अष्टनवत्यधिकशततमः सर्गः १९८
श्रीवसिष्ठ उवाच ।
भूयो निपुणबोधाय शृणु किञ्चिद्रघूद्वह ।
पुनःपुनर्यत्कथितं तदज्ञेऽप्यवतिष्ठते ॥ १ ॥
वर्ण्यतेऽत्र प्रबुद्धानां निर्विक्षेपसुखस्थितौ ।
हेतुः सेतुरिवाम्बूनां सर्वत्र समदर्शनम् ॥
निपुणबोधाय बोधदार्ढ्यहेतुनिर्विक्षेपतासिद्धये किञ्चिद्वर्ण्यमानं
रहस्यमुपशमप्रकरणादौ कथितमेव पुनः किमर्थमुच्यते
इत्यनास्थावारणायाह - पुनःपुनरिति ॥ १ ॥
राघव प्रथमं प्रोक्तं स्थितिप्रकरणं मया ।
येनेदमित्थमुत्पन्नमिति विज्ञायते जगत् ॥ २ ॥
उत्पत्तिस्थितिप्रकरणाभ्यामुत्पन्नं जगदित्थं भ्रान्तिमात्रमिति विज्ञाते सति
समदर्शनप्रतिष्ठया उपशमप्रकरणे समदर्शनं वर्णितं तदेवात्र
जीवन्निर्वाणसुखप्रतिष्ठार्थं पुनर्वर्ण्यत इत्याह - राघवेत्यादिना ॥ २ ॥
ततो जगति जातेन परोपशमशालिना ।
भवितव्यमिति प्रोक्तं मयोपश्मयुक्तिभिः ॥ ३ ॥
उपशान्तिप्रकरणे प्रोक्तैरुपशमक्रमैः ।
परमोपशमं गत्वा वस्तव्यमिह विज्वरम् ॥ ४ ॥
इह एतत्प्रकरणप्रतिपाद्ये निर्वाणसुखे ॥ ४ ॥
प्राप्तप्राप्येन तज्ज्ञेन यथा संसारदृष्टिषु ।
विहर्तव्यं हि नः किञ्चित्स्वल्पं श्रोतव्यमस्ति ते ॥ ५ ॥
संसारदृष्टिषु व्यवहारेषु यथा येन प्रकारेण विहर्तव्यं तत्किञ्चिद्रहस्यं नः
अस्मन्मुखात्ते श्रोतव्यमस्ति तदुच्यत इत्यर्थः ॥ ५ ॥
जन्म सम्प्राप्य जगति बाल्य एव जगत्स्थितिम् ।
यथाभूतामिमां बुद्ध्वा वस्तव्यमिह विज्वरम् ॥ ६ ॥
बाल्ये त्वद्वयस्येव जगत्स्थितिं बुद्ध्वा वक्ष्यमाणरीत्या निर्विक्षेपं वस्तव्यम् ॥ ६ ॥
सर्वसौहार्दजननीं सर्वस्याश्वासकारिणीम् ।
समतामलमाश्रित्य विहर्तव्यमिहानघ ॥ ७ ॥
समतां वक्ष्यमाणां
सर्वभूतेष्वैकात्म्यदर्शनाद्गुणदोषदर्शनलक्षणवैषम्यशून्यतां
स्वदेहसमानसुखदुःखदृष्टितां सर्ववैषम्यरहितब्रह्मदृष्टिं च । अलं
दृढम् ॥ ७ ॥
सर्वसम्पत्तिसुभगं सर्वसौभाग्यवर्धनम् ।
समतासुलतायास्तु फलं भवति पावनम् ॥ ८ ॥
फलं सर्वभूतमैत्रीरूपम् । सम्पदो बाह्याः सौभाग्यानि सुभगभावाः
कल्याणगुणा इति भेदः ॥ ८ ॥
समतासुभगेहानां कुर्वतां प्रकृतं क्रमम् ।
सर्वैवेयं जगल्लक्ष्मीर्भृत्यतामेति राघव ॥ ९ ॥
तदेव द्विविधं फलं प्रकटयति - समतेति द्वाभ्याम् । समतया सुभगा
सर्वभूतहिता ईहा चेष्टा येषाम् ॥ ९ ॥
न तदासाद्यते राज्यान्न कान्ताजनसङ्गमात् ।
अनपायि सुखं सारं समत्वाद्यदवाप्यते ॥ १० ॥
द्वन्द्वोपशमसीमान्तं संरम्भज्वरनाशनम् ।
सर्वदुःखातपाम्भोदं समत्वं विद्धि राघव ॥ ११ ॥
सर्वदुःखतद्धेतुप्रशमोऽपि तया सिद्ध्यतीत्याह - द्वन्द्वेति ॥ ११ ॥
मित्रीभूताखिलरिपुर्यथाभूतार्थदर्शनः ।
दुर्लभो जगतां मध्ये साम्यामृतमयो जनः ॥ १२ ॥
प्रबुद्धस्य स्वचित्तेन्दोर्निष्यन्दममृताधिकम् ।
साम्यमास्वाद्य जीवन्ति सर्वे वै जनकादयः ॥ १३ ॥
साम्यामृतमयः इति पदतात्पर्यं वर्णयंस्तादृशजनानुदाहरति । प्रबुद्धस्येति
। आस्वाद्य जीवन्ति उपजीवन्ति ॥ १३ ॥
साम्यमभ्यस्यतो जन्तोः स्वदोषोऽपि गुणायते ।
दुःखं सुखायते नित्यं मरणं जीवितायते ॥ १४ ॥
स्वदोषः क्रोधलोभादिः क्रमेण शान्त्यौदार्यादिभावेन परिणम्य गुणवदाचरति
गुणायते ॥ १४ ॥
साम्यसौन्दर्यसुभगं वनिता मुदितादिकाः ।
आलिङ्गन्ति महात्मानं नित्यं व्यसनिता इव ॥ १५ ॥
मुदिताद्या मैत्रीकरुणोपेक्षादयो योगशास्त्रे प्रसिद्धाः । व्यसनिताः
कामुकीत्वाद्भर्तृसमागमव्यसनवत्य इव ॥ १५ ॥
समः समुदितो नित्यं समोऽनुदितधीः सदा ।
न काश्चिदिह ताः सन्ति याः समस्य हि नर्धयः ॥ १६ ॥
समुदितः कल्याणगुणैः सर्वसम्पद्भिश्च सम्यगभ्युदयं प्राप्तः समुदायतां
प्राप्तश्च । न उदिता धीश्चिन्ता यस्य । ऋद्धयः सम्पदः ॥ १६ ॥
सर्वकार्यसमं साधुं प्रकृतव्यवहारिणम् ।
चिन्तामणिमिवोदारं प्रवाञ्छन्ति नरामराः ॥ १७ ॥
सर्वकार्ये स्वकार्ये परकार्ये च समं पुरुषम् । साधुमपराधिषु क्षमावन्तम् ।
उदारं त्यागिनम् । नरा अमराश्च प्रवाञ्छन्ति ॥ १७ ॥
सम्यक्कारिणमुद्दाममुदितं समचेतसम् ।
न दहन्त्यग्नयो राम नापः सिञ्चन्ति मानवम् ॥ १८ ॥
सम्यक्कारिणं सदाचारसर्वजनहितकर्तारम् । सिञ्चन्ति क्लेददुःखं कुर्वन्ति ॥ १८ ॥
यद्यथा तत्तथा येन क्रियते दृश्यते तथा ।
आनन्दोद्वेगमुक्तेन कस्तं तोलयितुं क्षमः ॥ १९ ॥
यद्यथा कर्तुमुचितं तत्तथा येन क्रियते आनन्दोद्वेगौ हर्षामर्षौ तन्मुक्तेन सर्वं
कृतं समतया येन दृश्यते ॥ १९ ॥
मित्राणि बन्धुरिपवो राजानो व्यवहारिणः ।
सम्यक्कारिणि तत्त्वज्ञे विश्वसन्ति महाधियः ॥ २० ॥
नानिष्टात्प्रपलायन्ते नेष्टादायान्ति तुष्टताम् ।
प्रकृतक्रमसम्प्राप्तास्तत्त्वज्ञाः समदर्शिनः ॥ २१ ॥
त्यक्त्वा सर्वानुपादेयान्राम भावाननिन्दितान् ।
समतायामदुःखायां दधाना वृत्तिमुत्तमाम् ॥ २२ ॥
कीदृशास्तत्त्वज्ञाः । अनिन्दितानपि सर्वानुपादेयान् परैरुपादातुमिष्टान्
गृहक्षेत्रादिभावांस्त्यक्त्वा उत्तमां निर्लोभसन्तोषलक्षणां वृत्तिं दधानां
॥ २२ ॥
विहसन्ति जगज्जालं जीवयन्ति निरामयाः ।
पूज्यन्ते विबुधैः सर्वैः समतामुदिताशयाः ॥ २३ ॥
जीवयन्ति विवेकोपदेशादिना उज्जीवयन्ति ॥ २३ ॥
प्रकृतक्रमसम्प्राप्तं मुखेन्दौ कोपमेव यः ।
समाशयो धारयति स्यात्सौम्यामृतवज्जनः ॥ २४ ॥
समाशयो जनः परहितार्थं प्रकृतक्रमसम्प्राप्तं मुखेन्दौ कोपं धारयति
चेत्तदप्यमृतवदेव स्यान्नोद्वेगकरं कस्यचिदित्यर्थः ॥ २४ ॥
यत्करोति यदश्नाति यदाक्रामति निन्दति ।
समदृष्टिस्तदस्येयं स्तौति नित्यं जनावलिः ॥ २५ ॥
यत्कर्म अनुचितमिति निन्दति जनस्तत्परिहरंस्तदस्य सच्चरित्रं सर्वं स्तौति ॥ २५ ॥
यच्छुभं वाशुभं यच्च यच्चिरेण यदद्य वा ।
समदृष्टिकृतं सम्यगभिनन्दति तज्जनः ॥ २६ ॥
अशुभं प्रमादकृतमपराधमपि चिरेण कृतमद्य कृतं वा तदप्यभिनन्दति
॥ २६ ॥
सुखदुःखेषु भीमेषु सन्ततेषु महत्स्वपि ।
मनागपि न वैरस्यं प्रयान्ति समदृष्टयः ॥ २७ ॥
सुखदुःखेषु भीमेषु घोरेषु सन्ततेषु चिरानुवृत्तेषु वैरस्यं चित्तोद्वेगम् ॥ २७ ॥
शिभिर्भूपः कपोताय मांसमङ्गविकर्तनम् ।
ददौ मुदितया बुद्ध्या समदृष्टितयानया ॥ २८ ॥
इदानीं महत्स्वपि दुःखेषु समदृष्टिधीरानुदाहरति - शिबिरित्यादिना । कपोताय
शरणागतकपोतप्राणरक्षणाय तन्मांसप्रतिनिधितया अङ्गविकर्तनं स्वमांसं
ददौ । तच्च महाभारतादौ प्रसिद्धम् । एवमग्रेऽप्यूह्यम् ॥ २८ ॥
प्राणेभ्योऽपि प्रियतमां कान्तामग्रे विकालिताम् ।
दृष्ट्वाप्यङ्ग महीपालो न मुमोह समाशयः ॥ २९ ॥
अग्रे स्वपुरोभागे विकालितां शत्रुभिः क्लेशिताम् ॥ २९ ॥
मनोरथशतप्राप्तं तनयं समया धिया ।
राक्षसाय त्रिगर्तेशो ददौ स्वपणहारितम् ॥ ३० ॥
स्वस्य पणे वाग्द्यूते हारितं राक्षसेन जितम् ॥ ३० ॥
नगर्यां दह्यमानायां भूषितायां तथोत्सवे ।
सम एव महीपालो जनको भूभृतां वरः ॥ ३१ ॥
न्यायतः परिविक्रीतं साल्वराट् समदर्शनः ।
स्वमेव विचकर्ताशु शिरः पद्मदलं यथा ॥ ३२ ॥
परिविक्रीतं ऐच्छिकीं दक्षिणां ते दास्यामीति प्रतिज्ञया ब्राह्मणाय विक्रीतप्रायम् ।
विचकर्त छित्त्वा ददौ ॥ ३२ ॥
कुन्दप्रकरनिर्भासं यज्ञे पाण्डुमिवाचलम् ।
जहौ जरत्तृणमिव सौवीरः समया धिया ॥ ३३ ॥
पाण्डुमचलं कैलासमिव स्थितमैरावतमिन्द्रजयेन लब्धं पुनर्यज्ञे ऋत्विजां
वचनादिन्द्राय जहौ ददौ ॥ ३३ ॥
समयैव धिया नित्यं निजमभ्याहरन् क्रमम् ।
मातङ्गः कुण्डपो नाम प्राप वैमानिकस्थितिम् ॥ ३४ ॥
निजं देहयात्रानिमित्तं क्रमं व्यवहारं समयैव धिया आहरन् आचरन् कुण्डपो
नाम मातङ्ग एकां गां वेतनीकृत्य ब्राह्मणस्य पञ्च पङ्कमग्ना गाः
समुद्धृत्य स्ववेतनीकृतां गां पुष्करे समया धिया तस्मै ब्राह्मणाय दत्त्वा
सद्यः समागतं विमानमारुह्य वैमानिकस्थितिं देवत्वं प्राप ॥ ३४ ॥
सर्वभूतक्षयकरीं साम्याभ्यासेन भूरिणा ।
तत्याज राक्षसीं वृत्तिं कदम्बवनराक्षसः ॥ ३५ ॥
बालचन्द्राभिजातोऽपि समबुद्धितया जडः ।
गुडमोदकवन्न्यायप्राप्तमग्निमभक्षयत् ॥ ३६ ॥
जडो जडभरतः । न्यायप्राप्तं भिक्षापात्रे भैक्ष्यन्यायेन प्राप्तम् ॥ ३६ ॥
समबुद्दितया क्रूरव्यवहारपरोऽपि सन् ।
धर्मव्याधस्तनुं त्यक्त्वा जगाम परमं पदम् ॥ ३७ ॥
नन्दनोद्यानसंस्थोऽपि पुरुषोऽपि कपर्दनः ।
लुलुभे न सुरस्त्रीषु नूनं प्रणयिनीष्वपि ॥ ३८ ॥
कपर्दननामा राजर्षिः पुरुषः पुंस्त्वात्सुरस्त्रीभोगसमर्थोऽपि प्रणयिनीषु
स्वस्मिन्सानुरागास्वपि न लुलुभे । कामवशो नाभूदित्यर्थः ॥ ३८ ॥
समचित्ततयाऽस्पन्दः करञ्जगहनेष्वपि ।
विन्ध्यकान्तारकच्छेषु राज्यं त्यक्त्वावसच्चिरम् ॥ ३९ ॥
स एव राज्यं त्यक्त्वा विन्ध्यकान्तारकच्छेषु करञ्जगहनेष्वपि अस्पन्दः
संश्चिरमवसत् ॥ ३९ ॥
ऋषयो मुनयश्चैव ये सिद्धाः सुरपूजिताः ।
समदृष्टितयोद्विग्ना न ते तासु व्रतर्द्धिषु ॥ ४० ॥
व्रतेषु तपःक्लेशेषु ऋद्धिषु भोगेषु च समदृष्टितया नोद्विग्नाः ॥ ४० ॥
राजानः प्राकृताश्चैव धर्मव्याधादयोऽपरे ।
समदृष्टिपदाभ्यासान्महतां पूज्यतां गताः ॥ ४१ ॥
इहामुत्र च सिद्ध्यर्थं पुरुषार्थप्रवृत्तये ।
समदृष्टितया नित्यं विचरन्ति सुबुद्धयः ॥ ४२ ॥
अभिवाञ्छेन्न मरणमभिवाञ्छेन्न जीवितम् ।
यथाप्राप्तसमाचारो विचरेदविहिंसकः ॥ ४३ ॥
समकलितगुणागुणैकभावः समसुखदुःखपरावरो विलासी ।
प्रविचरति समावमानमानः प्रकृतवरव्यवहारपूतमूर्तिः ॥ ४४ ॥
समतया कलिता गुणा अगुणा दोषाश्च एकभावा एकीभूता इव यस्य । परोपतापचिन्तः इति
पाठे परैः कृता उपतापास्तत्प्रयुक्तचिन्ताश्च समतया कलिता येन । तथा समे
सुखदुःखे परा उत्कृष्टयोनयोऽवरा निकृष्टयोनयश्च यस्य । तथा समाः
अवमाना मानाश्च यस्य तथाविधो जीवन्मुक्तः
प्रकृतव्यवहारेष्वप्यासक्त्यभावात्पूतमूर्तिरत एव विलासी विलसनशीलः सन्
लोकानुग्रहाय देशाअन् प्रविचरति सञ्चरतीत्यर्थः ॥ ४४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० समदृष्टिप्रशंसा
नामाष्टनवत्यधिकशततमः सर्गः ॥ १९८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
समदृष्टिप्रशंसा नामाष्टनवत्युत्तरशततमः सर्गः ॥१९८ ॥