द्विनवत्यधिकशततमः सर्गः १९२
श्रीराम उवाच ।
अहो नु सुचिरं कालं सम्भ्रान्ता वयमन्तरे ।
अपरिज्ञातमात्रेण संसारपरमाम्बरे ॥ १ ॥
इह प्रबुद्धो रामः स्वं प्रबोधं गुरुसन्निधौ ।
यथा चिन्मात्रमेवेदं तथा विस्तरतोऽब्रवीत् ॥
सर्वसन्देहनिवृत्त्या सम्यक्प्रबुद्धो रामः सुप्तोत्थितः स्वप्नभ्रान्तिमिव
संसारभ्रान्तिमाश्चर्यतया स्मरन्नाह - अहो इत्यादिना । संसारलक्षणे परमे
निरवधौ अम्बरे तत्राप्यन्तरे एतद्ब्रह्माण्डैकदेशे सुचिरं कालं
वयमपरिज्ञातमात्रेणात्मतत्त्वेन सम्भ्रान्ताः ॥ १ ॥
बुद्धे यावदियं नाम जगद्भ्रान्तिर्न किञ्चन ।
न चाभून्न च वास्तीयं न च नाम भविष्यति ॥ २ ॥
बुद्धे आत्मतत्त्वे तु यावदिति साकल्ये । तथा चोक्तं सुरेश्वरवार्तिके
तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति
भविष्यति इति ॥ २ ॥
सर्वं शान्तं निरालम्बं विज्ञानं केवलं स्थितम् ।
अनन्तं चिद्घनं व्योम नीरागमपकल्पनम् ॥ ३ ॥
यतः अपकल्पनमत एव तद्रञ्जनाभावान्नीरागम् ॥ ३ ॥
परमाकाशमेवेदमपरिज्ञातमात्रकम् ।
संसारतामिवास्माकं गतं चित्रमहो नु भोः ॥ ४ ॥
इत्थं द्वैतमिदं भातमिमे लोका इमेऽद्रयः ।
परमाकाशमित्यच्छमेवानच्छमिव स्थितम् ॥ ५ ॥
सर्गादौ परलोकादौ स्वप्नादौ कल्पनादिके ।
चिदेव चेत्यवद्भाति कुतोऽन्या किल दृश्यधीः ॥ ६ ॥
कल्पना काव्यरचना । आदिपदान्मनोराज्य परिग्रहः ॥ ६ ॥
स्वर्गे वा नरके वापि स्थितोऽस्मीति मतिर्यदि ।
तत्तस्या नरकस्यान्तो दृश्यं संविन्मयात्मकम् ॥ ७ ॥
मतिर्भ्रान्तिः । तत्तस्या भ्रान्तेर्वशात्तस्य पुंसां नरकस्य अन्तोबन्धः । अति बन्धने
घञ् ॥ ७ ॥
नेदं दृश्यं न च द्रष्टा न सर्गो न जगन्न चित् ।
न जाग्रत्स्वप्नसिद्धादि किमपीदं तदप्यसत् ॥ ८ ॥
चित् चिदाभासः ॥ ८ ॥
कुतोऽस्याः सम्भवो भ्रान्तेरिति चेद्दृश्यते मुने ।
तदेतदपि नो युक्तं भ्रान्त्यभावानुभूतितः ॥ ९ ॥
भ्रान्तेरसद्रूपत्वात्तत्कारणचिन्ताप्ययुक्तैवेत्याह - कुत इति । दृश्यते आलोच्यते ॥ ९
॥
भ्रान्तिर्न सम्भव्त्येव निर्विकारे ज्ञतापदे ।
यत्त्विदं भ्रान्तिताज्ञानं तत्तदेवेतरन्न तत् ॥ १० ॥
ज्ञता तत्त्वज्ञानं तत्पदे ॥ १० ॥
निरन्तरे निराद्यन्ते व्योम्नि शैलोदरेऽथवा ।
कुतोऽन्यताकल्पकं स्याज्ज्ञपदे चाविकारिणि ॥ ११ ॥
निरन्तरे अन्तरालशून्ये शैलोदरे स्फटिकशिलागर्भे वा ॥ ११ ॥
मिथ्यैवानुभवो भ्रान्तेः स्वप्ने स्वमरणोपमः ।
यदनालोकनं नाम शाम्यतीदं विलोकनात् ॥ १२ ॥
मृगतृष्णाम्बुगन्धर्वनगरद्वीन्दुविभ्रमः ।
तथाऽविद्याभ्रमश्चायं विचारान्नोपलभ्यते ॥ १३ ॥
द्वीन्दुविभ्रमो यथेति शेषः ॥ १३ ॥
बालवेतालवद्भ्रान्तिर्न विद्या जाग्रगापि हि ।
अविचारेण संरूढा विचारेणोपशाम्यति ॥ १४ ॥
जागरणं जाग्रः घञर्थे कः । जागरे प्रत्यक्षदृष्टापि न विद्या न यथार्था ॥ १४
॥
कुत आसीदितिमुने नात्र प्रश्नो विराजते ।
सत एव विचारेण लाभो भवति नासतः ॥ १५ ॥
इयं भ्रान्तिः कुतो निमित्तादासीदिति प्रश्नोऽप्यत्र न विराजते । विचारार्थं हि प्रश्नः स
चात्र निष्फलः । तन्मूलस्याज्ञानस्यासतो निर्णेयत्वायोगादित्यर्थः ॥ १५ ॥
प्रामाणिकविचारेण प्रेक्षितं यन्न लभ्यते ।
तदेतदसदेवादि तत्तर्ह्यनुभवो भ्रमः ॥ १६ ॥
अज्ञानस्यासत्त्वं प्रमाणपूर्वकविचारालभ्यत्वादेवेत्याह - प्रामाणिकेति ।
आदिजगन्मूलमज्ञानम् । तत्तस्मात्कारणादेव हि तदनुभवाद्भ्रमः ॥ १६ ॥
यन्नास्तीति परिच्छिन्नं प्रमाणैः सुविचारितम् ।
खपुष्पशशशृङ्गाभं तत्कथं लभ्यते सतः ॥ १७ ॥
अज्ञानं तत्कार्य च सन्मूलकमेव किं न स्यात्तत्राह - यदिति ।
प्रमाणैर्वाचारम्भणेत्यादिश्रुतिभिः [वाचारम्भणश्रुत्यादिभिः इति पाठः ।
] ॥ १७ ॥
सर्वतः प्रेक्ष्यमाणोऽपि यः कुतश्चिन्न लभ्यते ।
तस्य स्यात्कीदृशी सत्ता वन्ध्यातनयरूपिणः ॥ १८ ॥
तर्हि जगदपि सदेव किं न स्यात्तत्राह - सर्वत इति । कुतश्चित्कारणात् प्रमाणाच्च ॥
१८ ॥
भ्रान्तिर्न सम्भवत्येव तस्मात्काचित्कदाचन ।
निरावरणविज्ञानघनमेवेदमाततम् ॥ १९ ॥
यत्किञ्चिज्जगदद्यात्र भातीदं परमेव तत् ।
परं परे परापूर्णे पूर्णमेवावतिष्ठते ॥ २० ॥
परेण निरतिशयानन्देन आपूर्णे परे ब्रह्मस्वरूपे परं तदेव स्वे
महिम्न्यवतिष्ठते ॥ २० ॥
न भातं न च नाभातमिह किञ्चित्कदाचन ।
इदमित्थं स्थितं स्वच्छं शान्तमेव जगद्वपुः ॥ २१ ॥
अजममरमहार्यमार्यजुष्टं परमविकारि निरामयं समन्तात् ।
पद्महमुदितं ततं हि शुद्धं निरहमनेकमथाद्वयं विकासि ॥ २३ ॥
कीदृशं तत्पदमवतिष्ठते तदाह - अजमिति । अहार्य परैरपहर्तुमशक्यम् ।
आर्यैर्विद्वद्भिर्जुष्टं समन्तात्पूर्णमहमेव निरहं सत् बोधादुदितम् ।
आवरणपरिच्छेदभङ्गात्सर्वतोविकासि ॥ २२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ०
विश्रान्त्युपगमवर्णनन्नाम द्विनवत्यधिकशततमः सर्गः ॥ १९२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विश्रान्त्युपगमवर्णनं नाम द्विनवत्यधिकशततमः सर्गः ॥ १९२ ॥