१९४

चतुर्नवत्यधिकशततमः सर्गः १९४

श्रीराम उवाच ।

सर्वात्मसर्वभावेषु येन येन यदा यदा ।
यथा भाति स्वयम्बोधस्तथानुभवति स्वयम् ॥ १ ॥

आत्मतत्त्वं जगत्तत्त्वं यथा निर्वाणसाधनम् ।
इह रामः स्वयं बुद्धं गुरवे प्रह्यवेदयत् ॥

तत्राज्ञातपरमात्मस्वभावमाह - सर्वात्मेति । सर्वेषामात्मनां जीवानां
सर्वेषु भावेषु मनोवृत्तिभेदेषु यदा यदा येन येन भोगनिमित्तेन यथा
स्वयम्बोधः स्वप्रकाशचिदात्मा भाति विवर्तते तथा स्वयमेव
भोक्तृनानाजीवभावेन अनुभवति । स्वयमेव त्रिपुटीभावेन स्वमायया विवर्तत
इत्यर्थः ॥ १ ॥

स्वभाव एव तिष्ठन्ति सर्गाः सम्मिलिता अपि ।
अत्रापि स्वीकृता एव नानारत्नांशवो यथा ॥ २ ॥

एकस्मिन्नेव निरवयवे परमसूक्ष्मे ब्रह्मणि सर्वैर्जीवैर्युगपदध्यासात्सम्मिलिता
अपि अनन्ताः सर्गाः प्रत्येकं ब्रह्माण्डभुवनादिभेदविस्तीर्णे स्वभावे एव
परस्परमसंलग्नास्तिष्ठन्ति । यतस्ते अत्र ईदृशे निरवयवेऽपि ब्रह्मणि
तादात्म्याध्यासेन स्वीकृता आत्मीकृताः परमसूक्ष्मीकृताः । न स्वात्मनि
कस्यचिदनवकाशता अवरोधो वास्तीत्यर्थः । यथा सूक्ष्मा नानारत्नानामंशवः
किरणा एकस्मिन्गृहे मिलिता अप्यसम्बन्धा असङ्कीर्णास्तिष्ठन्ति तद्वदित्यर्थः ॥ २ ॥

अत्र दृष्टमदृष्टं च मिथो विशति गच्छति ।
जगद्रश्मिघनं रत्नं नानारत्नघनं यथा ॥ ३ ॥

तदेव विशदयति - अत्रेति । दृष्टं सन्निहितं प्रत्यक्षमदृष्टं
देशकालव्यवधानात्परोक्षं च जगद्रश्मिघनमत्रास्मिन्परमात्मनि
मिथोऽन्योन्यमसम्बाधं समाविशति गच्छति सञ्चरति च । नानारत्नानां घनं
रश्मिजालं यथा तथा ॥ ३ ॥

दीपानामिव सर्गाणां बहूनां ज्वलतां परम् ।
केषाञ्चिदस्त्यनुभवो मिथः केषाञ्चिदेव नो ॥ ४ ॥

तत्र येषां जीवानां समानकर्मवासनानिमित्तोऽध्यासस्तेषां परस्परमनुभवोऽस्ति
तद्भिन्नानां तु नास्तीत्याशयेनाह - केषाञ्चिदिति । दीपपक्षे
चक्षुष्मतामन्धानां च ॥ ४ ॥

अप्स्वप्स्विव रसोऽम्भोधावावर्तरमणावनौ ।
सर्गेऽस्ति प्रत्यणुं तस्मिन्नापि सर्गास्तथा क्रमः ॥ ५ ॥

आवर्तानां रमणावनौ क्रीडास्थाने अम्भोधौ अप्स्वप्सु प्रतिजलावयवं रसो
लवणादिरस इव । परमार्थतस्तु न सर्गास्तत्क्रमोऽपि ॥ ५ ॥

सर्वत्र सर्वतो नित्यं चिद्घनस्याम्बुवेदनम् ।
सङ्ख्यातुं केन शक्यन्ते सर्गाधारपरम्पराः ॥ ६ ॥

अम्बुवेदनं जलपरमाणुरस इव ॥ ६ ॥

यथावयविता भिन्ना नैवावयविनः क्वचित् ।
शब्दभेदादृते भिन्ना न तथा सर्गता परे ॥ ७ ॥

एकस्यानन्तरूपस्य कारणाभावतः स्वयम् ।
नोदेति न च यात्यस्तं जगदादिः स्वभावतः ॥ ८ ॥

एकस्यात्मन एव माययानन्तरूपस्य जगत आदिरधिष्ठानं तत्स्वभावत्वान्नोदेति
नाप्यस्तमायाति ॥ ८ ॥

तपन्ती ज्ञप्तिरेवेयमखण्डज्ञेयतामिमाम् ।
करोत्यकर्तृरूपैव समालोकमिवार्कभाः ॥ ९ ॥

तपन्ती स्फुरन्ती । समालोकं घटपटादिप्रकाशम् ॥ ९ ॥

वैतृष्ण्यात्सर्वभावानां समाप्त्यैवाक्षयं स्वयम् ।
सम्पद्यते समाधानं यत्तन्निर्वाणमुच्यते ॥ १० ॥

कदा तर्हि सा अध्यासव्यसनं जहाति केनोपायेन च तत्राह - वैतृष्ण्यादिति ।
सर्वेषां भावानां तत्त्वज्ञानेन बाधात्समाप्त्यैव स्वयमक्षयं क्षयिष्णु
देहादितादात्म्याध्यासोन्मुक्तं सम्पद्यते । यत्तत्तादृशं स्वरूपं तदेव
सर्वविक्षेपहेतुक्षयात्समाधानं निर्वृतित्वान्निर्वाणमुच्यत इत्यर्थः ॥ १० ॥

न बुद्ध्या बुद्ध्यते बोधो बोधाबुद्धेर्न बोध्यते ।
न बुद्ध्यते वा तेनापि बोध्यो बोधः कथं भवेत् ॥ ११ ॥

अध्यासपरम्परासमाप्त्यैव स्वयं स्वस्य परमपुरुषार्थः परिशिष्यते इति कुतः
बुद्ध्यानुभूयमानस्यैव पुरुषार्थत्वादननुभूयमानस्य तस्य
पुरुषार्थत्वादर्शनात् । तस्मात्पुरुषार्थताप्रयोजिका
चरमसाक्षात्कारबुद्धिर्मुक्तावावश्यकीति न सर्वभावानां समाप्तिरभ्युपगन्तुं
युक्तेत्याशङ्क्याह - नेति । परमपुरुषार्थरूपो बोधः परमात्मबुद्ध्या
चरमसाक्षात्कारवृत्त्या न बुध्यते । जडायास्तस्या बोधशक्त्यभावात् बोधस्य
बुद्धिविषयत्वायोगाच्च । तर्हि बोधशक्तिमान्परमात्मा सुप्तो राजा बन्दिभिरिव
प्रबोध्यतां तत्राह - बोधाबुद्धेरिति । न बोध्यतेऽपि । कुतः बोधाबुद्धेः ।
सुप्तं राजानं बुद्ध्वा तद्बोधनाय बन्दिनः प्रवर्तन्ते । बुद्ध्या तु सुप्तो बोधो न
बुद्ध इति कथं तद्बोधने सा प्रवर्तेतेत्यर्थः । तर्हि बोधेनैव बोधो बुद्ध्यतां
तत्राह - नेति । तेन बोधेनापि बोधो न बुध्यते । कुतस्तत्राह - बोध्य इति । बोधः
स्वयम्बोध्यो बोधकर्म कथं भवेत् । क्रियाजन्यातिशयाधारो हि कर्म । न हि बोधे
क्रिया तज्जन्यातिशयस्तदाधारता वा सम्भवति । निष्क्रियत्वान्निर्विकारत्वात्स्वात्मनि
क्रियाविरोधाच्चेति भावः ॥ ११ ॥

प्रबुद्ध एव सुप्ताभः स्वयम्बोधो विबुध्यते ।
देशकालाद्यभावेऽपि मध्याह्नेऽर्कातपो यथा ॥ १२ ॥

तस्मादध्यासपरम्पराचरमसाक्षात्कारबुद्ध्यन्तपरिणामपरम्परया स्वयमेव
समाप्यते । तस्यां च समाप्तायां स्वप्रकाशत्वात्प्रबुद्ध एवात्मा
नीहारागमात्सुप्तप्रायतां प्राप्तो मध्याह्ने निःशेषनीहारापगमेन सवितेव
तदातप इव च प्रबुध्यत इव । स एवास्य नित्यप्राप्तनिरतिशयानन्दाभिव्यक्तिलक्षणः
परमपुरुषार्थ इत्याशयेनाह - प्रबुद्ध एवेति ॥ १२ ॥

सर्वकर्मवितृष्णानां शान्तेच्छानां प्रबोधतः ।
सतामनिच्छतामेव निर्वाणं सम्प्रवर्तते ॥ १३ ॥

कर्मपदेन ऐहिकामुष्मिकफलं लक्ष्यते ॥ १३ ॥

प्रबुद्धबोधो ध्यानस्थः स्वभावे केवले स्थितः ।
न किञ्चिदपि गृह्णाति न किञ्चिदपि चोज्झति ॥ १४ ॥

मोहनिद्रातः प्रबुद्धो बोधश्चिदात्मा यस्य । ध्यानस्थो निरुद्धबाह्यवृत्तिः ॥ १४ ॥

यो यथास्थित एवास्ते पश्यन्दीप इवाक्रियः ।
अमनोमानमननो मनोमननवानपि ॥ १५ ॥

व्युत्थानकाले स तर्हि कथमास्ते तदाह - य इति । मनोमननवानपि
विषयेष्वासङ्गाभावादमनोमानमननः अत एव दीपवत्प्रकाशयन्नपि अक्रियः ॥ १५

व्युत्थाने विश्वरूपाख्यमन्यत्र ब्रह्मसञ्ज्ञितम् ।
सर्गासर्गात्म चिन्मात्रं सत्यं सर्वत्र भासते ॥ १६ ॥

अभिन्नबोधसद्रूपस्वरूपानुभवे स्थितः ।
व्युत्थितः सन्निरुद्धश्च यः पश्यति स शाम्यति ॥ १७ ॥

यो व्युत्थितो निरुद्धः समाध्यारूढश्चाभिन्नबोधो यः
सद्रूपस्वरूपानुभवस्तत्रैव स्थितः सन् निरोधव्युत्थाने उदासीनवृत्त्या पश्यति स
एव संसारविक्षेपाच्छाम्यति नान्यः ॥ १७ ॥

जगत्पदार्थसार्थानां बोधमात्रैकनिष्ठताम् ।
विना नास्त्यपरा सत्ता व्योम्नः शून्येतरा यथा ॥ १८ ॥

कीदृशी सा तादृशसद्रूपानुभवे स्थितिस्तामाह - जगदिति । बोधमात्रमेव एका
निष्ठा यथार्थरूपं येषां तद्भावं विना अपरा सत्ता वस्तुस्थितिर्नास्तीत्येवंरूपा
सेत्यर्थः ॥ १८ ॥

शिष्यते स्फीतबोधानां केवलानन्तबोधता ।
सापि स्वपरिणामेन परेणायात्यवाच्यताम् ॥ १९ ॥

अपरा सत्ता कुतो नास्तीति चेत्तत्त्वसाक्षात्कारेण जगद्रूपबाधे तत्साक्षिचिन्मात्रसत्ताया
एव परिशेषादित्याशयेनाह - शिष्यत इति ।
स्फीतबोधानामपरिच्छिन्नब्रह्मावगाहनानुस्फारताशालिप्रबोधवताम् । सा
तादृशप्रत्यगात्मरूपा बोधतापि स्वस्याः
ब्रह्मसन्मात्रपरिशेषलक्षणाखण्डाकारवाक्यार्थलक्षणेन परेण परिणामेन
अवाच्यतामखण्डार्थकवाक्यलक्ष्यताम् ॥ १९ ॥

तद्विश्रान्तौ परा सत्ता शिष्यते वा न शिष्यते ।
या काप्यत्यन्तशान्तां न वाग्गोचरमेति सा ॥ २० ॥

तद्विश्रान्तौ तद्भावेन स्थितौ सत्यां शिष्यते न शिष्यते वेत्युभयविधा वाचामपि
गोचरतां सा दशा नैति ॥ २० ॥

या समस्य पराकाष्ठा सैव बोधस्य सन्मयी ।
सर्गस्तन्मय एवातः सकलं शान्तमव्ययम् ॥ २१ ॥

समस्य सत्तासामान्यस्य पराकाष्ठा परमावधिः शोधिततत्पदार्थरूपा सैव
बोधस्यापि शोधितत्वम्पदार्थरूपा पराकाष्ठा । वियदादिलक्षणः
अवस्थात्रयलक्षणश्च सर्गः अस्ति भातीति सर्वानुभवात्सत्ताबोधमय एव । एवं सति
यत्फलितं तदाह - सकलमिति ॥ २१ ॥

निर्वाणाय वितृष्णाय स्वच्छशीतलसंविदे ।
स्पृहयन्ति सदा सत्तां ब्रह्मविष्णुहरा अपि ॥ २२ ॥

तदेव ब्रह्मादीनामपि प्रेयस्तमत्वान्निरतिशयानन्दरूपं निर्वाणमित्याह -
निर्वाणायेति । सदैवाहं स्यां मा कदाचिन्माभूवमिति सदैव तत्सत्तां स्पृहयन्ति ।
अपिशब्दात्सर्वप्राणिनोऽपि ॥ २२ ॥

सर्वार्थात्मैव सर्वत्र सर्वदा सर्वथोदितम् ।
चेतनं शुद्धमेवास्ति नाशो नास्योपपद्यते ॥ २३ ॥

सर्वेषां सार्वकालिकस्पृहास्पदमेव वस्तु सर्वदेशे सर्वकाले सर्ववस्त्वात्मना
उदितं चेतनं स्वतः स्फुरद्रूपं शुद्धं तदेवेति तस्य नाशः अदर्शनं
क्षणमपि नोपपय्दते ॥ २३ ॥

अत्यन्ततप्तः संसारो निर्वाणमतिशीतलम् ।
अतिशीतलमेवास्ति तप्तस्त्वेव न विद्यते ॥ २४ ॥

तप्तो निरतिशयदुःखरूपः । अतिशीतलमात्यन्तिकदुःखोपशमः ॥ २४ ॥

सञ्चेतन्ति शिलान्तस्था यथालं शालभञ्जिकाः ।
अनुत्कीर्णास्तथा ब्रह्म चेततीदमखण्डितम् ॥ २५ ॥

यथा शिल्पिबुद्धावनुत्कीर्णाः शिलान्तस्थाः शालभञ्जिका यथेच्छं सञ्चेतन्ति
संस्फुरन्ति तथा भावोपहितमखण्डितमविच्छिन्नमेव ब्रह्म इदं जगद्वेषं
चेतति स्फुरतीत्यर्थः ॥ २५ ॥

यथा चेतति सौम्याम्बुकोशस्थं वीचिमण्डलम् ।
तथा चेतति कोशस्थं महाचिच्चेत्यमव्ययम् ॥ २६ ॥

सौम्याम्बुकोशो जलाशयस्तत्स्थम् । कोशोऽन्नमयादिस्तत्स्थं ब्रह्माण्डकोशस्थं च
चेत्यं स्वयमेव भूत्वा चेतति स्फुरति ॥ २६ ॥

अविभक्तो विभागस्थैरिव शान्तैरनन्तकैः ।
परमार्थाम्बराभोगैस्त्वबोधात्मत्वमन्थरैः ॥ २७ ॥

अबोधः अज्ञानावृतो य आत्मा तद्भावेन मन्थरैर्जडप्रायैः परमार्थाम्बरस्य
सन्मात्रस्य आभोगैः कृत्रिमवेषैः । इत्थम्भावे तृतीया । यैर्यैर्जीवैर्यथा यथा
भावितस्तथा चेतित इति परेणान्वयः ॥ २७ ॥

यैर्यैर्यथास्व आत्मान्तर्भावितश्चेतितश्चिरम् ।
भोगमोक्षप्रभेदेषु तेषां तेषां तथोदितः ॥ २८ ॥

मृते वाप्यमृते बन्धौ स्वप्ने स्वप्नविबोधिनः ।
न यथोदेति सत्याख्या तथा दृश्येषु तद्विदः ॥ २९ ॥

स्वप्नाद्विबोधिनः प्रबुद्धस्य पुरुषस्य स्वप्ने स्वबन्धौ मृते अमृते जीवत्यपि वा
यथा सत्याख्या सत्यताबुद्धिर्नोदेति तथा तत्त्वविदः सर्वेषु दृश्येष्विति न
हर्षशोकप्रसक्तिरित्यर्थः ॥ २९ ॥

यदिदं किल दृश्यादि तच्छान्तमखिलं शिवम् ।
भावितेऽवगतेऽप्यन्तरिति भ्रान्तेः क उद्भवः ॥ ३० ॥

यद्दृश्यादि त्रिपुटीरूपं तदखिलं शान्तं शिवमित्यन्तर्भाविते सम्यगवगतेऽपि
सति भ्रान्तेः पश्चात्क उद्भव इत्यन्वयः ॥ ३० ॥

सर्वथा देहसङ्ख्येषु वैतृष्ण्यमुपजायते ।
सम्यग्बोधे सति स्वप्न इवापि स्वार्थकादिषु ॥ ३१ ॥

अवगमे सति केन क्रमेण भ्रान्तेरनुद्भवस्तमाह - सर्वथेत्यादिना । देहे सम्यक्
ख्यायन्त इति देहसङ्ख्यास्तथाविधेषु स्वार्थकादिषु भोगतदुपायेषु ॥ ३१ ॥

वैतृष्ण्याद्वर्धते बोधो बोधाद्वैतृष्ण्यवर्धनम् ।
परस्परेण प्रकटे एते कुड्यप्रकाशवत् ॥ ३२ ॥

अस्त्वेवं ततः किं तत्राह - वैतृष्ण्यादिति ॥ ३२ ॥

येन बोधेन वैतृष्ण्यं धनदारसुतादि वा ।
स्वनूनमपि सम्पन्नं जाड्यं तत्संस्थितं तथा ॥ ३३ ॥

तत्कुतस्तत्राह - येनेति । येन हेतुना वैतृष्ण्यं वा धनदारादि वा
तत्त्वाभिनिवेशलक्षणेन बोधेनैव सुष्ठु अनूनं स्वनूनमुपचितं सम्पन्नं
तद्विरोधि तदनुकूलं वा जाड्यमपि तथा तत्तदभिनिवेशानुसारेणैव
संस्थितमित्यर्थः ॥ ३३ ॥

एतावदेव बोधस्य बोधत्वं यद्वितृष्णता ।
पाण्डित्यं नाम तन्मौर्ख्यं यत्र नास्ति वितृष्णता ॥ ३४ ॥

न तु वैतृष्ण्यबोधाढ्यौ न परस्परवर्धितौ ।
असत्यावेव तौ नान नष्टौ चित्रहुताशवत् ॥ ३५ ॥

परस्परवर्धितावपि तावसत्यावेवेति चित्रहुताशवत्कार्याक्षमावेव नष्टाविति न तु
मन्तव्यमित्यर्थः ॥ ३५ ॥

परमा बोधवैतृष्ण्यसम्पत्तिर्मोक्ष उच्यते ।
तत्रानन्ते पदे शान्ते वसता च न शोच्यते ॥ ३६ ॥

कुतो न मन्तव्यं तत्राह - परमेति । यतो बोधवैतृष्ण्ययओः प्रमा निरतिशया
सम्पत्तिरेव निरतिशयानन्दरूपत्वादात्यन्तिकदुःखहेतुक्षयरूपत्वाच्च मोक्ष उच्यते ।
अबोध एव हि बन्धमूलं तृष्णैव च बन्धस्तदुभयरूपो हि मोक्ष
इत्युपपत्तेरित्यर्थः ॥ ३६ ॥

गतं गम्यं कृतं कार्यं दृष्टं दृश्यमशेषतः ।
यावत्सर्वं शिवं शान्तमेकमाद्यमनामयम् ॥ ३७ ॥

अतस्ताभ्यामेव वर्धिताभ्यां कृतकृत्योऽहं वृत्त इत्याह - गतमित्यादिना ।
गम्यं निरसनीयं गतं निरस्तम् ॥ ३७ ॥

आत्मारामस्य शान्तस्य वैतृष्ण्यस्यानहङ्कृतेः [वैतृष्ण्यस्येति स्वार्थे
ष्यञि वितृष्णस्येत्यथः । तथैव पाठः कल्पनीयो वा ।] ।
असङ्कल्पैव भवति स्थितिः खस्येव निर्मला ॥ ३८ ॥

सहस्रेभ्यः सहस्रेभ्यः कश्चिदुत्थाय वीर्यवान् ।
भिनत्ति वासनाजालं पञ्जरं केसरी यथा ॥ ३९ ॥

तृष्णामोहबन्धमेत्तारः शूला विरला इत्याह - सहस्रेभ्य इति । यतमानानां
मध्ये इत्यर्थः ॥ ३९ ॥

प्राप्तज्योतिर्बोधशुद्धिः परमन्तःप्रकाशवान् ।
नीहारः शरदीवाशु स्वयमेवोपशाम्यति ॥ ४० ॥

प्राप्तः ज्योतिष आत्मनः सूर्यादीनां च बोधो ज्ञानं प्रकाशातिशयश्च येन ।
नीहारो जाड्यवासनाभागः प्रसिद्धश्च ॥ ४० ॥

ज्ञातज्ञेयस्त्वसङ्कल्पः सङ्कल्पातिशयाशयः ।
अवासनो व्यवहृतौ वातवत्स्पन्दते न वा ॥ ४१ ॥

सङ्कल्पानतिशेते अतिक्रामत्याशयो यस्य । अवासनो जीवन्मुक्तः स्पन्दते व्यवहरति न
वा व्यवहरति । समाधावेव विश्राम्यतीत्यर्थः ॥ ४१ ॥

आसीद्धीरान्मनस्कारैर्भ्रान्तिमात्रैकनिश्चयात् ।
यः सर्वत्र खवद्भावस्तदवासनमासितम् ॥ ४२ ॥

सर्वत्र सर्ववस्तुषु
मनस्कारैस्तत्त्वमननैर्धीरात्स्थिरीभूताद्भ्रान्तिमात्रैकनिश्चयाद्यः खवद्भाव
आसीत्तदेव अवासनमासितमवस्थानमित्यर्थः ॥ ४२ ॥

निर्वासने भाव उदारसत्त्वे ब्रह्मखिलं दृश्यमिति प्रबुद्धे ।
स्थिरैकनिर्वाणमतावनन्तो मोक्षाभिधानः प्रशमोऽभ्युदेति ॥ ४३ ॥

उदारसत्त्वे शुद्धान्तःकरणे पुंसि वर्णितरूपे निर्वासने भावे उदिते सति अखिलं
दृश्यं ब्रह्मैवेति प्रबुद्धे सति स्थिरैकनिर्वाणमतौ तस्मिन् पुंसि अनन्तो मोक्ष
इत्यभिधानं यस्य तथाविधः सर्वसंसारप्रशमः अभ्युदेति । स्वयमेव
प्रकटीभवतीत्यर्थः ॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० म्० निर्वा० उ० रामविश्रान्त्युपगमो
नाम चतुर्नवत्यधिकशततमः सर्गः ॥ १९४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
रामविश्रान्त्युपगमो नाम चतुनवत्युत्तरशततमः सर्गः ॥ १९४ ॥