षण्णव्त्यधिकशततमः सर्गः १९६
श्रीवाल्मीकिरुवाच ।
एवमुक्त्वा महाबुद्धे रामो राजीवलोचनः ।
मुहूर्तमात्रं विश्रम्य तूष्णीं स्थित्वा परे पदे ॥ १ ॥
गुरुशास्त्राद्युपायेन यथा ब्रह्मेह लभ्यते ।
दारुवैवधिकाख्यानं तथा सङ्क्षिप्य वर्ण्यते ॥
हे महाबुद्धे इति भरद्वाजस्यारिष्टनेमेर्वा सम्बोधनम् ॥ १ ॥
परमां तृप्तिमापन्नो विश्रान्तः परमात्मनि ।
मुनिं पुनरपृच्छत्तं जानन्नपि हि लीलया ॥ २ ॥
लीलया गुरुमुखेन श्रवणकौतूहलेन ॥ २ ॥
श्रीराम उवाच ।
भगवन्संशयाम्भोदशरत्काल मुनीश्वर ।
इदानीं संशयोऽयं मे जातो मनसि पेलवः ॥ ३ ॥
एवमेतन्महाज्ञानं संसारार्णवतारणम् ।
समस्तमेव वाग्जालं समतीत्यावतिष्ठते ॥ ४ ॥
करिष्यमाणं प्रश्नं पूर्वेण सङ्गमयितुं पूर्वोक्तमनुवदति - एवमिति ॥ ४ ॥
यदिदं किल सद्ब्रह्म स्वसंविन्मात्रनिश्चयम् ।
तदवाच्यं किल गिरां महतामपि मानद ॥ ५ ॥
अवाच्यम् यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति श्रुतेः
शब्दप्रवृत्तिन्निमित्तधर्मशून्यत्वाच्चेत्यर्थः ॥ ५ ॥
एवं स्थिते परं ज्ञेयं सर्वसङ्कल्पनोज्झितम् ।
स्वसंवित्तुर्यतन्मात्रलभ्यं दुर्गमतां गतम् ॥ ६ ॥
स्वसंविद्रूपं यत्तुर्यमवस्थात्रयातीतं स्वप्रकाशवस्तु तन्मात्रलभ्यमत एव
जाग्रदवस्थान्तर्गतगुरुशास्त्राद्यगम्यत्वाद्दुर्गमतां गतम् ॥ ६ ॥
प्रतियोगिव्यवच्छेदसङ्ख्याभेदैषिणां किल ।
कथं शास्त्रपदैस्तुच्छैः सविकल्पैरवाप्यते ॥ ७ ॥
तुच्छैः क्षुद्रतरप्रतियोगिव्यवच्छेदादिसापेक्षत्वात्तद्बोधनासमर्थैः ॥ ७ ॥
विकल्पसारशब्दाद्यैर्ज्ञानं शास्त्रैर्न लभ्यते ।
तत्किमर्थमनर्थाय गुरुशास्त्रादि कल्पितम् ॥ ८ ॥
विकल्पसहस्रानुसन्धानभ्रान्तिपरम्परानर्थाय ॥ ८ ॥
गुरुशास्त्रादिविज्ञाने कारणं वास्त्यकारणम् ।
तदत्र निश्चयं ब्रह्मन्ब्रूहि मे वदतां वर ॥ ९ ॥
तत्तस्मात्तत्त्वविज्ञाने गुरुशास्त्रादिकं कारणमस्ति भवति अकारणं वा । अत्रास्मिन्
संशये निश्चयं ब्रूहीत्यर्थः ॥ ९ ॥
श्रीवसिष्ठ उवाच ।
एवमेतन्महाबाहो न शास्त्रं ज्ञानकारणम् ।
नानाशब्दमयं शास्त्रमनाम च परं पदम् ॥ १० ॥
रामशङ्कामनुमोदमानो वसिष्ठः समाधत्ते - एवमेतदित्यादिना । अनामेति ।
शब्दप्रवृत्तिनिमित्तधर्मशून्यत्वादसंसृष्टत्वाच्च परं पदं न पदार्थो न
वाक्यार्थश्चेत्यर्थः ॥ १० ॥
तथापि राघवश्रेष्ठ यथैतद्धेतुतां गतम् ।
शास्त्राद्युत्तमबोधस्य तत्समासेन मे शृणु ॥ ११ ॥
यद्यप्येवं तथाप्येतच्छास्त्रादि उत्तमबोधस्य तत्फलस्य मोक्षस्य च यथा येन
प्रकारेण हेतुतां गतं तच्छृणु
वक्ष्यमाणकाष्ठवैवधिकाख्यानदृष्टान्तेनेत्यर्थः ॥ ११ ॥
सन्ति क्वचिद्वैवधिकाः कीरकाश्चिरदुर्भगाः ।
दुःखेनाभ्यागताः शोषं ग्रीष्मेणेव जरद्द्रुमाः ॥ १२ ॥
तदेवाह-सन्तीत्यादिना । विवधवीवधशब्दावुभयतो बद्धशिक्ये स्कन्धवाह्ये
काष्ठविशेषे वर्तेते तद्वहन्तीति वैवधिकाः कीरकाः शूद्रजातिभेदा देशविशेषजा
वा । शोषं कार्श्यम् ॥ १२ ॥
दारिद्र्येण दुरन्तेन कन्थासंस्थानकारिणा ।
दीनाननाशयाः पद्मा निर्गतेनेव वारिणा ॥ १३ ॥
कन्था पटच्चरग्रथिता तयैव प्रावरणसंस्थानकारिणा । कथासंस्थान इति पाठे
पूर्वानुभूतान्नवस्त्रादिकथामात्रावस्थानकारिणेत्यर्थः । तटाकभङ्गान्निर्गतेन
वारिणा पद्मा इव दीनाननाशयाः ॥ १३ ॥
दौर्गत्यपरितप्तास्ते जीवितार्थमचिन्तयन् ।
जठरस्य कया युक्त्या वयं कुर्मः प्रपूरणम् ॥ १४ ॥
दौर्गत्येन दारिद्र्येणाभितप्ताः ॥ १४ ॥
इति सञ्चिन्त्य विधिना दिनान्तेन दिनं प्रति ।
दारुभारेण जीवामो विक्रीतेनेति संस्थिताः ॥ १५ ॥
दिनं प्रति प्रतिदिनम् । दिनान्तेन दिनावसानान्तश्रमसाध्येनेति यावत् । इति संस्थिता
निश्चिताः ॥ १५ ॥
इति सञ्चिन्त्य ते जग्मुर्दार्वर्थं विपिनान्तरम् ।
ययैवाजीव्यते युक्त्या सैवापदि विराजते ॥ १६ ॥
इति ते प्रत्यहं गत्वा काननं भवचारिणः ।
दारूण्यानीय विक्रीय चक्रुर्देहस्य धारणम् ॥ १७ ॥
भवचारिणः तत्तद्दिनप्राप्ताजभक्षणशीलाः ॥ १७ ॥
यत्प्रयान्ति वनान्तं ते तस्मिन्सन्त्यखिलानि हि ।
गुप्तागुप्तानि रत्नानि दारूणि कनकानि च ॥ १८ ॥
गुप्ताम्यगुप्तानि प्रकटानि च रत्नादीनि ॥ १८ ॥
तेषां भारभृतां मध्यात्केचित्कतिपयैर्वनात् ।
जातरूपाणि रत्नानि तानि सम्प्राप्नुवन्ति हि ॥ १९ ॥
केचित् भाग्यवन्तः ॥ १९ ॥
केचिच्चन्दनदारूणि केचित्पुष्पाणि मानद ।
केचित्फलानि विक्रीय जीवन्ति चिरकीरकाः ॥ २० ॥
पुष्पाणि केतकीचम्पकादीनि । चिर्कीरकाः चिराभ्यासदृढीभूतकीरकवृत्तयः ॥ २० ॥
केचित्सर्वमनासाद्य दुर्दारुण्येव दुर्धियः ।
नीत्वा विक्रीय जीवन्ति वनवीथ्युपजीविनः ॥ २१ ॥
केचिद्भाग्यहीना दुर्धियः सारान्वेषणाकुशलबुद्धयो दुर्दारूण्येव नीत्वा ॥ २१ ॥
दार्वर्थमुद्यताः सर्वे ते सम्प्राप्य महावनम् ।
केचित्प्राप्य स्थिताः सर्वे झटित्येवं गतज्वरम् ॥ २२ ॥
केचिद्रत्नादीनि प्राप्य गतदारिद्र्यज्वरं यथा स्यात्तथा स्थिताः ॥ २२ ॥
इति यावदजस्रं ते सेवन्ते तन्महावनम् ।
प्रदेशात्तावदेकस्मात्प्राप्तश्चिन्तामणिर्मणिः ॥ २३ ॥
चिन्तामण्याख्यो मणिर्दैवात्प्राप्तः ॥ २३ ॥
तस्माच्चिन्तामणेः प्राप्ताः समग्रा विभवश्रियाः ।
परमं सुखमायातास्तत्र ते संस्थिताः सुखम् ॥ २४ ॥
दार्वर्थमुद्यताः सन्तः प्राप्य सर्वार्थदं मणिम् ।
सुखं तिष्ठन्ति निर्द्वन्द्वा दिवि देववरा इव ॥ २५ ॥
निर्द्वन्द्वा निरस्तशीतोष्णक्षुत्तृषादिदुःखाः ॥ २५ ॥
सर्वार्थसारपरिपूर्णतया तया ते काष्ठोद्यमाधिगतसन्मणयो महान्तः ।
तिष्ठन्ति शान्तभयमोहविषाददुःखमानन्दमन्थरधियः समतामुपेताः
॥ २६ ॥
आख्यानमुपसंहरति - सर्वार्थेति । ते कीरकाः काष्ठोद्यमेनैव अधिगतः
प्राप्तः सन्मणिश्चिन्तामणिर्यैस्तहाविधाः सन्तस्तया उक्तया
सर्वैरर्थसारैरुत्तमधनैः परिपूर्णतया शान्तभयमोहविषाददुःखं यथा
स्यात्तथा आनन्दमन्थरधियो भूत्वा इतरलाभालाभादिषु समतामुपेताः
सन्तस्तिष्ठन्ति ॥ २६ ॥
इत्यार्षे श्रीवासि० वा० दे० मो० नि० उ० काष्ठवैवधिकोपाख्याने चिन्तामणिलाभो नाम
षण्णवत्यधिकशततमः सर्गः ॥ १९६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
चिन्तामणिलाभो नाम षण्णवत्यधिकशततमः सर्गः ॥ १९६ ॥