सप्ताशीत्यधिकशततमः सर्गः १८७
श्रीराम उवाच ।
विचित्राणामसङ्ख्यानां भावानां नियतिः कुतः ।
कथं स्वभावो भावानामेकरूपः स्थितोऽचलः ॥ १ ॥
सर्वभावस्वभावोऽत्र नियतिश्चोपवर्ण्यते ।
उत्पत्तिर्जीवताप्राप्तिहेतूनां ब्रह्मशुद्धता ॥
नियतिः कार्यकारणभावादिनियमः अग्निजलादेरौष्ण्यद्रवत्वादिः स्वभावश्च अचलः
अव्यभिचरितः कथं केन हेतुना जगति स्थितः ।
स्वाप्नमानोरथिकादिमिथ्यार्थान्तरेष्वदर्शनादिति भावः ॥ १ ॥
सत्स्वसङ्ख्येषु देवेषु सूर्य एवोग्रभाः कथम् ।
दीर्घत्वमथ ह्रस्वत्वं दिवसानां तु किङ्कृतम् ॥ २ ॥
केन कृतं किङ्कृतम् ॥ २ ॥
श्रीवसिष्ठ उवाच ।
काकतालीयवद्भानं यत्परे नियतं स्वतः ।
यथास्थितं यथारूपं स्थिते तज्जगदुच्यते ॥ ३ ॥
आदिसर्गे यद्यत्काकतालीयन्यायेन धातुर्यथा यथा भातं तत्तथैवार्थक्रियादिना
नियतं स्थितं तत्र धातुरिच्छैव तदव्यभिचारे हेतुरेवं वस्तुस्वभावेऽपि
बोध्यमित्याशयेनाद्यप्रश्नयोर्वसिष्ठ उत्तरमाह - काकतालीयेत्यादिना । परे
विधातरि यत्काकतालीयवन्नियतं सर्गादौ भानं तद्यथारूपं यथा च
कार्यकारणभावेन स्थितं तथैवाद्यापि जगदुच्यत इत्यर्थः ॥ ३ ॥
सर्वशक्तेर्यथा यद्यद्भाति तत्तत्तथैव सत् ।
संवित्सारतया यायात्कथं भातमभातताम् ॥ ४ ॥
नियताया ईश्वरशक्तेरन्यथाभावायोगाद्वा नियतिरव्यभिचरितेत्याशयेनाह -
सर्वशक्तेरिति । संवित्सारतया सत्यसङ्कल्पसंविदः
अस्मदादिस्वप्नमनोरथसंविद्वदसारत्वाभावादित्यर्थः ॥ ४ ॥
यथा स्थितं यथा भाति चित्त्वाद्ब्रह्म चिराय यत् ।
तस्य भानमभानाभं नियत्यभिधमेव तत् ॥ ५ ॥
मायोदरे स्थितस्यैव सर्गकाले भानं प्रलयकाले सौक्ष्म्यापत्त्या तदेवाभानाभं
भवतीत्यनादिरेव सर्ववस्तूनामर्थक्रियाशक्तिरिति तदेव नियतिनामकमिति वा
बोध्यमित्याह - यथास्थितमिति ॥ ५ ॥
इदमित्थमिदं चेत्थं स्वयं ब्रह्मेति भाति यत् ।
तन्नियत्यभिधं प्रोक्तं सर्गसंहाररूपधृक् ॥ ६ ॥
ब्रह्मैव नियतसर्वार्थक्रियासमर्थं जगदाकारतां धत्ते इति वा
नियतिप्रतिष्ठासिद्धिरित्याह - इदमिति ॥ ६ ॥
जाग्रत्स्वप्नसुषुप्ताख्यं यत्स्वतः कचनं चिति ।
तत्ततोऽनन्यदेकाच्छं द्रवत्वमिव वारिणि ॥ ७ ॥
अवस्थात्रयस्याज्ञातात्मस्वभावत्वाद्वा यथादृष्टनियत्यव्यभिचारसिद्धिरित्याह
- जाग्रदिति ॥ ७ ॥
यथा शून्यत्वमाकाशे कर्पूरे सौरभं यथा ।
यथौष्ण्यमातपे नान्यज्जाग्रदादि तथा चिति ॥ ८ ॥
तस्य तत्स्वभावतां दृष्टान्तैः समर्थयति - यथेति ॥ ८ ॥
सर्गप्रलयनाम्न्येकप्रवाहानन्यसत्तया ।
चिन्मात्रगगनात्मैकब्रह्मात्मन्येव संस्थितम् ॥ ९ ॥
एकप्रवाहानन्यसत्तया बीजाङ्कुरन्यायेन सर्गप्रलयप्रवाहानादितया
चिन्मात्रगगनात्मके एकब्रह्मात्मन्येव यतस्तिष्ठति ततोऽपि
नियतार्थक्रियासिद्धिरित्यर्थः ॥ ९ ॥
सर्गोऽयमिति तद्बुद्धं क्षणं यत्कचनं चितः ।
कल्पोऽयमिति तद्बुद्धं क्षणं तत्कचनं चितः ॥ १० ॥
अत एव चित्कचनानुसारेणैव सर्वनियमव्यवस्था । क्षणस्यापि कल्पोऽयमिति चित्कचने
अकल्पत्वसाधकान्तराभावादित्याशयेनाह - सर्गोऽयमिति ॥ १० ॥
तत्कालस्तत्क्रिया तत्खं देशद्रव्योदयादि तत् ।
यत्स्वप्न इव चिन्मात्रकचनं स्वस्वभावतः ॥ ११ ॥
अत एव कालक्रियादेशद्रव्यादिवस्तुभेदात्मना चित्कचनमेव सर्ववस्तुस्वभावो
नियतिश्चेत्याह - तदित्यादिना ॥ ११ ॥
रूपालोकमनस्कारदेशकालक्रियादि तत् ।
चित्त्वं कचति चिद्व्योम्नि यन्नामानाकृति स्वतः ॥ १२ ॥
यद्यथा कचितं कालं यत्किञ्चित्कल्पितं तथा ।
तेनैवेयं हि नियतिरित्यष्याकाशरूपकम् ॥ १३ ॥
इत्येवं कचितमप्याकाशरूपकमेव न सत्यमित्यर्थः ॥ १३ ॥
आकल्पाख्यं निमेषं यत्कचनं चैकरूपकम् ।
स्वाभाविकाः स्वभावं तं प्राहुः प्रसृतबुद्धयः ॥ १४ ॥
इदानीं कथं स्वभावो भावानां इति प्रश्नं समाधत्ते - आकल्पाख्यमिति ।
कल्पाख्यं ब्रह्मनिमेषमभिव्याप्य भावानां यदेकरूपं कचनं तमेव
प्रतिवस्तु नियतस्वभावं प्राहुः स्वभाविकाः स्वभावतत्त्वविदः ॥ १४ ॥
एकस्य संविन्मात्रस्य पदार्थशतता तहा ।
यथेदं संविदंशस्य रूपं स्वं स्वमनुज्झतः ॥ १५ ॥
एकस्यैव वह्न्यादिवस्तुनो देशकालभेदेनानेकधाभूतस्यापि स्वरूपमनुज्झतो
यदेकमनुगतमौष्ण्यप्रकाशरूपं स एव तद्भेदेष्वनुगतस्वभावः । यथा
संविदंशस्य जीवस्य सर्वानुगतं चित्स्वरूपमेव स्वभावस्तद्वदित्यर्थः ॥ १५ ॥
संविन्मये संविदो याः कचन्तीव परे तथा ।
ताभिस्तेषां स्वदेहानां यासां सा कलना कृता ॥ १६ ॥
संवित्प्रचुरे वृत्तिभेदेऽपि याश्चिदाभाससंविदः कचन्तीव ताः स्वभावः । परे
तद्विषये उर्वीसलिलतेजोवाय्वादौ ताभिर्वृत्त्याभाससंविद्भिः स्वदेहप्रायाणां
तेषां वृत्तिभेदानां मध्ये यासां यासां वृत्तीनां यद्यदाकारकलना या या
कृता स आकारः स्वभाव इत्यर्थः ॥ १६ ॥
चिदुर्वी सलिलं तेजः स्पन्दः शून्यत्वमेव च ।
प्रत्येकमाकरस्त्वेषां तानि स्वप्न इवाम्बरम् ॥ १७ ॥
नानाकारभेदानेवोदाहृत्य तेषामधिष्ठानचिदाकाश एव पारमार्थिकः स्वभाव
इति दर्शयति - चिदिति । तान्युर्व्यादीनि प्रत्येकं स्वकार्याणामाकरः खनिः । उर्वी
पार्थिवानां सर्ववस्तूनामनुगतः स्वभाव एवं सलिलादयोऽपि । तेषां च चिदम्बरं
मायाशबलं ब्रह्मैवाकर इत्यर्थः ॥ १७ ॥
तत्र सप्रतिघस्यास्य कठिनस्याकरो महान् ।
भूपीठं जनताधारो राजन्राजेन राजते ॥ १८ ॥
उक्तमेव प्रपञ्चयति - तत्रेत्यादिना । राजेव जीवनप्रदः ॥ १८ ॥
अपामब्धिः प्रधानानां तेजसामेष भास्करः ।
स्पन्दस्य पवनो व्योम शून्यताया जगद्गतम् ॥ १९ ॥
प्रधानानां गङ्गादीनामग्न्यादीनां च जगद्गतं सर्वं स्वस्वविशेषेष्वनुगतम्
। नपुंसकैकशेषे एकवद्भावः ॥ १९ ॥
पञ्चानामिति भूतानामाकरत्वेन संविदः ।
पञ्च तान्युचिता ब्राह्म्यः प्रश्नः किं भास्करं प्रति ॥ २० ॥
तेषामम्बरमित्यंशं विशदयति - पञ्चेति । तानि पञ्चमहाभूतानि ब्राह्म्यः
संवित्तय एव तथोदिता इति ब्रह्मैव तदनुगतः सत्स्वभाव इत्यर्थः । एतेन
सत्स्वसङ्ख्येषु देवेषु सूर्य एवोग्रभाः कथम् इति प्रश्नोऽपि समाहित इत्याशयेनाह
- प्रश्न इति । स्वभावप्रश्नोत्तरेणैव समाहितत्वात्पृथक्प्रश्नो न
भवतीत्यर्थः ॥ २० ॥
बुधा संविच्चिदित्युक्ता सर्वगा सर्वरूपिणी ।
सर्वत्र स्वमहिम्नैषा सर्वेणैवानुभूयते ॥ २१ ॥
बुधा सर्वावभासकत्वात्सर्वज्ञा सैव सर्वरूपिणीति
स्वप्रकाशतालक्षणस्यमहिम्नैव सर्वत्र परमः स्वभावपरमाकारः परमा
नियतिरिति च सर्वैरेवाभिज्ञैरवगम्यते ॥ २१ ॥
ब्रह्मात्मा ब्रह्मबालोऽयं स्वसंवित्स्फुरणामिमाम् ।
व्योमात्मक्षौमभूनाम्नीं स्फारयत्यम्बराकृतिः ॥ २२ ॥
अयं चतुर्मुखाख्यो ब्रह्मबालः स्वात्मभूतसंवित्स्फुरणं व्योमात्मकं
क्षौमं प्रावरणं यस्यास्तथाविधां भूनाम्नीं स्वयं
ब्रह्मात्मत्वाद्ब्रह्माम्बराकृतिरेव सन् स्वस्मिन्स्फारां करोति स्फारयति विस्तारयति ।
नामधातुः स्फुरतेर्वा चिस्फुरोर्णौ इत्यात्वम् ॥ २२ ॥
सा यदैतत्तथैतच्च निरमत्त्यजसंविदा [विरमति इति पाठः] ।
तदा तदङ्गस्यार्कादेर्नाऽतो नोत्पादि चञ्चलम् ॥ २३ ॥
यदा सा माया शबला सर्वज्ञसंविदजस्य च्तुर्मुखस्य संविदा सह
तत्स्थूलमेतत्सूक्ष्मं च प्रपञ्चमत्ति स्वात्मन्युपसंहरति तदा तदङ्गस्य
चतुर्मुखसंविदङ्गस्यार्कादेश्चञ्चलं भ्रमणस्वभावं रूपं नोत्पादि ।
यतस्तत् अतः अस्मादुपसंहारादत्ता ना पुरुष एव सम्पद्यत इत्यर्थः । तथा च श्रुतिः
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेता एकल एव मध्ये स्थाता इति ॥ २३ ॥
सङ्कल्पपूर्वमशकजालवद्धिष्ण्यचक्रकम् ।
आवर्तव्र्तिना भाति चिद्व्योमेदं च दृश्यवत् ॥ २४ ॥
दीर्घत्वमथ ह्रस्वत्वं दिवसानां तु किङ्कृतम् इति प्रश्नस्तु ज्योतिश्चक्रे सूर्यस्य
दक्षिणोत्तरमार्गगतिभेदप्रसिद्ध्यैव दत्तोत्तर इति सूचयन् ज्योतिश्चक्रं दर्शयति ##-
विरचितमशकबन्धनजालवद्धात्रा सङ्कल्पजालमात्रनिर्मितं
ग्रहनक्षत्रादिधिष्ण्यभूतं शिशुमारचक्रकं ज्योतिःशास्त्रादौ प्रसिद्धमेव ।
तदेव दक्षिणोत्तरायणमार्गावर्तवर्तिना सूर्येण निमित्तेनेदं त्वत्पृष्टं
दिवसानां ह्रस्वदीर्घत्वं तत्तदावर्तवद्दृश्यवन्नियतं भातीत्यर्थः ॥ २४ ॥
तत्र प्रभास्वराः केचित्केचिदप्यल्पभास्वराः ।
केचिच्चाभास्वरा भाताः पदार्थाश्चित्ररूपिणः ॥ २५ ॥
सत्स्वसङ्ख्येषु देवेषु सूर्य एवोग्रभाः कथम् इति प्रश्ने ये अनेके देवा उक्तास्तान्
ज्योतिश्चक्रे नक्षत्रादिरूपेण स्थितान्दर्शयति - तत्रेति । अभास्वरा राह्वादयः
प्रागुक्ततामसनक्षत्राणि च ॥ २५ ॥
पदार्थजातं त्वेतावन्न जातं न च दृश्यते ।
ज्ञस्याजातमिदं भाति खमात्मा स्वप्नदृश्यवत् ॥ २६ ॥
एवं प्रश्नान्समाधाय प्रकृतमेवालम्ब्याह - पदार्थजातमिति ॥ २६ ॥
चिन्मात्रमात्मा सर्वेशः सर्व एवातिदृश्यवत् ।
नश्यतीव विदेहे स्वे न च भाति न नश्यति ॥ २७ ॥
त्वमहं सर्व एव अतिदृश्यवत्प्रसिद्धो भाति । विदेहे मृते पुरुषे नश्यतीव ॥ २७ ॥
स्वप्नदर्शनवद्भाति यच्चिद्व्योम चिदम्बरे ।
चिद्व्योमत्वादृते रूपं तदस्य जगतः कुतः ॥ २८ ॥
रूपं पारमार्थिकस्वरूपम् ॥ २८ ॥
यद्यथा स्फुरितं तस्य यावत्सत्तं स्फुरद्वपुः ।
तत्स्वभावनियत्याख्यैः शब्दैरिह निगद्यते ॥ २९ ॥
तत्पारमार्थिकसद्रूपमेवाध्यस्ते यावत्कालं घटादेर्विद्यमानता
तावत्तत्तादात्म्येन स्फुरद्वपुरास्ते तदेव स्वभावनियत्यादिशब्दैर्निगद्यते ॥ २९ ॥
गगनाङ्गस्य सत्तान्तः शब्दतन्मात्रकल्पया ।
कुसूलबीजाङ्कुरवत्तिष्ठत्याशान्तरूपिणी ॥ ३० ॥
तत्र सा ब्रह्मसत्ता गगनरूपस्य प्रथमजस्य स्वाङ्गस्यान्तः शब्दतन्मात्रकल्पया
स्थित्या कुसूलान्तर्गतेषु बीजेष्वनाविर्भूताङ्कुरशक्तिवद्वाय्वादिजगद्बीजशक्तितया
आशान्तरूपिणी अनाविर्भूता तिष्ठति ॥ ३० ॥
सम्पद्यते तत इदमितीयं रचनेहया ।
कृता [कृता सम्मुग्ध इति टीकानुगुणः पाठः ।] सा मुग्धबोधाय
मूर्खैर्विरचिता मुधा ॥ ३१ ॥
ततस्तस्याः सकाशादिदं वायुतेजोम्बुधरालक्षणभूतभौतिकात्मकं जगत् क्रमेण
सम्पद्यते इति इयं कल्पना सम्मुग्धानामज्ञानां तत्त्वबोधाय
जगद्विरचनप्रतिपादनेच्छया श्रुतिभिर्मुनिभिश्च कृता न सृष्टिरेव तात्त्विकीति
प्रतिपादनाय । तथात्वे मूर्खैरेवेयं सृष्टिकथा विरचिता मुधैव स्यात् । न हि
वास्तवी सृष्टिरिति परिज्ञाने कस्यचित्किञ्चित्प्रयोजनं दृष्टं श्रुतं वास्तीति भावः
॥ ३१ ॥
नास्तमेतीह नोदेति तत्कदाचन किञ्चन ।
शिलाजठरवच्छान्तमिदं नित्यं सदप्यसत् ॥ ३२ ॥
यतस्तत्तात्त्विकं ब्रह्मरूपं नास्तमेति नोदेति च । तत इदं प्रपञ्चरूपं परसत्तया
सदप् स्वतः असदित्यर्थः ॥ ३२ ॥
यथावयविनो नान्तः सदैवावयवाणवः ।
नास्तं यान्ति न चोद्यन्ति जगन्त्यात्मपदे तथा ॥ ३३ ॥
अपृथक्सत्ताकत्वे ब्रह्मान्तर्जगदवयवप्रायमुदयास्तमयरहितमेव
पर्यवरयतीत्याह - यथेति । आद्यो नकारः पृथक्सत्तानिरासार्थः ॥ ३३ ॥
ब्रह्म व्योम्नि जगद्व्योम व्योम व्योम्नीव विद्यते ।
तत्कथं किल संशुद्धमस्तमायात्युदेति वा ॥ ३४ ॥
ब्रह्मसत्तातिरिक्तजगत्सत्तापलापे जगच्छुद्धं ब्रह्मैव
पर्यवस्यतीत्यस्तोदयादिवैचित्रमस्य गतमित्याह - ब्रह्म व्योम्नीति ॥ ३४ ॥
तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।
सत्तामात्रात्मकचनं यदजस्रं स्वभावतः ॥ ३५ ॥
एवं जगतस्तत्त्वपर्यालोचने ब्रह्ममात्रतां प्रतिपाद्य ब्रह्मण एव
स्वतात्त्विकरूपविस्मरणे जगद्रूपापत्तिं वक्तुमुपक्रमते - तस्येत्यादिना ॥ ३५ ॥
तदात्मना स्वयं किञ्चिच्चेत्यतामिव गच्छति ।
अगृहीतात्मकं संविदूहामर्श्नसूचकम् ॥ ३६ ॥
अगृहीतात्मकमज्ञातमत एव प्रथममन्यथाभावादूहामर्शनसूचकम् ॥ ३६ ॥
भाविनामार्थकलनैः किञ्चिदूहितरूपकम् ।
आकाशादणु शुद्धं च सर्वस्मिन्भाविबोधनम् ॥ ३७ ॥
तव ऊहितरूपकं भाविप्रपञ्चपर्यालोचनात्तस्योद्बोधनम् ॥ ३७ ॥
ततः सा परमा सत्ता सती तच्चेतनोन्मुखी ।
चिन्नामयोग्या भवति किञ्चिल्लभ्यतया तया ॥ ३८ ॥
तस्य पर्यालोचितार्थस्य सम्यक्चेतनोन्मुखी सती चेतयतीति चिदिति
व्युत्पत्त्यवसरलाभाच्चिन्नामयोग्या भवति ॥ ३८ ॥
घनसंवेदनात्पश्चाद्भाविजीवादिनामिका ।
सा भवत्यात्मकलना यद्भवन्ती परं पदम् ॥ ३९ ॥
तदुत्तरं यद्भवति तदाह - घनेति । यद्भवन्ती सती अधिकारिजन्मलाभे पुनः
परं पदं भवति ॥ ३९ ॥
गर्भीकृत्य स्थिताऽनाख्या चिदाकाशापिधानताम् ।
सम्प्रति त्वतिशुद्धस्य पदस्यानन्यरूपिणी ॥ ४० ॥
ननु सा सदैव परं पदम् । वचनेन तस्या अधिकारिदेहज्ञानलाभेन
कोऽतिशयस्तत्राह - गर्भीकृत्येति । यतः सा जीवत्वे चिदाकाशाच्छादिकामविद्यां
गर्भीकृत्य स्थिता अतः अनाख्या अप्रख्यायमानपरपदस्वभावा ज्ञानलाभे
सम्प्रति शुद्धस्य पदस्यानन्यरूपिणी लब्धाखण्डैक्यैव सम्पद्यत इत्यर्थः ॥ ४० ॥
स्वतैकभावनामात्रसारसंसरणोन्मुखी ।
तदा विनाभावकृता अनुतिष्ठन्ति तामिमाः ॥ ४१ ॥
तदा आवृततादशायां स्वता आत्मतादात्म्याध्यासस्तदेकभावनामात्रसारेण
देहेन्द्रियादिना संसरणोन्मुखी सती विनाभावः स्वरूपवियोगस्तत्कृतास्तामिगाः ।
तमु ग्लानौ तमनं तामस्तन्निमित्तकर्माणि तामिमा अनुतिष्ठति । ताभिमाः इति पाठे
ताः प्रसिद्धाः अभिमानान्यभिमाः । सन्धिरार्षः ॥ ४१ ॥
शून्यरूपा स्वसत्तैका शब्दादिगुणगर्भिणी ।
चिद्भावनाभिसम्पन्ना भविष्यदभिधार्थता ॥ ४२ ॥
सा स्वसत्ता एकैव वस्त्वन्तरशून्यरूपैव शब्दादिगुणगर्भिणी
सविकल्पचिद्भावनाभ्रान्त्या अभिसम्पन्ना ।
भविष्यन्तीनामाकाशादिपञ्चभूताभिधानामर्थता प्रवृत्तिनिमित्तभूता
सूक्ष्मभूतात्मिकेति यावत् ॥ ४२ ॥
अहन्तोदेति तदनु सह वै कालसत्तया ।
भविष्यदभिधार्थे ते बीजं मुख्यं जगत्स्थितेः ॥ ४३ ॥
तया अहङ्कारप्रधानलिङ्गदेहकल्पनामाह - अहन्तेति ।
लिङ्गदेहघटकप्राणक्रियाप्रयुक्तकालसत्तया । ते अहन्ताकालसत्ते ॥ ४३ ॥
चितिशक्तेः परायास्तु स्वसंवेदनमात्रकम् ।
जगज्जालमसद्रूपं चेतनात्सदिव स्थितम् ॥ ४४ ॥
तत्र जीवचिदभिव्यक्त्या तत्र जगद्भ्रान्तिरित्याह - चितिशक्तेरिति ॥ ४४ ॥
एवम्प्रायात्मिका सा चिद्बीजं सङ्कल्पशाखिनः ।
अहटां भावयत्यन्तः सैवेह भवति क्षणात् ॥ ४५ ॥
जीवाभिधाना सैषाद्य भावाभावप्लवभ्रमैः ।
भ्रमत्यात्मपदे वीचिरूपैर्वारीव वारिणि ॥ ४६ ॥
आत्मपदे मायाशबलब्रह्मणि ॥ ४६ ॥
चिदेवम्भावनवती व्योमतन्मात्रभावनाम् ।
स्वतो घनीभूय शनैः खतन्मात्रं प्रचेतति ॥ ४७ ॥
तस्याः समष्टिहिरण्यगर्भरूपेण स्थूलपञ्चभूतकल्पनामाह - चिदिति ।
सूक्ष्मां व्योमतन्मात्रभावनां घनीभूय घनीभाव्य । खतन्मात्रं
स्थूलाकाशम् ॥ ४७ ॥
भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।
पदवाक्यप्रमाणाढ्यवेदार्थादिविकारि च ॥ ४८ ॥
तस्मादुदेष्यत्यखिला जगच्छ्रीः शब्दतत्त्वतः ।
शब्दौघनिर्मितार्थौघपरिणामविसारिणी ॥ ४९ ॥
तस्मादिति । स भूरिति व्यावहरत् भुवमसृजत । एत इति वै प्रजापतिर्देवानसृजत ।
असृग्रमिति मनुष्यान् । इन्दव इति पितॄन् इत्यादिश्रुतेरिति भावः ॥ ४९ ॥
चिदेवंव्यवसाया सा जीवशब्देन कथ्यते ।
भाविशब्दार्थजालेन बीजं भूतौघशाखिनः ॥ ५० ॥
एवंव्यवसाया ईदृशविचित्रसङ्कल्पवती ब्रह्मचिदेव जीवशब्देन कथ्यते
नान्येत्यर्थः ॥ ५० ॥
चतुर्दशविधं भूतजातमावलिताम्बरम् ।
जगज्जठरकर्णौघं तस्मात्सम्प्रसरिष्यति ॥ ५१ ॥
असम्प्राप्ताभिधाचारा जीवत्वाच्चेतनेन चित् ।
काकतालीयवत्स्पन्दचिन्मात्रं चेतति स्वयम् ॥ ५२ ॥
तस्याः स्वसृष्टभूतभौतिकभोगाय समष्टित्वगादीन्द्रियकल्पनाप्रकारमाह -
असम्प्राप्तेत्यादिना । न सम्प्राप्तौ अभिधा शाब्दो व्यवहारः आचारः शरीरादिना
व्यवहारश्च यया तथाविधा सती तदर्थं वक्ष्यमाणं चेतति कल्पयति ॥ ५२ ॥
पवनस्कन्धरूपस्य बीजं त्वक्स्पर्शशाखिनः ।
सर्वभूतक्रियास्पन्दस्तस्मात्सम्प्रसरिष्यति ॥ ५३ ॥
तत्र यच्चिद्विलासस्य प्रकाशानुभवो भवेत् ।
रूपतन्मात्रकं तद्वद्भविष्यदभिधार्थदम् ॥ ५४ ॥
प्रकाशचेतनं तेजो न तेजोऽन्यकृतं भवेत् ।
स्पर्शसंवेदनं स्पर्शो नेतरस्पर्शसम्भवः ॥ ५५ ॥
प्रकाशानुभवस्यैव रूपतन्मात्रत्वमुक्तमुपपादयति - प्रकाशचेतनमिति ।
एवं स्पर्शाद्यपि बोध्यमित्याह - स्पर्शेत्यादिना ॥ ५५ ॥
शब्दसंवेदनं शब्दः स्वत एवानुभूयते ।
खं खेनेव स्वयं कोशे नान्यच्छब्दकृदस्ति हि ॥ ५६ ॥
यथा खं खेन स्वेनैव स्वात्मके कोशे अवकाशं प्राप्य तिष्ठति नान्येन तथा
संवेदनमपि स्वात्मकेनैव शब्देन शब्दकृत् शब्दग्राहकं नान्यदस्तीत्यर्थः ॥
५६ ॥
किल तस्यामवस्थायां कोऽपरः शब्दकृद्भवेत् ।
यथा तथा तदाद्यापि द्वैतैक्यस्यात्यसम्भवात् ॥ ५७ ॥
सर्गादौ समष्टाविवेदानीं व्यष्टावपि तत्तत्संविदेव स्वस्यां
तत्तदर्थाकारमध्यस्य जगद्वेषेण भासते नान्यदिति बोध्यमित्याह - किलेति । तदा
यथा तथा अद्यापि । अवश्यं चेदं सर्वैर्वादिभिरभ्युपगन्तव्यम् । अन्यथा
संविदां विषयव्यवस्थासिद्धेः । संवित्तादात्म्यमेव हि विषयाणां विषयता न
त्वन्या वादिकोटिसहस्रैरप्युपपादयितुं शक्या । न च शब्दादीनामसंविद्रूपे
संविदैक्यलक्षणं तादात्म्यं घटत इत्याशयेनाह - द्वैतैक्यस्येति ॥ ५७ ॥
एवं हि रसतन्मात्रं गन्धतन्मात्रमेव च ।
असत्यमेव सदिव स्वप्नाभमिव चेत्यते ॥ ५८ ॥
शब्दे दर्शितो न्यायो रसादिष्वपि बोध्य इत्याह - एवं हीति ॥ ५८ ॥
तेजः सूर्यादिजृम्भाभिर्बीजमालोकशाखिनः ।
तस्माद्रूपविभेदेन संसारः प्रसरिष्यति ॥ ५९ ॥
प्रासङ्गिकं परिसमाप्य प्रस्तुतमेवाह - तेज इति । अक्षिणी निरभिद्येतां
अक्षिभ्यां चक्षुश्चक्षुष आदित्यः इत्यादिश्रुतेः ॥ ५९ ॥
भविष्यदभिधस्याथ खतः स्वत इवासतः ।
स्वदनं तस्य सङ्घस्य रसतन्मात्रमुच्यते ॥ ६० ॥
असतः विकारशून्यात्खत आकाशत इव । स्वदनं माधुर्यसंवित् । तस्य सङ्घस्य
पञ्चीकृतस्यान्नपानादेः ॥ ६० ॥
भविष्यद्रूपसङ्कल्पनामासौ सकलो गणः ।
सङ्कल्पात्माथ तन्मात्रं गन्धाद्यमनुचेतति ॥ ६१ ॥
अयं सकलो गणः कार्यकारणसमुदायात्मा जीवः ॥ ६१ ॥
भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।
सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति ॥ ६२ ॥
अजात एव सञ्जातस्तन्मात्राणां गणस्त्विति ।
अनाकारोऽपि साकारः सम्पन्नः कल्पनावशात् ॥ ६३ ॥
एष तन्मात्रकगणः काकतालीयवत्स्वयम् ।
रूपं येन प्रदेशेन वेत्त्यक्षीति तदुच्यते ॥ ६४ ॥
चक्षुरादिगोलकस्थानकल्पनामाह - एष इत्यादिना ॥ ६४ ॥
शब्दं येन प्रदेशेन वेत्ति श्रोतं तदुच्यते ।
स्पर्शं येन प्रदेशेन वेत्ति तत्तु त्वगिन्द्रियम् ॥ ६५ ॥
रसं येन प्रदेशेन वेत्ति तद्रसनेन्द्रियम् ।
गन्धं येन प्रदेशेन वेत्ति घ्राणेन्द्रियं तु तत् ॥ ६६ ॥
दिक्कालभेदाञ्जीवोऽयं [दिक्कालकलनां जीवो नियतामिति पाठो
व्याख्यानुगुणः स्यात् ।] नियतामाकृतिं गतः ।
सर्वेणाङ्गेन नो सर्वं वेत्त्यसर्वात्मतावशात् ॥ ६७ ॥
द्विविधपरिच्छेदवत्पिण्डाहम्भावप्रयुक्तामस्य दिक्कालभेदकल्पनामाह -
दिगिति । दिक्कालकलनां करोतीति शेषः । किं च सर्वेणाङ्गेन चक्षुःश्रोत्रादिना
रसगन्धादि सर्व न वेत्ति एवं व्यष्टिभूतः सर्वशरीरेण सर्वं भोग्यं न वेत्ति ।
असर्वात्मतादोषादित्यर्थः ॥ ६७ ॥
इति कलनमनन्तमात्मनोन्तर्गतमनुमेयमनन्यदात्मभूतम् ।
न तदुदयमुपैति नास्तमेति स्थितमुपलोदरवद्घनं सुमौनम् ॥ ६८ ॥
इति अनया रीत्या अनुक्तमप्यनन्तं सांसारिकं कलनं प्रति
जीवमात्मनोन्तर्गतमनुमेयमानन्त्यादेव प्रातिस्विकरूपेण वक्तुमशक्यम् ।
तच्चानन्तं कलनमात्मनोऽनन्यदात्मभूतमेव । अतस्तत्परमार्थतो नोदयमुपैति
नाप्यस्तं नाशमेति किन्तूपलोदरवत्सच्चिदानन्दैकघनं निर्व्यापारमेव
स्थितमित्यर्थः ॥ ६८ ॥
इत्यार्षे श्रीवासि० वाल्मी० दे० मो० नि० उ० जीवत्वसंसृतिप्रतिपादनं नाम
सप्ताशीत्यधिकशततमः सर्गः ॥ १८७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जीवत्वसंसृतिप्रतिपादनं नाम सप्ताशीत्युत्तरशततमः सर्गः ॥ १८७ ॥