्वप्नेऽपि न दृष्टा लोका जना यत्रेत्यतिशयोक्तिः ॥ १४ ॥
पुण्यवद्भिः सदा जुष्टे पुण्योपचयकारिणि ।
शमशालिसमाचारे केचिदायतने स्थिताः ॥ १५ ॥
आयतने पुण्यतीर्थमुन्याश्रमादौ ॥ १५ ॥
रागद्वेषप्रहाणार्थं त्यक्त्वा देशं समाशयाः ।
केचिदन्यत्र देशे च पदमालम्ब्य संस्थिताः ॥ १६ ॥
बन्धुजनसमागमे रागद्वेषादिविक्षेपसहस्रावर्जनात्तत्प्रहाणार्थम् । पदं
स्थानम् ॥ १६ ॥
वनाद्वनं पुराद्ग्रामं स्थानात्स्थानं गिरेर्गिरिम् ।
भ्रमन्तः संस्थिताः केचित्संसारोच्छित्तये बुधाः ॥ १७ ॥
संसारोच्छित्तये सङ्ग्रहदोषपरिहारार्थम् ॥ १७ ॥
वाराणस्यां महापुर्यां प्रयागे चैव पावने ।
श्रीपर्वते सिद्धपुरे बदर्याश्रमके तथा ॥ १८ ॥
पूर्वोक्तानि पुण्यायतनानि प्रपञ्चयति - वाराणस्यामित्यादिना ।
महापुर्यामित्यनेन तस्याः सर्वपुण्यायतनोत्कृष्टता सूचिता ॥ १८ ॥
शालग्रामे महापुण्ये कलापग्रामकोटरे ।
मथुरायां च पुण्यायां तथा कालञ्जरे गिरौ ॥ १९ ॥
महेन्द्रवनगुल्मेषु गन्धमादनसानुषु ।
दर्दुराचलवप्रेषु सह्यकाचलभूमिषु ॥ २० ॥
विन्ध्यशैलस्य कच्छेषु मलयस्योदरेषु च ।
कैलासवनजालेषु ऋक्षवत्कुहरेषु च ॥ २१ ॥
कच्छेषु जलप्रायदेशेषु । ऋक्षवतः कुहरेषु दरीषु ॥ २१ ॥
एतेष्वन्येषु चान्येषु वनेष्वायतनेषु च ।
तपस्विनस्तथा राम बहवो बहुदृष्टयः ॥ २२ ॥
बहुदृष्टयो बहुविधप्रारब्धभोगानुकूलदृष्टयः ॥ २२ ॥
केचित्त्यक्तनिजाचाराः केचिच्च क्रमसंस्थिताः ।
केचित्प्रबुद्धमतयो नित्यमुन्मत्तचेष्टिताः ॥ २३ ॥
सन्न्यासविधिना त्यक्तनिजाचाराः । क्रमा ब्रह्मचर्याद्याश्रमधर्मास्तत्संस्थिताः ॥
२३ ॥
केचित्स्वदेशरहिताः केचित्त्यक्तनिजास्पदाः ।
एकस्थानरताः केचिद्भ्रमन्तः केचिदास्थिताः ॥ २४ ॥
एकस्थाने स्वगृह एव रताः प्रीतिमन्तः सर्वजनानुकूल्येन विक्षेपशून्या इति यावत् ॥
२४ ॥
एतेषां महतां मध्ये नभस्तलनिवासिनाम् ।
पातालनिरतानां च दैत्यादीनां महामते ॥ २५ ॥
ऊर्ध्वाधोलोकेष्वपि देवदैत्यादयो जीवन्मुक्ता बहवः सन्तीत्याशयेनाह -
एतेषामिति । एतेषां मध्ये केचित्प्रबुद्धमतय इत्याद्युत्तरत्रान्वयः ॥ २५ ॥
विज्ञातलोकपर्यायाः सम्यग्दर्शननिर्मलाः ।
केचित्प्रबुद्धमतयो दृष्टदृश्यपरावराः ॥ २६ ॥
अप्रबुद्धधियः केचिद्दोलान्दोलितचेतसः ।
निवृत्ताः पापकाचारात्सुजनानुगताः स्थिताः ॥ २७ ॥
अप्रबुद्धधियोऽल्पप्रबुद्धधियः । अत एव दोलान्दोलितचेतसः ॥ २७ ॥
अर्धप्रबुद्धमतयः केचिज्ज्ञानावलेपतः ।
परित्यक्तक्रियाचारा उभयभ्रष्टता गताः ॥ २८ ॥
ज्ञानावलेपस्तत्त्वज्ञोऽहं मम किं निषिद्धाचरणं करिष्यतीति गर्वतः ॥ २८ ॥
इत्थमस्मिञ्जनानीके जन्मसन्तरणार्थिनः ।
बहवः संस्थिता राम बहुधा बहुदृष्टयः ॥ २९ ॥
जनानीके जनसमूहे ॥ २९ ॥
संसारोत्तरणे तत्र न हेतुर्वनवासिता ।
नापि स्वदेशवासित्वं न च कष्टतपःक्रियाः ॥ ३० ॥
तर्हि किं तत्कृता वनवासादयोपि संसारोत्तरणहेतवो नेत्याह - संसारेति ॥ ३० ॥
न क्रियायाः परित्यागो न क्रियायाः समाश्रयः ।
नाचारेषु समारम्भविचित्रफलपालयः ॥ ३१ ॥
आचारेषु सत्कर्माचरणेषु समारभ्यन्त इति समारम्भा अनुनिष्पादिनः
ख्यातिलाभैश्वर्यवरशापसामर्थ्यादिरूपा विचित्रफलसमूहाः ॥ ३१ ॥
स्वभावः कारणं नाम संसारोत्तरणं प्रति ।
असंसक्तं मनो यस्य स तीर्णो भवसागरात् ॥ ३२ ॥
स्वभावो यथार्थस्वरूपेणाभिनिष्पत्तिस्तत्त्वज्ञानरूपा कारणं स च मनसा
आत्यन्तिकसक्तिपरिहारलभ्य इत्याह - असंसक्तमिति ॥ ३२ ॥
शुभाशुभाः क्रिया नित्यं कुर्वन्परिहरन्नपि ।
पुनरेति न संसारमसंसक्तमना मुनिः ॥ ३३ ॥
अत एव जीवन्मुक्तानां शुभाशुभकर्माचरणेऽप्यसंसक्तिवशादेव तदलेप इत्याह
- शुभेति ॥ ३३ ॥
शुभाशुभाः क्रिया नित्यमकुर्वन्नपि दुर्मतिः ।
निमज्जत्येव संसारे परित्यक्तमनाः शठः ॥ ३४ ॥
परित्यक्तं विषयेषु विसृष्टं मनो येन । शठः स्वात्मवञ्चकः ॥ ३४ ॥
मक्षिकेवान्तःसारज्ञा दुःखादुःखप्रदायिनी ।
न निवारयितुं शक्या न च मारयितुं मतिः ॥ ३५ ॥
तर्हि मन एव विषयेभ्यो निवार्यतां मार्यतां च किं तत्त्वज्ञानेन तत्राह -
मक्षिकेवेति । अन्तःसारज्ञा आस्वादितविषयरसा मतिर्मधुकुम्भप्रसक्ता मक्षिकेव न
निवारयितुं मारयितुं वा शक्या ॥ ३५ ॥
काकतालीययोगेन कदाचित्स्वस्य चेतसः ।
प्रवृत्तिर्जायते सिद्ध्यै स्वयमात्मावलोकने ॥ ३६ ॥
कदाचिद्भाग्यवशात्साधनचतुष्टयप्राप्तौ श्रवणाद्युपायैरात्मावलोकने
स्वयमेव प्रवृत्तिर्जायते ॥ ३६ ॥
अवलोकनतो लब्ध्वा तत्त्वं नैर्मल्यमागतम् ।
चेतो भवति निर्द्वन्द्वमसंसक्तमनामयम् ॥ ३७ ॥
तत्र नैमल्यमागतः चित्तमवलोकनतस्तत्त्वं लब्ध्वा निर्द्वन्द्वमत
एवानासक्तमनामयं च ब्रह्मैव भवति ॥ ३७ ॥
अचित्तत्वं प्रयातेन सत्त्वरूपेण चेतसा ।
समो भूत्वा सुखं तिष्ठ पराकाशांशरूपभृत् ॥ ३८ ॥
पराकाशरूपो यश्चित्तादिसर्वप्रपञ्चाधिष्ठानांशस्तद्रूपभृत् सन् तिष्ठ ॥ ३८ ॥
अधिगतपरमार्थस्त्यक्तरागादिदोषः सममतिरुदितात्मा त्वं महात्मा
महात्मन् ।
रघुतनय विशोकस्तिष्ठ निःशङ्कमेको जननमरणमुक्तं पावनं
तत्पदं त्वम् ॥ ३९ ॥
हे महात्मन् रघुतनय त्वं अधिगतः परमार्थो येन तथाविधस्त्यक्ता रागादिदोषा
येन उदित आत्मा यस्य तथाविधः सममतिः सन्नेको विशोको महानात्मा भूत्वा
निःशङ्कं तिष्ठ । यतो जननमरणमुक्तं पावनं तद्ब्रह्मपदं
त्वमेवेत्यर्थः ॥ ३९ ॥
प्रकृतिमलविकारोपाधिबोधादिरूपं जगति विमलरूपे नास्ति किञ्चित्क्वचिच्च ।
स्फुटमकृतकमस्ति ब्रह्म चिद्धाम तच्च स्वयमहमिति मत्वा तिष्ठ
निःशङ्कमेकः ॥ ४० ॥
किं च विमलब्रह्मरूपे जगति प्रकृतिरूपं मलरूपं विकाररूपमुपाधिरूपं
तद्बोधरूपं तदिच्छाप्रयत्नहानोपादानभोगादिरूपं च किचिदपि क्वचिच्च नास्ति
किन्तु अकृतकं चिद्धाम ब्रह्मास्ति । तच्च स्वयं स्वानुभवेनैव अहमिति मत्वा एको
निःशङ्कस्तिष्ठेत्यर्थः ॥ ४० ॥
अधिकवच्नगम्यं नान्यदस्त्यङ्ग किञ्चित्तव शुभमुपदेश्यं
ज्ञानसम्बोधनाय ।
उदितमखिलमाद्यं ज्ञानसारं समग्रं विदितसकलवेद्यो राघव त्वं हि
जातः ॥ ४१ ॥
अङ्ग हे सुभग तव ज्ञानसम्बोधनाय अन्यदितो व्यतिरिक्तं अधिकवचनगम्यं
शुभमुपदेश्यं नास्ति । यतस्तव आद्यं ज्ञानसारमखिलमक्षतं समग्रमुदितम्
। हि यस्मात्त्वं साम्प्रतं विदितसकलवेद्यो जात इत्यर्थः ॥ ४१ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा मुनिनायको व्यपगताशेषैषणे राघवे सर्वस्मिंश्च सभाजने
स्थितवति ध्यानैकतानोपमे ।
प्राप्ते ब्रह्मपदं धिया धवलया तूष्णीमभूत्षट्पदः कृत्वेवारणितं
सरोजपटले पातुं प्रवृत्तो रसम् ॥ ४२ ॥
मुनिनायको वसिष्ठः इति एवमन्ते उक्त्वा राघवे धवलया धिया ब्रह्मपदं प्राप्ते
अत एव व्यपगताशेषैषणे जाते सति तथा सर्वस्मिन्सभाजने च ध्यानैकतानोपमे
स्थितवति सति तस्यां सभायां स्वयं ब्रह्मरसायनास्वादपरस्तूष्णीमभूत् । यथा
षट्पदः सरोजपटले आरणितं गुञ्जाध्वनिं कृत्वा रसं मकरन्दं पातुं
प्रवृत्तः संस्तूष्णीं भवति तद्वदित्यर्थः ॥ ४२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० मुक्तपुरुषस्थितिवर्णनं
नाम नवनवत्यधिकशततमः सर्गः ॥ १९९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मुक्तपुरुषस्थितिवर्णनं नाम नवनवत्यधिकशततमः सर्गः ॥ १९९ ॥