१८६

षडशीत्यधिकशततमः सर्गः १८६

श्रीवाल्मीकिरुवाच ।

कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः ।
उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ॥ १ ॥

सर्वं ब्रह्मेति सिद्धान्तो युक्तिभिः क्रियतेऽचलः ।
वरशापार्थसिद्धिश्च धातुः सङ्कल्पतश्चितः ॥

कुन्ददन्तवर्णितं मायाशबलब्रह्मतत्त्वं प्रथमतो दृढीकृत्य निर्मायं
शुद्धं तद्वर्णयितुं श्रीवसिष्ठः प्रवृत्त इत्याह - कुन्ददन्ते इति ॥ १ ॥

श्रीवसिष्ठ उवाच ।

वत विज्ञानविश्रान्तिरस्य जाता महात्मनः ।
करामलकवद्विश्वं ब्रह्मेति परिपश्यति ॥ २ ॥

बतेत्यनुकम्पायाम् । ज्ञात इति पाठे ज्ञातेन साक्षात्कारज्ञानफलेन विज्ञानस्य
शास्त्रश्रवणजन्यज्ञानस्य विश्रान्तिः पूर्णता । करामलकवदिति तस्यैव
स्फुटमभिनयः ॥ २ ॥

किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् ।
भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ॥ ३ ॥

भ्रान्तिरन्यथाग्रहस्तन्मात्रात्मकं विश्वं ब्रह्मेत्यस्य भाति यतो भ्रान्तिरपि
ब्रह्मैवेत्यस्य भाति ॥ ३ ॥

यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः ।
तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ॥ ४ ॥

शबलब्रह्मनिष्कर्षदृशानेन यद्वर्णितं तदपि सम्यगेवेत्याह - यदिति ॥ ४ ॥

शिवं शान्तमजं मौनममौनमजरं ततम् ।
सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ॥ ५ ॥

तच्च शुद्धाविरुद्धम् । मायाया विकारं विनैव वैचित्र्यप्रकटनादित्याशयेनाह ##-

यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः ।
सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ॥ ६ ॥

संविदा मायाशबलचिता । भरः सङ्कल्पातिशयः ॥ ६ ॥

परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तःस्थितो यतः ।
परमाणुरेव ब्रह्माण्डमन्तःस्थितजगद्यतः ॥ ७ ॥

ब्रह्माण्डमेव परोऽणुः परमाणुः । एवं परमाणुरेव ब्रह्माण्डं
यतोन्तःस्थितं जगत् ॥ ७ ॥

तस्माच्चिदाकाशमनादिमध्यमखण्डितं सौम्यमिदं समस्तम् ।
निर्वाणमस्तङ्गतजातिबन्धो यथास्थितं तिष्ठ निरामयात्मा ॥ ८ ॥

जगद्ब्रह्मैव चेद्यत्फलितं तदाह - तस्मादिति । अस्तङ्गतो जातिः शरीरादिवैचित्र्यं
तद्रूपो बन्धो यस्य तथाविधः सन् यथास्थितं ब्रह्मैव भूत्वा तिष्ठ ॥ ८ ॥

स्वयं दृश्यं स्वयं द्रष्ट्ट स्वयं चित्त्वं स्वयं जडम् ।
स्वयं किञ्चिन्न किञ्चिच्च ब्रह्मात्मन्येव संस्थितम् ॥ ९ ॥

व्यवहारे तु ब्रह्म स्वयमेव दृश्यादिवेशेण संस्थितम् । परमार्थतस्तु तत्
आत्मन्यद्वितीयस्वप्रकाशानन्दैकरसात्मन्येव संस्थितम् ॥ ९ ॥

यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि ।
स्वरूपमजहच्छान्तं यत्र सम्पद्यते तथा । १० ॥

यत्र यद्वासनया यथा सम्पद्यते तत्र तथा स्थितमित्यनुकर्षः ॥ १० ॥

ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् ।
एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ॥ ११ ॥

ब्रह्म मायया दृश्यं जगत्सम्पन्नमित्येतावता द्वैतं न कदाचिन्मन्तव्यं यतो
यथास्थितमविकृतमेवास्ते ॥ ११ ॥

दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता ।
एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ॥ १२ ॥

यादृग्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः ।
संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्मयः ॥ १३ ॥

प्रतीयमाना देहाद्याकृतिः कथमपलप्यते तत्राह - यादृगिति ॥ १३ ॥

संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोभवत् ।
जडीभूता तथैषास्ते संवित्स्थावरनामिका ॥ १४ ॥

संविदोऽपि जडस्थावरभावे दृष्टान्तमाह - संविन्मय इति ॥ १४ ॥

स्थावरत्वाज्जडाच्चित्त्वं जङ्गमात्म प्रयाति चित् ।
जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ॥ १५ ॥

तस्याः स्थावरभावोत्तरं जङ्गमभावे चिदभिव्यक्तो दृष्टान्तमाह -
स्थावरत्वादिति । यथा सुषुप्तात्मा जीवः स्वप्नं जाग्रच्चैव जगच्छतकल्पनैर्गच्छति
तद्वदित्यर्थः ॥ १५ ॥

आम्ॐक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले ।
खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ॥ १६ ॥

कियत्कालं स्थावरजङ्गमादिभावस्थितिस्तत्राह - आमोक्षमिति ॥ १६ ॥

चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा ।
चिनोति जडतां चित्त्वं न नाम जडतावशात् ॥ १७ ॥

चिनोति अध्यस्यति । तथाप्यस्याश्चित्त्वमव्याहतमित्याह - चिनोतीति ।
अध्यस्तजडतावशाज्जडतां न चिनोति वस्तुतो जडतां न नाम भजते ॥ १७ ॥

चिता वेदनवेत्तारं स्थावरं क्रियते वपुः ।
चिता वेदनवेत्तारं जङ्गमं क्रियते वपुः ॥ १८ ॥

जाड्यवेदनवेत्तारं जीवं प्रति स्थावरं वपुः क्रियते तथा जङ्गममपि ॥ १८ ॥

यथा पुंसो नखाः पादावेकमेव शरीरकम् ।
तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ॥ १९ ॥

तथा कृतेऽपि न चिद्भेदः किन्तु महाचितः स्वाध्यस्तं सर्वमचेतनं चेतनं च
नखपादादिवदवयवभूतमेवेत्याह - यथेति ॥ १९ ॥

आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् ।
चितो रूपं जगदिति तत्तथैवान्त उच्यते ॥ २० ॥

आदिसर्गे हिरण्यगर्भस्य प्राथमिकसर्गहेतौ सङ्कल्पे यथा यद्रूपं प्रथामागतं
तत्तथैवाधुनापि स्थितम् । एवं चिराज्जडरूपेण स्थितमपि चिन्मयत्वादप्रतिघं
शान्तमित्यादि तदपवादेन सर्गस्यान्त उच्यते इति परेणान्वयः ॥ २० ॥

तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् ।
न प्रथामागतं किञ्चिन्नासीदप्रथितं हितम् ॥ २१ ॥

यतो नासीदतः अप्रथितं कदापीत्येव हितम् ॥ २१ ॥

अयमादिरयं चान्तः सर्गस्येत्यवभासते ।
चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ॥ २२ ॥

एवं सर्गमात्रस्य त्रैकालिकासत्त्वे आद्यन्तकल्पनापि मिथ्यैवेत्याह - अयमिति । यथा
स्वाप्नप्रपञ्चस्य सुषुप्ततादिप्रबोधान्ततापि निद्रा कोष्ठान्तरेव कल्प्यते न
प्रबोधकोष्ठान्तस्तद्वदित्यर्थः ॥ २२ ॥

स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः ।
प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ॥ २३ ॥

तत्कुतस्तत्राह - स्थित इति । मां प्रबुद्धं प्रति नामापि नास्ति दूरे रूपमित्यर्थः ॥
२३ ॥

प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते ।
एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ॥ २४ ॥

कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते ।
नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ॥ २५ ॥

यथा चित्रकृता कर्तव्या चित्रसेना अस्मात्तद्बुद्धिस्थाच्चित्रान्न भिद्यते तथा प्रतिघा
मूर्ता सर्गतापि स्रष्टुश्चित्तत्त्वे नानाप्यनानैव ॥ २५ ॥

विभागहीनयाप्येष भागश्चिद्घननिद्रया ।
सुषुप्तान्मुष्यते मोक्ष इति स्वप्नस्तु चित्तकम् ॥ २६ ॥

विभागहीनयापि चिद्घननिद्रया अविद्यया सुषुप्तादेवावरणाद्वास्तवस्वरूपभूतोऽपि
मोक्ष इति प्रसिद्धो भागो मुष्यते चोर्यते अपलप्यते । तु प्रत्युत चित्तकं भूत्वा एष
जाग्रद्भागः स्वप्नश्च प्रदर्श्यते इति शेषः । सुषुप्तात्सोद्यते मोक्षः इति पाठे तु
सोद्यते श्रवणमननाद्युद्योगसहिते पुरुषे मोक्ष इति विभागः प्रदर्श्यते ।
अन्यस्मिंस्तु चित्तकं भूत्वा द्विविधः स्वप्नः प्रदर्श्यत इति व्याख्येयम् ॥ २६ ॥

प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् ।
भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥ २७ ॥

घनो जागरः प्रज्ञानघनतारूपसुषुप्तिकस्य चित्सहस्ररुचेरात्मसूर्यस्य इति
एवंरूपा भासः प्रकाशभेदाः ॥ २७ ॥

चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् ।
तदेव मुच्यते भूतं जीवो देवासुरादिदृक् ॥ २८ ॥

तत्र य उद्भूतवासनात्मा स्वप्रभागः स एव उपाध्यंशप्राधान्येन चित्तं
चिदंशप्राधान्येन जीवः स एव देवासुरमनुष्याद्यधिकारिशरीरदृक्
संस्तत्त्वज्ञानेन निद्रां विधूय मुच्यते ॥ २८ ॥

एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् ।
यदा तदा मोक्ष इति प्रोच्यते मोक्षकाङ्क्षिभिः ॥ २९ ॥

तदेवाह - एष एवेति । चतुर्थपञ्चमभूमिकयोः परिज्ञातः षष्ठभूमिकायां
सुषुप्तिर्भवति । सप्तमभूमिकायां मोक्ष इति प्रोच्यते ॥ २९ ॥

श्रीराम उवाच ।

चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् ।
कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥ ३० ॥

चित्तं देवासुरादिभेदेन कियत्प्रमाणं कियत्संस्थानं च भवति चिन्निद्रा तस्योदरे
जगच्च कियत्प्रमाणं कियत्कालं भवतीति प्रश्नार्थः ॥ ३० ॥

श्रीवसिष्ठ उवाच ।

विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् ।
नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥ ३१ ॥

तत्राद्यस्योत्तरमाह - विद्धीत्यादिना ॥ ३१ ॥

प्रमाणं तस्य चानन्तं विद्धि तद्यत्र रेणुताम् ।
आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥ ३२ ॥

रेणुतां परमाणुतामवधीकृत्य ॥ ३२ ॥

यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् ।
एतच्चित्तं भूतमेतदपर्यन्तामलाकृति ॥ ३३ ॥

वैपुल्योत्कर्षमप्यनुभवमारोहयति - यदेतदिति । ऊर्ध्वं चक्षुःप्रेरणे
यदेतदादित्यपथादूर्ध्वदेशे ध्रुवान्धकारादिप्रदेशेऽपि चाक्षुषं वेदनं
संयाति तदेतावत्प्रमाणं भूतं चित्तमपर्यन्तममलाकृति च
सर्वानुभवसिद्धमित्यर्थः ॥ ३३ ॥

एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः ।
यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥ ३४ ॥

दुःसहसंसारदुःखबहुलत्वादुग्रम् । अस्यैव समष्ट्यात्मनोऽन्तर्भुवनर्द्धयो
यदा ब्रह्माण्डादिकल्पनया आयान्ति तदा सर्गः स चास्माभिश्चित्तादागत इत्युच्यते ॥ ३४

चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् ।
खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥ ३५ ॥

आद्यन्तविवर्जितं विभु । अत एव सर्वदेहेषु आस्ते व्यष्टिरूपेण देहादुत्क्रमणान्नास्ते च
धातुरिच्छयेत्यर्थः ॥ ३५ ॥

निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च ।
सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥ ३६ ॥

तत्र शरीरग्रहणत्यागयोर्दृष्टान्तमाह - निम्नेति । हे अङ्ग ॥ ३६ ॥

अस्य त्वात्मपरिज्ञानादेष देहादिसम्भ्रमः ।
शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥ ३७ ॥

जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः ।
सदेव च पुमांस्तस्मात्पुंसामन्तःस्थितं जगत् ॥ ३८ ॥

एव्ं सर्वजगद्गर्भितस्य मनसः परमाणुरूपतैवेत्याह -जगतीति । यत्र
जालसूर्यमरीच्यादौ सर्वतः सूक्ष्मोऽणुर्यत्प्रमाणः प्रसिद्धस्तच्चेतसः प्रमाणं
परिमाणम् । तदेव च पुमान् जीवः । वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो
जीवः स विज्ञेयः स चानन्त्याय कल्पते इति श्रुतेरिति भावः ॥ ३८ ॥

यावत्किञ्चिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव ।
तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥ ३९ ॥

एवं च जीवजगद्भेदोऽप्यपमृष्ट इत्याह - यावदिति ॥ ३९ ॥

चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता ।
व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥ ४० ॥

जीवजगदभेदे चिन्मात्रतापि जगतः सिद्धेत्याह - चिदेवेति ।
अन्यस्मिंश्चिद्भिन्नेऽभ्युपगम्यमाने सत्तास्फुरणयोरलाभादलीकतापत्त्या व्यतिरिक्ता
पदार्थतैव नास्ति न सिध्यतीत्यर्थः ॥ ४० ॥

यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् ।
ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥ ४१ ॥

यथा अम्बुधिलक्षणे एकदेशे एकीभूय स्थिता एवापः पृथक् स्फुरन्ति
तद्वद्ब्रह्मण्यपि दृश्यात्मिकास्ता इत्यर्थः ॥ ४१ ॥

यथा द्रवत्वमम्भोधावापो जठरकोशगाः ।
स्फुरन्त्येवं विदोऽनन्याः पदार्थौघास्तथापरे ॥ ४२ ॥

अनन्यत्वे तद्द्रवत्वदृष्टान्तमाह - यथेति ॥ ४२ ॥

यथास्थितजगच्छालभञ्जिकाकाशरूपधृक् ।
चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥ ४३ ॥

एवं च यथास्थितजगल्लक्षणः शालभञ्जिकानां
यदाकाशरूपमात्यन्तिकशून्यता तद्रूपधृक् चित्स्तम्भ एव निस्पन्दोऽचलः स्थितः ॥
४३ ॥

यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् ।
स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥ ४४ ॥

समता सत्यता सत्ता चैकता निर्विकारिता ।
आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥ ४५ ॥

कथं शान्तं कथं च स्वरूपमत्यजत्तदाह - समतेति । पञ्चभिः
प्रकारैर्भेदाविभावनाच्छान्तमाधाराधेयभावेन
स्तम्भशालभञ्जिकावद्व्यवहारे ईषद्भेदप्र्तिभासात्स्वरूपमत्यजदित्यर्थः ॥ ४५ ॥

स्वप्नसङ्कल्पसंसारवरशापदृशामिह ।
सरोब्धिसरिदम्बूनामिवान्यत्वं न वाथवा ॥ ४६ ॥

तत्र प्रातिभासिको भेदो वस्तुतस्तु तदभाव इत्याह - स्वप्नेति । वरशापाभ्यां
नन्दिनहुषयोर्देवसर्पभावप्रतिभासदृशामिव व्यवहारसमर्थमन्यत्वं
परमार्थतस्तु न वा ॥ ४६ ॥

श्रीराम उवाच ।

वरशापार्थसंवित्तौ कार्यकारणता कथम् ।
उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥ ४७ ॥

नन्दिनो मनुष्यशरीरे देवशरीरोपादानं चन्द्रामृतभागो नास्ति एवं
चन्द्रामृतपरिणामे नहुषस्य देवशरीरे सर्पशरीरोपादानं तदण्डादि नास्ति ।
उपादानं विना लोके कार्य च क्वापि नास्ति तत्रोभयत्र कथं देवसर्पशरीरसिद्धिरिति
रामप्रश्नार्थः ॥ ४७ ॥

श्रीवसिष्ठ उवाच ।

स्ववदातचिदाकाशकचनं जगदुच्यते ।
स्फुरणे पयसामब्धावावर्तचलनं यथा ॥ ४८ ॥

निरावरणविज्ञानस्य भगवतो रुद्रस्यागस्त्यादीनां च सत्यसङ्कल्पावच्छिन्ना चिदेव
सुरसर्पशरीरात्मना तत्र विवर्तत इति विवर्तवादेनास्याक्षेपस्य प्रसर इत्युत्तरं
वसिष्ठो वक्तुं भूमिकां रचयति - स्ववदातेत्यादिना ।
स्ववदातस्तत्त्वज्ञानविमृष्टत्वादतिनिर्मलो यश्चिदाकाशस्तस्य सत्यसङ्कल्पानुसारि
कचनं तदित्यसकृन्मयोच्यते ॥ ४८ ॥

ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः ।
सङ्कल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥ ४९ ॥

विधातुः स्वात्मचितिजगद्भावाश्चिदात्मका एवाकस्माद्भान्ति तेषां भानानां
सोऽकामयत तदैक्षत समकॢपतां द्यावापृथिवी इत्यादिश्रुतयो मनीषिणः
ऋषयश्च सङ्कल्पादीनि नामान्याहुः ॥ ४९ ॥

कालेनाभ्यासयोगेन विचारेण समेन च ।
जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥ ५० ॥

तत्र निरावरणविज्ञानानां यद्भावार्थस्फुरणं स एव सत्यसङ्कल्प इति
दर्शयितुं तादृशविज्ञानकारणान्याह - कालेनेत्यादिना । कालेन कर्कट्यादेः ।
समेन शत्रुमित्रादिषु समदर्शनेन । देवानां तु जातेः सात्त्विकत्वेन ॥ ५० ॥

सम्यग्ज्ञानवतो ज्ञस्य यथा भूतार्थदर्शिनः ।
बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥ ५१ ॥

निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी ।
संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥ ५२ ॥

सोऽयं पश्यत्यशेषेण यावत्सङ्कल्पमात्रकम् ।
स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥ ५३ ॥

सोऽयं निरावरणविज्ञानः पुरुषो यावत्सङ्कल्पमात्रं पश्यति तत्सर्वं
परमार्थतः अनन्यत्पश्यतीति तत्सङ्कल्पस्य सत्यतायामुपपत्तिः ॥ ५३ ॥

अस्या इदं हि सङ्कल्पमात्रमेवाखिलं जगत् ।
यथा सङ्कल्पनगरं यथा स्वप्नमहापुरम् ॥ ५४ ॥

अस्य आ इदमिति च्छेदः । अस्यैवंविधस्य हिरण्यगर्भस्य
आसमन्ताद्दृश्यमानमिदं जगत् सङ्कल्पमात्रमेवेत्यर्थः ॥ ५४ ॥

आत्मा स्वसङ्कल्पवरः स्ववदातो यथा यथा ।
यद्यथा सङ्कल्पयति तथा भवति तस्य तत् ॥ ५५ ॥

एवमन्योऽपि स्वसङ्कल्पवरो निरावरणात्मैवेति यथा यथा यत्सङ्कल्पमात्रं
[सङ्कल्पयति इति पाठः ।] पश्यति तत्तथा तथा भवति ॥ ५५ ॥

सङ्कल्पनगरे बालः शिलाप्रोड्डयनं यथा ।
सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥ ५६ ॥

खविधेयं खाधीनं नियन्त्रणं नियमनं यत्र ॥ ५६ ॥

स्वसङ्कल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये ।
वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥ ५७ ॥

तत्र वरशापात्मकं यत्फलं तत् हिरण्यगर्भाद्यनावरणविज्ञानात्मा
आत्मनोऽनन्यत्सत्यं वेत्ति ॥ ५७ ॥

स्वसङ्कल्पपुरे तैलं यथा सिद्ध्यति सैकतात् ।
कल्पनात्सर्गसङ्कल्पैर्वरादीह तथात्मनः ॥ ५८ ॥

जगतश्च तदीयसङ्कल्पात्मकत्वात्स्वसङ्कल्पपुरे बालस्य सिकताभ्यस्तैलमिव
हिरण्यगर्भाद्यात्मनोऽपि वरशापाद्यर्थो निरुपादानोऽपि सिद्ध्यति ॥ ५८ ॥

अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः ।
ततः सङ्कल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥ ५९ ॥

निरावरणेति विशेषणस्य प्रयोजनं दर्शयति - अनिरावरणेति । अस्य अज्ञपुरुषस्य
वरादि न सिद्ध्यति ॥ ५९ ॥

या यथा कलना रूढा तावत्साद्यापि संस्थिता ।
न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥ ६० ॥

निरावरणज्ञानानां कल्पना तादृशकल्पनान्तरोदयपर्यन्तं न निवर्तत इत्याह

  • येति ॥ ६० ॥

ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे ।
यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥ ६१ ॥

निरवयवे निरावरणज्ञानात्मनि तद्विरुद्धवरशापादिकल्पना कथं तिष्ठति तत्राह

  • ब्रह्मणीति ॥ ६१ ॥

श्रीराम उवाच ।

अनिरावरणाज्ञानात्केवलं धर्मचारिणः ।
शापादीन्सम्प्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥ ६२ ॥

तर्ह्यनिरावरणज्ञानानां केवलोग्रतापसानां वरशापादि मोघं स्यादित्याशयेन
रामः पृच्छति - अनिरावरणेति ॥ ६२ ॥

श्रीवसिष्ठ उवाच ।

सङ्कल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि ।
तत्तदेवानुभवति यस्मात्तत्रास्ति नेतरत् ॥ ६३ ॥

तदीयवरशापादेरपि सत्यतास्त्विति सर्गादौ धातुः सङ्कल्पादेव न तन्मोघतेत्युत्तरं
वक्तुं भूमिकां वसिष्ठो रचयति - सङ्कल्पेत्यादिना । इतरत् तत्प्रतिबन्धकं नास्ति
॥ ६३ ॥

ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः ।
स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥ ६४ ॥

धातुस्तु सत्यसङ्कल्पता सत्यब्रह्मात्मवेदितृत्वादेव सिद्धेत्याशयेनाह -
ब्रह्मेति । स प्रजापतिर्धाता यद्यस्मात्कारणाद्ब्रह्म वेत्ति तस्माद्धेतोरयं ब्रह्मैव
। तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् इत्यादिश्रुतेरिति भावः ॥ ६४ ॥

सङ्कल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः ।
तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥ ६५ ॥

निराधारं निरालम्बं व्योमात्म व्योम्नि भासते ।
दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥ ६६ ॥

कीदृशं तत्कल्पनं तदाह - निराधारमिति ॥ ६६ ॥

सङ्कल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः ।
वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥ ६७ ॥

तेन प्रजापतिना । चत्वारो वेदाः स्मृतयश्चेति पञ्च । त्रयी साङ्ख्यं योगः
पशुपतिमतं वैष्णवम् इति वा पञ्च । ज्ञानोपदेशनाः । ण्यन्ताद्युच् ॥ ६७ ॥

तपस्विनोऽथ वादैश्च यद्ब्रूयुरविलम्बितम् ।
यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥ ६८ ॥

अथ तेन प्रजापतिना इति कल्पितं सङ्कल्पितम् । किमिति । वेदविदस्तपस्विनो
वादैश्चकारात्सहजवृत्त्या वा यद्यद्ब्रूयुस्तत्तदवश्यं स्यादिति ॥ ६८ ॥

इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता ।
द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥ ६९ ॥

एवं सर्ववस्तुस्वभावभेदा अपि तेनैव कल्पिता इत्याह - इदमिति । इदं ब्रह्म
चिज्जडव्यावृत्तस्वभावम् । खं छिद्रस्वभावम् । वायुश्चेष्टास्वभावः ।
अग्निरुष्णतास्वभाव इत्यादि ॥ ६९ ॥

चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति ।
तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥ ७० ॥

एवमियं सर्वा कल्पना प्रजापतिवेषस्य चिद्घातोरेव कल्पनेत्याह - चिद्धातुरिति ।
अनुभवति सत्यसङ्कल्पत्वादिति भावः ॥ ७० ॥

यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् ।
स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥ ७१ ॥

शिलानृतं यथा सत्यं सङ्कल्पनगरे तथा ।
जगत्सङ्कल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥ ७२ ॥

तत्र सदात्मतां दृष्टान्तेन स्फुटयति - शिलेति । ब्रह्मणः
प्रजापतेरधिकारप्रारब्धभोगायेप्सितम् ॥ ७२ ॥

चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् ।
तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥ ७३ ॥

वरसङ्कल्पजं वरशापादिसङ्कल्पेन तद्विरुद्धेन जनैः कुतो नान्यथा क्रियते
तत्राह - चित्स्वभावेनेति ॥ ७३ ॥

अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् ।
स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥ ७४ ॥

अशुद्धानामस्वतन्त्रकल्पनाभ्यासदार्ढ्यादपि न
तद्विरुद्धकल्पनस्वातन्त्र्यमित्याशयेनाह - अभ्यस्तमिति ।
शृङ्खलाबद्धोऽहमिति दृढतरजाग्रत्संस्कारवतः स्वप्नेऽपि
शृङ्खलाबन्धपारतन्त्र्यस्यैवानुभवादिति भावः ॥ ७४ ॥

सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् ।
द्रष्ट्टदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥ ७५ ॥

एवं कल्पितत्रिपुटीवेषेण कचनेऽपि चित उदासीनसाक्षिस्वभावेनापि सदैव
कचनमस्त्येवेत्याह - सदेति । द्रष्ट्टदृश्यग्रहणं त्रिपुट्युपलक्षणम् ॥ ७५ ॥

एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः ।
तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥ ७६ ॥

साक्षिचितस्त्रिपुटीव्याप्तिबलादेव तत्सत्तासम्पादकत्वमित्याह - एकमिति ।
एकचित्सत्तोपजीवित्वादेकम् ॥ ७६ ॥

वाय्वङ्गगस्पन्दनवज्जलाङ्गद्रवभाववत् ।
यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गगं जगत् ॥ ७७ ॥

धातृसाक्ष्यधीनसत्तास्फूर्तिकत्वात्तदङ्गगतमेवेदं जगदिति सदृष्टान्तमाह

  • वाय्विति । ब्रह्मत्वं जगदाकारबृंहणहेतुमायाशक्तिमत्त्वं च यथा
    तथेत्यर्थः ॥ अजस्य विराजः ॥ ७७ ॥

ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् ।
भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥ ७८ ॥

पूर्वं ब्रह्मण्यध्यस्तं जगदित्यसकृदुक्तमिदानीं कथमजस्याङ्गगमित्युच्यते
तत्राह - ब्रह्मैवेति ॥ ७८ ॥

यथा प्रपाते पयसो विचित्राः कणपङ्क्तयः ।
विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥ ७९ ॥

प्रपाते पर्वताग्राद्गङ्गादीनामधः पतनस्थाने ॥ ७९ ॥

निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः ।
आत्मन्येवात्मनो भान्ति तथा य ब्रह्मसंविदः ॥ ८० ॥

एकयैव धारया आकल्पं न्निपत्त्य कणसहस्रकोटिभेदविभक्ताः पुनरेकतामापद्य
आत्मनः स्वस्यैकप्रवाहात्मन्येव भान्ति तथा या विचित्रा ब्रह्मसंविदो जगद्भेदा अपि
बोध्या इत्यर्थः ॥ ८० ॥

ताभिः स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः ।
कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥ ८१ ॥

एतावांस्तु विशेषः - यत्कणपङ्क्तयो मनोबुद्ध्यादिवर्जिताः
ताभिर्ब्रह्मसंविद्भिस्तु स्वदेहेषु स्वयं मनोबुद्ध्यादिकल्पनाः कृत्वा
सर्गश्रीर्भोग्यत्वेनोररीकृतेति ॥ ८१ ॥

तदेवं जगदित्यस्ति दुर्बोधेन मम त्विदम् ।
अकारणकमद्वैतमजातं कर्म केवलम् ॥ ८२ ॥

मनोबुद्ध्यादिकल्पनात्यागे तु अज्ञानमात्रं जगत्पर्यवस्यतीत्याशयेनाह -
तदेवमिति । मनोबुद्ध्यादिविक्षिप्ताज्ञानलक्षणेन दुर्बोधेन । मम दुर्बोधरहितस्य
दृशा त्विदं मनोबुद्ध्यादि सर्वं जगत्कर्म कालत्रयेऽप्यजातमेव ॥ ८२ ॥

अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयते ।
उपलादौ जडा सत्ता तादृशी परमात्मनः ॥ ८३ ॥

अस्मिन् शरीरे अस्तस्थितिर्मृतावस्था यादृग्रूपा मनोबुद्ध्यादिरहितानुभूयते ।
उपलादौ जडा सत्ता च यादृग्रूपा तादृशी परमात्मनोपि मनोबुद्ध्यादिरहितैव
निर्विक्षेपसत्ता बोध्येत्यर्थः ॥ ८३ ॥

यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ ।
तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥ ८४ ॥

एवं च सृष्टिप्रलयौ द्वावप्यज्ञाननिद्रावान्तरविशेषावेवेत्याह - यथेति ॥ ८४

सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा ।
एकस्यामेव निद्रायां सर्गासर्गौ तथा परे ॥ ८५ ॥

ननु सर्गे सूर्यादिप्रकाशास्तर्हि तमोरूपप्रलयविलक्षणाः कथं तत्राह -
सुषुप्तेति ॥ ८५ ॥

यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् ।
परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥ ८६ ॥

चित्येव जडाजडभेदकल्पनेऽपि स्वप्न एव दृष्टान्त इत्याह - यथेति ॥ ८६ ॥

अङ्गुष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति ।
योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥ ८७ ॥

चेतने जाड्यानुभवाप्रसिद्धिं वारयति - अङ्गुष्ठस्येति । अन्यत्र विषयान्तरे
व्यासक्तचित्तस्य पुरुषस्याङ्गुष्ठस्याङ्गुल्यन्तरस्य वा वातातपधूल्यादिस्पर्शने
जाते सति यो जातोऽप्यजातप्रायोऽनुभवः प्रसिद्धः स तादृश एव दृषदादौ
विद्यमानोऽप्यविद्यमानप्रायो जाड्यमित्यर्थः ॥ ८७ ॥

व्योमोपलजलादीनां यथा देहानुभूतयः ।
तथास्माकमचित्तानामद्य नानानुभूतयः ॥ ८८ ॥

एवं जडस्यापि चेतनभावानुभवप्रसिद्धिमाह - व्योमेति । देहे विराड्देहभावे
तत्तदधिष्ठातृदेवतादेहभावे वा यथा अनुभूतयस्तथा प्रलये
अचित्तानामस्माकमद्य सर्गकाले सचित्तत्वलाभेनानुभूतयः । तवास्माकम् इति पाठे
त्यदादीनि सर्वैर्नित्यं त्यदादीनां मिथं सहोक्तौ यत्परं तच्छिष्यत
इत्येकशेषाभावश्छान्दसः ॥ ८८ ॥

काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः ।
तथाऽसङ्ख्याः परे भान्ति सर्गसंहारसंविदः ॥ ८९ ॥

अखण्डकाले ब्रह्मदिनभेदरूपेषु कल्पेषु यथास्माकमहोरात्रसंविदो भान्ति तथा
असङ्ख्याः परमात्मनि सर्गसंहारसंविदो भान्ति ॥ ८९ ॥

आलोकरूपमननानुभवैषणेच्छामुक्तात्मनि स्फुरति वारिघने स्वभावात् ।
आवर्तवीचिवलयादि यथा तथायं शान्ते परे स्फुरति संहृतिसर्गपूगः ॥ ९० ॥

यथा वारिघने उदकैकस्वभावे समुद्रे स्वभावादेव आवर्तवीचिवलयादि स्फुरति तथा
आलोकनमालोकस्तद्विषयरूपं तन्मननं तस्य भोगलक्षणोऽनुभवस्तदेषणा
रागस्ततः पुनस्तत्प्राप्तीच्छेत्यादिविक्षेपविनिर्मुक्तात्मनि अत एव शान्ते परे पदे अयं
संहृतिसर्गपूगः स्वभावत एव स्फुरति न प्रमाणतस्तत्त्वदर्शने सतीत्यर्थः ॥ ९०

इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० ब्रह्मगी० सर्वं खल्विदं ब्रह्मेति
प्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः सर्गः ॥ १८६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे सर्वं
खल्विदं ब्रह्मेति प्रतिपादनयोगोपदेशो नाम षडशीत्यधिकशततमः सर्गः ॥ १८६