एकोननवत्यधिकशततमः सर्गः १८९
श्रीवसिष्ठ उवाच ।
आतिवाहिकदेहोऽसौ तस्याद्यस्य प्रजापतेः ।
काकतालीयवच्चित्त्वाद्यद्यथेत्यादि चेतति ॥ १ ॥
आतिवाहिकदेहात्मप्रजापतिमनोरथे ।
आधिभौतिकताभ्रान्तिर्जगत्यत्रोपवर्ण्यते ॥
कश्चिद्ब्रह्मेति कथितः स्मृतः कश्चिद्विराडिति इत्यादिप्रपञ्चितप्रकारेण यद्यद्यथा
चेतति तत्तत्तथा स्थितिमायातीति परेणान्वयः ॥ १ ॥
तत्तथा स्थितिमायाति चिरं संवित्स्वभावतः ।
बत विश्वमिदं भातमत्रासत्ये कुतः स्मयः ॥ २ ॥
संवित् सत्यसङ्कल्पसंवित् तत्स्वभावत इदं विश्वं भातम् । बतेति खेदे ॥ २ ॥
द्रष्टाऽसत्यमसत्यं दृगसत्यं दर्शनं ततम् ।
सत्यमेवाथवा सर्वं ब्रह्मैवात्मतया तया ॥ ३ ॥
अतो भ्रान्तिमात्रत्वाद्द्रष्ट्रादित्रिपुटी असत्या दृश्यत इति दृक् दृश्यम् । दर्शनं
वृत्तिः ॥ ३ ॥
श्रीराम उवाच ।
इत्यातिवाहिकालोकः स तस्याद्यप्रजापतेः ।
कठिनत्वं कथं यातः कथं स्वप्नस्य सत्यता ॥ ४ ॥
इति अनया रीत्या आतिवाहिक आलोकनमालोको भ्रान्तिदर्शनमात्रं चेत्स कठिनत्वं
शिलादिभावम् । सत्यता पारलौकिकफलाद्यर्थक्रियासमर्थता ॥ ४ ॥
श्रीवसिष्ठ उवाच ।
आतिवाहिक आलोकः स्वत एवानुभूयते ।
सदानवरतं तेन स एवाभाति पुष्टवत् ॥ ५ ॥
सदा नैरन्तर्येण । तथा चिराभ्यासात्पुष्टवत् घनीभूत इवाभाति ॥ ५ ॥
यथा स्वप्नस्य पुष्टत्वं चिरानुभवनोचितम् ।
अतिसत्यमिवाभाति स्वातिवाहिकता तथा ॥ ६ ॥
यथा हरिश्चन्द्रादेः स्वप्नस्य चिरानुभवनोचितं पुष्टत्वं तथेत्यर्थः ॥ ६ ॥
आतिवाहिकदेहस्य चिरस्वानुभवोदये ।
आधिभौतिकताबुद्धिरुदेति मृगवारिवत् ॥ ७ ॥
जगत्स्वप्नभ्रमाभासं मृगतृष्णाम्बुवत्स्थितम् ।
असदेवेदमाभाति सत्यप्रत्ययकार्यपि ॥ ८ ॥
आतिवाहिकरूपाणामाधिभौतिकता स्वयम् ।
असती सत्यवद्दूरमर्वाग्दर्शिभिरर्थिता ॥ ९ ॥
अर्वाग्दर्शिभिरविवेकिभिः । अर्थिता आसक्त्या स्वीकृता ॥ ९ ॥
अयं सोहमिदं तन्म इमा गिरिनभोदिशः ।
इति मिथ्याभ्रमो भाति भास्वरस्वप्नशैलवत् ॥ १० ॥
आतिवाहिकदेहोऽसौ स्रष्टुराद्यस्य भावितः ।
आधिभौतिकतां चैतत्पिण्डाकारं प्रपश्यति ॥ ११ ॥
एतत् पृथिवीशरीरादिरूपे पिण्डाकारम् ॥ ११ ॥
चिन्नभश्चेतनं त्यक्त्वा ब्रह्माहमिति पश्यति ।
अयं देहोऽयमाधार इति बध्नाति भावनाम् ॥ १२ ॥
ब्रह्माहमिति यथार्थचेतनं त्यक्त्वा अयं देहो मनुष्यादिरहं अयं
पृथ्व्यादिर्ममाधार इति पश्यति तत्र च भावनामास्थां वध्नानि ॥ १२ ॥
असत्ये सत्यबुद्ध्यैव बद्धो भवति भावनात् ।
बहुशो भावयत्यन्तर्नानात्वमनुधावति ॥ १३ ॥
अनुधावति अनुसरसि ॥ १३ ॥
शब्दान्करोति सङ्केतं सञ्ज्ञाश्च स्पन्दनानि च ।
ओमित्युक्ते ततो वेदाञ्छब्दराशीन्प्रगायति ॥ १४ ॥
प्रथमं वैदिकलौकिकशब्दान्करोति सृजति । तेषां च तत्तदुपाधिमति अर्थे सङ्केतं
करोति सङ्केतेन सञ्ज्ञाः करोति । शब्दकरणप्रकारमाह - ओमित्युक्ते इति ॥ १४ ॥
तैरेव कल्पयत्याशु व्यवहारमितस्ततः ।
मनो ह्यसौ कल्पयति यच्चेतति तदेव हि ॥ १५ ॥
यो हि यन्मय एवासौ स न पश्यति तत्कथम् ।
असत्यैव जगद्भ्रान्तिरेवं प्रौढिमुपागता ॥ १६ ॥
यन्मयो यदासक्तः । स्त्रीमयो जाल्म इतिवत् ॥ १६ ॥
आब्रह्मणो मुधा भाति चिरस्वप्नेन्द्रजालवत् ।
इत्यातिवाहिकस्येयमाधिभौतिकतोचिता ॥ १७ ॥
आब्रह्मण आमशकात् इत्यनया रीत्या आधिभौतिकता काठिन्यादिस्वभावता उचितैव
नानुचिता ॥ १७ ॥
आधिभौतिकता नास्ति काचित्किञ्चिदपि क्वचित् ।
आतिवाहिकतैवैनामभ्यासाद्याति भावनाम् ॥ १८ ॥
एतामाधिभौतिकभावनाम् ॥ १८ ॥
मूलादेवैवमायातो मिथ्यानुभवनात्मकः ।
मोहो ब्रह्मण एवायमित्यस्त्येष महात्मनाम् ॥ १९ ॥
मूलभूताद्ब्रह्मणः स्रष्टुः सकाशादेव एवंरूपो मोहोऽयमायात इति हेतोरेष
जगद्दर्शनरूपो भ्रमो महात्मनां तत्त्वविदामपि यावत्प्रारब्धक्षयमस्तीत्यर्थः
॥ १९ ॥
एवमित्थं दशा राम पिण्डबन्धः क्व विद्यते ।
भ्रान्तिरेवेदमखिलं ब्रह्मैवाभातमेव वा ॥ २० ॥
चिदेकरसस्य ब्रह्मण एवंरूपा इत्थं दुर्दशा क्व विद्यते किन्त्विदमखिलं
संसारदुर्दशादिभ्रान्तिरेव । अथवा ब्रह्मैव
कौतुकवशाज्जगज्जीवाद्याकारेणाभातम् । न हि स्वाकारः स्वस्य दुर्दशेत्यर्थः । अन्ते
बन्धमोक्षविभागनिष्कर्षप्रदर्शनं चैतत् ॥ २० ॥
न शाश्वतादन्यदिहास्ति कारणान्न कारणं तत्खलु कार्यतां विना ।
न कार्यताकारणतादिसम्भवोऽस्त्यनामये तत्किमपीदमाततम् ॥ २१ ॥
शाश्वताद्ब्रह्मणोऽन्यत्कारणं जगतो नास्ति । तच्च कार्यतां विना कारणं न ।
अनामये कूटस्थचिदानन्दाद्वये ब्रह्मणि कार्यताकारणतादिसम्भव एव नास्ति ।
तत्तस्माद्धेतोरिदं जगदाकारं किमपि भ्रान्तिमात्रमाततं विस्तृतं न वस्तु सदिति
निष्कर्ष इत्यर्थः ॥ २१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० ब्रह्मैकताप्रतिपादनं
नामैकोननवत्यधिकशततमः सर्गः ॥ १८९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ब्रह्मैकताप्रतिपादनं नामैकोननवत्यधिकशततमः सर्गः ॥ १८९ ॥