पञ्चाशीत्यधिकशततमः सर्गः १८५
कुन्दद्न्त उवाच ।
जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः ।
आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ॥ १ ॥
तयोर्गृहागमस्तत्र भ्रातृणां क्रमशः क्षयः ।
कुन्ददन्तस्य रामाप्त्या मोहोच्छित्तिश्च वर्ण्यते ॥
अस्पन्दिते प्राणमनसी यस्य ॥ १ ॥
आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनः पुनः ।
वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ॥ २ ॥
प्रणयोदारैर्वाक्यैरावाभ्यां प्रार्थितोऽपि वचो न दत्तवान् । यतो
बाह्यवृत्त्युपरमात्संसारमविदन्नननुसन्दधान इत्यर्थः ॥ २ ॥
आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ ।
दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ॥ ३ ॥
मुनिवियोगादुत्सुकौ ॥ ३ ॥
अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरन्तनी ।
स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ॥ ४ ॥
तत्र गृहे कुलदेवताराधनसुवासिनीब्राह्मणभोजनाद्युत्सवं कृत्वा ॥ ४ ॥
क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव ।
मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ॥ ५ ॥
प्रलयेषु प्रलयारम्भे द्वादशादित्यतापात्सप्तार्णवा इव ॥ ५ ॥
ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः ।
अहं दुःखपरीतात्मा परं वैधुर्यमागतः ॥ ६ ॥
स मत्सखः अष्टमोऽपि । वैधुर्यं सखिजनवियोगम् ॥ ६ ॥
ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् ।
गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ॥ ७ ॥
तत् प्रोक्तेनोक्तमात्मज्ञानम् ॥ ७ ॥
तत्र मासत्रयेणासौ समाधिविरतोऽभवत् ।
प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ॥ ८ ॥
कदम्बतापस उवाच ।
अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् ।
समाधिमेव प्रविशाम्यहमाशु कृतत्वरः ॥ ९ ॥
परमार्थोपदेशस्ते नाभ्यासेन विनानघ ।
लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु ॥ १० ॥
इदानीं मया कृतोऽपि ते न लगति । परामन्यां युक्तिं ज्ञानप्राप्त्युपायम् ॥ १० ॥
अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः ।
नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ॥ ११ ॥
सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल ।
वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ॥ १२ ॥
मोक्षोपायकथां कथयिष्यति ॥ १२ ॥
मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज ।
विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ॥ १३ ॥
इत्युक्त्वा स समाधानरसायनमहार्णवम् ।
विवेशाहमिमं देशं त्वत्सकाशमुपागतः ॥ १४ ॥
त्वत्सकाशमिति रामं प्रत्युक्तिः ॥ १४ ॥
एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् ।
यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ॥ १५ ॥
अखण्डितमखिलम् ॥ १५ ॥
श्रीराम उवाच ।
स कुन्ददन्त इत्यादिकथाकथनकोविदः ।
स्थितस्ततःप्रभृत्येव मत्समीपगतः सदा ॥ १६ ॥
स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः ।
श्रुतवान्संहितामेतां मोक्षोपायाभिधामिह ॥ १७ ॥
इह अस्यां सभायाम् ॥ १७ ॥
स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विजः ।
अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ॥ १८ ॥
एवं प्रश्नोपोद्घातमुपवर्ण्य प्रष्टव्यांशमाह - स इति ॥ १८ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः ।
स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ॥ १९ ॥
श्रीवसिष्ठ उवाच ।
कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ ।
बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ॥ २० ॥
कुन्ददन्त उवाच ।
सर्वसंशयविच्छेदि चेत एव जयाय मे ।
सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ॥ २१ ॥
सर्वसन्देहविच्छेदो जात इति शेषः । यतोऽवश्यज्ञेयमखण्डितं
प्रत्यग्भेदलक्षणखण्डितशून्यं ब्रह्मतत्त्वं ज्ञातम् ॥ २१ ॥
ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् ।
प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ॥ २२ ॥
ज्ञानमात्रेण मोहनिवृत्त्या ज्ञातव्यान्तरस्य द्रष्टव्यान्तरस्य लब्धव्यान्तरस्य
चापरिशेषात्कृतकृत्यतामाह - ज्ञातमिति ॥ २२ ॥
बुद्धेयं त्वदिदं सर्वं परमार्थघनं घनम् ।
अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ॥ २३ ॥
त्वत् त्वत्त इयमात्मचित् मया बुद्धा । कथं बुद्धा तदाह - इदं सर्वमित्याह ॥ २३
॥
सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः ।
असर्वं सर्वेण सर्वत्र सर्वदा सम्भवत्यलम् ॥ २४ ॥
सम्भवन्ति जगन्त्यन्तः सिद्धार्थकणकोटरे ।
न सम्भवन्ति च यथा ज्ञातमेतदशेषतः ॥ २५ ॥
सिद्धार्थः श्वेतसर्षपस्तदीयकणकोटरेऽपि अधिष्ठानचितः
सर्वकल्पनाशक्तिसम्भृतायाः सत्त्वात्तदन्तर्मायादृशा जगन्ति सम्भवन्ति ।
परमार्थदृशा तु क्वापि न सम्भवन्ति च ॥ २५ ॥
गृहेऽन्तः सम्भवत्येव सप्तद्वीपा वसुन्धरा ।
गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ॥ २६ ॥
यद्यद्यदा वस्तु यथोदितात्म भातीह भूतैरनुभूयते च ।
तत्तत्तदा सर्वघनस्तथास्ते ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ॥ २७ ॥
तत्र समायं ब्रह्मतत्त्वं निष्कृष्योपसंहरति - यद्यदिति । सर्वघन आत्मैव
सर्वजनसार्वकालिकबोधविषयसर्वभावेनास्ते नाणुमात्रमपि
ततोऽन्यत्केनचित्कदाचिदप्यनुभूयत इति निष्कर्ष इति भावः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्म० ता० कुन्ददन्तप्रबोधो
नाम पञ्चाशीत्यधिकशततमः सर्गः ॥ १८५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कुन्ददन्तप्रबोधो नाम पञ्चाशीत्यधिकशततमः सर्गः ॥ १८५ ॥