१८१

एकाशीत्यधिकशततमः सर्गः १८१

कुन्ददन्त उवाच ।

आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती ।
मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव ॥ १ ॥

गच्छतोर्मधुरां मार्गभ्रंशाद्गौरीवनागमः ।
तत्र तापसवृद्धेन संवादश्चात्र वर्ण्यते ॥

यथा चन्द्रसूर्याविन्द्रपुरीं प्राच्यां प्रसिद्धामावासं गन्तुं सायङ्काले
प्रवृत्तौ तद्वदावामपि आसायं चलित्वा अन्तरे आवासं गन्तुं प्रवृत्तौ ॥ १ ॥

प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले ।
उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम् ॥ २ ॥

आवासस्थानान्येव क्रमेणाह - प्राप्येत्यादिना । आम्रवणप्रचुरे अचले ॥ २ ॥

अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः ।
द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः ॥ ३ ॥

द्वितीये अहनि आवां शीतान्यम्बूनि स्निग्धच्छायावनद्रुमाश्च यासु तथाविधाः
श्वभ्रानूपस्थलावनीः समुल्लङ्घ्येति चतुर्थे सम्बन्धः ॥ ३ ॥

नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः ।
तरत्तरङ्गझाङ्कारगायनानन्दिताध्वगाः ॥ ४ ॥

ता एवावनीर्विशिनष्टि - नदीतीरेत्यादिना । गायनमिति अशित्यात्वाकरणं छान्दसम् ॥
४ ॥

स्निग्धद्रुमवनच्छायरणन्मृगविहङ्गमाः ।
स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः ॥ ५ ॥

जङ्गलाद्रिपुरग्रामश्वभ्रानूपस्थलावनीः ।
समुल्लङ्घ्य दिने तस्मिन्सरित्स्रोतःसरांसि च ॥ ६ ॥

क्वचिज्जङ्गलभूताः क्वचिदद्रिपायाः क्वचित्पुरग्रामभूताः क्वचिच्छ्वभ्रभूताः
क्वचिदनूपभूतस्थलाश्चावनीः ॥ ६ ॥

नीतवन्तौ निशामावां कदलीकानने घने ।
तुषारशिशिरे श्रान्तौ कदलीदलतल्पके ॥ ७ ॥

प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् [अब्जषण्डक इति
पाठश्चिन्त्यः ।] ।
जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम् ॥ ८ ॥

अब्जषण्डैर्गुल्मषण्डकैश्च मण्डितम् ।
तृणकाष्ठादिहारिजनकृतैर्विच्छेदैर्विभक्तम् । मेघविच्छेदैर्विभक्तं खमिव
आसमन्तात्कृतम् ॥ ८ ॥

तत्र स प्रकृतं मार्गं परित्यज्य वनान्तरम् ।
प्रविशन्समुवाचेदमकार्यकरणं वचः ॥ ९ ॥

इदानीं दिदृक्षितानां भ्रातृमुनिप्रभृतीनां गौर्याश्रमे अभावात् न भ्राता
गच्छेदन्वेषणपरः क्वचित् इति निषिद्धत्वाच्च वृथाकालविलम्बेन
प्रकृतस्वगृहगमनकार्यविच्छेदित्वादकार्यकरणं वचः ॥ ९ ॥

गच्छावोऽत्राश्रमे गौर्या मुनिमण्डलमण्डिते ।
भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः ॥ १० ॥

भ्रातरोऽष्टौ वयमिमे जातानेकतया तया ।
एकसंविन्मया जाता एकसङ्कल्पनिश्चयाः ॥ ११ ॥

एवमिवार्थिनः इत्युक्तिं विशदयति - भ्रातर इत्यादिना । तया प्राग्वर्णितया
सप्तद्वीपराज्यभोगेच्छया जाता अनेके मनोरथा येषां तद्भावेन वयमष्टावपि
भ्रातरस्तपसे एकसंविन्मया एकरूपदृढनिश्चयप्रधाना जाताः ॥ ११ ॥

तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः ।
स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः ॥ १२ ॥

तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् ।
षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः ॥ १३ ॥

इह गौर्याश्रमे । तेन हेतुना यः प्राग्दृष्टः स एवैष पुरो दृश्यते इति
प्रत्यभिज्ञाभिलापः ॥ १३ ॥

पुष्पखण्डतरुच्छायासुप्तमुग्धमृगार्भकः ।
पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक् ॥ १४ ॥

तमेवाश्रमं वर्णयति - पुष्पेति । उटजाग्रेषु विश्रान्तैः शुकैरपि उद्ग्राहिता
उपन्यस्ता नानाशास्त्रदृशो यत्र ॥ १४ ॥

तद्ब्रह्मलोकसङ्काशमेहि मुन्याश्रमं श्रिये ।
गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति ॥ १५ ॥

तत्र आवयोश्चेतः सर्वदोषक्षयादच्छतरं भविष्यति ॥ १५ ॥

विदुषामपि धीराणामपि तत्त्वविदामपि ।
त्वरते हि मनः पुंसामलम्बुद्धिबिलोकने ॥ १६ ॥

अलम्बुद्धयस्तत्त्वदर्शनेन पूर्णमनसो ये मुनयस्तेषां विलोकने विदुषामपि
पुंसां मनस्त्वरते किं पुनरावयोरित्यर्थः ॥ १६ ॥

तेनेत्युक्ते च तावावां प्राप्तौ मुन्याश्रमं च तम् ।
यावत्तत्र महारण्ये पश्याश्वश्चान्तरूपिणम् ॥ १७ ॥

अन्तः संहारस्तस्य रूपेणैव रूपिणमाश्रमं शून्यमिति यावत् ॥ १७ ॥

न वृक्षं नोटजं किञ्चिन्न गुल्मं न च मानवम् ।
न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम् ॥ १८ ॥

तदेवाह - न वृक्षमित्यादिना ॥ १८ ॥

केवलं शून्यमेवाति तदरण्यमनन्तकम् ।
तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम् ॥ १९ ॥

हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ ।
आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः ॥ २० ॥

तस्मिन्मत्सहाये तापसे ॥ २० ॥

स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः ।
तले तस्य समाधाने संस्थितो वृद्धतापसः ॥ २१ ॥

आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले ।
उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तते ॥ २२ ॥

ततश्चिरेण कालेन मयोद्वेगेन चापलात् ।
उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः ॥ २३ ॥

चापलात् चपलस्वभावात् ॥ २३ ॥

शब्देनोच्चैर्मदीयेन सम्प्रबुद्धोऽभवन्मुनिः ।
सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च ॥ २४ ॥

कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः ।
केन वाहमिहानीतः कालोऽयं कश्च वर्तते ॥ २५ ॥

इह शून्यारण्ये ॥ २५ ॥

तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् ।
न किञ्चिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम् ॥ २६ ॥

हे भगवन् ईदृशं त्वत्पृष्टमावां न किञ्चिज्जानीव इति शेषः । अतस्त्वमेव विद्धि ।
बुद्धः सर्वज्ञोऽपि त्वं योगबलात्कस्मात्स्वयं न जानासि ॥ २६ ॥

इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् ।
ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा ॥ २७ ॥

मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः ।
श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ ॥ २८ ॥

यमिमं पश्यथः साधू कदम्बतरुपुत्रकम् ।
मदास्पदमरण्यान्या धम्मिल्लमिव पुष्पितम् ॥ २९ ॥

इमं मदास्पदं स्वावासभूतम् । अत एवानुकम्प्यत्वात्पुत्रकमित्युक्तिः ॥ २९ ॥

केनापि कारणेनास्मिन्सती वागीश्वरी सती ।
अवसद्दशवर्षाणि समस्तर्तुनिषेविता ॥ ३० ॥

सती गौरी वागीश्वरी सती सरस्वती भूत्वा अत्र अवसत् ॥ ३० ॥

तदा तेनेह विस्तीर्णमभवद्घनकाननम् ।
गौरीवनमिति ख्यातं भूषितं कुसुमर्तुभिः ॥ ३१ ॥

कुसुमप्रधानैः सर्वर्तुभिर्भूषितमलङ्कृतम् । तदा तस्मिन्काले । तेन कारणेन ॥ ३१

भृङ्गाङ्गनाजनमनोहरहारिगीतलीलाविलोलकलकण्ठविहङ्गमङ्ग
[विलोक इत्यपि पाठः ।] ।
पुष्पाम्बुवाहशतचन्द्रनभोवितानं राजीवरेणुकणकीर्णदिगन्तरालम् ॥ ३२ ॥

कीदृशमभवत्तदेव वर्णयति - भृङ्गाङ्गनेत्यादिना । हे अङ्गेत्युभयोः
सम्बोधनम् । भृङ्गाङ्गनाजनानां मनोहरगीतलीलाभिर्विलोलाः
कलकण्ठविहङ्गाः कोकिला यत्र । तथा पुष्पवर्षिभिरम्बुवाहप्रायैस्तरुभिः
शतचन्द्रं नभोवितानं यत्र ॥ ३२ ॥

मन्दारकुन्दमकरन्दसुगन्धिताशं
संसूच्छ्व्सत्कुसुमराशिशशाङ्कनिष्ठम् ।
सन्तानकस्तवकहासविकासकान्तमामोदिमारुतसमस्तलताङ्गनौघम् ॥ ३३ ॥

मन्दाराणां कुन्दानां च मकरन्दैः सुगन्धिता आशा दिशो येन । समन्तात्सुष्ठु
उच्छ्वसत्सु विकसत्सु कुसुमराशिलक्षणेषु शशाङ्कबिम्बेषु निष्ठा शोभा
पर्याप्तिर्यत्र ॥ ३३ ॥

पुष्पाकरस्य नगरं नवगीतभृङ्गं
भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् ।
चन्द्रांशुजालपरिकोमलपुष्पदोलादोलायमानसुरसिद्धवधूसमूहम् ॥ ३४ ॥

पुष्पाकरस्य वसन्तस्य नगरमिव स्थितम् । भृङ्गाङ्गनायुक्तैः
कुसुमखण्डकमण्डपैराढ्यम् । चन्द्रांशुजालवत्परितः कोमलासु पुष्पदोलासु
दोलायमानाः सुरसिद्धवधूसमूहा यत्र ॥ ३४ ॥

हारीतहंसशुककोकिलकोककाकचक्राह्वभासकलविङ्ककुलाकुलाङ्गम् ।
भेरुण्डकुक्कुटकपिञ्जलहेमचूडराढामयूरबककल्पितकेलिरम्यम् ॥ ३५ ॥

हारीतादिपक्षिकुलैराकुलान्यङ्गानि यस्य । हेमचूडास्तित्तिरयः । राढाः पक्षिभेदाः ॥
३५ ॥

गन्धर्वयक्षसुरसिद्धकिरीटघृष्टपादाब्जकर्णिककदम्बसरस्वतीकम् ।
वातायनं कनककोमलचम्पकौघताराम्बराम्बुधरपूर गृहीतगन्धम् ॥
३६ ॥

गन्धर्वयक्षादीनां किरीटैर्घृष्टे पादाब्जकर्णिके यस्यास्तथाविधा
कदम्बसरस्वती यस्मिन् । सुरभिवातानामयनमत एव कनकमिव
कोमलेभ्यश्चम्पकौघेभ्यस्ताराम्बुधराभ्यां गृहीतो गन्धो यस्य ॥ ३६ ॥

मन्दानिलस्खलितपल्लवबालवल्लीविन्यासगुप्तदिवसाधिपरश्मिशीतम् ।
पीतं कदम्बकरवीरकनालिकेरतालीतमालकुलपुष्पपरागपूरैः ॥ ३७ ॥

मन्दानिलात्स्खलितपल्लवानां बालवल्लीनां विन्यासैः प्रसारैर्गुप्तेषु कुञ्जेषु
निरुद्धैर्दिवसाधिपरश्मिभिरन्तःशीतम् । तथा कदम्बादीनां कुलस्य
पुष्पपरागपूरैः पीतं पीतवर्णम् ॥ ३७ ॥

कह्लारकीर्णकुमुदोत्पलपद्मखण्डवल्गच्चकोरबककोककदम्बहंसम् ।
तालीसगुग्गुलकचन्दनपारिभद्रभद्रद्रुमोदरविहारिविचित्रशक्ति ॥ ३८ ॥

कह्लारैः पद्मैः कीर्णानि मिश्राणि कुमुदोत्पलानि येषु तथाविधेषु पद्मखण्डेषु
पद्माकरेषु वल्गन्तश्चकोरादिकदम्बसहिता हषा यत्र । तालीप्रभृतिद्रुमोदरेषु
विहारिणी विचित्रा सर्वाभिलषितार्थपूरणशक्तिर्यस्मिन् ॥ ३८ ॥

तस्मिन्वने चिरमुवास हरार्धदेहा केनापि कारणवशेन चिराय गौरी ।
भूत्वा प्रसन्नशशिबिम्बमुखी कदम्बवागीश्वरी शशिकलेव शिवस्य मूर्ध्नि
॥ ३९ ॥

सकलवनसम्पत्तिषु यत्कारणं तदाह - तस्मिन्निति । तस्मिन्वने हरार्धदेहा गौरी
केनापि कारणवशेन कदम्बवागीश्वरी भूत्वा चिरमुवास । तदेव वनसम्पदां
कारणमित्यर्थः ॥ ३९ ॥

इत्यारेषे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु तापसोपा०
गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः सर्गः ॥ ८१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः सर्गः ॥ १८१ ॥