१९०

नवत्यधिकशततमः सर्गः १९०

श्रीवसिष्ठ उवाच ।

ज्ञानस्य ज्ञेयतापत्तिर्बन्ध इत्यबिधीयते ।
तस्यैव ज्ञेयताशान्तिर्मोक्ष इत्यभिधीयते ॥ १ ॥

अतीतानागताः शङ्काः सर्वाः सम्मृज्य युक्तिभिः ।
ज्ञानस्य ज्ञेयताशान्तिर्मुक्तिरत्रोपपाद्यते ॥

भ्रान्तिरेवेदमखिलं ब्रह्मैवाभातमेव वा इति बन्धमोक्षनिष्कर्षप्रदर्शनमन्ते
यत्कृतं तत्परिष्कृत्याह - ज्ञानस्येति ॥ १ ॥

श्रीराम उवाच ।

ज्ञानस्य ज्ञेयताशान्तिः कथं ब्रह्मन्प्रवर्तते ।
सा रूढा बन्धताबुद्धिः कथं वात्र निवर्तते ॥ २ ॥

अत्र रामः सर्वेषामुपकाराय प्राक्समाहिता अपि शङ्काः
प्रश्नोत्तरमालिकाक्रमेनोद्घाट्य समाधानक्रमप्रख्यापनकामस्तदुपायं
प्रथमं पृच्छति - ज्ञानस्येति । रूढा दृढाभ्यस्ता । कथं केनोपायेन ॥ २

श्रीवसिष्ठ उवाच ।

सम्यग्ज्ञानेन [सम्यज्ञानप्रबोधेन इति टीकाकृदभिमतः पाठः ।
] बोधेन मन्दबुद्धिर्निवर्तते ।
निराकारा निजा शान्ता मुक्तिरेवं प्रवर्तते ॥ ३ ॥

शमदमादिसाधनसहितदृढाभ्यस्तसम्यग्ज्ञानलक्षणेन प्रबोधेन
मन्दबुद्धिर्भ्रान्तिर्निवर्तते । अपगते च भ्रान्तिस्वप्ने एवंविधा ज्ञेयता शान्तिरूपा
मुक्तिर्भूमिकापरिपाकक्रमेण प्रवर्तते ॥ ३ ॥

श्रीराम उवाच ।

बोधः केवलतारूपः सम्यग्ज्ञानं किमुच्यते ।
येन बन्धादयं जन्तुरशेषेण विमुच्यते ॥ ४ ॥

अनेकविशेषवतो रत्नादेः कतिपयविशेषेषु ज्ञातेष्वपि विशेषान्तरज्ञानाय पुनः
पुनः पर्यालोचनजन्यं सम्यग्ज्ञानमन्यत्स्यात् । निर्विशेषे तु
वस्तुन्यापातज्ञानापेक्षया सम्यग्ज्ञानमन्यत्किं स्याद्येनास्य बन्धो निवर्तेत इति
शङ्कार्थः ॥ ४ ॥

श्रीवसिष्ठ उवाच ।

ज्ञानस्य ज्ञेयता नास्ति केवलं ज्ञानमव्ययम् ।
अवाच्यमिति बोधोन्तः सम्यग्ज्ञानमिति स्मृतम् ॥ ५ ॥

अधिष्ठानचिन्मात्ररूपस्य ज्ञेयता कालत्रयेऽपि नास्तीति सर्वदृश्यबाधपर्यवसित
एव तत्त्वसाक्षात्कारः । आपाततो ज्ञानं तु न तथेत्युत्तरार्थः ॥ ५ ॥

श्रीराम उवाच ।

ज्ञानस्य ज्ञेयता भिन्ना त्वन्तः केति मुने वद ।
उत्पाद्यो ज्ञानशब्दश्च भावे वा करणेऽथ किम् ॥ ६ ॥

चिदेकरसस्यात्मनोऽन्तस्तद्भिन्ना ज्ञेयता का । तथायं ज्ञानशब्दः किं भावे
उत्पाद्यो व्युत्पादनीयः अथ किं करणे व्युत्पादनीय इति प्रश्नार्थः ॥ ६ ॥

श्रीवसिष्ठ उवाच ।

बोधमात्रं भवेज्ज्ञानं भावसाधनमात्रकम् ।
न ज्ञानज्ञेययोर्भेदः पवनस्पन्दयोरिव ॥ ७ ॥

भावे एव ज्ञानशब्दो व्युत्पाद्यः । ज्ञेयजगद्रूपता च ज्ञानस्यैव गायिको विकल्पो
नैकरस्यविघातक इत्युत्तरार्थः ॥ ७ ॥

श्रीराम उवाच ।

एवं चेत्तत्कथमयं ज्ञानज्ञेयादिविभ्रमः ।
सिद्धः शशविषाणाभो भविष्यद्भूतभव्यशः ॥ ८ ॥

एवं चेत्तत्तर्हि स विकल्पः शशविषाणकल्पः कथं
प्रत्यक्षादिभिर्भूतभव्यभविष्यद्विभागैर्व्यवहारक्षमो भासते इति प्रश्नार्थः ॥
८ ॥

श्रीवसिष्ठ उवाच ।

बाह्यार्थभ्रान्तितो ज्ञेया भ्रमबुद्धिरिहोदिता ।
बाह्यश्चाभ्यन्तरश्चार्यो न सम्भवति कश्चन ॥ ९ ॥

नासत्त्वमभाने अर्थक्रियासामर्थ्ये वा प्रयोजकम् । स्वप्नभ्रान्तिज्ञाने
असत्सहस्रस्यापि तद्दर्शनात् । किन्तु बाधस्तत्प्रयोजकः । स चात्र विचारवतां
यौक्तिकस्तत्त्वविदामपरोक्षश्चास्त्येवेत्युत्तरार्थः ॥ ९ ॥

श्रीराम उवाच ।

योऽयं प्रत्यक्षदृश्योऽर्थो मुने त्वमहमादिकः ।
भूतादिरनुभूतात्मा स कथं नास्ति मे वद ॥ १० ॥

लौकिकप्रत्यक्षादिमानसिद्धस्य कथमपलाप इति प्रश्नार्थः ॥ १० ॥

श्रीवसिष्ठ उवाच ।

आदिसर्गविधावेव विराडात्मादिकोऽनघ ।
जातो न कश्चिदेवार्थो ज्ञेयस्यातो न सम्भवः ॥ ११ ॥

आदिसर्गे जगतो मायातिरिक्तसामग्र्या दुर्वचत्वाद्भ्रान्तिमात्रत्वे अवश्यं वक्तव्ये
सम्प्र्त्यपि तथैव वाच्यमिति व्यवहारमात्राविसंवादेव चरितार्थानि
लौकिकप्रत्यक्षादीनि तत्त्वगोचरयुक्तिभिः श्रुतिभिश्च बाध्यन्त इत्युत्तराशयः । तथा
च श्रुतिः न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तिरित्येषा
परमार्थता इति ॥ ११ ॥

श्रीराम उवाच ।

भविष्यद्भूतभव्यस्था जगद्दृष्टिरियं मुने ।
नित्यानुभूयमानापि न जातेति किमुच्यते ॥ १२ ॥

भूतभविष्यदाद्यनन्तवस्तुगोचराणामनन्तानां सर्वजनीनानां
प्रत्यक्षादीनामेकेन तत्त्वज्ञानेन कथं बाध इति शङ्कार्थः ॥ १२ ॥

श्रीवसिष्ठ उवाच ।

स्वप्नार्थमृगतृष्णाम्बुद्वीन्दुसङ्कल्पितार्थवत् ।
मिथ्या जगदहन्त्वं च भाति केशोण्ड्रकं यथा ॥ १३ ॥

तादृशानामपि स्वाप्नज्ञानानामेकेन जागरेण बाधदर्शनादित्युत्तरार्थः ॥ १३ ॥

श्रीराम उवाच ।

अहं त्वमयमित्यादिजगज्जठरमप्यलम् ।
कथं न जातं भगवन्सर्गादावनुभूतिमत् ॥ १४ ॥

कया युक्त्या बाध इति प्रश्नार्थः ॥ १४ ॥

श्रीवसिष्ठ उवाच ।

कारणाज्जायते कार्यं नान्यथेत्येव निश्चयः ।
सर्वोपशान्तौ जगतामुत्पत्तौ नास्ति कारणम् ॥ १५ ॥

कारणाभावयुक्त्येत्युत्तरार्थः ॥ १५ ॥

श्रीराम उवाच ।

महाप्रलयसम्पत्तौ शिष्टं यदजमव्ययम् ।
तत्कथं नाम सर्गस्य न भवेत्कारणं मुने ॥ १६ ॥

ब्रह्मैव कारणं किं न स्यादिति प्रश्नार्थः ॥ १६ ॥

श्रीवसिष्ठ उवाच ।

यदस्ति कारणे कार्यं तत्तस्मात्सम्प्रवर्तते ।
न त्वसज्जायते राम न घटाज्जायते पटः ॥ १७ ॥

ब्रह्मणश्चिदेकरसत्वेन तत्र जगद्बीजशक्त्ययोगादित्युत्तरार्थः ॥ १७ ॥

श्रीराम उवाच ।

जगत्सूक्ष्मेण रूपेण महाप्रलय आगते ।
आस्ते ब्रह्मणि तत्तस्मात्पुनरेव प्रवर्तते ॥ १८ ॥

तर्हि साङ्ख्याभिमतगुणेष्विव ब्रह्मणि सूक्ष्मरूपेण तदा जगदस्तु इति प्रश्नार्थः ॥
१८ ॥

श्रीवसिष्ठ उवाच ।

महाप्रलयपर्यन्ते केन सर्गास्तितानघ ।
अनुभूता महाबुद्धे तत्रस्था सा च कीदृशी ॥ १९ ॥

तत्सत्तायाः साधकाभावादैकरस्यश्रुतिबाधितत्वाच्च
अभ्युपगन्तुमशक्यत्वादित्युत्तराशयः ॥ १९ ॥

श्रीराम उवाच ।

ज्ञप्त्यात्मिका श्रीस्तत्रस्था तादृशेरनुभूयते ।
व्योमात्मिका तु न भवेन्न सत्तामसदेति हि ॥ २० ॥

तर्हि ज्ञप्त्येकरसतयैव तदा स्वप्रकाशातत्सत्तास्तु न मायाकाशात्मिका । तस्याः
शून्यतापर्यवसानेन असतः सदात्मना सर्गे आगमनायोगादिति प्रश्नार्थः । हि
यस्मादसत् सत्तां नेइति ॥ २० ॥

श्रीवसिष्ठ उवाच ।

एवं चेत्तन्महाबाहो ज्ञप्तिरेव जगत्त्रयम् ।
विशुद्धज्ञानदेहस्य कुतो मरणजन्मनी ॥ २१ ॥

एवं चेच्चिदेकरसमेव ततो जगत्स्यात् तथा च भेदकाभावे को जगच्छब्दार्थ
इत्युत्तराशयः ॥ २१ ॥

श्रीराम उवाच ।

तदेवमादितो नास्ति सर्गस्तदियमागता ।
कुतः कथमिव भ्रान्तिरिति मे भगवन्वद ॥ २२ ॥

तर्हि जगद्भ्रान्तेः किं कारणमिति प्रश्नार्थः ॥ २२ ॥

श्रीवसिष्ठ उवाच ।

कार्यकारणताभावाद्भावाभावौ स्त एव नो ।
इदं च चेत्यते यद्यत्स्वात्मा चेतति चेतितम् ॥ २३ ॥

न वास्तवं कारणं तत्कार्य भावात्मकं जगद्वा अस्ति मायया तु ब्रह्मैव
तत्तत्त्रिपुटीवेषं धत्ते इत्युत्तरार्थः । यद्यच्चेत्यते यच्चेतितं यच्च चेतति तत्त्रयमपि
स्वात्मैवेत्यर्थः ॥ २३ ॥

श्रीराम उवाच ।

चेतिता चेतति यन्त्रं द्रष्टा दृश्यत्वमीश्वरः ।
कथमेति कथं वह्निं दहेत्काष्ठं कदा किल ॥ २४ ॥

नन्विदं विपरीतम् । यन्त्रसदृशः कार्यकारणसङ्घातः अचिद्रूपश्चेतति
तादृग्रूपत्वात्सर्वद्रष्टा चेश्वरो जडरूपं दृश्यत्वमेतीति काष्ठं दग्धृ
भूत्वा वह्निं दाह्यं कृत्वा कदा किल दहेदिति शङ्कार्थः ॥ २४ ॥

श्रीवसिष्ठ उवाच ।

द्रष्टा न याति दृश्यत्वं दृश्यस्यासम्भवादतः ।
द्रष्टैव केवलो भाति सर्वात्मैकघनाकृतिः ॥ २५ ॥

न द्रष्टा दृश्यत्वं यातीति वयं प्रतिपादयामः किन्तु दृश्यादित्रिपुटी
द्रष्ट्टकैवल्यरूपदृङ्मात्रमेवैकघनाकृतिः स्वयं भातीति न किञ्चिद्विपरीतं
किन्तु सर्ववैपरीत्यनिवृत्तिरेवेत्युत्तराशयः ॥ २५ ॥

श्रीराम उवाच ।

चिन्मात्रं तदनाद्यन्तं चेत्यं चेतयते तदा ।
तदिदं जगदाभानं कुतः स्याच्चेत्यसम्भवः ॥ २६ ॥

सर्गादावचेतितजगत्प्रतिभासासिद्धेः शुद्धचिन्मात्रमेव तदा चेत्यं चेतयते
इत्यवश्यं वाच्यम् । तत्र चेत्यस्य कुतः सम्भवस्तद्वदेति प्रश्नार्थः ॥ २६ ॥

श्रीवसिष्ठ उवाच ।

चेत्यं हि कारणाभावान्न सम्भवति किञ्चन ।
चेत्याभावाच्चेतनस्य मुक्तताऽवाच्यता सदा ॥ २७ ॥

चेत्यं चेत्सर्गादौ सम्भूतं स्यात्तदा तत्कुतः सम्भूतमिति प्रश्नावसरः स्यात् ।
अत्यन्तासम्भूतस्य वन्ध्यापुत्रकल्पस्य किमुपपत्तिजिज्ञासयेति नित्यमुक्त एवात्मा
प्रतिपत्तव्य इत्युत्तरार्थः । अवाच्यता वक्तुमनर्हता ॥ २७ ॥

श्रीराम उवाच ।

एवं चेत्तदहन्तादि चेत्यं कथमिदं कुतः ।
कथं जगद्वेदनं च कथं स्पन्दादिवेदनम् ॥ २८ ॥

नित्यमुक्तत्वं चेदहन्तादिप्रतिभास एव कदापि न स्यादिति गुरुशास्त्रादिवैफल्यमिति
शङ्काशयः ॥ २८ ॥

श्रीवसिष्ठ उवाच ।

कारणासम्भवादादावेवोत्पन्नं न किञ्चन ।
कुतश्चेत्यमतः शान्तं सर्वं सर्गस्तु विभ्रमः ॥ २९ ॥

नोत्पन्नमेव किञ्चिदिति नित्यमुक्तताप्रतिबोधनेन जगद्बन्धविभ्रमशान्तिरेव
शास्त्रादिफलमित्युत्तराशयः ॥ २९ ॥

श्रीराम उवाच ।

अत्र मे विगतोल्लेखे निश्चेत्यचलनादिके ।
सकृद्विभाते विमले विभ्रमः कस्य कीदृशः ॥ ३० ॥

अत्र मे ब्रूह्युत्तरमिति शेषः । विगतोल्लेखे वागगम्ये सकृद्विभाते सदा स्वप्रकाशे
नित्यमुक्ते ब्रह्मणि विभ्रम एव कस्य कुतो वा निमित्तात्कीदृशः किम्प्रकारश्च ।
अद्वयेन द्वैतलेशस्याप्यसहनादिति प्रश्नार्थः ॥ ३० ॥

श्रीवसिष्ठ उवाच ।

कारणाभावतो राम नास्त्येव खलु विभ्रमः ।
सर्वं त्वमहमित्यादि शान्तमेकमनामयम् ॥ ३१ ॥

अस्तु शास्त्राधिगताद्वितीयब्रह्मतत्त्वदृशा विभ्रमोऽप्यनुपपन्नः । नैतावता
कृतकार्य शास्त्रं विफलमित्युत्तराशयः ॥ ३१ ॥

श्रीराम उवाच ।

ब्रह्मन्भ्रममिवापन्नः प्रष्टुं जानामि नाधिकम् ।
नात्यन्तं च प्रबुद्धोऽस्मि पृच्छामि किमिहाधुना ॥ ३२ ॥

एवं निरुत्तरीकृतो रामः प्रबोधदार्ढ्याभावादनिवृत्तसंशयः
प्रश्नाशक्तिमेव स्वस्य दर्शयति - ब्रह्मन्निति ॥ ३२ ॥

श्रीवसिष्ठ उवाच ।

कारणस्यैव निकषं पृच्छ माऽऽकारणक्षयात् ।
परे स्वभावेऽनिर्वाच्यै स्वयं विश्रान्तिमैष्यसि ॥ ३३ ॥

हे राम न निरुत्तरीकरणादप्रतिभामात्रेण प्रश्नादुपरमस्व किन्तु
प्रश्नकारणस्य संशयबीजस्य निकषोपलवत्सारासारतापरीक्षास्थानं मा मां
आकारणक्षयाद्यावदाशङ्कं पृच्छ । ततः क्रमेण प्रश्नकारणसंशयानां
तत्कारणस्याज्ञानस्य च निःशेषं क्षयात्परे स्वभावे विश्रान्तिमेष्यसि ॥ ३३ ॥

श्रीराम उवाच ।

मन्येऽहं कारणाभावात्पूर्वमेव न सर्गता ।
उदिता तेन कस्यायं चेत्यचेतनविभ्रमः ॥ ३४ ॥

कारणाभावात्पूर्वं सर्गादावेव सर्गता नोदितेति त्वदुक्तं सिद्धान्तमहं मन्ये
अवगच्छाम्येव तथापि ममायं चेत्यचेतनविभ्रमः कस्येति संशयो नापगच्छति
तत्र को हेतुरिति प्रश्नाशयः ॥ ३४ ॥

श्रीवसिष्ठ उवाच ।

अकारणत्वात्सर्वत्र शान्तत्वाद्भ्रान्तिरस्ति नो ।
अनभ्यासवशादेव न विश्राम्यति केवलम् ॥ ३५ ॥

यदि मदुक्तं सिद्धान्तं जानासि तर्हि
अनभ्यासवशात्तज्ज्ञानादार्ढ्यादविश्रान्तिरेव ते वृथां
नानासंशयहेतुरित्युत्तराशयः ॥ ३५ ॥

श्रीराम उवाच ।

कुतो भवेदनभ्यासो भवेदभ्यसनं कुतः ।
कुतोऽभ्यासात्मिका भ्रान्तिरेषा पुनरुपस्थिता ॥ ३६ ॥

यत्र जगद्भ्रान्तेरपि कारणं नास्ति तत्राभ्यासात्मिका भ्रान्तिः कुतो हेतोरुपस्थिता
स्यादिति प्रश्नार्थः ॥ ३६ ॥

श्रीवसिष्ठ उवाच ।

अनन्तत्वादनन्तस्य भ्रान्तिर्नास्ति च सम्प्रति ।
अभ्यासभ्रान्तिरखिलं महाचिद्घनमक्षतम् ॥ ३७ ॥

मास्तु कापि भ्रान्तिस्तथापि जीवन्मुक्तानां चिद्घनात्मकसर्ववस्तुभिर्व्यवहार##-

श्रीराम उवाच ।

उपदेश्योपदेशादावनया शब्दसम्पदा ।
किमन्यद्वद मे ब्रह्मन्सर्वस्मिञ्छान्ततां गते ॥ ३८ ॥

जीवन्मुक्तानां भवदादीनां सर्वस्मिञ्जगद्भ्रमे शान्ततां गते सति
अनयाऽध्यात्मशास्त्ररूपया शब्दसम्पदा
उपदेशार्हाणामस्मदादीनामुपदेशकायप्रवेशशक्तिपातादिना
प्रबोधनव्यवहारे किमन्यत्कारणं स्यादिति प्रश्नः ॥ ३८ ॥

श्रीवसिष्ठ उवाच ।

उपदेश्योपदेशात्म ब्रह्म ब्रह्मणि संस्थितम् ।
बोधात्मनि न मोक्षोऽस्ति न बन्धोऽस्तीति निश्चयः ॥ ३९ ॥

तेषामुपदेशादिसर्वव्यवहारात्मना ब्रह्मैव ब्रह्मणि संस्थितम् ।
अन्यादृशानां बन्धमोक्षतदुपायानां तत्त्वदृशा
अत्यन्ताप्रसिद्धेरित्युत्तराशयः ॥ ३९ ॥

श्रीराम उवाच ।

देशकालक्रियाद्रव्यभेदवेदनचेतसाम् ।
सर्वस्यासम्भवे सर्वसत्ता कथमुपस्थिता ॥ ४० ॥

अज्ञदृष्टिप्रसिद्धा जगत्सत्ता तर्हि केन हेतुनोपस्थितेति प्रश्नः ॥ ४० ॥

श्रीवसिष्ठ उवाच ।

देशकालक्रियाद्रव्यभेदवेदनचेतसाम् ।
अज्ञानमात्रादितरा सत्ता नान्यास्ति नो पुरा ॥ ४१ ॥

अज्ञानहेतुनैवेत्युत्तरम् । यतो जीवन्मुक्तेः पुरा अन्या तदनुभवसिद्धा जगत्सत्ता नो ॥
४१ ॥

श्रीराम उवाच ।

बोध्यबोधकतापत्तेरभावाद्बोधता कथम् ।
द्वैतैक्यासम्भवे ब्रह्मन्कारणासम्भवे सति ॥ ४२ ॥

तत्त्वदृशा द्वैतैक्यासम्भवे सति
बोध्यबोधकभावापत्तेरप्यभावात्तत्त्वबोधस्य बोधता वा कथम् न ह्यकर्मको
बोधशब्दो लोके प्रसिद्धोऽस्तीति प्रश्नार्थः ॥ ४२ ॥

श्रीवसिष्ठ उवाच ।

बोधेन बोधतामेति बोधशब्दस्तु बोध्यताम् ।
भवद्विषयमेवायमुचितो नास्मदादिषु ॥ ४३ ॥

अबुद्धं हि ब्रह्मबोधेन स्वाज्ञानक्षयफलाश्रयत्वेन बोध्यतां
बोधकर्मतामेति । तेनैव तु बोधशब्दोऽपि बोध्यतां
बोधफलवत्तालक्षणसकर्मकतामेति । इदं सर्वमज्ञानवद्भवद्विषयमेव ।
जीवन्मुक्तेष्वस्मदादिषु त्वज्ञानाभावान्न बोधस्य सकर्मकता निरूपयितुं
शक्येत्यर्थः ॥ ४३ ॥

श्रीराम उवाच ।

बोध एव यदाहन्त्वमेति बोधान्यता तदा ।
कुत एषा परेऽनन्ते नासावतिजलेऽमले ॥ ४४ ॥

नास्मदादिष्विति वदता भवता जीवन्मुक्तेष्वप्यस्मच्छब्दप्रवृत्तिनिमित्तभूता
अहन्ता दर्शिता । सा च् नाबोधकार्यम् । तेष्वबोधाप्रसिद्धेः । अतः परिशेषाद्बोध एव
अहन्तालक्षणं परिणाममेतीति वाच्यम् । तदा च बोधान्यता तस्य दुर्वारा असावहन्ता
हि ना जीवाख्यः पुरुषः । एषा च परे अनन्ते त्रिविधपरिच्छेदशून्ये अत एव
जलमतिक्रान्ते अतिजले जलादप्यतिशयिते अमले चिन्मात्रे त्वयि कुतः ॥ ४४ ॥

श्रीवसिष्ठ उवाच ।

यत्तद्बोधस्य बोधत्वं तदेवाहन्त्वमुच्यते ।
द्वित्वमत्रानिलस्पन्ददृशोरिव निगद्यते ॥ ४५ ॥

बोधैकरसस्यास्मदादेर्यद्बोधत्वं स्वरूपभूतं
तदेवानिलस्पन्दवद्वैकल्पिकव्यपदेशेनाहन्त्वमस्माभिरुच्यते
नाज्ञवदभिमानप्रधानेन जीवपुरुषेणेत्युत्तरार्थः ॥ ४५ ॥

श्रीराम उवाच ।

सौम्याब्ध्यन्तस्तरङ्गादिर्यथादत्ते यथास्थितम् ।
तथा स्वरूपमात्रात्म बोध्यं बोधोऽवबुद्धवान् ॥ ४६ ॥

एवं चेत्समुद्रतरङ्गन्यायेन जीवन्मुक्तानां चिन्मयमेवाहन्तादिजगत्
बोध्यबोधादित्रिपुटी चेति पर्यवसन्नमिति प्रश्नाशयः ॥ ४६ ॥

श्रीवसिष्ठ उवाच ।

एवं चेत्तत्कथं कः स्याद्दोषो द्वित्वादिदोषतः ।
अनन्ते स्थित एकस्मिञ्छान्ते पूर्णे परे पदे ॥ ४७ ॥

यद्येवं स्थितिरेव तत्त्वं तर्हि तया द्वैतैक्यासम्भवे ब्रह्मन्कारणासम्भवे सति इति
त्वदुद्भावितो द्वित्वादिप्रसक्तितो यः अद्वैतहानिलक्षणो दोषः स कथं स्यात् कश्च स्यात्
तस्मान्नैवं मन्तव्यमिति शुद्धाद्वैतमेवावलम्बस्वेत्यर्थः ॥ ४७ ॥

श्रीराम उवाच ।

कोऽत्र कल्पयिताहन्त्वं भुङ्क्ते भोक्ता च कश्च वा ।
यन्मूलं यज्जगद्भ्रान्तिरनन्ता प्रविजृम्भते ॥ ४८ ॥

तर्हि शुद्धाद्वैतपक्षे अनिलस्पन्दवदहन्त्वविकल्पं कल्पयिता को व्यवहारं
भुङ्क्ते । जगद्भ्रान्तिविकल्पस्यापि तथैवावर्जने पुनर्बन्धमोक्षकल्पनापि स्यादिति
प्रश्नार्थः ॥ ४८ ॥

श्रीवसिष्ठ उवाच ।

ज्ञेयसत्तावबोधे हि बन्धनं सच्च नास्त्यलम् ।
ज्ञप्तेः सर्वार्थरूपत्वाद्बन्धमोक्षावतः कुतः ॥ ४९ ॥

ज्ञेयार्थसत्यत्वाभिनिवेशे हि पुनर्बन्धनं प्रसज्जेत । तत्त्वविदां तु सत् ज्ञेयं
अलं अत्यन्तं नास्ति । तत्त्वज्ञानेन बाधात् । ज्ञप्तिरेव हि तेषां प्रारब्धशेषभोगाय
सर्वार्थाकारेव भासते नातः पुनर्बन्धादिकल्पनाप्रसक्तिरित्युत्तरार्थः ॥ ४९ ॥

श्रीराम उवाच ।

ज्ञप्तेर्बाह्यार्थता दीपान्नीलादीव प्रवर्तते ।
बाह्यस्त्वर्थोऽस्ति सद्रूपो ननु दृष्टोपलम्भनः ॥ ५० ॥

ननु न ज्ञप्तिः सर्वार्थरूपा । यतो दीपात्प्रकाशकान्नीलपीतादिरूपस्थितिरिव
ज्ञप्तेर्वशाद्बाह्यघटपटाद्यर्थस्थितिः प्रवर्तते प्रथां लभते । तथा च
दृष्टोपलम्भनं प्रत्यक्षादिसिद्धो बाह्योऽर्थः सद्रूपो ज्ञप्तिबलादेव सिद्धः
कथं तयैवापलपितुं शक्य इति शङ्कार्थः ॥ ५० ॥

श्रीवसिष्ठ उवाच ।

अकारणस्य कार्यस्य बाह्यस्यार्थस्य सत्यता ।
येयं सा भ्रान्तिमात्रात्मरूपिणी नेतराङ्गिका ॥ ५१ ॥

यदा बाह्यार्थस्याकारणकत्वाद्वन्ध्यापुत्रसदृशत्वं प्राक्साधितं तदा तस्य
येयमापातदर्शनप्रसिद्धा सत्यता सा शुक्तिरजतसत्यतेव भ्रान्तिमात्रात्मरूपिणी न
तु इतरद्यथार्थबुद्धिरङ्गं साधकं यस्यास्तथाविधा । तत्त्वविदां तु
भ्रान्तिमूलाज्ञाननाशात्तत्प्रसक्तिरेव नास्तीत्युत्तरार्थः ॥ ५१ ॥

श्रीराम उवाच ।

स्वप्नः सत्योऽस्त्वसत्यो वा दुःखं तावत्प्रयच्छति ।
तथैवेयं जगद्भ्रान्तिः क उपायोऽत्र कथ्यताम् ॥ ५२ ॥

तात्कालिकार्थक्रियासामर्थ्यात्सत्योऽस्तु । प्रबोधबाध्यत्वादसत्यो वाऽस्तु । अत्र
तच्चिकित्सायां क उपाय इति प्रश्नः स्पष्टः ॥ ५२ ॥

श्रीवसिष्ठ उवाच ।

एवं तावद्यथा स्वप्नस्तथेयं चेज्जगत्स्थितिः ।
तत्पिण्डग्रहतार्थानां सर्वैव भ्रान्तितोदिता ॥ ५३ ॥

स्वप्नसाम्ये सिद्धे तत्त्वबोधेन तत्पिण्डग्रहताबाध एव सर्वदुःखशान्त्युपाय
इत्युत्तराशयः । तत्तर्हि सर्वैव अर्थानां पिण्डग्रहताभ्रान्तितैवेति अर्थादुदितैव ॥ ५३ ॥

श्रीराम उवाच ।

किमेतावति सम्पन्ने सम्पन्नं भवति प्रियम् ।
कथं च शाम्यत्यर्थानां स्वप्नादौ पिण्डरूपता ॥ ५४ ॥

आशयमप्रतिपद्य प्रश्नः स्पष्टः ॥ ५४ ॥

श्रीवसिष्ठ उवाच \।

पूर्वापरपरामर्शात्पिण्डतार्थेषु शाम्यति ।
स्वप्नेऽप्येवं स्थिते स्थूला भावना विनिवर्तते ॥ ५५ ॥

एवं पूर्वापरपरामर्शेन स्थिते अवश्यं प्रबोधोदये स्थूला स्वप्नभावना
विनिवर्तते ॥ ५५ ॥

श्रीराम उवाच ।

भावना तनुतां याता यस्यासौ किं प्रपश्यति ।
कथं शाम्यति तस्यायं संसारकुहरभ्रमः ॥ ५६ ॥

यस्य पूर्वापरविमर्शेन जगत्स्थौल्यभावना तनुतां याता स जीवन्मुक्तो जगत्किं
कीदृशं प्रपश्यतीति प्रश्नः ॥ ५६ ॥

श्रीवसिष्ठ उवाच ।

उद्ध्वस्तमसदाभासमुत्पन्ननगरोपमम् ।
वर्षप्रोन्मृष्टचित्राभं जगत्पश्यत्यवासनः ॥ ५७ ॥

उत्तरं स्पष्टम् ॥ ५७ ॥

श्रीराम उवाच ।

ततः किं तस्य भवति वासनातानवे स्थिते ।
पिण्डग्रहे गतेऽर्थानां स्वप्नोपमजगत्स्थितेः ॥ ५८ ॥

ततस्तदनन्तरम् ॥ ५८ ॥

श्रीवसिष्ठ उवाच ।

सङ्कल्परूपजगतः क्रमात्सापि विलीयते ।
वासना तस्य तेनाशु स निर्वाति विवासनः ॥ ५९ ॥

उत्तरोत्तरभूमिकापरिपाकक्रमात् ॥ ५९ ॥

श्रीराम उवाच ।

अनेकजन्मसंरूढा शाखा प्रसवशालिनी ।
भवबन्धकरी घोरा कथं शाम्यति वासना ॥ ६० ॥

श्रीवसिष्ठ उवाच ।

यथाभूतार्थविज्ञानाद्भ्रान्तिमात्रात्मनि स्थिते ।
पिण्डग्रहवियुक्तेऽस्मिन्दृश्यचक्रे क्रमात्क्षयः ॥ ६१ ॥

भ्रान्तिमात्रात्मनि अस्मिन्दृश्यचक्रे यथाभूतार्थविज्ञानात्पिण्डग्रहविमुक्ते
दग्धपटन्यायेन स्थिते सति प्रारब्धशेषभोगक्रमात्तस्यापि क्षय इत्यर्थः ॥ ६१ ॥

श्रीराम उवाच ।

पिण्डग्रहविमुक्तेऽस्मिन्दृश्यचक्रे क्रमान्मुने ।
सम्पद्यते किमपरं कथं शान्तिः प्रजायते ॥ ६२ ॥

अपरं किं निर्विक्षेपतासाधकं सम्पद्यते इति प्रश्नः ॥ ६२ ॥

श्रीवसिष्ठ उवाच ।

पिण्डग्रहभ्रमे शान्ते चित्तमात्रात्मतां गते ।
निरोधगौरवोन्मुक्ते जगत्यास्थोपशाम्यति ॥ ६३ ॥

भोगास्थाशान्तिः परवैराग्याख्या सम्पद्यत इत्युत्तरम् ॥ ६३ ॥

श्रीराम उवाच ।

बालसङ्कल्परूपेऽस्मिन्स्थिते जगति भासुरे ।
कथमास्थोपशमनं तादृग्दुःखाय किं नरः ॥ ६४ ॥

बालसङ्कल्परूपे अतिपेलवतया स्थितेऽपि जगति दुःखहेत्वास्थोपशमनं कथम् । तर्हि
तादृगत्यन्तपेलवसङ्कल्पः शिशुरपि नरो दुःखाय किम् । दुःखमनुभवन् कथं
दृश्यते इत्यर्थः ॥ ६४ ॥

श्रीवसिष्ठ उवाच ।

सङ्कल्पमात्रसम्पन्ने नष्टे दुःखं कथं भवेत् ।
सङ्कल्पचित्तमात्रं यत्तत्तावत्प्रविचार्यताम् ॥ ६५ ॥

अविचारेण पेलवत्वापरिज्ञानादेव शिशोरपि दुःखम् । विचारेण तत्परिज्ञाने तु न
तन्नाशादिना दुःखमिति त्वमपि विचारयेत्युत्तरमाह - सङ्कल्पेति ॥ ६५ ॥

श्रीराम उवाच ।

कीदृशं भगवंश्चित्तं कथं तत्प्रविचार्यते ।
किं च सम्पद्यते ब्रूहि तस्मिन्सम्यग्विचारिते ॥ ६६ ॥

प्रश्नः स्पष्टः ॥ ६६ ॥

श्रीवसिष्ठ उवाच ।

चितश्चेत्योन्मुखत्वं यत्तच्चित्तमिति कथ्यते ।
विचार एष एवास्य वासनानेन शाम्यति ॥ ६७ ॥

एषः साम्प्रतं त्वया मां पुरस्कृत्य क्रियामाणो महारामायणश्रवणरूप एव ॥
६७ ॥

श्रीराम उवाच ।

कियन्नाम भवेद्ब्रह्मन्न चेत्योन्मुखता चितेः ।
चित्तस्याचित्ततोदेति कथं निर्वाणकारिणी ॥ ६८ ॥

चित्ते जीवति सति तन्निरोधसाध्या चितेरचेत्योन्मुखता कियत्कालं स्थास्यति ।
अतश्चित्तनाशोपायमेव वदेति प्रश्नार्थः ॥ ६८ ॥

श्रीवसिष्ठ उवाच ।

चेत्यं न सम्भवत्येव चित्किं चेतयते कुतः ।
चेत्यासम्भवतश्चित्तसत्ता नास्ति ततश्चिरम् ॥ ६९ ॥

चेत्यस्यासम्भवदर्शनेन मार्जनमेव चित्तनाशोपाय इत्युत्तरार्थः ॥ ६९ ॥

श्रीराम उवाच ।

कथं न सम्भवत्येतच्चेत्यं यदनुभूयते ।
अपह्नवश्चानुभवे क्रियते कथमीदृशः ॥ ७० ॥

चेत्यं सर्वथा न सम्भवति चेत्तदनुभवस्य को विषय इति प्रश्नतात्पर्यार्थः ॥ ७० ॥

श्रीवसिष्ठ उवाच ।

यादृक्स्यादज्ञविषयं जगत्तस्य न सत्यता ।
यादृक्च तज्ज्ञविषयं तदनाख्यं यदद्वयम् ॥ ७१ ॥

अज्ञपरिज्ञातस्यापह्नवे अर्थात्तस्य तत्त्ववित्परिज्ञातनामरूपातीतवस्त्वेव विषय
इत्युत्तरार्थः ॥ ७१ ॥

श्रीराम उवाच ।

त्रिजगत्कीदृगज्ञानां कथं तस्य न सत्यता ।
तज्ज्ञानां तु जगद्यादृक्तद्वक्तुं किं न युज्यते ॥ ७२ ॥

प्रश्नः स्पष्टः ॥ ७२ ॥

श्रीवसिष्ठ उवाच ।

आद्यन्तद्वैतमज्ञानां तज्ज्ञानां तन्न विद्यते ।
जगच्च नो सम्भवति नित्यानुत्पन्नमादितः ॥ ७३ ॥

आद्यन्तौ देशकालकृतपरिच्छेदौ द्वैतं वस्तुकृतपरिच्छेदश्च
यस्मिंस्तथाविधं तत्तादृशं जगत्तज्ज्ञानां साम्प्रतं न विद्यते आदितश्च न
सम्भवतीति नित्यानुत्पन्नं शशविषाणवन्ध्यापुत्रप्रायमित्यर्थः ॥ ७३ ॥

श्रीराम उवाच ।

आदितो यदनुत्पन्नं न सम्भवति कर्हिचित् ।
असद्रूपमनाभासं कथं तदनुभूयते ॥ ७४ ॥

अत्यन्ताऽसच्चेत्कथमर्थक्रियासमर्थमनुभूयत इति प्रश्नः ॥ ७४ ॥

श्रीवसिष्ठ उवाच ।

असदेव सदाभासमनुत्पन्नमकारणम् ।
जाग्रत्स्वप्नवदुद्भूतमर्थकृच्चानुभूयते ॥ ७५ ॥

एवंविधापि जाग्रत्स्वप्नवदनुभूयत इत्युत्तरम् ॥ ७५ ॥

श्रीराम उवाच ।

स्वप्नादौ कल्पनादौ च यद्दृश्यमनुभूयते ।
तज्जाग्रद्रूपसंस्कारादनुष्ठानानुभूतितः ॥ ७६ ॥

कल्पनादौ मनोराज्यवितर्कादौ । अनुष्ठानं जाग्रद्व्यवहारस्तदनुभवतः
प्रसूतात्तद्रूपसंस्कारादित्यर्थः ॥ ७६ ॥

श्रीवसिष्ठ उवाच ।

किं जाग्रद्रूपमाहोस्विदन्यत्स्वप्नेऽनुभूयते ।
सङ्कल्पे च मनोराज्ये इति मे वद राघव ॥ ७७ ॥

संस्कारात्स्वप्ने किं जाग्रत्प्रसिद्ध एवार्थोऽनुभूयते उतान्य इति मे वदेति प्रश्नार्थः
॥ ७७ ॥

श्रीराम उवाच ।

स्वप्नेषु कल्पनाद्येषु जाग्रदेवावभासते ।
संस्कारात्मतया नित्यं मनोराज्यभ्रमेषु च ॥ ७८ ॥

तत्राद्यकल्पं रामः परिगृह्योत्तरमाह - स्वप्नेष्विति । जाग्रत् जाग्रत्प्रसिद्धोऽर्थ
एव ॥ ७८ ॥

श्रीवसिष्ठ उवाच ।

तदेव जाग्रत्संस्कारात्स्वप्नश्चेदवभासते ।
तत्स्वप्ने लुठितं गेहं कथं प्रातरवाप्यते ॥ ७९ ॥

लुठितं पातितं गेहं गृहम् । अर्थाभेदे स्वाप्नपातनस्य जाग्रत्पातनरूपत्वादिति
भावः ॥ ७९ ॥

श्रीराम उवाच ।

न जाग्रदाजते स्वप्ने तद्ब्रह्मान्यत्तदेव हि ।
बुद्धमेतत्कथं त्वन्यदपूर्वमिव भासते ॥ ८० ॥

आद्यकल्पपरिग्रहे दूषिते रामो द्वितीयकल्पमवलम्बते - नेति । जाग्रदर्थः स्वप्ने
न राजते न भासते किन्त्वन्यत् । तच्च ब्रह्मैवेत्येतत्त्वदभिप्रेतं मया बुद्धम् ।
एतावांस्तु सन्देहः परिशिष्टः - तदन्यद्ब्रह्म अपूर्वं जगदिव भासते इति ॥ ८० ॥

श्रीवसिष्ठ उवाच ।

नानुभूतोऽनुभूतश्च चेतस्यर्थोऽवभासते ।
सर्गाद्यन्तादिमध्येषु स्वभ्यस्तस्त्विति भासते ॥ ८१ ॥

नापूर्वमिव भासत इत्येव नियमः किन्तु कश्चिदर्थो नानुभूतोऽपूर्व इति कश्चित्त
प्रागनुभूतो नापूर्व इति चावभास्तेऽसौ च येन येनाकारेण
सर्गाद्यन्तादिमध्येष्वनुभवोऽभ्यस्तः स इति तेन तेनाकारेण भासते । तत्र
ब्रह्माकारताभ्यासे स्वभ्यस्ते तथैव भासिष्यत इति भावः ॥ ८१ ॥

श्रीराम उवाच ।

एवं स्वप्नात्मकं भाति जगदित्येव बुद्धवान् ।
ग्रहवत्स्वप्नयक्षोऽयं कथं ब्रह्मंश्चिकित्स्यते ॥ ८२ ॥

एवं त्वया बोधितोऽहं जाग्रज्जगदपि स्वप्नात्मकमेव भातीत्येव बुद्धवान् ।
तथाविधोऽप्ययं जगद्यक्षो ग्रहवद्बाधते अतः कथं चिकित्स्यते ॥ ८२ ॥

श्रीवसिष्ठ उवाच ।

योऽयं संसरणस्वप्नः स किङ्कारणको भवेत् ।
कार्यान्न कारणं भिन्नमिति दृष्टं विचारय ॥ ८३ ॥

कारणपरीक्षणेन स चिकित्सनीय इत्याशयेन वसिष्ठस्तत्कारणं पृच्छति -
योऽयमिति ॥ ८३ ॥

श्रीराम उवाच ।

चित्तं स्वप्नोपलम्भानां हेतुस्तस्मात्तदेव ते ।
विश्वं चाद्यन्तरहितमनासारमनामयम् ॥ ८४ ॥

उत्तरं स्पष्टम् ॥ ८४ ॥

श्रीवसिष्ठ उवाच ।

एवं चित्तं महाबुद्धे महाचिद्घनमेव तत् ।
तथास्थितं न स्वप्नादि किञ्चनास्तीतरात्मकम् ॥ ८५ ॥

चित्तं च चेत्योन्मुखी चिदेवेत्यसकृदुक्तमेवेति तच्चितं महाचिद्घनमेव । तथा च
तदेव जगदाकारमिव स्थितमिति सिद्धमित्यर्थः ॥ ८५ ॥

श्रीराम उवाच ।

अवयवावयविनोर्यथा भिन्नस्तथा स हि ।
तत्रानवयवे ब्रह्मण्येकता जगदादिना ॥ ८६ ॥

तर्हि वृक्षशाखान्यायेन भेदाभेदेन ब्रह्मणि जगत्स्थितमित्येव कुतो नोच्यते न
स्वप्नादि किञ्चन अस्तीति कुतो निषिध्यते इति रामः शङ्कते - अवयवेति । यथा
अवयवानां शाखादीनामवयविनो वृक्षस्य च तादात्म्यलक्षण एकीभावो भिन्नो
भेदसहिष्णुस्तथा चित्तजगतोरप्यस्तु । तत्र जगदादिना समष्टिचित्तेन अनवयवे
ब्रह्मण्येकतास्त्वित्यर्थः ॥ ८६ ॥

श्रीवसिष्ठ उवाच ।

एवं न सम्भवत्येव नित्यानुत्पन्नमादितः ।
जगत्तेनाजरं शान्तमजं सर्वमवेधितम् ॥ ८७ ॥

परिहरति - एवमिति । एव्ं कल्पना न सम्भवत्येव । यत आदितो विमर्शे ब्रह्मणि
कारणाभावाज्जगन्नित्यानुत्पन्नम् । न हि मायिककल्पनामात्रेणावयवावयविभावो
भेदाभेदो वा भवति । मरुनदीगन्धर्वनगरादेरपि
मरीचिनभःप्रभृत्यवयवताप्रसङ्गादिति भावः ।
अवेधितमच्छिद्रितमखण्डितमिति यावत् ॥ ८७ ॥

श्रीराम उवाच ।

काकतालीयवन्मन्ये सर्गाद्यान्तादयो भ्रमाः ।
भ्रान्तिद्रष्ट्टत्वभोक्तृत्वसहिताः परमे पदे ॥ ८८ ॥

एवं समाहितो रामः परिशिष्टां सैद्धान्तिकीं स्थितिमेवावलम्ब्याह -
काकतालीयवदिति ॥ ८८ ॥

श्रीवसिष्ठ उवाच ।

या व्यापारवती रसाद्रसविदां काचित्कवीनां नवा दृष्टिर्या
परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्यवलम्ब्य विश्वमखिलं निर्वर्णितं निर्वृतं यावद्दृष्टिदृशो
न सन्ति कलिता नो शून्यता नो भ्रमः ॥ ८९ ॥

एवं जगद्भ्रान्तिमात्रमेवेति निश्चितवन्तं रामं प्रति सापि
भ्रान्तिर्दृष्टिद्वयमूलकेन शास्त्रीयविचारेण मया निराकृतेति वसिष्ठ उपसंहरति

  • येति । त्रिविधा हि प्रसिद्धा दृष्टिः ।
    पामरदृष्टिर्यौक्तिकदृष्टिस्तत्त्वदृष्टिश्चेति । तत्रादौ प्रथमा उत्तराभ्यां
    द्वाभ्यां निराकार्या द्वितीया त्वन्ते तृतीययेत्याशयेन उत्तरे द्वे दृष्टी अवलम्ब्य
    मयेदमखिलं विश्वं तत्त्वतो निर्वर्णितम् । के ते द्वे । रसाद्रसविदां सारादपि सारं
    निर्मथ्य बोद्धुं समर्थानां कवीनां प्रमाणप्रमेयतत्त्वपरीक्षाकुशलानां
    पटुतरविचारव्यापारवती अतिनिष्कर्षरूपत्वादभिनवा या काचिद्दृष्टिः सैका । या
    चापरा सर्वविचारशास्त्रश्रवणमनननिदिध्यासनपरिपाकपरिनिष्ठितो यः
    परमतत्त्वरूपोऽर्थस्तन्मात्ररूपस्य विषयस्य उन्मेषः अपरोक्षतया स्फुरणं
    यस्यां चरमसाक्षात्कारवृत्तौ तादृशी वैपश्चिती विपश्चित्सु जीवन्मुक्तेषु
    प्रसिद्धा सा च । ते द्वे दृष्टी अवलम्ब्यास्मिन् शास्त्रे कियत्पर्यन्तं विश्वं
    निर्वर्णितं तदाह - यावदिति । यावद्दृष्टयश्च तद्दृशो जीवाश्च कालत्रयेऽपि
    न सन्ति । जगतः शून्यतापि न कलिता भ्रमश्च न
    कलितस्तावन्नित्यापरोक्षपरमानन्दब्रह्मात्मैकवस्तुस्थितिपर्यन्तमिति यावत् ॥ ८९ ॥

इत्यार्षे श्रीवासिष्ठमहरामायणे वा० दे० मो० नि० उ० रामविश्रान्तिर्नाम
नवत्यधिकशततमः सर्गः ॥ १९० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
रामविश्रान्तिर्नाम नवत्यधिकशततमः सर्गः ॥ १९० ॥