द्व्यशीत्यधिकशततमः सर्गः १८२
वृद्धतापस उवाच ।
तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश ।
स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम् ॥ १ ॥
कदम्बतापसेनात्र तद्भ्रातृणां समागमः ।
गृहेषु वरशापानां हेतुसिद्धिश्च वर्ण्यते ॥
तस्मिन्वर्णितगुणे अस्मिन्नेव मदास्पदे कदम्बे ॥ १ ॥
तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः ।
उत्सङ्ग इव चासीनो न यात्येव पुराणताम् ॥ २ ॥
उत्सङ्गे आसीनो बाल इव पुराणतां जरां न यात्येव ॥ २ ॥
ततो गौर्यां प्रयतायां तद्वनं तादृशं महत् ।
सामान्यवनतां यातं जनवृन्दोपजीवितम् ॥ ३ ॥
जनवृन्दैस्तृणकाष्ठफलपुष्पाद्युपहारेणोपजीवितं सत् इतरवन साधारणतां
यातम् ॥ ३ ॥
मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः ।
कदाचित्त्यक्तराज्यश्रीर्मुनीनामाश्रमान्भ्रमन् ॥ ४ ॥
इदानीं मुनिः स्ववृत्तान्तमाह - मालव इत्यादिना ॥ ४ ॥
इमं देशमनुप्राप्त इह चाश्नमवासिभिः ।
पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः ॥ ५ ॥
केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह ।
भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम् ॥ ६ ॥
तपस्विनोऽष्टाविह ते तथा नाम तदाऽवसन् ।
यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः ॥ ७ ॥
अष्टौ ते तपस्विनस्तदा तथा तेन प्रकारेण तपस्विनो भूत्वा अवसन् । यथा अन्ये ये
तपस्विनः तेषामपि मान्याः पूज्यास्तेऽभवन्नित्यर्थः ॥ ७ ॥
कालेनानन्तरमसावेकः श्रीपर्वतं गतः ।
स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः ॥ ८ ॥
अनन्तरं केनचित्कालेन तेषां मध्ये असौ त्वमेकः श्रीपर्वतं गतः । एवं
त्रयोऽन्येपि ॥ ८ ॥
वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् ।
इहैव ते परे धीराश्चत्वारोऽन्ये परं [परमत्यन्तमतपन्
तपश्चक्रुरित्यर्थः । अडभाव आर्षः ।] तपन् ॥ ९ ॥
सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् ।
यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः ॥ १० ॥
अथ सम्पादितं तेषां सर्वेषामेतदीप्सितम् ।
तपस्तुष्टाभिरिष्टाभिर्देवताभिर्वरैर्वरैः ॥ ११ ॥
वरैः श्रेष्ठैर्वरैः ॥ ११ ॥
तपतस्ते ततो याता भ्रातरः सदनं निजम् ।
भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव ॥ १२ ॥
ते तपतस्तपस्येव तिष्ठतः । षष्ठी चानादरे इति भावलक्षणे षष्ठी ।
धर्मप्रधानं कृतयुगं भूमौ भुक्त्वा अनुभूय तदन्ते वेधाश्चतुर्मुखो
ब्रह्मपुरीं ब्रह्मलोकमिव ॥ १२ ॥
तैर्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा ।
इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः ॥ १३ ॥
हे भव्य इदं वक्ष्यमाणं वरं प्रार्थिताः ॥ १३ ॥
देव्यस्माकमिमे सर्वे सप्तद्वीपेश्व्रस्थितौ ।
सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः ॥ १४ ॥
सप्तद्वीपेश्वरेति भावप्रधानो निर्देशः । प्रकृतयः प्रजाभूताः सर्वे जनाः
सत्याः परित्यक्तानृताः सन्तु । तथा सर्वेऽपि सप्तद्वीपवासिनः स्वस्वाश्रमधर्मेण
सन्तु । इदं च वर्णधर्मप्रार्थनाया अप्युपलक्षणम् ॥ १४ ॥
तमिष्टदेवतासार्थमुररीकृत्य सादरम् ।
तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी ॥ १५ ॥
सा इष्टदेवता तं तत्तत्प्रार्थितमर्थमुररीकृत्य अङ्गीकृत्य ॥ १५ ॥
ते ततः सदनं यातास्तेषामाश्रमवासिनः ।
सर्व एव गताः पश्चादेक एवास्मि नो गतः ॥ १६ ॥
एक एवाहं नो गतः ॥ १६ ॥
अहं केवलमेकान्ते ध्यानैकगतमानसः ।
वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत् ॥ १७ ॥
तत्कुतस्तत्राह - अहमिति ॥ १७ ॥
अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि ।
इदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः ॥ १८ ॥
इदं [अयं चासौ कदम्बश्चेति विग्रहः ।] कदम्बमम्लानं जनताः
पूजयन्त्यलम् ।
वागीश्वरीगृहमिति मां चैवैकसमाधिगम् ॥ १९ ॥
मां चैव पूजयन्ति ॥ १९ ॥
अथैनं देशमायातौ भवन्तौ दीर्घतापसौ ।
एतत्तत्कथितं सर्वं ध्यानदृष्टं मयाखिलम् ॥ २० ॥
तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ ।
तत्र ते भ्रातरः सर्वे सङ्गता दारबन्धुभिः ॥ २१ ॥
इहागतौ युवां गृहं गच्छतम् । ते भ्रातरः पूर्वमेव दारबन्धुभिः सङ्गताः
॥ २१ ॥
अष्टानां भवतां भव्यं सदने स्वे भविष्यति ।
महात्मनां ब्रह्मलोके वसूनामिव सङ्गमः ॥ २२ ॥
भवतामष्टानामपि सङ्गमो भविष्यति । वसूनामष्टानाम् । ब्रह्मलोके देवलोके ॥ २२
॥
इत्युक्ते तेन स मया पृष्टः परमतापसः ।
सन्देहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम् ॥ २३ ॥
हे आर्या इति रामसभासम्बोधनम् ॥ २३ ॥
एकैव सप्तद्वीपास्ति भगवन्भूरियं किल ।
तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम् ॥ २४ ॥
कदम्बतापस उवाच ।
असमञ्जसमेतावदेव नो यावदुच्यते ।
इदमन्यदसम्बद्धतरं संश्रूयतां मम ॥ २५ ॥
एतावदेवासमञ्जसमस।बद्धमिति नो यावद्यत
इदमन्यदप्यसम्बद्धतरमत्यन्तमसमञ्जसं मयोच्यते उदाह्रियते तन्मम
मत्तः श्रूयतामित्यर्थः ॥ २५ ॥
एतेऽष्टौ भ्रातरस्तत्र तापसा देहसङ्क्षये ।
सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे ॥ २६ ॥
श्लोकद्वयमुत्तरविवक्षया पूर्वोक्तानुवादः ॥ २६ ॥
अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु ।
सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे शृणु ॥ २७ ॥
अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् ।
दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम् ॥ २८ ॥
दिगन्तराणां प्राच्यादीनां ताराष्टकमिवेत्यौत्प्रेक्षिकी उपमा ॥ २८ ॥
तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् ।
बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः ॥ २९ ॥
यद्यस्माद्धेतोः पतिवियोगः अहिरिव दुःसहः ॥ २९ ॥
दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः ।
शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती ॥ ३० ॥
तेषां पतीनां प्रत्यये पुनः पुनः स्मरणे सति ता दुःखिताः सत्यो दारुणं
तपश्चक्रुः । किनामकं तत्तपस्तदाह - शतचान्द्रायणमिति ॥ ३० ॥
अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे ।
देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी ॥ ३१ ॥
देव्युवाच ।
भर्त्रर्थमथ चात्मार्थं गृह्यतां बालिके वरः ।
चिरं क्लिष्टासि तपसा निदाघेनेव मञ्जरी ॥ ३२ ॥
निदाघेन ग्रीष्मेण ॥ ३२ ॥
इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरण्टिका ।
स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम् ॥ ३३ ॥
दत्तपुष्पा गौरी पादयोः समर्पितपुष्पाञ्जलिश्चिरण्टिका सुवासिनी ॥ ३३ ॥
आनन्दमन्थरोवाच वचनं मृदुभाषिणी ।
आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम् ॥ ३४ ॥
आनन्दमन्थरा गद्गदस्वरा । ज्येष्ठाया नामधेयं वा ॥ ३४ ॥
चिरण्टिकोवाच ।
देवि देवाधिदेवेन यथा ते प्रेम शम्भुना ।
भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः ॥ ३५ ॥
अमरो मृत्युरहितोऽस्तु ॥ ३५ ॥
देव्युवाच ।
आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते ।
तपोदानैरतोऽन्यं त्वं वरं वरय सुव्रते ॥ ३६ ॥
आसृष्टेरादिसर्गमारभ्य प्रवृत्ताया नियतेरीश्वराज्ञायाः दार्ढ्यात्
भङ्क्तुमशक्यत्वात् ॥ ३६ ॥
चिरण्टिकोवाच ।
अलभ्यमेतन्मे देवि तन्मद्भर्तुर्गृहान्तरात् ।
मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात् ॥ ३७ ॥
क्षणादपिशब्दाच्चिरादपि ॥ ३७ ॥
देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे ।
तदेतदस्त्विति वरो दीयतामम्बिके मम ॥ ३८ ॥
देव्युवाच ।
एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते ।
भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥ ३९ ॥
मूर्खायास्तस्याः समीचीनवरयाचनाकुशलतां बुद्ध्वा देवी स्वयमेव वरान्तरं
ददाति - त्वं चेति । लोकान्तरे सप्तद्वीपाधिपत्ये ॥ ३९ ॥
इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे ।
मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥ ४० ॥
निरवद्यं निर्दोषं जगदानन्दाय समुद्यता ॥ ४० ॥
देव्यां गतायां भर्तारस्तासां कालेन केनचित् ।
ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥ ४१ ॥
ककुब्भ्यो दिग्भ्यः ॥ ४१ ॥
अद्यायमपि संयातु भार्याया निकटं पतिः ।
भ्रातॄणां बान्धवानां च भवत्वन्योन्यसङ्गमः ॥ ४२ ॥
इदमन्यदथैतेषामसमञ्जसमाकुलम् ।
शृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥ ४३ ॥
असमञ्जसान्तरमप्युदाहरति - इदमिति । आर्यकार्याणां
सत्कर्मफलानामुपरोधकम् ॥ ४३ ॥
तप्यतां तप एतेषां पितरौ तौ वधूयुतौ ।
तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥ ४४ ॥
वधूभिः स्नुषाभिर्युतौ सहितौ ॥ ४४ ॥
शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया ।
गन्तं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥ ४५ ॥
शरीरपदेन तद्भोग्यसुखं लक्ष्यते तन्नैरपेक्ष्येण । तं प्रसिद्धं
कलापग्रामाख्यं तीर्थम् ॥ ४५ ॥
तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् ।
पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥ ४६ ॥
वर्णतः कपिलं ह्रस्वं पुरुषं मार्गे ददृशतुः ॥ ४६ ॥
धूलीलवमनादृत्य तं जरत्पान्थशङ्कया ।
यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥ ४७ ॥
तावष्टानां मातापितरौ जरत्पान्थः कश्चिदसाविति शङ्कया तं मुनिमनादृत्य
नमस्कारपूजास्तवनाद्यादरमकृत्वा प्रत्युत गमनत्वरया तदुपरि
धूलीलवमुद्धूनयन्तौ सन्तौ यदा जग्मतुस्तदा तेनापराधेन क्रुधाऽन्वितः स
मुनिरुवाच ॥ ४७ ॥
सवधूक महामूर्ख तीर्थार्थी दारसंयुतः ।
मां दुर्वाससमुल्लङ्घ्य गच्छस्यविहितानतिः ॥ ४८ ॥
किमुवाच तदाह - सवधूकेति । अविहितानतिः अकृतनमस्कारः ॥ ४८ ॥
वधूनां ते सुतानां च गच्छतस्तपसार्जिताः ।
विपरीता भविष्यन्ति लब्धा अपि महावराः ॥ ४९ ॥
तपसार्जिता वरा विपरीता दुःखफला भविष्यन्ति ॥ ४९ ॥
इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः ।
सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययौ ॥ ५० ॥
अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ ।
कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥ ५१ ॥
निराशौ सन्तौ परावृत्य स्वगृहमेवागतौ ॥ ५१ ॥
अतो वदाम्यहं तेषां नैकं नामासमञ्जसम् ।
असमञ्जसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥ ५२ ॥
अतोऽहं वदामि तेषां नैकमेवासमञ्जसं किन्तु असमञ्जसलक्षाणि गृहमध्ये
सप्तद्वीपराज्यकल्पने तदन्तर्गतगिरिपर्वताद्यसमञ्जसलक्षाणां कल्पनाया
नान्तरीयकतया प्रसक्तेरिति भावः । यथा गले गण्डस्तत्र स्फोटास्ते च स्फुटाः
स्फुटिताश्चेदनिष्टोपर्यनिष्टं तत्राप्यनिष्टान्तरं तद्वदित्यर्थः ॥ ५२ ॥
चिद्व्योमसङ्कल्पमहापुरेऽस्मिन्नित्थं विचित्राण्यसमञ्जसानि ।
निःशून्यरूपेऽपि हि सम्भवन्ति दृश्ये यथा व्योमनि दृश्यजृम्भाः ॥ ५३ ॥
एवमन्यत्राप्यस्मिन्मायामये जगत्यसमञ्जसलक्षाणि सम्भवन्तीत्याह -
चिद्व्योमेति । अस्मिञ्जगद्रूपे चिद्व्योमसङ्कल्परचिते महापुरे इत्थं
विचित्राण्यसमञ्जसानि कोटिशः सम्भवन्ति । यथा व्योमनि
उत्पातवशाद्गन्धर्वनगरधूमकेतुकबन्धोल्कादिदृश्यजृम्भाः सम्भवन्ति
तद्वदित्यर्थः ॥ ५३ ॥
इ० श्री० वा० दे० मो० नि० उ० ब्र० तापसोपाख्यानान्तर्गतसप्तद्वीपेश्वरोपा०
सप्तद्वीपेश्वरवर्णनं नाम द्व्यशीत्यधिकशततमः सर्गः ॥ १८२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सप्तद्वीपेश्वरवर्णनं नाम द्व्यशीत्यधिकशततमः सर्गः ॥ १८२ ॥