चतुरशीत्यधिकशततमः सर्गः १८४
कुन्ददन्त उवाच ।
इत्युक्तवानसौ पृष्टः कदम्बतलतापसः ।
सप्तद्वीपा भुवोऽष्टौ ताः कथं भाता गृहेष्विति ॥ १ ॥
गृहस्यान्तर्जगन्त्यष्टौ सम्भवन्त्यपि कोटिशः ।
यतोऽप्रबुद्धचिन्मात्रं तथा भातीति वर्ण्यते ॥
गृहेषु अल्पावकाशे ताः प्रत्येकं पञ्चाशत्कोटियोजनविस्तीणा भुवः कथं भाता
इति मया पृष्टोऽसौ कदम्बतलतापस इति वक्ष्यमाणमुत्तरमुक्तवान् ॥ १ ॥
कदम्बतापस उवाच ।
चिद्धातुरीदृगेवायं यदेष व्योमरूप्यपि ।
सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥ २ ॥
व्योमरूपी प्रपञ्चशून्योऽपि आत्मानं त्रैलोक्यरूपेण अन्येन सुषुप्ततुर्यरूपेण वा
स्वं रूपमत्यजदेव परिपश्यतीति द्वयोरन्वयः ॥ २ ॥
आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् ।
परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥ ३ ॥
कुन्ददन्त उवाच ।
एकस्मिन्विमले शान्ते शिवे परमकारणे ।
कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥ ४ ॥
एकत्र नानाता विरुद्धेति शङ्कार्थः ॥ ४ ॥
कदम्बतापस उवाच ।
सर्वं शान्तं चिदाकाशं नानास्तीह न किञ्चन ।
दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥ ५ ॥
न वास्तवीयं नानाता किन्तु भ्रान्तिकृता । सा चैकस्मिन्नपि चन्द्रे
द्वित्ववदविरुद्धेत्याशयेनोत्तरमाह - सर्वमिति ॥ ५ ॥
असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् ।
चित्खं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥ ६ ॥
स्वप्नसुषुप्तवद्विस्मृतयथार्थस्वभावात्म निजमज्ञातं वपुः स्वरूपमेव ॥ ६ ॥
सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः ।
यथा स्वप्नेषु चिद्भावः स्वभावोऽर्थगतस्तथा ॥ ७ ॥
अतो न विरोध इति दर्शयति - सस्पन्द इति । स्वभावः सन्मात्रात्मा कल्पितार्थगतोऽपि
तथैव बोध्य इत्यर्थः ॥ ७ ॥
न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते ।
सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥ ८ ॥
सर्वात्मकस्य उचिते वास्तवे रूपे न सर्गादिस्वभावा नापि तत्कृता अर्थाः ॥ ८ ॥
न च नाम परं रूपं कचनाकचनात्मकम् ।
द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥ ९ ॥
न च द्रव्यात्मनाप्यचिच्च ॥ ९ ॥
एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् ।
गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥ १० ॥
यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते ।
तत्तेनैव तदाकारं जगदित्यनुभूयते ॥ ११ ॥
असत्यपि यथा वह्नावुष्णसंविद्धि भासते ।
संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥ १२ ॥
स्वप्ने असत्यपि वह्नौ स्वप्नचिदेव यथा उष्णत्वं भासते ॥ १२ ॥
असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः ।
तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥ १३ ॥
आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च ।
चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥ १४ ॥
कथं तर्ह्ह्यर्थक्रियानियतिस्तत्राह - आदिसर्गे इति ॥ १४ ॥
पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः ।
सर्वं सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥ १५ ॥
तथा अपरं जगत् ॥ १५ ॥
परमार्थाम्बराम्भोधावापः सर्गपरम्परा ।
परमार्थमहाकाशे शून्यता सर्गसंविदः ॥ १६ ॥
सर्गसंविदः सर्गप्रतिभासाः ॥ १६ ॥
परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् ।
बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥ १७ ॥
परमार्थो जगच्चेदमेकमित्येव निश्चयः ।
अध्यात्मशास्त्रबोधेन भवेत्सैषा हि मुक्तता ॥ १८ ॥
सङ्कल्पस्य वपुर्ब्रह्म सङ्कल्पकचिदाकृतेः ।
तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥ १९ ॥
कथमेकं तत्राह - सङ्कल्पस्येति ॥ १९ ॥
यतो वाचो निवर्तन्ते न निवर्तन्त एव वा ।
विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥ २० ॥
सर्वशब्दानां तन्मात्रनिष्ठत्वान्न निवर्तन्त एव वा ॥ २० ॥
अमौनमौनं जीवात्म यत्पाषाणवदासनम् ।
यत्सदेवासदाभासं तद्ब्रह्माभिधमुच्यते ॥ २१ ॥
सदेवासदाभासम् । तदेजति तन्नैजति इत्यादिश्रुतेरिति भावः ॥ २१ ॥
सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये ।
का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥ २२ ॥
प्रवृत्तिः सर्गः । निवृत्तिः प्रलयः ॥ २२ ॥
एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः ।
यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥ २३ ॥
एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः ।
बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥ २४ ॥
मूलका बीजभूताः प्रलयाः सर्गकाश्च ॥ २४ ॥
द्रव्ये द्रव्यान्तरं श्लिष्टं यत्कार्यान्तरमाक्षिपेत् ।
तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥ २५ ॥
कथं भाति तदाह - द्रव्ये इति । यद्यथा दध्यादिद्रव्ये शर्करादिद्रव्यान्तरं
श्लिष्टं मिलितं सत् प्रत्येककार्यापेक्षया कार्यान्तरं
रुचिपुष्टिपित्तोपशमादिकार्यान्तरमाक्षिपेत्तथा भूतानां प्राणिनामन्तःकरणे
अभिव्यक्तं प्रमातृचित्सारं बाह्ये चक्षुरादिद्वारा निर्गत्य
घटाद्याकारवृत्तिश्लेषाच्छ्लिष्टं घटपटादि
तत्तद्विषयान्तरधिष्ठानचिदावरणभङ्गेन मिथस्त्रिपुटीस्फुरणमाक्षिपेदित्यर्थः
॥ २५ ॥
सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा ।
यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥ २६ ॥
अत एव घटाद्यर्था अपि स्वाधिष्ठानचिदधीनसत्तास्फूर्तिकत्वात्तत्सारमात्रमित्याह
- सर्वे इति । यथा सर्गादौ भान्ति तथा इदानीमपि भान्ति ॥ २६ ॥
चिन्मात्रैकात्मसारत्वाद्यथासंवेदनं स्थिताः ।
निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥ २७ ॥
स्थितिरपि तेषां यथासंवेदनमेव । निःस्पन्दचिदधिष्ठानकत्वादेव सर्वा
द्रव्यशक्तयोऽपि स्वाश्रयान्न चलन्ति न ह्रसन्ति चेत्याह - निःस्पन्दा इति । मनस्कारो
मानसो द्वैताकारग्रहस्तद्रहिताः ॥ २७ ॥
अविद्यमानमेवेदं दृश्यतेऽथानुभूयते ।
जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥ २८ ॥
इत्थं च जगत्प्रातिभासिकमेव प्रतिभासमात्राधीनसर्वस्वत्वादित्याशयेनाह -
अविद्यमानमेवेति ॥ २८ ॥
विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः ।
हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥ २९ ॥
खलु यतः स्वप्नवदेव हर्षामर्षविषादोत्था विचित्राः स्पन्दरीतयो दृश्यन्ते ॥ २९ ॥
स्वभाववाताधूतस्य जगज्जालचमत्कृतेः ।
हा चिन्मरीचिषांश्वभ्रनीहारस्य विसारिता ॥ ३० ॥
स्वभावः अज्ञातस्वरूपनिष्ठा विक्षेपशक्तिस्तन्मात्रेण वायुना आधूतस्य ।
जगज्जालाकारा चमत्कृतिर्यस्य तथाविधस्य चिल्लक्षणसत्त्वगुणात्मना प्रकाशेन
मरीचेः रजोगुणात्मना पांसुपटलस्य तमोगुणात्मना आवरणजाड्यप्राधान्येन
अभ्रनीहारस्वरूपनभसि विसारिता विस्तारशालिता । हा इति खेदे ।
कीदृशजननमरणाद्यनर्थसहस्रकोट्यात्मना सम्पन्नेत्यर्थः । पांसुरेव
पांशुः । तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः इति कोशप्रसिद्धेः ॥ ३० ॥
यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः ।
तथैवेयं जगद्भ्रान्तिर्भात्यनात्मविदोऽम्बरे ॥ ३१ ॥
अनात्मविदः अज्ञानावृतचिद्दृष्टेः । अम्बरे स्वात्माकाशे ॥ ३१ ॥
यावत्सङ्कल्पितं तावद्यथा सङ्कल्पितं तथा ।
यथा सङ्कल्पनगरं कचतीदं जगत्तथा ॥ ३२ ॥
तस्याश्च कालप्रकारव्यवस्था [प्रसरेति पाठः ।] सङ्कल्पानुसारेणैवेत्याह
- यावदिति । यथा येन येन प्रकारेण ॥ ३२ ॥
सङ्कल्पनगरे यावत्सङ्कल्पसकला स्थितिः ।
भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥ ३३ ॥
दृष्टान्ते तां प्रकटयति - सङ्कल्पनगरे इति । असद्रूपापि सतीव स्थिता ॥ ३३ ॥
प्रवहत्येव नियतिर्नियतार्थप्रदायिनी ।
स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥ ३४ ॥
सैव धातुः सङ्कल्परूपा नियतिरद्यापि प्रवहत्यग्रेऽपि प्रवहत्येव तयैव
स्थावरादिप्राणिजातं यथाक्रमं नियतमेव तिष्ठति ॥ ३४ ॥
जायते जङ्गमं जीवात्स्थावरं स्थावरादपि ।
नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥ ३५ ॥
तेषां जन्मकर्मस्वभावादिव्यवस्थापि तयैवेत्याह - जायते इति ।
जीवात्स्फुटजीवनाज्जङ्गमात् ॥ ३५ ॥
वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च ।
वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥ ३६ ॥
ज्योतिर्मयं विवृत्तं तु धारासाराम्बरीकृतम् ।
युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥ ३७ ॥
ज्योतिर्मयं कालचक्रं दक्षिणायनात्मना विवृत्तं वर्षर्तौ
धारासारव्याप्ताम्बरीकृतम् । तयैव नियत्या ॥ ३७ ॥
भूतलैकान्तराब्ध्यद्रिसन्निवेशः स्थितायते ।
भावाभावग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥ ३८ ॥
भूतले च द्वीपभेदैरेकान्तराणामब्धीनाद्रीणां च सन्निवेशः स्थितवदाचरति
स्थितायते ॥ ३८ ॥
कुन्ददन्त उवाच ।
प्राग्दृष्टं स्मृतिमायाति तत्स्वसङ्कल्पनान्यतः ।
भाति प्रथमस्र्गे तु कस्य प्राग्दृष्टभासनम् ॥ ३९ ॥
नन्वस्मदादिसर्वजनव्यवहारो धातृसङ्कल्परूपनियत्या व्यवस्थितोऽस्तु । धातुः
सङ्कल्पव्यवस्थैव तु पूर्वानुभवजन्यसंस्कारातिरिक्तहेत्वसम्भवादादिसर्गे च
पूर्वानुभवाप्रसिद्धेः कथं सिध्यतीति कुन्ददन्तः शङ्कते - प्राग्दृष्टमिति ।
तत्ततस्तदनुसारिस्वसङ्कल्पनानि भवन्ति । अत एभ्यः स्वसङ्कल्पनेभ्यो नियतः सर्गो
भाति । इदं तु द्वितीयादिकल्पसर्गे उपपद्यते । प्रथमसर्गे तु कस्य प्राक्सर्गभासनं
प्रसिद्धम् । यं पृच्छेत्स्वयं वा स्मरेदित्यर्थः ॥ ३९ ॥
तापस उवाच ।
अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणम् यथा ।
प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥ ४० ॥
न स्मरणाधीनो धातुः सङ्कल्पः किन्तु
दिव्यज्ञानेनातीतानागतसर्ववस्तुदर्शनाधीनः । स ऐक्षत लोकान्नु सृजा इति स
इमाṁल्लोकानसृजत इत्यादि श्रुतेः । तस्मिंश्च क्षणे सर्वमतीतानागतं
जगदपूर्वमेव दृश्यते दृष्टानुसारिणी च चिद्विवर्तरूपा साङ्कल्पिकी सृष्टिः
प्रवर्तते । तत्रैवेदं मया प्राग्दृष्टमित्यप्यध्यस्यते क्वचिदिति तापसः समाधत्ते
- अपूर्वमित्यादिना ॥ ४० ॥
चित्त्वाच्चिद्व्योम्नि कचति जगत्सङ्कल्पपत्तनम् ।
न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥ ४१ ॥
यतः कदाचिद्भातं कदाचिदभातम् ॥ ४१ ॥
चित्प्रसादेन सङ्कल्पस्वनाद्यद्यानुभूयते ।
शुद्धं चिद्व्योम सङ्कल्पपुरं मा स्मर्यतां कथम् ॥ ४२ ॥
दर्शनासामर्थ्ये हि स्मृतिः कल्प्येत । स्वप्ने कल्पनामात्रेण
दर्शनसमर्थायाश्चितः स्मृतिकल्पनादर्शनादित्याह - चित्प्रसादेनेति ॥ ४२ ॥
हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च ।
प्रकृतेनैव मार्गेण ज्ञैश्चक्रैरिव गम्यते ॥ ४३ ॥
अत एव गुणदोषाद्यस्मरणाद्धर्षामर्षरहितैस्तत्त्वज्ञैः
कुलालचक्रवत्प्रारब्धवेगेनैव भ्रम्यत इत्याह - हर्षेति ॥ ४३ ॥
निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ ।
चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥ ४४ ॥
बाधितस्मृतिश्च न स्मृतिः किन्त्वधिष्ठानमात्रपरिशेषदर्शनमित्याह -
निद्रेति ॥ ४४ ॥
संविदाभासमात्रं यज्जगदित्यभिशब्दितम् ।
तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥ ४५ ॥
तत् संशान्तं व्योमैव तादृशं त्वं विद्धि ॥ ४५ ॥
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥ ४६ ॥
यतश्चिदेव संशान्ता सर्वमित्याह - यस्मिन्निति ॥ ४६ ॥
यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति ।
यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥ ४७ ॥
तदेतत्सर्वं मया भवतः कथितमित्युपसंहारः ॥ ४७ ॥
उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मं भृङ्गाविवाभिमतमाशु
विधीयतां स्वम् ।
तिष्ठामि दुःखमलमस्तसमाधिसंस्थं भूयः समाधिमहमङ्ग चिरं
विशामि ॥ ४८ ॥
अङ्ग हे द्विजौ युवां उत्तिष्ठतम् । अह्नि प्रातः पद्मं भृङ्गाविव आस्पदं
गृहं व्रजतम् । तत्राभिमतं सत्कर्म विधीयताम् ।
अहमिदानीमस्तसमाधिसंस्थमलमत्यन्तं दुःखं यथा स्यात्तथा तिष्ठामि ।
अतस्तत्परिहाराय भूयः अलं समाधि विशामीत्यर्थः ॥ ४८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्म० ता० कुन्ददन्तोपदेशो
नाम चतुरशीत्यधिकशततमः सर्गः ॥ १८४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कुन्ददन्तोपदेशो नाम चतुरशीत्यधिकशततमः सर्गः ॥ १८४ ॥