१९३

त्रिनवत्यधिकशततमः सर्गः १९३

श्रीराम उवाच ।

अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ।
यत्पदं तदिदं भाति क्व जगत्क्व च दृश्यता ॥ १ ॥

इह रामः प्रबोधेनाऽज्ञाननिद्राक्षये क्षणात् ।
निर्मृष्टनिखिलद्वैतनित्यात्मस्थितिमब्रवीत् ॥

देवाः कर्मोपासनसिद्धाः । ऋषयस्तपोयोगसिद्धाः । अथवा
चक्षुरादिबाह्यान्तःकरणान्येवात्र देवा ऋषयश्च । ते ह देवा उद्गीथमाजह्रुः ।
इमावेव गौतमभरद्वाजौ इत्यादिशुतेः ॥ १ ॥

द्वैताद्वैतसमुद्भेदवाक्यसन्देहविभ्रमैः ।
अलमस्माकमाशान्तमाद्यं रूपमनामयम् ॥ २ ॥

द्वैताद्वैतयोरनुसन्धाने यो मनसि समुद्भेदस्तत्प्रयुक्तैर्वाक्यव्यवहारैः
सन्देहैर्विभ्रमैश्चास्माकं अलम् । प्रयोजनं नास्तीत्यर्थः । आद्यं सर्वादौ सदेव
सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति श्रुतिसिद्धं यद्रूपं तदिदं सर्व
भातीत्यनुकृष्यते ॥ २ ॥

व्योमनि व्योमभावानां प्रशान्तं यादृगासितम् ।
तादृक्चिद्व्योमनि स्फारत्रिजगद्व्योमभासनम् ॥ ३ ॥

सम्प्रति जगद्भानं कीदृक्सम्पन्नं तदाह - व्योमनीति । व्योमभावानां
केशोण्ड्रकमुक्तावलीगन्धर्वनगरादीनाम् ॥ ३ ॥

यथा व्योमनि व्योमत्वं दृषत्त्वं दृषदि स्थितम् ।
जलत्वं च जलस्यान्तर्जगत्त्वं चिद्घने तथा ॥ ४ ॥

व्योमादौ व्योमत्वादियथा अभेदेन सामान्यरूपेण तद्भावेन च स्थितं तथेत्यर्थः
॥ ४ ॥

साहन्तादिजगद्दृश्यमाशाकाशविसार्यपि ।
महाचिदुदरं विद्धि खं शान्तं शून्यतोदितम् ॥ ५ ॥

आशासु दिक्षु आकाशे च विसारि असङ्ख्येयतया विस्तृतमपि शून्यतया उचितं
शून्यतोदितम् ॥ ५ ॥

जीवस्यास्मिन्विमूढस्य परेऽपरिमितोदये ।
प्रस्फुरंश्चापि संसारपिशाच उपशाम्यति ॥ ६ ॥

अपरिमितोदये अस्मिन्परे ब्रह्मणि दृष्टमात्रे जीवस्य संसारपिशाच उपशाम्यति ॥ ६ ॥

भेदोपलब्धिर्गलति व्यवहारवतोऽप्यलम् ।
जडस्येवाजडस्यैव वीचेरिव जलोदरे ॥ ७ ॥

कथमुपशाम्यति तदाह - भेदोपलब्धिरिति । लडयोरभेदाज्जलस्यापीत्यपि वीचिपक्षे
॥ ७ ॥

क्वाप्यज्ञानरवौ याते प्रतापाद्याकरे भृशम् ।
संसारसत्तादिवसो यात्यस्तं स निशागमः ॥ ८ ॥

प्रताप आध्यात्मिकादित्रिविधसन्ताप आदिपदाद्विषयतृष्णा तदाकारे ।
अस्तमदर्शनं याति स मोक्षसुखविश्रान्तिहेतुर्निशागमः ॥ ८ ॥

भावाभावेषु कार्येषु जरामरणजन्मसु ।
ज्ञ आजवं जवीभावे तिष्ठन्नपि न तिष्ठति ॥ ९ ॥

आजवं जवीभावे व्यवहारविक्षेपे च ॥ ९ ॥

नाविद्यास्ति ह न भ्रान्तिर्न दुःखं न सुखोदयः ।
विद्याऽविद्या सुखं दुःखमिति ब्रह्मैव निर्मलम् ॥ १० ॥

परिज्ञातं सदेतत्तु यावद्ब्रह्मैव निर्मलम् ।
अपरिज्ञातमस्माकमब्रह्मात्म न विद्यते ॥ ११ ॥

अस्माकं तत्त्वविदाम् ॥ ११ ॥

प्रबुद्धोऽस्मि प्रशान्ता मे सर्वा एव कुदृष्टयः ।
शान्तं समं सोहमिदं खं पश्यामि जगत्त्रयम् ॥ १२ ॥

समं सर्वद्वैतवैषम्यरहितम् ॥ १२ ॥

सम्यग्ज्ञातं यावदिदं जगद्ब्रह्मैव केवलम् ।
अज्ञातात्माभवद्ब्रह्म ज्ञातात्मन्यधुना स्थितम् ॥ १३ ॥

नाहं कश्चित्प्रागधुनाप्यन्यः किन्तु ब्रह्मैव प्रागज्ञात आत्मा येन
तथाविधमभवत् । अधुना तु ज्ञाते आत्मनि स्वस्वभावे स्थितम् ॥ १३ ॥

ज्ञाताज्ञातमनिर्भासं ब्रह्मैकमजरं तथा ।
शून्यत्वैकत्वनीलत्वरूपमेकं नभो यथा ॥ १४ ॥

अनिर्भासं स्वातिरिक्तज्ञानाज्ञाननिर्भासशून्यम् । यथा नीलत्वशून्यत्वे नीलत्वे च
नभ एकं तद्वदित्यर्थः ॥ १४ ॥

निर्वाणभासे गतशङ्कमासे निरीहमासे सुसुखेऽहमासे ।
यथास्थितं नित्यमनन्तमासे तदेवमासे न कथं समासे ॥ १५ ॥

तत्तस्मात्प्रबोधान्निर्वाणमेव सन्नहमासे । अज्ञाननिवृत्त्यैव
सर्वशङ्कानिवृत्तेर्गतशङ्कमासे । सुसुखं निर्विक्षेपात्मसुखं तत्रैवेह
धारावाहिकचित्तवृत्तिर्यथा स्यात्तथा आसे । एवं प्रबुद्धोऽहं समासे समस्तात्मनि
ब्रह्मणि न कथमासे । तद्भावप्रच्युतिहेतूनां बाधादित्यर्थः ॥ १५ ॥

सर्वं सदैवाहमनन्तमेकं न किञ्चिदेवाप्यथवातिशान्तः ।
सर्वं न किञ्चिच्च सदेकमस्मि न चास्मि चेतीयमहो नु शान्तिः ॥ १६ ॥

सदैव सर्वमहं अथवा अतिशान्तः सर्वोपप्लवरहितो न किञ्चिच्च एकं सदहमेवास्मि
। अथवा देशकालाधाराप्रसिद्धेः क्वापि नास्मि च । इति इयं निर्वाणाख्या इयं
सर्वशान्तिरहो अत्याश्चर्यरूपेत्यर्थः ॥ १६ ॥

अधिगतमधिगम्यं प्राप्तमप्राप्तमन्यैर्गतमिदमलमस्तं वस्तुजातं
समस्तम् ।
उदितमुदितबोधं तादृशं यत्र भूषोऽस्तमयसमुदयानां नाम नामापि
नास्ति ॥ १७ ॥

अधिगन्तुं ज्ञातुं योग्यमधिगम्यं परमपुरुषार्थरूपमधिगतं ज्ञातम् ।
अन्यैरज्ञैरगम्यं दुष्प्रापं मोक्षसुखं प्राप्तम् । इदं संसारानर्थरूपं
वस्तुजातं समस्तमस्तं गतम् । चरमसाक्षात्कारोदितप्रबोधं तादृशं
निजस्वरूपं मम उदितम् । यत्र स्वरूपे भूयः अस्तमयसमुदयानां
मरणतिरोधानदुःखाद्यनर्थानां नामापि नास्ति । नामेति विद्वत्प्रसिद्धौ ॥ १७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० विश्रान्तिकथनं नाम
त्रिनवत्यधिकशततमः सर्गः ॥ १९३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विश्रान्तिकश्चनं नाम त्रिनवत्यधिकशततमः सर्गः ॥ १९३ ॥