त्र्यशीत्यधिकशततमः सर्गः १८३
कुन्ददन्त उवाच ।
ततः पृष्टो मया तत्र स गौर्याश्रमतापसः ।
तापसंशुष्कदर्भाग्रजराजर्जरमूर्धजः ॥ १ ॥
विरुद्धवरशापानां चतुराननवाक्यतः ।
मिथोऽजयोन्तःसाराणामिह सम्यङ्निरूप्यते ॥
तापेन ग्रीष्मे संशुष्कं परस्परग्रथितं च दर्भाग्रमिव जराजर्जरा मूर्धजा
यस्य ॥ १ ॥
एकैव सप्तद्वीपास्ति वसुधा यत्र तत्र ते ।
सप्तद्वीपेश्वरा अष्टौ भवन्ति कथमुत्तमाः ॥ २ ॥
किं पृष्टस्तदाह - एकैवेति ॥ २ ॥
यस्य जीवस्य सदनान्नास्ति निर्गमनं बहिः ।
स करोति कथं सप्तद्वीपेशत्वेन दिग्जयम् ॥ ३ ॥
द्वितीयं पृष्टमाह - यस्येति ॥ ३ ॥
यैर्वरा वरदैर्दत्ताः शापैस्ते तद्विरुद्धताम् ।
कथं गच्छन्ति गच्छन्ति कथं छाया हि तापताम् ॥ ४ ॥
तृतीयं पृष्टमाह - यैरिति । शीतलच्छायास्तापतां ग्रीष्मातपतां कथं
गछन्ति ॥ ४ ॥
मिथोऽशक्यां कथं धर्मौ स्थितिमेकत्र गच्छतः ।
आधार एवाधेयत्वं करोति कथमात्मनि ॥ ५ ॥
एकस्यैव फलस्य वरशापोभयफलत्वमशक्यत्वाद्दुष्करमित्याह - मिथ इति ।
विरुद्धौ वरशापफलतावच्छेदकौ शुभत्वाशुभत्वधर्मावेकत्रैव
धर्मिण्यशक्यां स्थितिं कथं गच्छतः । एकधर्म्याश्रितत्वासम्भवेऽपि
तयोर्धर्मयोः परस्पराश्रितत्वमस्तु तत्राह - आधार एवेति ॥ ५ ॥
गौर्याश्रमतापस उवाच ।
सम्पश्यसि किमेतेषां भो साधो शृण्वनन्तरम् ।
अष्टमेऽस्मिन्सुसम्प्राप्ते तं प्रदेशं सबान्धवम् ॥ ६ ॥
सर्वेषां प्रश्नानां कथाशेषवर्णनमुखेनैवोत्तरं कदम्बतापस उवाच -
सम्पश्यसीति । हे साधो एतेषां किं विरुद्धमसमञ्जसं पश्यसि । अनन्तरं
यद्वृत्तं तच्छृणु । तेनैव ते समाधानं भविष्यतीति भावः ।
अद्यतनवासरादष्टमे अस्मिन्नेव वासरे सम्प्राप्ते सति भवन्तौ तं मथुराप्रदेशं
स्वबान्धवसहितं प्राप्स्यत इति शेषः ॥ ६ ॥
इतो भवन्तौ तं देशमासाद्य सुखसंस्थितौ ।
स्वबन्धुसुखसंस्थानौ कञ्चित्कालं भविष्यतः ॥ ७ ॥
ततस्तेऽष्टौ मरिष्यन्ति भ्रातरः क्रमशो गृहे ।
बन्धवोऽथ करिष्यन्ति तेषां देहांस्तदग्निसात् ॥ ८ ॥
तदग्निसात्तैस्तैराहिता येऽग्नयस्तदधीनान् । अन्त्येष्टिभिस्तत्तदग्निषु दाहेन
संस्करिष्यन्तीति यावत् ॥ ८ ॥
तेषां ते संविदाकाशाः पृथक्पृथगवस्थिताः ।
मुहूर्तमात्रं स्थास्यन्ति सुषुप्तस्था जडा इव ॥ ९ ॥
संविदाकाशा जीवाः ॥ ९ ॥
एतस्मिन्नन्तरे तेषां तानि कर्माणि धर्मतः ।
एकत्र सङ्घटिष्यन्ति वरशापात्मकानि खे ॥ १० ॥
कर्मणां विरोधपरिहारं वक्तुमुपक्रमते - एतस्मिन्निति । धर्मतः
बलावश्यम्भावस्वभावतः । एकत्र खे तत्तच्चित्तावच्छिन्नाकाशे ॥ १० ॥
कर्माणि तान्यधिष्ठातृदेवरूपाणि पेटकम् ।
वरशापशरीराणि करिष्यन्ति पृथक् पृथक् ॥ ११ ॥
तानि कर्माणि अधिष्ठातारस्तत्तत्फलप्रदा देवास्तद्रूपाणि भूत्वा पेटकं
स्वस्वानुकूलसमूहघटितं सम्पुटं पृथक् पृथक् करिष्यन्ति । एवं
सम्पुटीभूता वराः शापाश्च पृथक् पृथक् शरीरा।इ करिष्यन्ति ॥ ११ ॥
वरास्तेऽत्र गमिष्यन्ति सुभगाः पद्मपाणयः ।
ब्रह्मदण्डायुधाश्चन्द्रधवलाङ्गाश्चतुर्भुजाः ॥ १२ ॥
तेषां वेषभेदमाह - वरा इति । गमिष्यन्ति प्राप्स्यन्ति ॥ १२ ॥
शापास्तत्र भविष्यन्ति त्रिनेत्राः शूलपाणयः ।
भीषणाः कृष्णमेधाभा द्विभुजा भ्रुकुटीमुखाः ॥ १३ ॥
दुर्वाससो रुद्रांशत्वेन तदीयत्वाद्दुष्कर्मफलदानोन्मुखत्वेन घोररूपत्वाच्च
त्रिनेत्राः शूलपाणयः ॥ १३ ॥
वरा वदिष्यन्ति ।
सुदूरं गम्यतां शापाः कालोऽस्माकमुपागतः ।
ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १४ ॥
ऋतूनां वसन्तादीनामिव ॥ १४ ॥
शापा वदिष्यन्ति ।
गम्यतां हे वरा दूरं कालोऽस्माकमुपागतः ।
ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १५ ॥
वरा वदिष्यन्ति ।
कृता भवन्तो मुनिना वयं दिनकृता कृताः ।
मुनीनां चाधिको देवो भगवन्तं पुरा यतः ॥ १६ ॥
तत्र वरा मूलाधिक्यात्स्वाधिक्यं दर्शयन्ति - भवन्त इति । यतो भगवन्तं
सूर्यं मुनिभ्यः पुरा धाता असृजदिति शेषः ॥ १६ ॥
प्रवदत्सु वरेष्वेवं शापाः क्रुद्धधियो वरान् ।
विवस्वता कृता यूयं वयं रुद्रांशतः कृताः ॥ १७ ॥
देवानामधिको रुद्रो रुद्रांशप्रभवो मुनिः ।
इत्युक्त्वा प्रोद्यता तेषां चक्रुः शृङ्गाण्यगा इव ॥ १८ ॥
इत्युक्त्वा प्रोद्यता प्रोद्यतानि । सुपां सुलुगिति च्छान्दसोऽडादेशः ता ता पिण्डानामितिवत्
। शृङ्गाणि त्रिशूलाग्राणि ॥ १८ ॥
शापेषूद्यतशृङ्गेषु वरा इदमरातिषु ।
विहसन्तः प्रवक्ष्यन्ति प्रमेयीकृतनिश्चयम् ॥ १९ ॥
अन्तःप्रमाणपूर्वकं सम्यग्विचारेण प्रमेयीकृतस्याध्यवसितस्वार्थस्य निश्चयम्
॥ १९ ॥
हे शापाः पापतां त्यक्त्वा कार्यस्यान्तो विचार्यताम् ।
यत्कार्यं कलहस्यान्ते तदेवादौ विचार्यताम् ॥ २० ॥
पापतामनुचितकारिताम् । तदेवादौ कर्तव्यमिति शेषः ॥ २० ॥
पितामहपुरीं गत्वा कलहान्ते विनिर्णयः ।
कर्तव्योऽस्माभिरेतत्किमादौ नेह विधीयते ॥ २१ ॥
शापैर्वरोक्तमाकर्ण्य बाढमित्युररीकृतम् ।
को न गृह्णाति मूढोऽपि वाक्यं युक्तिसमन्वितम् ॥ २२ ॥
ततः शापा वरैः सार्धं यास्यन्ति ब्रह्मणः परम् ।
महानुभावा हि गतिः सदा सन्देहनाशने ॥ २३ ॥
गतिः शरणम् ॥ २३ ॥
प्रणामपूर्वं तत्सर्वं यथावृत्तं परस्परम् ।
ब्रह्मणे कथयिष्यन्ति श्रुत्वा तेषां स वक्ष्यति ॥ २४ ॥
ब्रह्मोवाच [पूर्वप्रक्रमानुरोधेनोत्तरत्र च ब्रह्मा
वदिष्यतीत्यपेक्षितमिति भाति ।] ।
वरशापाधिपा भो भो येऽन्तःसारा जयन्ति ते ।
केऽन्तःसारा इति मिथो नूनमन्विष्यतां स्वयम् ॥ २५ ॥
शास्त्रानुसारदृढाभ्यासोभयकृतं यदाकारसंविद्दार्ढ्यं
[येषामाकारदार्ढ्यम् ।] ये अन्तःसारास्ते जयन्ति । अन्विष्यतां पर्यालोच्यताम् ॥
२५ ॥
इति श्रुत्वा प्रविष्टास्ते सारतां समवेक्षितुम् ।
वराणां हृदयं शापाः शापानां हृदयं वराः ॥ २६ ॥
उदरं प्रविष्टा इति कल्पनोक्तिः । परस्परान्तः पर्यालोचितवन्त इति यावत् ॥ २६ ॥
ते परस्परमन्विष्य स्वयं हृदयसारताम् ।
ज्ञात्वा च समवायेन प्रवक्ष्यन्ति पितामहम् ॥ २७ ॥
समवायेन परस्परैकमत्यलक्षणेन मिलनेन ॥ २७ ॥
शापा वक्ष्यन्ति ।
जिताः प्रजानाथ वयं नान्तःसारा वयं यतः ।
अन्तःसारा वरा एव वज्रस्तम्भा इवाचलाः ॥ २८ ॥
वयं किलेमे भगवन्वराः शापाश्च सर्वदा ।
ननु संविन्मया एव देहोऽन्योऽस्माकमस्ति नो ॥ २९ ॥
तत्र संविदो दृढाभ्यासेन यदाकारदार्ढ्यं तेषां प्राबल्यमिति वक्तुं
मूलसंविदं दर्शयन्ति - वयं किलेति । देहः स्वरूपम् ॥ २९ ॥
वरदस्य हि या संविद्वरो दत्त इति स्थिता ।
सैवार्थिनि मया लब्धो वरोऽयमिति तिष्ठति ॥ ३० ॥
तदेवोपपादयन्ति - वरदस्येत्यादिना ॥ ३० ॥
विज्ञप्तिमात्रकचनं देहं सैव फलं ततः ।
पश्यत्यनुभवत्यत्ति देशकालशतभ्रमैः ॥ ३१ ॥
वरस्य हि फलं सुखभोगायतनं देहं तच्च विज्ञप्तिमात्रस्य कलनात्मकं
कचनम् । ततः सैव विज्ञप्तिर्देहाकारा भूत्वा
देशकालादिकल्पनाशतभ्रमैस्तत्तद्भोग्यार्थान्पश्यति अनुभवति तत्रादनीयमत्ति ॥
३१ ॥
वरदात्मा गृहीतत्वाच्चित्कालान्तरसम्भृता ।
यदा तदान्तःसारासौ दुर्जया न तु शापजा ॥ ३२ ॥
तत्र शास्त्रीयतपःकालिकदृढसङ्कल्पवशीकृताद्वरदात्संविदात्मनो
गृहीतत्वाद्वरकल्पना चित् कालान्तरे फलावस्थायां सम्यक् भृता पुष्टा यदा तदा
सैवान्तःसारा ॥ ३२ ॥
वरप्रदानं वरदैर्वरदानां वरार्थिभिः ।
यदा सुचिरमभ्यस्तं वराणां सारता तदा ॥ ३३ ॥
यदेव सुचिरं संविदभ्यस्यति तदेव सा ।
सारमेवाशु भवति भवत्याशु च तन्मयी ॥ ३४ ॥
तत्कुतस्तत्राह - यदेवेति ॥ ३४ ॥
शुद्धानामतिशुद्धैव संविज्जयति संविदाम् ।
अशुद्धानां त्वशुद्धैव कालात्साम्यं न विद्यते ॥ ३५ ॥
तत्रापि शास्त्रीयत्वेन शुद्धत्वे प्राबल्याधिक्यमित्याहुः - शुद्धानामिति ।
संविदामिति निर्धारणे षष्ठी । अतः फलेऽपि साम्यं न विद्यते ॥ ३५ ॥
क्षणांशेनापि यो ज्येष्ठो न्यायस्तेनावपूर्यते ।
नार्थे न्यायान्तरं किञ्चित्कर्तुमुत्सहते मदम् ॥ ३६ ॥
ज्येष्ठत्वादपि वरसंविदः प्राबल्यमस्तीत्याहुः - क्षणांशेनापीति ।
ज्येष्ठस्यासञ्जातविरोधित्वेन सम्यङ्निरूढत्वादिति भावः । अप्रमाणजस्य हि
ज्येष्ठत्वं बाध्यत्वे तन्त्रम् । यथा रजतभ्रमस्य प्रमाणदृढीकृते त्वर्थे
अनपेक्षितस्य ज्ञानस्य ज्येष्ठत्वं बाध्यत्वे तन्त्रमिति प्रसिद्धम् । न्यायान्तरं न
किञ्चिन्मदं शापप्राबल्यं कर्तुमुत्सहते इत्यर्थः ॥ ३६ ॥
समेनोभयकोटिस्थं मिश्रं वस्तु भवेत्समम् ।
वरशापविलासेन क्षीरमिश्रं यथा पयः ॥ ३७ ॥
अत एव यत्र विरुद्धकर्मणोर्वरशापयोर्वा प्रमाणाभ्यासादिसाम्यं
तत्रोभयमिश्रमेव फलं भवतीत्याह - समेनेति । शुभाशुभोभयकोटिस्थम् ।
यथा मनुष्यदेहः ॥ ३७ ॥
समाभ्यां वरशापाभ्यामथवा चिद्द्विरूपताम् ।
स्वयमेवानुभवति स्वप्नेष्विव पुरात्मिका ॥ ३८ ॥
यथैककाले भिन्नदेशभोग्यौ समौ वरशापौ तत्र
विपश्चिदुपाख्यानोक्तन्यायेनोपाधेर्विभागेनैकैव जीवचिद्युगपद्देहभेदेन
द्विरूपतामापद्यत इत्याह - समाभ्यामिति । यथा स्वप्नेषु पुरात्मिका चित्
पुरवासिजनदेहभेदेन विभागमिवापद्यते तद्वत् ॥ ३८ ॥
शिक्षितं त्वत्त एवेति यत्तदेव तव प्रभो ।
पुनः प्रतीपं पठितं शीघ्रं यामो नमोऽस्तु ते ॥ ३९ ॥
धातुः पुरतः स्वेषां तत्त्वोद्गारधार्ष्ट्यमनुचितमनुचिन्त्याहुः - शिक्षितमिति ।
यत्त्वत्त एव शिक्षितं तत्तवैव पुरः पुनः पठितं धार्ष्ट्यावहत्वात्प्रतीपं
प्रतिकूलमिति नो धार्ष्ट्यापराधं क्षमस्व । अतस्ते नमोऽस्तु वयं शीघ्रं
स्वस्थानं यामः ॥ ३९ ॥
इत्युक्त्वा स स्वयंशापः क्वापि शापगणो ययौ ।
प्रशान्ते तिमिरे दृष्टे व्योम्नि केशोण्ड्रकं यथा ॥ ४० ॥
स्वयमेव स्वं वृथा प्रयासकारिणं स्वमौर्ख्यख्यापकं लज्जया शपतीति
स्वयंशापस्तथाविधः सन् क्वापि ययौ । यथा दृष्टेस्तिमिररोगे प्रशान्ते सति
व्योम्नि भ्रान्तिकृतं केशोण्ड्रकं क्वापि याति तद्वत् ॥ ४० ॥
अथान्यो वरपूगोऽत्र गृहनिर्गमरोधकः ।
स्थानिस्थानमिवादेशः समानार्थोऽभ्यपूरयत् ॥ ४१ ॥
एवं दुर्वासःशापेषु गतेषु अथ अन्यः सप्तद्वीपाधिपत्यविरुद्धस्तेषां
गृहान्निर्गमस्य रोधकः अन्यस्तद्भार्याभ्यो दत्तो गौरीवरपूगो
वैयाकरणप्रक्रियायामादेशः स्थानिस्थानमिव सूर्यवरैः सह विवादार्थं
शापस्थानमभ्यपूरयत् । यतः सोऽपि समानः अर्थस्तुल्यकालं विरुद्धं फलं
यस्य तथाविधः ॥ ४१ ॥
शापस्थानका वदिष्यन्ति ।
सप्तद्वीपेशजीवानां निर्याणं शवसद्मनः ।
देवेश विद्मो न वयमन्धकूपादिवाम्भसाम् ॥ ४२ ॥
शापस्थाने निविष्टाः शापस्थानकाः पत्नीवरा ब्रह्माणं प्रति वदिष्यन्ति । किं
तदाह - सप्तद्वीपेशेति । हे देवेश भाविसप्तद्वीपेशत्वेनाभिमतानामेतेषां
जीवानां शवसद्मनो बहिर्निर्याणं वयं न विद्मः । अस्माभिस्तन्निरोधादित्यर्थः ।
अन्धकूपाच्छून्यकूपात् ॥ ४२ ॥
सप्तद्वीपेश्वरानेतानिमे द्वीपेषु सद्मसु ।
कारयन्ति वरा वर्या वीरा दिग्विजयं रणे ॥ ४३ ॥
तदेवमनिवार्येऽस्मिन्विरोधे विबुधेश्वर ।
यदनुष्ठेयमस्माभिस्तदादिश शिवाय नः ॥ ४४ ॥
नः शिवाय सफलत्वाय यदादेश्यं तदादिश । आज्ञापयेत्यर्थः ॥ ४४ ॥
ब्रह्मोवाच ।
सप्तद्वीपेश्वरवरा गृहरोधवराश्च हे ।
कामः सम्पन्न एवेह भवतां भवतामपि ॥ ४५ ॥
भवतां सर्वेषां कामः सम्पन्न एव ॥ ४५ ॥
व्रजतैतदपेक्षत्वं यावन्नेष्टावपि क्षणात् ।
चिरं चिराय सदने सप्तद्वीपेश्वराः स्थिताः ॥ ४६ ॥
कथं सम्पन्नस्तत्राह - व्रजतेति । यूयमेतत्परस्परापेक्षत्वं व्रजत । यावत् यतो
भवतां चिरं नेष्टौ परस्परेच्छाविरहेपि तेऽष्टौ भ्रातरो मरणोत्तरक्षणादेव
चिराय स्वसदन एव सप्तद्वीपेश्वरा भूत्वा स्थिताः ॥ ४६ ॥
समनन्तरमेवैते देहपातात्स्वसद्मसु ।
सप्तद्वीपेश्वराः सर्वे सम्पन्नाः परमं वराः ॥ ४७ ॥
तदेव स्पष्टमाह - समनन्तरमिति ॥ ४७ ॥
सर्वे वरा वदिष्यन्ति ।
कुतो भूमण्डलान्यष्टौ सप्तद्वीपानि भूतयः ।
एकमेवेह भूपीठं श्रुतं दृष्टं च नेतरत् ॥ ४८ ॥
भूतयस्तत्तदैश्वर्याणि च कुतः । श्रुतं श्रुतिषु प्रसिद्धम् । दृष्टं लोकेपि
प्रसिद्धम् ॥ ४८ ॥
कथं चैतानि तिष्ठन्ति कस्मिंश्चिद्गृहकोशके ।
पद्माक्षकोशके सूक्ष्मे कथं भान्ति मतङ्गजाः ॥ ४९ ॥
ब्रह्मोवाच ।
युक्तं युष्माभिरस्माभिः सर्वं व्योमात्मकं जगत् ।
स्थितं चित्परमाण्वन्तरन्तःस्वप्नोऽनुभूयते ॥ ५० ॥
स्वप्नवदेवाविरुद्धमेतदित्युत्तरमाह - युक्तमिति । यतो युष्माभिरस्माभिश्च
व्यष्टिसमष्टिभिर्युक्तं सर्वं जगद्व्योमात्मकं सच्चित्परमाण्वन्तः
स्थितमन्तःस्वप्न एवानुभूयते अतस्तत् परमाणोरप्यन्तस्थे स्वगृहोदरे भातीति
परेणान्वयः ॥ ५० ॥
भाति यत्परमस्याणोरन्तस्थस्वगृहोदरे ।
स्फुरितं तत्किमाश्चर्यं कः स्मयः प्रकृतेः क्रमे ॥ ५१ ॥
तत्किमाश्चर्यमपूर्वम् । कः स्मयो विस्मयः ॥ ५१ ॥
मृतेरनन्तरं भाति यथास्थितमिदं जगत् ।
शून्यात्मैव घनाकारं तस्मिन्नेव क्षणे चितः ॥ ५२ ॥
स्वप्नसाम्यमेव दर्शयन्नुक्तं स्फुटयति - मृतेरित्यादिना ॥ ५२ ॥
अणावपि जगन्माति यत्र तत्र गृहोदरे ।
सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥ ५३ ॥
यद्भातीदं च चित्तत्त्वं जगत्त्वं न जगत्क्वचित् ।
चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥ ५४ ॥
यदिदं जगत्त्वं भाति तत् त्वं चिदेव । यतश्चिन्मात्रमेव तद्भाति अतो न
क्वचिज्जगन्मूर्तमस्ति यद्गृहे न भायादित्यर्थः ॥ ५४ ॥
इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः ।
तानाधिभौतिकभ्रान्तिमयान्सन्त्यज्य देहकान् ॥ ५५ ॥
तान्प्राक्कल्पितानाधिभौतिकभ्रान्तिमयान् देहकांस्तत्त्वविचारेण सन्त्यज्य
आतिवाहिकदेहिनः सन्तः अजं प्रणम्य अविरोधात्समं साकं तत्तन्मनःकल्पिते
सप्तद्वीपे तत्तद्देवानां गृहकोशान् जग्मुरिति परेणान्वयः ॥ ५५ ॥
प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः ।
सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥ ५६ ॥
यावत्ते तत्र सम्पन्नाः सप्तद्वीपाधिनायकाः ।
अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥ ५७ ॥
यावदिति साकल्ये । तेऽष्टौ भ्रातरस्तत्र गृहे
इष्टैर्यज्ञादिकसत्कर्मभिर्बन्धुजनैश्च आपुष्टानां जगदष्टकभेदेन
ब्रह्मदिनाष्टके आदिमहीभुजां स्वायम्भुवमनूनां कुले इति शेषः ।
सप्तद्वीपाधिनायकाः सम्पन्ना इत्यर्थः ॥ ५७ ॥
ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः ।
अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥ ५८ ॥
प्रत्येकं भ्रातृसहितत्वकल्पनादन्योन्यबन्धवः । राज्यभेदेन
सर्वेषामाधिपत्यांशे त्वज्ञाः । अत एवान्योन्याभिमते हिता न तु विरुद्धचेष्टाः ॥ ५८
॥
तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः ।
उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥ ५९ ॥
तेषां प्रत्येकं चरित्रभेदकल्पनामाह - तेषामित्यादिना ॥ ५९ ॥
शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया ।
विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥ ६० ॥
कुशद्वीपराजधान्यां निराधिः सकलप्रजाः ।
कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥ ६१ ॥
शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे ।
जललीलारतः कश्चित्सहविद्याधरीगणैः ॥ ६२ ॥
शैलेन्द्रस्य शिरः शिखरं तद्गतायाः पुर्याः क्रीडासरोवरे ॥ ६२ ॥
क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते ।
प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥ ६३ ॥
सप्तद्वीपाहृतमहर्धिभिर्विवर्धिते ॥ ६२ ॥
उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा ।
योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥ ६४ ॥
द्वीपान्तचारिणा राज्ञा सह योद्धुमुद्यतः ।
उद्धृतैरुत्पाटितैर्दिग्दन्तिदन्तैराकृष्टाः कुलाचला वर्षपर्वता येन तथाविधः
सन् ॥ ६४ ॥
गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् ।
समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥ ६५ ॥
गोमेदद्वीपकस्तद्वसतिः । समानेतुं जित्वा परिणेतुम् । वशात्कामवशात् । कषन्ती
शत्रुदेशान्बाधमाना सेना यस्य । यः प्राग् भ्रातॄणामष्टमोऽभवत् सः ॥ ६५ ॥
पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः ।
दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥ ६६ ॥
धनभूमिर्निधानस्थानं तद्दिदृक्षया ॥ ६६ ॥
प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् ।
कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥ ६७ ॥
त्यक्ताभिमानिकाकारा द्विविधास्ते वरास्ततः ।
तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥ ६८ ॥
त्यक्तः आभिमानिकाकार आतिवाहिकदेहाकारेऽपि यैस्तथाविधाः सन्तस्तेषामष्टानां
जीवसंविद्भिरेकतां यास्यन्तीति परेणान्वयः ॥ ६८ ॥
यास्यन्ति ते भविष्यन्ति सम्प्राप्ताभिमताश्चिरम् ।
सप्तद्वीपेश्वरास्तुष्टा नन्वष्तावपि तुष्टिमत् ॥ ६९ ॥
तुष्टिमत् राज्यं प्राप्येत्यर्थः ॥ ६९ ॥
इत्येते प्रविकसितोदितक्रियार्थाः प्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः ।
अन्तर्यत्स्फुरति विदस्तदेव बाह्ये नाप्तं कैस्तदुचितकर्मभिः किलेति ॥ ७० ॥
उक्तं सङ्गृह्योपसंहरति - इतीति । इति उक्तप्रकारं सप्तद्वीपाधिपत्यं तपोभिः
प्रविकसितः पूर्वोदितवरः क्रियार्थो येषां तथाविधा एतेऽष्टौ भ्रातरः प्राप्स्यन्ति ।
विदः प्रत्यक्चैतन्यस्य अन्तर्दृढनिश्चयात्मना यत्स्फुरति तदेव बाह्ये
तदुचिततपोजपादिकर्मभिः कैर्नाप्तम् । किलेति प्रसिद्धौ ॥ ७० ॥
इत्यार्षे श्रीवासिष्ठ० वा० दे० मो० नि० उ० ब्रह्म० ताप० द्वीपसप्तकाष्टकवर्णनं
नाम त्र्यशीत्यधिकशततमः सर्गः ॥ १८३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
द्वीपसप्तकाष्टकवर्णनं नाम त्र्यशीत्यधिकशततमः सर्गः ॥ १८३ ॥