१९१

एकनवत्यधिकशततमः सर्गः १९१

श्रीराम उवाच ।

एवं चेत्तन्मुनिश्रेष्ठ परमार्थमयं जगत् ।
सर्वदा सर्वभावात्मा नोदेति न च शाम्यति ॥ १ ॥

ब्रह्मैव जगदाकारं यथा भात्यप्रबोधतः ।
प्रबुद्धमात्रनिर्वाणं तत्सम्यगिह वर्ण्यते ॥

एवं प्रतिबोधितो रामः सैद्धान्तिकं पक्षं प्रतिपद्याभिलपति - एवं
चेदित्यादिना । परमार्थमयं परतत्त्वविवर्तः ॥ १ ॥

भ्रान्तिरेवेयमाभाति जगदाभासरूपिणी ।
भ्रान्तिरेवापि वा नैव ब्रह्मसत्तैव केवला ॥ २ ॥

भ्रान्तिर्विक्षेपशक्तिप्रधाना अविद्या यौक्तिकदृशा तत्त्वदृशा तु सापि नैव ॥ २ ॥

श्रीवसिष्ठ उवाच ।

काकतालीयवद्ब्रह्म यद्भातीवात्मनात्मनि ।
स तेनैवात्मनात्मैव जगदित्यवबुध्यते ॥ ३ ॥

श्रीरामोक्तमनुमोदमानो वसिष्ठस्तदेवाह - काकतालीयवदिति ।
काकतालीयवदतर्क्यया अविद्यया आत्मना जीवभूतेन तेनैव ब्रह्मणा ॥ ३ ॥

श्रीराम उवाच ।

कथं तपत्यहोऽदिक्कं सर्गस्यादौ परत्र च ।
कथं भित्त्या विना भाति वद दीपप्रभा मुने ॥ ४ ॥

महाप्रलयकाले
स्वालम्बनदिग्विभागादिशून्यंअपरिच्छिन्नचित्प्रकाशमसम्भावयन्निव सविस्मयं
रामः पृच्छति - कथमिति । अदिक्कं दिग्भागं विना सर्गस्यादौ प्रलयकाले
परत्र मोक्षे च कथं तपति प्रकाशते । अहो इत्याश्चर्ये । भित्त्या आलम्बनेन । तथा च
विनालम्बनं प्रभाया इव चिदात्मनोपि तथा असम्भाव्येत्यर्थः ॥ ४ ॥

श्रीवसिष्ठ उवाच ।

इत्थंरूपमिदं भाति चितिरूपप्रभाप्रभा ।
पश्य सैवात्मनाश्ते यत्प्रकाशादिभिरेव च ॥ ५ ॥

अन्यत्रादृष्टमत्याश्चर्यमप्येतत्प्रमाणानुभवबलादेव सम्भावनीयमिति
समाधत्ते - इत्थंरूपमिति । इदमित्थंरूपमत्याश्चर्यमेव । विभुं
चिदानन्दमरूपमद्भुतम् इति श्रुतेः । आश्चर्यवत्पश्यति कश्चिदेनम् इति
भगवद्वचनाच्च । तथापि नासम्भावना कार्या । अन्वयव्यतिरेकाभ्यां परीक्ष्य त्वं
पश्य । यद्यस्मात्सैव चितिरूपा सूर्यादिप्रभाया अपि प्रभा अन्धकारकाले आत्मनैव
प्रथमाना आस्ते । सूर्योदयाद्यनन्तरं प्रकाशादिभिः सहाप्यास्ते ॥ ५ ॥

भित्तौ प्रकाशो भातीव तत्कुड्यं भासनं च तत् ।
दृश्यस्यासम्भवादादौ वक्ता द्रष्टा प्रदृश्यताम् ॥ ६ ॥

सूर्यादिप्रकाशोऽपि भित्त्यादिनिरपेक्षप्रकाशस्वभाव एव सन् भित्तौ भातीव न हि तस्य
प्रकाशता भित्तिप्रयुक्ता । प्रत्युत कुड्यं तद्भासनं च तत्स्वप्रकाशताबलादेव
सम्पद्यते । प्रकाशैकरस्येनैव कुड्यप्रथनात् । तत्र
यथाकुड्यादिसम्बन्धात्प्राङ्नभसि प्रकाशो दृश्यते तथा सर्गस्यादौ प्रलयेऽपि
वक्ता श्रोता चायमात्मा निर्विषयो दृश्यतामित्यर्थः ॥ ६ ॥

तस्माद्द्रष्टास्ति नो दृश्यं नैवास्तीदमनामयम् ।
चित्प्रभैवात्मना भित्तिर्भवत्याभासनं तथा ॥ ७ ॥

एवन्निरालम्बनचित्सम्भावनसिद्धेः सैव सर्गादौ जगदाकारेण सम्पन्नेति
सम्भावयेत्याह - तस्मादिति । भित्तिर्मूर्तमालम्बनमाभासनं सूर्यादिप्रभा
यथा तथैव ॥ ७ ॥

द्रष्ट्टदृश्यात्मिकैकैव स्वात्मनैव विराजते ।
स्वप्नादिषु यथेहाद्य द्रष्ट्टदृश्यात्मिका सती ॥ ८ ॥

एकस्या एव चितस्त्रिपुटीभावः स्वप्नादिष्वपि प्रसिद्ध एवेत्याह - द्रष्ट्रिति ॥ ८ ॥

चिद्भात्येव हि सर्गादौ कचन्ती भाति सर्गवत् ।
भासनीयं च भानं च रूपं यत्र स्वयम्प्रभा ॥ ९ ॥

यत्र यस्मिन्सर्गादिकाले ॥ ९ ॥

एकैव चित्त्रयं भूत्वा सर्गादौ भाति सर्गवत् ।
एष एव स्वभावोऽस्या यदेवं भाति भासुरा ॥ १० ॥

स्वभावो मायाश्क्तिः ॥ १० ॥

एतत्तु स्वप्नसङ्कल्पनगरेष्वनुभूयते ।
इत्थं नाम तपत्येषा चिद्दीप्तिः प्रथमोदिता ॥ ११ ॥

तपति प्रकाशते ॥ ११ ॥

नभस्येव नभोरूपा यदिदं भासते जगत् ।
अनाद्यन्तमिदं तस्याः सर्गाः सर्गात्मभासनम् ॥ १२ ॥

तस्याः सर्गात्मना भासनं भानमेव सर्गाः ॥ १२ ॥

स्वभावभूतमस्माकं त्विदं भाति महात्मनाम् ।
भास्यभासकसंवित्तिर्नश्यति प्रतिभामिता ॥ १३ ॥

अज्ञानामेवेदमाश्चर्यवद्भाति नास्माकमित्याह - स्वभावभूतमिति ।
अकस्मात्प्रतिभामितापि झटित्येव तत्त्वानुसन्धानेन नश्यति ॥ १३ ॥

तदा तु नाम सर्गादौ नासीद्भास्यो न भासकः ।
मिथ्याज्ञानवशादेव स्थाणौ पुंस्प्रत्ययो यथा ॥ १४ ॥

कथं तत्त्वानुसन्धानं तदाह - तदा त्विति ॥ १४ ॥

तथात्मनि द्विताभानाच्चित्ते द्वैतविभासनम् ।
सर्गादौ न च भास्योस्ति न च वा नास्ति भासकः ॥ १५ ॥

भासकश्चिदात्मा तु न नास्ति अवश्यमस्त्येव । वाशब्दः समुच्चये [पक्षान्तरे इति
पाठः ।] ॥ १५ ॥

कारणाभावतोद्वैतं चिद्व्योमाभाति केवलम् ।
किं नाम कारणं ब्रूहि सर्गादौ चिति वस्तुतः ॥ १६ ॥

अभावादर्थदृष्टीनां चिदेवेत्थं प्रकाशते ।
जगद्भानमिदं यत्तन्न जाग्रन्न सुषुप्तकम् ॥ ११७ ॥

सर्गादौ जगद्भानस्य जाग्रदाद्यवस्थात्रयानन्तर्भावादपि तुर्यचिदेवेत्थं
प्रकाशत इत्याह - अभावादिति ॥ १७ ॥

न स्वप्नोऽसम्भवाद्दृश्यं केवलं ब्रह्म भासते ।
चिन्मात्रव्योमसर्गादावित्थं कचकचायते ॥ १८ ॥

यत्स्वमेव वपुर्वेत्ति जगदित्यजगन्मयम् ।
चिन्मात्रव्योमसर्गादावित्थं भाति विकासनम् ॥ १९ ॥

विकासनमित्युत्तरान्वयि ॥ १९ ॥

यदिदं जगदित्येव शून्यत्वाम्बरयोरिव ॥ २० ॥

शून्यत्वाम्बरयोर्भेदविकल्पविकासनम् ॥ २० ॥

बुद्ध्वा च यावत्स्वनुभूतियुक्तं स्थातव्यमेतेन विकल्पमुक्तम् ।
पाषाणमौनं कुजनेन तूक्तं न ग्राह्यमज्ञेन हि भुक्तमुक्तम् ॥ २१ ॥

वर्णितं तत्त्वानुसन्धानप्रकारमुपसंहरति - बुद्ध्वेति । एतेन
मदुक्ततत्त्वानुसन्धानोपायेन तत्त्वं बुद्ध्वा यावद्भूमिकापरिपाकक्रमेणेदं
स्वनुभूतियुक्तं दृढं भवति तावद्विकल्पमुक्तं यथा स्यात्तथा
पाषाणमौनं निरुद्धवागादिव्यापारं निर्विकल्पसमाधौ स्थातव्यम् । अज्ञेन स्वेन
परेण च अनादौ संसारे पुनःपुनर्भुक्तं वैराग्यातिशयेन साम्प्रतं मुक्तं
त्यक्तं बाह्यविषयजातं तु कुजनेन भुङ्क्ष्वेत्युक्तमपि न ग्राह्यम् । विषयग्रहणस्य
भोगलाम्पट्यहेतुतया समाधिसुखविघातकत्वादिति भावः ॥ २१ ॥

इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० महावादबोधनं
(तत्त्वानुसन्धानम्) नामैकनवत्यधिकशततमः सर्गः ॥ १९१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महावादबोधनं नामैकनवत्यधिकशततमः सर्गः ॥ १९१ ॥