पञ्चनवत्यधिकशततमः सर्गः १९५
श्रीवसिष्ठ उवाच ।
अहो नु सम्प्रबुद्धोऽसि राघवाघविघातिनी ।
वागियं तव सम्पन्ना प्रबुद्धेष्ववहासिनी ॥ १ ॥
शुभाः प्रबुद्धरामोक्तीः प्रशस्य गुरुणा स्वयम् ।
परीक्षार्थ कृताः प्रश्ना रामेणात्र समाहिताः ॥
तत्रादौ यथोपवर्णिताः प्रबुद्धरामोक्तीरनुमोदमानो वसिष्ठः प्रशंसति -
अहो इत्यादिना । हे राम इयं तव वाक् अप्रबुद्धानामघविघातिनी । प्रबुद्धेषु
त्वनुभवसिद्धार्थानुवादत्वाद्युक्तियुक्तत्वाच्च अवहासिनी प्रहर्षस्मेरवदनताकारिणी
सम्पन्ना ॥ १ ॥
विभातीवासदेवेदमसङ्कल्पेन शाम्यति ।
एतच्छान्तिस्ति निर्वाणमित्येव परमार्थता ॥ २ ॥
असदेवेदं जगत् बोधप्रयुक्तसङ्कल्पे विभातीवेति बन्धनिष्कर्षः ।
असङ्कल्पदार्ढ्यपर्यवसितेन तत्त्वज्ञानेन शाम्यतीति मुतिसाधननिष्कर्षः ।
एतच्छान्तिरेव निर्वाणमिति मोक्षनिष्कर्षः । सैव परमार्थतेत्यर्थः ॥ २ ॥
कल्पनाकल्पने रूपं परस्यैवेतरस्य नो ।
स्पन्दनास्पन्दनं वायोर्यथा नात्रैकताद्विते ॥ ३ ॥
तथा च कल्पनाकल्पनरूपबन्धमोक्षौ अप्रबुद्धस्य प्रबुद्धस्य च ब्रह्मण एव्
रूपमिति निष्कर्षोपि फलित इत्याह - कल्पनाकल्पने इति ॥ ३ ॥
प्रबुद्धस्यैव या पुंसः शिलाजठरवत्स्थितिः ।
शान्तौ व्यवहृतौ वापि सामला मुक्ततोच्यते ॥ ४ ॥
शान्तौ समाधौ ॥ ४ ॥
वयमस्मिन्पदे स्थित्वा राघवाघविघातिनि ।
शान्तत्वे व्यवहारे च सममित्थमवस्थिताः ॥ ५ ॥
एतत्पदस्थितिरेवास्मदादिजीवन्मुक्तानां समाधिव्युत्थानयोस्तुल्यरूपस्थितिरित्याह -
वयमिति ॥ ५ ॥
अस्मिन्नेव पदे नित्यं ब्रह्मविष्णुहरादयः ।
तिष्ठन्ति व्यवहारस्था अपि शान्ता ज्ञरूपिणः ॥ ६ ॥
ज्ञरूपिणः प्रबुद्धाः ॥ ६ ॥
शैलोदरस्थितिमतां प्रबुद्धानामनामयम् ।
अस्माकं पदमेवं तदालभ्यैतदिहोष्यताम् ॥ ७ ॥
शैलोदरमिव निर्विक्षेपस्थितिमतामस्माकमेत्पदं त्वयाप्येवमस्मदादिवदेव
तदालभ्य इह जीवन्मुक्तौ उष्यताम् । अद्यप्रभृतीत्यर्थः ॥ ७ ॥
श्रीराम उवाच ।
ब्रह्मण्येवमसद्रूपमनुत्पन्नमभासुरम् ।
अनारम्भमनाकारमेवेदं भासते जगत् ॥ ८ ॥
एवं वसिष्ठोक्त्या जीवन्मुक्तिपदे प्रतिष्ठितो रामो जीवन्मुक्तानां यादृशं
जगद्भासते तदभिलपति - व्रत्प्रणीति द्वाभ्याम् । अनुत्पन्नत्वादेवाभासुरं
पृथगप्रथमानम् ॥ ८ ॥
मृगतृष्णाम्बुसदृशं तरङ्गावर्तिवारिवत् ।
रुचकादीव कनके स्वप्नसङ्कल्पशैलवत् ॥ ९ ॥
श्रीवसिष्ठ उवाच ।
बुद्धवानसि चेद्राम तत्स्वबोधविवृद्धये ।
कुरु संशयविच्छेदं पृच्छतः प्रच्छकस्य मे ॥ १० ॥
इदानीं वसिष्ठो रामं जीवन्मुक्तिप्रतिष्ठाख्यापनाय योगपट्टन्यायेन वक्तृपदे
स्थापयित्वा स्वयं शिष्यवत्पृच्छामि स्वसंशयविच्छेदं कुर्वित्याह -
बुद्धवानसीति ॥ १० ॥
इत्थं नित्यानुभूतोऽपि शिरस्थोऽप्यतिभासुरः ।
जगदाख्योऽयमाभासः कथं नाम न विद्यते ॥ ११ ॥
प्रत्यक्षादिप्रमाणदृढीकृतत्वादर्थक्रियाऽविसंवादाच्च सत्यतया
शिरःस्थितप्रायोऽपि ॥ ११ ॥
श्रीराम उवाच ।
पूर्वमेवेदमुत्पन्नं न किञ्चन कदाचन ।
तेन वन्ध्यासुतस्यास्य न सत्ता कल्पनादृते ॥ १२ ॥
तत्र प्राग्गुरुणोक्ताभिरेव युक्तिभिः श्रीरामः समाधत्ते - पूर्वमेवेत्यादिना ।
नोत्पन्नं कारणाभावादित्यर्थः । कल्पनात् भ्रमादृते विना ॥ १२ ॥
किमिवास्या जगद्भ्रान्तेः कारणं प्रोत्थिता यतः ।
न कारणं विना कार्यं किञ्चित्सम्भवति क्वचित् ॥ १३ ॥
कारणाभावमेव दर्शयति - किमिवेत्यादिना । यतः प्रोत्थिता स्यात् ॥ १३ ॥
न चाविकारमजरं सविकारं क्षयादृते ।
कारणं क्वचिदेवेह किञ्चिद्भवितुमर्हति ॥ १४ ॥
ब्रह्मणः कारणताप्रसक्तिरेव नास्तीत्याह - न चेति । पूर्वावस्थाक्षयादृते
सविकारं न च किञ्चित्प्रसिद्धमित्यर्थः ॥ १४ ॥
ब्रह्मैवेदमनाख्यात्म कारणं प्रविजृम्भते ।
तत्क्व कस्य कथं नाम जगच्छब्दार्थसंविदः ॥ १५ ॥
यदि निर्विकारमेव विवर्तोपादानकारणं सन्मायया जगदाकारेण विजृम्भत
इत्युच्येत तर्हि जगच्छब्दार्थः सत्यो न लभ्यत इत्याह - कारणमिति । संविदो
यथार्थप्रत्ययाः ॥ १५ ॥
तदनाख्ये पदे शान्ते चिरात्प्रथमचेतनम् ।
कञ्चित्काललवं तिष्ठत्यातिवाहिकदेहभृत् ॥ १६ ॥
प्रथमं चेतनं हिरण्यगर्भाख्यं द्विपरार्धपरिमितं कञ्चित्काललवं
विवर्तरूपमातिवाहिकदेहभूत् तिष्ठतीवेति जगद्भ्रान्तेः स विषयः पर्यवस्यतीत्यर्थः
॥ १६ ॥
क्षणे वत्सरसंवित्तिं स्वप्ने त्वमिव चेतति ।
काकतालीयवत्तत्र चन्द्रार्कादींश्च पश्यति ॥ १७ ॥
तत्प्रथमचेतनमेव क्षणे वत्सरादिकालविस्तारभ्रमं पश्यति । यथा त्वं स्वप्ने
तथा पश्यसि ॥ १७ ॥
सङ्कल्पैकात्मनस्तस्य देशकालक्रियान्वितम् ।
अत्यन्तमेव व्योम्न्येव भुवनं भासते स्वयम् ॥ १८ ॥
तस्मिन्मिथ्योपसम्पन्ने स मिथ्यापुरुषस्ततः ।
मिथ्यैव तत्समाचारं कुर्वन्विपरिवर्तते ॥ १९ ॥
तद्भूतभुवनादिसर्गसमाचारम् ॥ १९ ॥
अधस्तादूर्ध्वमायाति पुनरूर्ध्वाद्व्रजत्यधः ।
कल्पितानन्तसम्भारपदार्थानर्थसम्भ्रमः ॥ २० ॥
स एव स्वकल्पिते भुवनभेदे व्यष्टिजीवात्मना दुष्कृतादिफलधोगायादस्ताअदूर्ध्व
च जायाति भ्रमतीव ॥ २० ॥
काकतालीयवत्तस्य सङ्कल्पस्य भवेद्यदि ।
यद्यथा तत्तथाद्यापि सुस्थिरामात्तवान्स्थितिम् ॥ २१ ॥
यदि तस्य सङ्कल्पस्य काकतालीयवद्यथा पूर्वस्थितिस्तथैवाद्यापि स्थितिरभूत्तर्हि तत
एव प्रत्यभिज्ञाय जगति सुस्थिरां स्थितिं आत्तवान् भ्रान्त्या गृहीतवान् ॥ २१ ॥
शिला वन्ध्यासुतमुखे व्योमचूर्णेन रञ्जनम् ।
करोतीत्यादिवदिदं मिथ्या जगदुपस्थितम् ॥ २२ ॥
एवं भ्रान्त्या इत्थमुपस्थितमिदं मिथ्या जगत् शिला कामिनी भूत्वा वन्ध्यासुतस्य
कान्तस्य मुखे ललाटे व्योमचूर्णेन तिलकं विरच्य रञ्जनं शोभातिशयं
करोतीत्यादिवाक्यार्थवद्विकल्पमात्रमित्यर्थः ॥ २२ ॥
सत्यमेवेदमथवा मिथ्यात्वं तु कुतः किल ।
न मिथ्यात्वं न सत्यत्वं किमपीदमजं ततम् ॥ २३ ॥
यदि त्वत्यन्तासति मिथ्यात्वाख्यधर्मस्याप्यप्रसिद्धिः पर्यालोच्येत
तर्ह्यधिष्ठानमात्रत्वात्सत्यमेवेत्याह - सत्यमेवेति । यदि तु
व्यावर्तनीयमिथ्यात्वाप्रसिद्ध्या व्यावर्तकसत्यत्वकल्पनमपि तत्र न घटते इति
विचार्यते तदा निर्वचनवागप्रसरात्किमपीदम् ॥ २३ ॥
आकाशकोशवत्स्वच्छं शिलाजठरवद्घनम् ।
पाषाणमौनवच्चेदं शान्तमेवाक्षयं जगत् ॥ २४ ॥
चिन्मात्रसर्वसङ्कल्पे विराडात्मातिवाहिके ।
देहे संवेदनं व्योम जगदित्यवभासते ॥ २५ ॥
चिदात्मनो मायिको यः सर्वाकारसङ्कल्पस्तद्रूपे विराडात्मन्यातिवाहिके देहे
संवेदनरूपं यद्व्योम तदेव जगदिति भासत इत्यर्थः ॥ २५ ॥
एवं ब्रह्म महाकाशमेवेदं क्व जगत्कथा ।
शान्तं समसमाभोगमेकमाद्यन्तवर्जितम् ॥ २६ ॥
एवं सति यत्फलितं तदाह - एवमिति । समेभ्योऽपि सम आत्यन्तिकवैषम्यशून्य
आभोगो यस्य ॥ २६ ॥
यथा पयसि वीचीनामुन्मज्जननिमज्जनैः ।
न जलान्यत्वमेवं हि भावाभावैः परैः परे ॥ २७ ॥
परे ब्रह्मणि ॥ २७ ॥
परावरविदः केचिदेतस्मिन्परमे पदे ।
शुद्धे परिणमन्त्यन्तर्वारिबिन्दुरिवाम्भसि ॥ २८ ॥
परावरविदः सारासारविवेकिनः परिणमन्त्यैकरस्यं गच्छन्ति ॥ २८ ॥
परेऽपरमिदं भाति परस्येव परात्मकम् ।
सम्भवन्त्यमले शान्ते न जगन्ति न तत्क्रियाः ॥ २९ ॥
परस्य ब्रह्मणो वेष इव कार्यमिव अवयव इव वा अपरमिदं जगत् जीवरूपं भाति ।
तच्च तत्त्वतो विचारे परमेव सम्भवति । जगन्ति तत्क्रियाः व्यवहाराश्च न सम्भवन्ति ॥
२९ ॥
स्वप्ने स्वप्न इति ज्ञाते दृश्ये ब्रह्मतयापि च ।
मृगाम्बुनि परत्वेन को भावयति भावनाम् ॥ ३० ॥
मृगाम्बुनि परत्वेन अन्यत्वेन ऊषरभूमात्रत्वेन परिज्ञाते सति भावनां
पुनस्तत्सत्यताबुद्धिं को भावयति ॥ ३० ॥
परमार्थचमत्कारमन्तःस्थानुभवं विना ।
अन्यस्यान्यं न जानाति सीधुस्वादुमिव द्विजः ॥ ३१ ॥
अन्यस्याशुचिप्रपञ्चस्यान्यं भोगरसं न जानाति प्रबुद्धः । यथा द्विजो
ब्राह्मणः सीधुस्वादुं मद्यमाधुर्यं न जानाति तद्वदित्यर्थः ॥ ३१ ॥
निर्वाय निज आत्मायं परिवृत्यावलोकितः ।
चेत्योन्मुखत्वमुत्सृज्य सन्तिष्ठेच्छान्त आत्मनि ॥ ३२ ॥
अयं निज आत्मा बाह्यदृष्टेः परावृत्य चेत्योन्मुखत्वमुत्सृज्य समाधौ निर्वाय
चरमसाक्षात्कारवृत्त्या विलोकितः सन् शान्ते शिवे नित्यमुक्ते आत्मनि तिष्ठेत् ।
कश्चिद्धीरं प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् इति श्रुतेः ॥ ३२ ॥
श्रीवसिष्ठ उवाच ।
दृश्यं बीजाङ्कुर इव स्थितं ब्रह्मणि कारणे ।
इति सर्गादिसद्भावः कस्मान्नेहोपपद्यते ॥ ३३ ॥
एवं समाहितो वसिष्ठः पुनर्बीजाङ्कुरन्यायेन ब्रह्मणि जगत्सत्यतां शङ्कते ##-
श्रीराम उवाच ।
बीजेऽङ्कुरोऽङ्कुरतया संश्रितो नोपलभ्यते ।
बीजोदरे तु या सत्ता बीजमेव हि सा भवेत् ॥ ३४ ॥
समाधत्ते - बीज इति । यद्यङ्कुरः सत्यस्तर्हि बीजोदरे संस्थित एव बहिर्बीजपुटं
भित्त्वा निर्गच्छतीति स्यात् तत्तु न । यतो बीजभेदने तदुदरे अङ्कुरतया संश्रितोऽङ्कुरो
नोपलभ्यते । या तु बीजोदरे सूक्ष्मभागानां सत्ता सा बीजमेव भवेन्नाङ्कुर
इत्यर्थः ॥ ३४ ॥
ब्रह्मणोऽन्तर्जगत्तैवं जगत्तैवोपलभ्यते ।
अस्ति चेत्तद्भवेन्नित्यं सा ब्रह्मैवाविकारि तत् ॥ ३५ ॥
ब्रह्मणोऽन्तर्जगत्सत्ता न तथा किन्तु जगत्तैवोपलभ्यत इति वैषम्यं प्रलयकाले
तथैवास्तीति चेत्तत्तर्हि सा ब्रह्मैव भवेद्यतस्तद्ब्रह्म अविकारीति न
बीजाङ्कुरन्यायस्यात्रोपपत्तिरित्यर्थः ॥ ३५ ॥
अविकारादनाकाराद्विकार्याकृतिभासुरम् ।
उदेतीति किलास्माभिर्नैव दृष्टं न च श्रुतम् ॥ ३६ ॥
अस्तु ब्रह्म अविकारं किं ततस्तत्राह - अविकारादिति । अविकाराद्विकार्यमुदेति
अनाकारादाकृतिभासुरमुदेतीति च न दृष्टं न श्रुतं च क्वापीत्यन्वयः ॥ ३६ ॥
अनाकृतावाकृतिमन्न चैतत्स्थातुमर्हति ।
परमाणौ न चैवान्तरिव सम्भान्ति मेरवः ॥ ३७ ॥
एवमनाकारे निरवयवे च साकारस्य सावयवस्य च स्थूलस्यावस्थानमपि
सर्वप्रमाणविरुद्धमित्याह - अनाकृतादिति ॥ ३७ ॥
समुद्गके रत्नमिव जगद्ब्रह्मणि तिष्ठति ।
महाकारं निराकार इत्युन्मत्तवचो भवेत् ॥ ३८ ॥
समुद्गके सम्पुटे ॥ ३८ ॥
शान्तं परं च साकारस्याधार इति राजते ।
न वक्तुं राजते क्वेव साकारस्याविनाशिता ॥ ३९ ॥
शान्तं सर्वोपरमरूपं परं ब्रह्म साकारस्य तादात्म्येनाधार इति वक्तुं न
राजते ॥ ३९ ॥
बोध एवायमाकार इति कल्पनयापि धीः ।
अपूर्वैः स्वप्नवद्रूढैः संसारैर्नोपलभ्यते [व्याख्यानानुरोधेन
आकारैरिति पाठोऽपेक्षित इति ।] ॥ ४० ॥
एवं सति अपूर्वैः स्वप्नवद्रूढैराकारैर्बोध एव क्षणिकः साकार उत्पद्यत इति
बौद्धकल्पनाप्यनुपपन्नेत्याह - बोध एवेति ॥ ४० ॥
अपूर्व एव स्वप्नोऽयं यद्वै सर्गोऽनुभूयते ।
स्वप्नः किलानुभूतार्थः स्वभ्यस्त एव दृश्यते ॥ ४१ ॥
कुतो नोपपद्यत इति तत्राह - अपूर्व इति । यतोऽयं सर्गः स्वप्नः अपूर्वः
प्रागननुभूतार्थ एव चक्षुरादिप्रमाणैरनुभूयते । स्वप्नस्तु जाग्रदनुभूतार्थः
संस्कारमात्रेण भासमानार्थो जाग्रति स्वभ्यस्त एवार्थः स्वप्ने दृश्यते । किलेति
सर्वजनप्रसिद्धौ ॥ ४१ ॥
यदेव जाग्रत्तत्स्वप्न इति नात्रोपपद्यते ।
स्वप्ने प्रदग्धः पुरुषः कथं प्रातर्विलोक्यते ॥ ४२ ॥
अत एव बौद्धानां जाग्रत्स्वप्नभेदाभावोक्तिरपि तेषामसङ्गतेत्याह - यदेवेति ।
स्वप्ने मृतः श्मशानं नीत्वा प्रदग्धः पुरुषः । तस्मान्न चितः
साकारत्वक्षणिकत्वादिकल्पनया प्रपञ्चस्य स्वप्नसाम्यं सर्वप्रमाणविरुद्धं
सिध्यतीति कूटस्थे ब्रह्मण्यध्यस्तत्वादेव बाध्यत्वेन स्वप्नसाम्यं सिद्धमिति
भावः ॥ ४२ ॥
अशरीरस्य न स्वप्न इत्येतदपि नोचितम् ।
सम्भवन्ति पिशाचाद्यास्तेषां च स्वप्नवत्स्थितिः ॥ ४३ ॥
तत्र चार्वाककृतमाक्षेपं समाधत्ते - अशरीरस्येति । स्थूलशरीरशून्यस्य
स्वप्नो न दृष्ट इत्यशरीरे प्रतीच्यवस्थात्रयस्वप्नारोप इत्युक्तिर्न
युक्तेत्याक्षेपांशार्थः । शिष्टं स्पष्टम् ॥ ४३ ॥
तस्मात्स्वप्नवदाभासः संविदात्मनि संस्थितः ।
सर्गादिनानाकृतिना [नानाकृतिभिः इति पाठः साधुः ।] परमात्मा
निराकृतिः ॥ ४४ ॥
अतः परिशेषान्निर्दोषः स्वपक्ष एव स्थित इत्याह - तस्मादिति सार्धेन ।
निराकृतिर्निराकारः परमात्मैव विवर्तरूपाभिः सर्गादिनानाकृतिभिः स्थित इति
सिद्धान्तः प्रतिष्ठित इत्यर्थः ॥ ४४ ॥
स्वप्ने चिदेव शैलादिरूपेणात्मनि तिष्ठति ।
ब्रह्मात्माखिलमुक्तोऽसावन्येनासौ कृतौ यदि ॥ ४५ ॥
प्रपञ्चस्य ब्रह्मात्मैकत्वप्रबोधे स्वप्नवदेव बाधात्सत्त्वासत्त्वाभ्यां
वक्तुमयोग्या तुच्छतैव परिशिष्यत इत्याह - ब्रह्मात्मेति । असौ प्रत्यगात्मा
अखिलबन्धमुक्तो ब्रह्मैव । असौ च प्रपञ्चः अन्येनाज्ञानेनैव स्वप्नवत् कृत इति
सिद्धान्ते तथाविधे ब्रह्मात्मन्युपलब्धे सति इह प्रपञ्चे अस्तित्वनास्तित्वादिकं
नैवानुभूयत इति तुच्छतैव परिशिष्यत इति परेणान्वयः ॥ ४५ ॥
नेहास्तित्वं न नास्तित्वमुपलब्धेऽनुभूयते ।
नैवानुभवितृत्वं च न चानुभवनक्रमः ॥ ४६ ॥
किमपीदमनाख्येयं बुद्धेनैवानुभूयते ।
स्वसंवेदनसंवेद्यं सत्तासत्ताविजृम्भितम् ॥ ४७ ॥
बुद्धे सति नैवानुभूयते । अबुद्धतादशायामप्यनिर्वचनीयमेव जगदित्याह -
स्वसंवेदनेत्यादिना ॥ ४७ ॥
अभावरूपिणो भावा अभावा भावरूपिणः ।
सर्वदा सर्वथा सर्वे भान्ति भासुरतां गताः ॥ ४८ ॥
बृंहति ब्रह्मणि ब्रह्म व्योम व्योमनि वर्धते ।
न चोपपद्यते किञ्चिद्ब्रह्म व्योम्नि विबृंहणम् ॥ ४९ ॥
विबृंहणं जगदाकारेण वर्धनं ब्रह्म व्योम्नि नोपपद्यते ॥ ४९ ॥
द्रष्ट्टदृश्यदृगात्मायमहं सर्गादिविभ्रमः ।
शान्तचिद्व्योमविस्तारो न कुड्याद्युपपद्यते ॥ ५० ॥
यथा न सन्न कुड्यादि स्वसङ्कल्पनपत्तनम् ।
तथैवायं जगदिति शान्तमेकमनामयम् ॥ ५१ ॥
यथा स्वसङ्कल्पनपत्तनं न सत् तत्र च कुड्यादि सुतरां न सत् ॥ ५१ ॥
पूर्णं हि परमं शान्तमिदं सर्वमखण्डितम् ।
अनिङ्गनमनाभासमनाद्यन्तमचेतितम् ॥ ५२ ॥
अजन्ममरणं शान्तमनादिनिधनं महत् ।
अनुपाधि निराकारं स्वपदं बुद्धवानहम् ॥ ५३ ॥
या संविदन्तः स्फुरति सैवोपायाति वाक्यताम् ।
यद्बीजं लीनमवनौ तद्यात्यङ्कुरतां किल ॥ ५४ ॥
ममेदं वाक्यं सत्यमेव नास्त्यमनुभवमूलकत्वादिति सयुक्तिकमाह - येति ॥ ५४
॥
शुद्धज्ञानामयैकात्मा द्वैतैक्यपरिवर्जितः ।
मनागपि न जानामि द्वैतैक्यकलनाकलाम् ॥ ५५ ॥
द्वैतैक्यकलनायाः कलां लेशमपि मनागपि न जानामि ॥ ५५ ॥
सर्वे तूष्णीम्मया एव जीवन्मुक्ता इमे जनाः ।
संशान्तसर्वसंरम्भाः खे स्वभाव इव स्थिताः ॥ ५६ ॥
सर्वे इमे जनाः स्वाज्ञानेन जीवन्तोपि मद्दृशा ब्रह्ममात्रत्वान्नित्यमुक्ताः खे
स्वभावः शून्यतेव स्थिताः ॥ ५६ ॥
जगत्स्पर्शमहारम्भमपि तूष्णीमिदं स्थितम् ।
चित्रं भित्ताविव कृतं मनोराज्य इवोदितम् ॥ ५७ ॥
तथा तद्भोग्यं जगदपि स्पर्शमहारम्भत्वात्त्वगादीन्द्रियवेद्यत्वाच्चित्रं
विलक्षणमपि भित्तौ चित्रमिवाभासमात्रं स्थितम् ॥ ५७ ॥
शैलादिवोत्कीर्णसमं कथायामिव वर्णितम् ।
शम्बरेणेव रचितं व्योम्नि स्वप्न इवोदितम् ॥ ५८ ॥
उत्कीर्णप्रतिमादिसमम् ॥ ५८ ॥
किल स्वप्नवदेवेदं सर्गादावेव भाति यत् ।
अभित्तिकं निष्प्रतिघं जगत्केवास्य सत्यता ॥ ५९ ॥
यत्किल सर्गादावे अभित्तिकं निरालम्बनं भाति अस्य केव सत्यता ॥ ५९ ॥
जगद्बुद्धाविदं सत्यं परिज्ञानवतो मृषा ।
ब्रह्मात्मक इदं ब्रह्म शान्ते शान्तं पराम्बरम् ॥ ६० ॥
तथा च दृष्टिभेदेन च्तुर्धा जगत्सम्पन्नमित्याह - जगदिति । इदं
जगज्जगद्बुद्धावज्ञदृष्टौ सत्यम् । परिज्ञानवतो विवेकिनो दृष्टौ मृषा ।
ब्रह्मात्मकं पश्यतो ब्रह्म । भूमिकाभेदारोहणक्रमेण शान्ते पुरुषे
त्वन्धकारवत् क्रमेण शान्तं सत्परमम्बरं शून्यमेव पर्यवस्यतीत्यर्थः ॥ ६० ॥
सर्व एव इमे भावाः सह स्थावरजङ्गमाः ।
अस्मदादय आकाशं जगज्ज्ञविषयं तथा ॥ ६१ ॥
तत्र च्तुर्थरूपं तत्त्वज्ञविषयमित्याह - सर्व एवेति ॥ ६१ ॥
खमहं खं भवांश्चित्खं जगत्खं खं खमेव च ।
चिदाकाशैकतामेत्य भजैकाकाशरूपताम् ॥ ६२ ॥
हे गुरो त्वं मदुक्तपरीक्षार्थमेकाकाशरूपतां भज ॥ ६२ ॥
ज्ञानेनाकाशकल्पेन सर्वात्म गगनोपमम् ।
ज्ञेयाभिन्नेन सम्बोधात्तं वन्दे द्विपदां वरम् ॥ ६३ ॥
तं तादृशं ब्रह्माकाशभावे स्थितं द्विपदां वरं त्वामहमाकाशकल्पेन
स्वरूपज्ञानेन सर्वात्म गगनोपमं ज्ञेयपूर्णानन्दैकब्रह्माभेदेन
सम्बोधाद्वन्द्वे नमस्करोमि ॥ ६३ ॥
चिद्रूपत्वादुदेतीदं जगत्तत्रैव लीयते ।
अकारणकमेवान्तः परं व्योमैव निर्मलम् ॥ ६४ ॥
सर्वात्म गगनोपमं चेत्येतद्विप्रतिषिद्धमिति शङ्कां वारयन्नाह -
चिद्रूपत्वादिति ॥ ६४ ॥
एतत्सर्वपदातीतं सर्वशास्त्रकलातिगम् ।
पदमासाद्य निर्द्वन्द्वं त्वमाकाशात्मकोऽभवः ॥ ६५ ॥
सर्वाः शास्त्रकलाः शास्त्रयुक्तीरतिक्रम्य गच्छतीति सर्वशास्त्रकलातिगं
तत्पदमासाद्य त्वमप्याकाशो ब्रह्माकाशस्तदात्मकः अभवः सदैवासीः ।
भवशून्य इति वा ॥ ६५ ॥
अहं जगच्च नो पादपाण्यादि न घटादि च ।
सर्वमाकाशमाकाशमेवाच्छं सूक्ष्मचिद्भवेत् ॥ ६६ ॥
अहं रामस्तदवयवपादपाण्यादि तद्बाह्यघटादि चेति प्रसिद्धं जगच्च नो नास्त्येव
। यतः सर्वमाकाशमेव ॥ ६६ ॥
सर्वापह्नव एवायं मया यो दर्शितस्तव ।
स निन्द्यो वादिनां वादेष्वात्मज्ञानेषु राजते ॥ ६७ ॥
अयं च सर्वापह्नवो यद्यपि मम माता वन्ध्या मम मुखे जिह्वा नास्तीति
वाक्यवद्व्याघातवैतण्डिकत्वादिदोषापादकत्वाद्वादिनां तार्किकादीनां वादेषु
निन्द्य इति तत्सभायां न राजते तथाप्यात्मज्ञानेषु बहिमिर्वादिमिर्बहुधोपन्यस्तेषु
मध्ये परमपुरुषार्थपर्यवसितं किं ज्ञानं स्यादिति परीक्षकाणां सभायां
राजते । न हि
सर्वापह्नवमन्तरेणात्यन्तिकानर्थनिवृत्त्युपलक्षितनिरतिशयानन्दप्रतिष्ठा
सिध्यतीति भावः ॥ ६७ ॥
काष्ठमौनात्मको वादे न सर्वापह्नवो यदा ।
क्रियते तेन वादेषु नात्मज्ञानं प्रसीदति ॥ ६८ ॥
यत इत्यर्थे यदाशब्दः । यतः काष्ठमौनपर्यवसितत्वात्काष्ठमौनात्मकः
सर्वापह्नवो वादे न सम्भवत्येवेति न क्रियते । तेन तदकरणेन निर्विशेषात्मा
परिचयाद्वादेषु आत्मज्ञानं न प्रसीदति नोदेतीत्यर्थः ॥ ६८ ॥
प्रत्यक्षादिप्रमाणानां यदगम्यमचिह्नितम् ।
स्वानुभूतिभवं ब्रह्म वादैस्तल्लभ्यते कथम् ॥ ६९ ॥
कुतो नोदेति तत्राह - प्रत्यक्षेति ॥ ६९ ॥
सर्वागमार्थसमतीतमचिह्नमच्छमाकाशमेकमजमाद्यमनामरूपम् ।
शुद्धं चिदात्मकमिहास्त्यनुभूतिमात्रं शान्ताभिधानकलनं
मलशङ्कयालम् ॥ ७० ॥
उक्तं सारतः सङ्क्षिप्योपसंहरति - सर्वेति । सर्वे ये आगमाः
शास्त्रभेदास्तदर्थेभ्यः समतीम् अनुभूतिर्मात्रा प्रमाणं यत्र
तथाविधमचिह्नमत एव शान्ताभिधानकलनं शुद्धं चिदात्मकमेकं
ब्रह्माकाशमेवास्ति नान्यदणुमात्रमपीति तत्र मलशङ्कया अलं पर्याप्तम् ।
प्रयोजनं नास्तीत्यर्थः ॥ ७० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ०
बोधप्रकाशीकरणयोगोपदेशो नाम पञ्चनवत्यधिकशततमः सर्गः ॥ १९५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
बोधप्रकाशीकरणयोगोपदेशो नाम पञ्चनवत्यधिकशततमः सर्गः ॥ १९५ ॥