अष्टाशीत्यधिकशततमः सर्गः १८८
श्रीवसिष्ठ उवाच ।
आदिमत्त्वमिदं प्रोक्तमेतस्य कलनस्य यत् ।
परस्मादद्वितीयं तत्त्वद्बोधाय न वास्तवम् ॥ १ ॥
जीवो ब्रह्मैव तस्येयमुत्पत्तिरुपचारतः ।
लिङ्गदेहस्य विभ्रान्त्येत्यत्र स्पष्टं निरूप्यते ॥
घनसंवेदनात्पश्चाद्भावी जीवादिनामिका इत्यादिना जीवोत्पत्तिरुपपादिता । सा च न
युक्ता । अभिनवोत्पन्नजीवस्य संसारहेतुकामकर्मवासनाद्यभावेन
संसारासिद्धेर्घटपटादिवन्मिथ्यात्वापत्त्या
ब्रह्मात्मभावायोगान्मोक्षासिद्धेश्चेत्याशङ्का रामस्य मा भूदिति तत्तात्पर्यं
भगवान्स्वयमेवाह - आदिमत्त्वमिति । कलनस्य चिदाभासात्मकजीवस्य । तत्कलनं
परस्माद्ब्रह्मणः अद्वितीयमभिन्नमिति त्वद्बोधाय न तु वास्तवमुत्पत्त्यादि
जीवस्यास्तीत्याशयेनेत्यर्थः ॥ १ ॥
एवंविधं तत्कलनमात्मनोऽङ्गमकृत्रिमम् ।
चेत्योन्मुखचिदाभासं जीवशब्देन कथ्यते ॥ २ ॥
कया रीत्या परस्मादद्वितीयमिति बोधनाय तदाह - एवंविधमिति ।
तत्कलनमात्मनो ब्रह्मण एवंविधमौपाधिकमङ्गमवयवः अत एवाकृत्रिमम् ।
चेत्योन्मुखेति प्रागुक्तस्यानुवादः । तथा चौपाधिक एव
पृथग्भावस्तत्प्रयुक्तजीवादिनामभेदश्च परस्यैव
घटाकाशमठाकाशादिरूपनामभेद आकाशस्यैवेति तदाशय इति भावः ॥ २ ॥
कलनस्यास्य नामानि बहूनि रघुनन्दन ।
शृणु तानि विचित्राणि चेत्योन्मुखचिदात्मनः ॥ ३ ॥
औपाधिकप्रवृत्तिनिमित्ततद्भेदनिमित्तान्नामभेदान् जीवस्य श्रावयति -
कलनस्येत्यादिना ॥ ३ ॥
जीवनाच्चेतनाज्जीवो जीव इत्येव कथ्यते ।
चेत्योन्मुखतया चित्तं चिदित्येव निगद्यते ॥ ४ ॥
जीवनान्मुख्यप्राणस्य कर्मेन्द्रियाणां च धारणात् । चेतनाज्ज्ञानेन्द्रियाणां
धारणाच्च जीवः । पूर्वानुभूतातीतानागतचेत्योन्मुखतया हेतुना चित्तमिति
सन्निकृष्टचेत्योन्मुखतया चिदिति च निगद्यते ॥ ४ ॥
इदमित्थमिति स्पष्टबोधाद्बुद्धिरिहोच्यते ।
कल्पनान्मननज्ञत्वान्मन इत्यभिधीयते ॥ ५ ॥
कल्पनात्सङ्कल्पनात् । मननमूहापोहादि तज्ज्ञत्वाच्च मन इत्यभिधीयते ॥ ५ ॥
अस्मीति प्रत्ययादन्तरहङ्कारश्च कथ्यते ।
चेतनाढ्यमृतं चित्तमिति शास्त्रविचारिभिः ॥ ६ ॥
अस्मीत्यभिमानोल्लेखः । पामरसाधारणव्युत्पत्त्या प्राक्चित्तनाम व्याख्यातम् ।
पण्डितप्रसिद्ध्या तु चिती सञ्ज्ञाने इति धातुव्युत्पत्तेः स्वतत्त्वचेतनाढ्यं ऋतं
परमार्थवस्तु आत्मैव चित्तपदवाच्यं मुख्यमिति शास्त्रविचारिभिरुक्तमित्यर्थः ॥ ६ ॥
प्रौढसङ्कल्पजालात्स पुर्यष्टकमिति स्मृतम् ।
संसृतेः प्रकृतत्वेन प्राथम्यात्प्रकृतिः स्मृता ॥ ७ ॥
स जीवः सङ्कल्पादिभिः पूर्यन्त इति पुर्यस्तासामष्टकमिति व्युत्पत्तेरिति भावः ।
प्रकृतत्वेन सर्गादिकाले प्रस्तुतत्वेन ततः प्राथम्यात् ॥ ७ ॥
बोधादविद्यमानत्वादविद्येत्युच्यते बुधैः ।
इत्यादिकलनस्यास्य नामानि कथितानि ते ॥ ८ ॥
बोधात्तत्त्वदर्शनादौपाधिकरूपेणाविद्यमानत्वात् ॥ ८ ॥
एतत्कलनमाद्यन्तमनाकारमनामयम् ।
आतिवाहिकदेहोक्त्या समुदाह्रियते बुधैः ॥ ९ ॥
इत्येवं स्वप्नसङ्कल्पपुरवत्त्रिजगद्भ्रमः ।
भात्यर्थकार्यप्यवपुः शून्यमप्रतिघात्मकम् ॥ १० ॥
अर्थौ भोगमोक्षौ तत्कार्यपि अवपुर्निःस्वरूपम् ॥ १० ॥
इत्यातिवाहिकः प्रोक्तो देहो देहभृतां वर ।
चिन्नभश्चित्तदेहोऽसौ शून्य आकाशतोपि च ॥ ११ ॥
नास्तमेति न चोदेति जगत्यामोक्षसंविदः ।
चतुर्दशविधस्यैका भूतसर्गस्य चित्तभूः ॥ १२ ॥
कियत्कालं स तिष्ठति तत्राह - आमोक्षसंविद इति । भूतसर्गस्य चित्तरूपा भूः
प्ररोहस्थानम् ॥ १२ ॥
अत्र संसारलक्षाणि भविष्यन्ति भवन्ति च ।
भूतानि च फलानीव यथा कालव्यवस्थया ॥ १३ ॥
एष चित्तमयो देहो जगन्त्यन्तर्बहिस्त्वपि ।
प्रतिबिम्बमिवादर्शः शून्य एव नभो यथा ॥ १४ ॥
अन्तर्बहिरपि जगन्ति आदर्शः प्रतिबिम्बमिव धत्ते तथापि खं शून्यं एवेत्यर्थः ॥ १४
॥
महाकल्पस्य पर्यन्ते सर्वनाशे स्थिरे स्थिते ।
महाशून्यपदे प्रौढे ब्रह्मात्मनि निरामये ॥ १५ ॥
कदाप्रभृत्ययं जगन्ति धत्ते इत्यत्राह - महाकल्पस्येति । प्राकृतप्रलयस्य
पर्यन्ते चरमक्षणे ॥ १५ ॥
स्वतश्चितिघनोऽचित्त्वाच्चिद्भानमिदमात्मनः ।
आतिवाहिकदेहाभं क्रमेणानेन चेतति ॥ १६ ॥
अचित्त्वाच्चिदावरकाज्ञानान्निमित्तात् । अनेन प्रागुक्तेन क्रमेण ॥ १६ ॥
स आतिवाहिको देहस्तदालोकप्रवर्तितः ।
कैश्चिद्ब्रह्मेति कथितः स्मृतः कैश्चिद्विराडिति ॥ १७ ॥
स जीव एवातिवाहिको देहस्तस्य यो जगदालोकनात्मक आलोकस्तेन प्रवर्तितः कश्चिद्भागो
ब्रह्मा चतुर्मुखोऽहमिति कथितः शास्त्रेषु ॥ १७ ॥
कश्चित्सनातनाभिख्यः कश्चिन्नारायणाभिधः ।
कश्चिदीश इति ख्यातः कश्चिदुक्तः प्रजापतिः ॥ १८ ॥
सनातनग्रहणं सनकादीनां ब्रह्मपुत्राणामुपलक्षणम् ॥ १८ ॥
काकतालीयवद्भाताः पञ्च स्वेन्द्रियसंविदः ।
यत्र यत्र यथा तेषां स्थितास्तत्र तथा स्थिताः ॥ १९ ॥
यत्र भागे पञ्च स्वेन्द्रियसंविदो भातास्तत्र तत्र तथार्थाः स्थिताः ॥ १९ ॥
एवमत्यन्तवितते सम्पन्ने दृश्यविभ्रमे ।
न किञ्चिदपि सम्पन्नं सर्वशून्यं ततं यतः ॥ २० ॥
ततं विस्तीर्णमात्मतत्त्वं यतः सर्वदृश्यशून्यम् ॥ २० ॥
अनादिमत्परं ब्रह्म न सद्यन्नासदुच्यते ।
तदेवेदमनाद्यन्तं तथास्थितमवेदनम् ॥ २१ ॥
सत् आविर्भूतम् । असत् तिरोभूतम् । यतस्तदेव अवेदनं स्व्रूपसाक्षात्कारहीनं सतथा
सदसदाकारेण स्थितम् ॥ २१ ॥
आतिवाहिकदेहस्य तस्यानुभवतः स्वयम् ।
याति व्यसनिनः स्वप्नः कान्तेव परिपुष्टताम् ॥ २२ ॥
अयं प्रपञ्चः कान्तानुसन्धानव्यसनिनो विधुरस्य स्वप्नकान्तेव परिपुष्टतां
याति ॥ २२ ॥
शून्योऽप्यनाकृतिरपि घटाकारोऽनुभूयते ।
स्वप्नसङ्कल्पयोः स्वस्य देहस्य जगतो यथा ॥ २३ ॥
जगच्छून्यस्यैव जगदात्मना भाने दृष्टान्तान्तरमाह - शून्योऽपीति । स्वत एव
स्वदेहस्य जगतश्चास्तो भाने यथा दृष्टान्त इत्यर्थः ॥ २३ ॥
भवत्यर्थकरोऽत्युच्चैस्तच्चित्खस्वप्नवस्तुवत् ।
आकाशात्मक एवोग्रः पदार्थ इव भासते ॥ २४ ॥
तादृशस्याप्यर्थक्रियासामर्थ्यं तत्रैव प्रसिद्धमित्याह - भवतीति । उग्रः
कठिनः ॥ २४ ॥
आतिवाहिकदेहोऽसौ स्वतोऽनुभवति क्रमात् ।
अनाकारोपि शून्योपि स्वप्नाभोऽसन्नपि स्थितः ॥ २५ ॥
चेतत्यस्थिगणः स्थूलं कराद्यवयवावलिम् ।
त्रिकलोमशिरास्नायुसन्निवेशतया स्थितम् ॥ २६ ॥
स चातिवाहिकदेहरूपो जीवः अस्थिगणैः स्थूलं त्रिकस्युअ पृष्ठवंशस्य लोम्नां
आतानवितानत्वभेदान्मांसास्थिवेष्टनत्वोपाधिभेदाद्वा शिरास्नाय्वोर्भेदस्तासां
सन्निवेशात्मतया स्थितं स्थूलशरीरं देशकालक्रमासनशब्दादिविषये
भोगार्थाय चेततीत्यन्वयः ॥ २६ ॥
जन्मकर्मेहितस्थानं परिणामवयःस्थितम् ।
देशकालक्रमाभोगभावार्थायोद्भवभ्रमम् ॥ २७ ॥
तस्मिंश्च देहे उद्भवो जन्म तद्भ्रमं चेतति ॥ २७ ॥
जरामरणमाधानदशदिङ्मण्डलक्रमम् ।
ज्ञानज्ञेयज्ञातृभावमादिमध्यान्तवेदनम् ॥ २८ ॥
तथा जरामरणं गुणदोषाद्याधानं दशदिङ्मण्डलेषु क्रमणं क्रमो
भ्रमणं ज्ञानादित्रिपुटीं सर्वभावानामादिमध्यान्तवेदनं च चेतति ॥ २८ ॥
क्षितिजलगगनदिवाकरजनताव्यवहारनगरशिखरात्मा ।
स्वाधाराधेयमयं पश्यति वपुषः पुरातनः पुरुषः ॥ २९ ॥
एवमातिवाहिकदेहभूतः पुरातनः पुरुषः स्व्कल्पितादेव व्यष्टिसमष्टिस्थूलवपुषो
निमित्तात्स्वयमेव क्षित्यादिशिखरान्तात्मा सन् स्वस्य पृथ्व्यादय आधाराः स्वयं तु
तदाधेय इति भ्रान्तिमयं संसारस्वप्नं पश्यतीत्यर्थः ॥ २९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० जीवरूपवर्णनं
नामाष्टाशीत्यधिकशततमः सर्गः ॥ १८८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जीवरूपवर्णनं नामाष्टाशीत्यधिकशततमः सर्गः ॥ १८८ ॥