१९७

सप्तनवत्यधिकशततमः सर्गः १९७

श्रीराम उवाच ।

तथा कुरु मुनिश्रेष्ठ यथा वैवधिकक्रमम् ।
असन्देहमिमं सम्यगवगच्छामि मानद ॥ १ ॥

स्फुटं वैवधिकाख्याणतात्पर्यविवृतिक्रमात् ।
हेतुत्वं गुरुशास्त्रादेरात्मज्ञानेऽत्र वर्ण्यते ॥

यथा अहमवगच्छामि तात्पर्यतस्तथा कुरु विवरणनिति प्रोषः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

ये ते वैवधिका राम त एते मानवा भुवि ।
तेषां दारिद्र्यदुःखं यत्तदज्ञानं महातपः ॥ २ ॥

ये वैवधिका मयोक्तास्ते सादृश्यादेते मानवा बोध्याः । एवमग्रेऽपि सर्वत्र ।
यद्दारिद्र्यदुःखं मयोक्तं तत्तेषामज्ञानं तत्प्रयुक्तश्च महान्
आतपस्त्रिविधसन्तापः । तत्तु दानं महातपः इति पाठे दानतपःप्रयोजिका
ऐहिकामुष्मिकभोगाशा लक्षणयोच्यते । भोगार्थिनः सन्तस्तदुपायेषूद्यता इत्यत्र
तात्पर्यमित्यर्थः ॥ २ ॥

यत्तन्महावनं प्रोक्तं गुरुशास्त्रक्रमादि तत् ।
यदुद्यतास्ते ग्रासार्थं जना भोगार्थिनो हि ते ॥ ३ ॥

भोगौघाः सिद्धिमायान्तु मम निष्कृपणो जनः ।
अनपेक्षितकार्यार्थः शास्त्रादौ सम्प्रवर्तते ॥ ४ ॥

मम भोगौघाः सिद्धिमायान्त्विति नितरां कृपणः कार्पण्यवान् जनो मानवः
अनपेक्षिता इतरकार्यार्था येन तथाविधः सन् । शास्त्रादौ शास्त्रमूलके तदुपाये ॥ ४ ॥

भोगार्थं सम्प्रवृत्तोऽपि प्राप्नोत्यभ्यासतः क्रमात् ।
जन्तुश्चिन्तितमेवाद्यपदं परवशोऽपि सन् ॥ ५ ॥

यद्यप्ययं भोगेच्छयैव शास्त्रे प्रवृत्तस्तथापि तच्छास्त्रं
गुडजिह्विकान्यायेनैनं प्रथमं फलास्वादनैः प्रलोभ्यान्ते स्वतात्पर्यविषये
परमे पदे नयत्येवेत्याह - भोगार्थमिति । शास्त्रतः प्रथमं भोगफललाभेन
तद्विश्वासदार्ढ्यक्रमात्तदुक्तसाधनाभ्यासतो भूमिकाभेदारोहणक्रमाच्चिन्तितं
शास्त्रपरमं तात्पर्यविषयमाद्यपदं मोक्षाख्यं ब्रह्म ॥ ५ ॥

दार्वर्थमुद्यतो भावी यथा सम्प्राप्तवान्मणिम् ।
भोगार्थमात्तशास्त्रोऽयं तथाप्नोति जनः पदम् ॥ ६ ॥

भावः सारासारविचारान्वेषणादिः सोऽस्यास्तीति भावी वैवधिकः ॥ ६ ॥

किं स्याच्छास्त्रविचाराभ्यामिति सन्देहलीलया ।
कश्चित्प्रवर्तते पश्चादाप्नोति पदमुत्तमम् ॥ ७ ॥

सन्देहप्रयुक्तया लीलया कौतूहलेन ॥ ७ ॥

अदृष्टोत्तमतत्त्वार्थः शास्त्रादौ सम्प्रवर्तते ।
सन्देहेनार्थभोगार्थं जनः प्राप्नोति तत्पदम् ॥ ८ ॥

अर्थ्यत इत्यर्थो विषयस्तद्भोगार्थम् ॥ ८ ॥

अन्यथा सम्प्रवर्तन्ते शास्त्रैर्वासनया जनाः ।
अन्यदासादयन्त्याद्यं मणिं वैवधिका इव ॥ ९ ॥

स्वस्ववासनानुसारेणान्यादृशं शास्त्रफलं सम्भावयन्तो जनास्तत्र प्रवर्तन्ते ।
अन्यद्वाङ्मनसागोचरं निर्विषयनिरतिशयसुखमासादयन्तीत्यंशे
वैवधिकाख्यानदृष्टान्तोपन्यास इत्यर्थः ॥ ९ ॥

परोपकारेऽविरतं स्वभावेन प्रवर्तते ।
यः स साधुरिति प्रोक्तः प्रमाणं त्वस्य चेष्टितम् ॥ १० ॥

सर्वजनानामुत्सर्गतः सन्मार्गप्रवृत्तौ साध्वाचारदर्शनमेव मूलमिति
साधुलक्षणप्रदर्शनपूर्वकमाह - परोपकारे इति । प्रमाणं सर्वलोकस्येति
शेषः ॥ १० ॥

साध्वाचारवशाल्लोको भोगसम्प्राप्तिशङ्कया ।
सन्देहश्चाप्यतत्त्वज्ञः शास्त्रादौ सम्प्रवर्तते ॥ ११ ॥

अस्तु प्रमाणं किं ततस्तत्राह - साध्विति । अतत्त्वज्ञो लोकः शास्त्रफले सन्दिग्धे
इति सन्देहः सन्दिहानोऽपि भोगसम्प्राप्तिसम्भावनया सम्प्रवर्तते ॥ ११ ॥

भोगार्थं सम्प्रवृत्तोऽसौ भोगमोक्षावुभावपि ।
तस्मात्प्राप्नोति दार्वर्थी वनाच्चिन्तामणिं यथा ॥ १२ ॥

केचिच्चन्दनदारूणि केचिच्चिन्तामणिं मणिम् ।
केचित्सामान्यरत्नानि प्राप्नुवन्ति यथा वनात् ॥ १३ ॥

गुप्तागुप्तानि इत्याद्युक्तेस्तात्पर्यमाह - केचिदित्यादिना ॥ १३ ॥

केचित्कामं केचिदर्थं केचिद्धर्मत्रयं तु वा ।
केचिन्मोक्षमशेषं च लभन्ते शास्त्रतस्तथा ॥ १४ ॥

वर्गत्रयोपदेशो हि शास्त्रादिष्वस्ति राघव ।
ब्रह्मप्राप्तिस्त्ववाच्यत्वान्नास्ति तच्छासनेष्वपि ॥ १५ ॥

वर्गत्रयं धर्मकामार्थास्तस्योपदेशो मुख्यवृत्त्यैवास्ति । तच्छासनेषु
ब्रह्मतत्परेषु शास्त्रेष्वपि पदवाक्यमुख्यवृत्त्या ब्रह्मप्राप्तिर्ब्रह्मबोधः ॥ १५ ॥

केवलं सर्ववाक्यार्थैर्ध्वन्यमानावगम्यते ।
कालश्रीः प्रसवेनेव स्वयं स्वानुभवेन सा ॥ १६ ॥

वसन्तादिकालश्रीः प्रसवेन तत्तदार्तवफलपुष्पादिजन्मनेव ध्वन्यमाना
सूच्यमाना । आलङ्कारिकसमये व्यञ्जनाख्यवृत्त्यन्तरेण इतरसमये लक्षणयेति
यावत् ॥ १६ ॥

सर्वार्थातिगतं शास्त्रे विद्यते ब्रह्मवेदनम् ।
सर्वगातिगतं स्वच्छं लावण्यमिव योषिति ॥ १७ ॥

मुख्यवृत्त्या बोधने असामर्थ्येऽपि शास्त्रस्य लक्षणाद्युपायैर्बोधने
सामर्थ्यमस्त्येवेति तेन अधिकारिणां ब्रह्मवेदनमस्त्येवेति न वैयर्थ्यमित्याह -
सर्वार्थेति । सर्वान् अर्थान् दृश्यवर्गास्त्रिवर्गान्वा अतिक्रम्य उत्कर्षकाष्ठां गतम् ।
मणिदर्पणचन्द्रादिसर्वगतसौन्दर्याण्यतिगतं लावण्यं योषिति स्त्रीरत्नेऽस्ति
तद्वदित्यर्थः ॥ १७ ॥

न शास्त्रान्न गुरोर्वाक्यान्न दानान्नेश्वरार्चनात् ।
एष सर्वपदातीतो बोधः सम्प्राप्यते परः ॥ १८ ॥

साक्षान्न सम्प्राप्यत इत्यर्थः ॥ १८ ॥

एतान्यकरणान्येव कारणत्वं गतान्यलम् ।
परमात्मैकविश्रान्तौ यथा राघव तच्छृणु ॥ १९ ॥

चित्तशुद्ध्यादिसाधनपरम्परोपचयद्वारा कारणत्वं गतानि ॥ १९ ॥

शास्त्रादभ्यासयोगेन चित्तं यातं विशुद्धताम् ।
अनिच्छदेवमेवाशु पदं पश्यति पावनम् ॥ २० ॥

अनिच्छत् सर्वभोगेच्छानिर्मुक्तं एवमेव प्रतिदिनमन्तर्मुखतया प्रत्यक्प्रवणं
चित्तं तत्पदं ब्रह्म पश्यति ॥ २० ॥

एतच्छास्त्रादविद्यायाः सात्त्विको भाग उच्यते ।
तामसः सात्त्विकेनास्याभागेनायाति सङ्क्षयम् ॥ २१ ॥

उच्यते उत्कर्षं नीयते । उच्चशब्दात्तत्करोतीति णिचि कर्मणि लटि यकि णिलोपः ॥ २१ ॥

नूनं मलं प्रधानेन क्षालयच्छास्त्ररूपिणा ।
पुरुषः शुद्धतामेति परमां वस्तुशक्तितः ॥ २२ ॥

शास्त्ररूपिणा प्रधानेन जलेन क्षालयन् सन् । वस्तुशक्तितः
अचिन्त्याच्छास्त्रादिप्रभावात्तद्बोध्यनित्यशुद्धात्मवस्तुसामर्थ्याच्च ॥ २२ ॥

अनिच्छयोरेव यथा सप्तसप्तिसमुद्रयोः ।
प्रागदृश्यं तृतीयत्वं [तृतीयं तु स्वभाववशत इति
पाठष्टीकानुगुणः ।] स्वभाववशतः स्वतः ॥ २३ ॥

यथा सप्तसप्तेः सूर्यस्य समुद्रस्य च सन्निधाने प्रागदृश्यमपि प्रतिबिम्बं
स्वच्छप्रकाशस्वभाववशतस्तृतीयं सम्प्रवर्तते । एवं मुमुक्षुशास्त्रयोरपि
मिथः सम्बन्धमात्रत आत्मज्ञानं प्रवर्तत इति त्रयाणामन्वयः ॥ २३ ॥

स्वसन्निधानमात्रेण विदितप्रतिभासनम् ।
सदसन्मयमाभोगि प्रतिबिम्बं प्रवर्तते ॥ २४ ॥

विदितमनुभवसिद्धं प्रतिभासनं सम्यक्स्फुरणं यस्य तथाविधम् ॥ २४ ॥

मुमुक्षुशास्त्रयोरेवं मिथः सम्बन्धमात्रतः ।
सर्वसंवित्पदातीतमात्मज्ञानं प्रवर्तते ॥ २५ ॥

अनयोः प्रेक्षणद्देहे विवेको जायते यथा ।
तथा स्वभावतः शास्त्रविवेकाज्ज्ञेयवेदनम् ॥ २६ ॥

अनयोः सवितृसमुद्रयोः प्रेक्षणाद्यथा अत्यन्तवैधर्म्यादिबोधलक्षणो विवेको
जायते तथा शास्त्रकृताद्विवेकादपि देहे
सर्वोपाध्यसंसृष्टाद्द्वितीयज्ञेयवेदनं जायते ॥ २६ ॥

लोष्टेन लोष्टं सलिले क्षालयन्बालको यथा ।
क्षयेण लोष्टयोर्हस्तनैर्मल्यं लभते परम् ॥ २७ ॥

शास्त्रकृतैर्विचारविकत्यैर्भ्रान्तिकृतविकल्पानां क्षालनेनात्मनैर्मल्यप्राप्तावपि
दृष्टान्तमाह - लोष्टेनेति ॥ २७ ॥

तथा शास्त्रविकल्पौघैर्विकल्पांश्चेतनाद्बुधः ।
क्षालयन्स्वविचारेण परमां याति शुद्धताम् ॥ २८ ॥

चेतनात् पुनःपुनरात्मतत्त्वपरीक्षणात्क्षालयन्सन् ॥ २८ ॥

महावाक्यार्थनिष्यन्दं स्वात्मज्ञानमवाप्यते ।
शास्त्रादेरिक्षुरसतः स्वाद्विव स्वानुभूतितः ॥ २९ ॥

केन प्रमाणेन कथं परीक्षणात्तत्राह - महावाक्येति । शास्त्रादेः
सूत्रभाष्यतद्व्याख्यामहारामायणादिशास्त्राद्##-
तत्त्वम्पदवाच्यार्थद्वयपरिशोधनलब्धरसभूतमखण्डवाक्यार्था##-
यन्त्रादिनिपीडनोपायान्निःसारितेक्षुरसतः स्वादु माधुर्यास्वादनं स्वानुभूतितः
अवाप्यते तद्वदित्यर्थः ॥ २९ ॥

प्रभाभित्त्योः समासङ्गाद्यथाऽऽलोकोऽनुभूयते ।
श्रुतश्रुतवतोः सङ्गादात्मज्ञानं तथा भवेत् ॥ ३० ॥

यथा नभसि प्रसृतोऽप्यालोकः प्रभाभित्त्योः समासङ्गादभिव्यक्तः
स्फुटमनुभूयते तथा नित्यस्वप्रकाशरूपमप्यात्मज्ञानं
श्रवणतदधिकारिणोर्मेलनात्स्फुटमनुभूयत इत्यर्थः ॥ ३० ॥

त्रिवर्गमात्रसिद्ध्यै यन्न मोक्षाय च तच्छ्रुतम् ।
विपुलश्रुतचर्चासु तुच्छमश्रुतमेव तत् ॥ ३१ ॥

तत्र शास्त्रान्तरश्रवणं तत्पाण्डित्यं वा नोपयुज्यत एवेत्याह - त्रिवर्गेति ।
विपुलश्रुता बहुश्रुतास्तत्त्वविदस्तेषां तत्त्वबोधोपायचर्चासु तच्छ्रुतमश्रुतं
मौर्ख्यमेव यतो मिथ्याविषयफलत्वात्तुच्छं तदित्यर्थः ॥ ३१ ॥

तच्छ्रुतं यत्किल ज्ञप्त्यै सा ज्ञप्तिः समता यया ।
तत्साम्यं यत्र सौषुप्ती स्थितिर्जाग्रति जायते ॥ ३२ ॥

अतो निर्विकल्पस्वरूपस्थितिपर्यवसितमेव श्रुतमुपादेयमित्याशयेन प्रशंसति -
तदिति । यत्र जाग्रत्यपि सौषुप्ती निर्विकल्पा स्वरूपस्थितिर्जायते ॥ ३२ ॥

एवं हि सर्वमेतत्तच्छास्त्रादेः समवाप्यते ।
तस्मात्सर्वप्रयत्नेन शास्त्राद्यभ्यासमाहरेत् ॥ ३३ ॥

इदं सर्व शास्त्राधीनमिति तदावश्यकमित्याह - एवमिति ॥ ३३ ॥

शास्त्रार्थभावनवशेन गिरा गुरूणां सत्सङ्गमेन नियमेन शमेन राम ।
तत्प्राप्यते सकलविश्वपदादतीतं सर्वेश्वरं परममाद्यमनादिशर्म ॥ ३४

हे राम तत्सकलविश्वपदाद्ब्रह्मलोकान्तैश्वर्यसुखादप्यतीतमतिशयितं पावनं
सर्वेश्वरं मोक्षाख्यमनादिसुखं गुरूणां गिरा शास्त्रार्थबोधनवशेनैव
प्राप्यते तच्च सत्सङ्गमादिनेत्यर्थः ॥ ३४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० शास्त्रमाहात्म्यं नाम
सप्तनवत्यधिकशततमः सर्गः ॥ १९७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शास्त्रमाहात्म्यं नाम सप्तनवत्यधिकशततमः सर्गः ॥ १९७ ॥