अशीत्यधिकशततमः सर्गः १८०
श्रीराम उवाच ।
इमं मे संशयं छिन्धि भगवन्भास्करं तमः ।
भुवनस्येव भावानां सम्यग्रूपानुभूतये ॥ १ ॥
इह रामोदिते कुन्ददन्ताख्याने गिरौ तरौ ।
प्रलम्बिनस्तापसस्य वरलाभान्तमीर्यते ॥
स्वयं प्रबुद्धो रामश्चिरं तत्त्वजिज्ञासया स्वमाश्रितस्य कुन्ददन्ताख्यद्विजस्य
प्रस्तुतोपदेश श्रवणात्तत्त्वप्रबोधोऽभून्न वेति स्वसन्देहं गुरुमुखेन तं
पृष्ट्वा विमार्ष्टुकामो वसिष्ठं प्रत्यत्याश्चर्यभूतं तदाख्यानं वक्तुं
भूमिकां रचयंस्तं गुरुं प्रार्थयते - इममिति । इममाख्यानान्ते
वक्ष्यमाणम् । यथा भास्करं ज्योतिर्भुवनस्य जगतः सर्वभावानां
सम्यग्रूपानुभूतये तमश्छिनत्ति तद्वदित्यर्थः ॥ १ ॥
कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् ।
संसदि स्थितवान्यावत्तापसः कश्चिदागतः ॥ २ ॥
संशयबीजं दर्शयितुमाख्यानमारभते - कदाचिदित्यादिना ।
यावत्स्थितस्तावत्तस्मिन्काले इति यावत् ॥ २ ॥
विद्वान्द्विजवरः श्रीमान्विदेहजनमण्डलात् ।
महातपाः कान्तियुतो दुर्वासा इव दुःसहः ॥ ३ ॥
स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् ।
उपविश्यासने तिष्ठन्नस्माभिरभिवादितः ॥ ४ ॥
सभां द्विजसभाम् ॥ ४ ॥
वेदान्तसाङ्ख्यसिद्धान्तवादान्संहृत्य सत्तमम् ।
सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम् ॥ ५ ॥
तत्र अहं स्वाधीयमानान्वेदान्तसाङ्ख्यसिद्धान्तवादानुपसंहृत्य तं
तापसमिदं वक्ष्यमाणं पृष्टवान् ॥ ५ ॥
दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे ।
वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम् ॥ ६ ॥
सयत्नः कञ्चिदर्थं लब्धुं बोद्धुं वा यत्नवानिव लक्ष्यसे ॥ ६ ॥
ब्राह्मण उवाच
एवमेतन्महाभाग सुमहायत्नवानहम् ।
यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम् ॥ ७ ॥
निर्णयं त्वत्सन्देहनिवारणं मद्वाक्यमित्यर्थः ॥ ७ ॥
वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः ।
स्वर्गस्याम्बरसंस्थस्य प्रतिबिम्बमिवावनौ ॥ ८ ॥
अवनौ स्फटिकावनौ ॥ ८ ॥
तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः ।
कुन्दावदातदन्तत्वात्कुन्ददन्त इति श्रुतः ॥ ९ ॥
तत्र विदेहेषु ॥ ९ ॥
अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् ।
देवद्विजमुनीन्द्राणां सम्भ्रमाच्छ्रमशान्तये ॥ १० ॥
देवद्विजमुनीन्द्राणां स्थानानीति शेषः ॥ १० ॥
श्रीपर्वतमखण्डेहं कदाचित्प्राप्तवानहम् ।
तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन् ॥ ११ ॥
अखण्डेहममिति पूर्वान्वयि । अखण्डेहं तत्रावसमिति वा । मृदु अनुग्रं
दीर्घकालत्वाद्दीर्घम् ॥ ११ ॥
तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः ।
त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम् ॥ १२ ॥
शून्यत्वांशे नभस्तलदृष्टान्तः ॥ १२ ॥
तत्रास्ति मध्ये विटपी लघुः पेलवपल्लवः ।
स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान् ॥ १३ ॥
विटपी बहुशाखो वृक्षः ॥ १३ ॥
लम्बते तस्य शाखायां पुरुषः प्रावनाकृतिः ।
भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः ॥ १४ ॥
भानुः सूर्यः भानौ स्वरश्माविव रश्मिगृहीतो रज्जुबद्धपादः ।
पादबन्धनरज्ज्वाधार इति यावत् ॥ १४ ॥
मौञ्जदामनिबद्धोर्ध्वपादो नित्यमवाक्शिराः ।
अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः ॥ १५ ॥
तदेव स्पष्टमाह - मौञ्जेति । अष्ठीलत्वं प्रलम्बपर्वग्रन्थिभावं दधदिव ॥
१५ ॥
दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् ।
विचारितो निकटतो वक्षःस्थाञ्जलिसम्पुटः ॥ १६ ॥
विचारितो मनसा विमृष्टः ॥ १६ ॥
यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः ।
शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान् ॥ १७ ॥
तं विचारमेव स्फुटमाह - यावदिति । वितर्के यावच्छब्दः । नूनं जीवति यतो
निःश्वसितीत्यर्थः ॥ १७ ॥
अनन्तरमसावेको नोपचर्य मया बहून् ।
दिवसातपखेदेन विश्रम्भे पातितः शनैः ॥ १८ ॥
एकोऽसौ लम्बमानो ना पुरुषो मया बहून् दिवसान् दिवसातपखेदसहनेनोपचर्य
शनैर्विस्रम्भे विश्वासे पातितः ॥ १८ ॥
पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः ।
करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः ॥ १९ ॥
चिरेणोच्छ्वसनाल्लक्ष्यालक्ष्यात्मजीवितः ॥ १९ ॥
अथ तेनोक्तमर्थस्ते क इवानेन तापस ।
अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम् ॥ २० ॥
अनेन मत्कुलदेशतपःप्रयोजनादिपरिज्ञानेन ते कोऽर्थः किं प्रयोजनम् । न हि
निष्प्रयोजनेऽर्थे जिज्ञासा सम्भवतीत्यर्थः ॥ २० ॥
इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया ।
यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ २१ ॥
इत्युक्तवान् स तापसो मया यदा प्रयत्नेन प्रणयानुबन्धेन च पृष्टस्तदा तेन
ममेदं वक्ष्यमाणमुक्तम् ॥ २१ ॥
मथुरायामहं जातो वृद्धिं यातः पितुर्गृहे ।
बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ २२ ॥
पदानि शब्दशास्त्रं पदार्था अर्थशास्त्राणि च वेत्तीति पदपदार्थवित् ॥ २२ ॥
समग्रसुखसम्भारकोशो भवति भूमिपः ।
इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ २३ ॥
भूमिपो राजा समग्राणां सुखसम्भाराणां भोगसामग्रीणां कोश इवाश्रयो
भवतीति अहं तत्र श्रुतवान् ॥ २३ ॥
अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः ।
स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ २४ ॥
अथ तच्छ्रवणानन्तरमहं सप्तमहाद्वीपविस्तीर्णाया भुवः पतिस्तथा उदारात्मा
अर्थिनामभिलक्षितपूरणसमर्थः स्यामिति चिरं परिबिम्बितवान् । इच्छां कृतवानिति
यावत् ॥ २४ ॥
इत्यर्थेन समागत्य देशमित्थमहं स्थितः ।
अत्र द्वादश वर्षाणि समतीतानि मानद ॥ २५ ॥
इति एवंरूपेण अर्थेन प्रयोजनेन इमं श्रीशैलदेशमागत्य स्थितः ॥ २५ ॥
तदकारणमित्र त्वं गच्छेष्टं देशमाशुगः ।
अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ २६ ॥
हे अकारणमित्र तत्तस्मात्पृष्टार्थस्य मयोक्तत्वात्त्वमिष्टं देशमाशुगः
शीघ्रगामी भूत्वा गच्छ । मन्दगमने दूरस्थग्रामनगराद्यप्राप्त्या अरण्ये
निशाप्रसक्तेरिति भावः । आ अभिमतप्राप्तेरहं तु इत्थमेव तपसि दृढस्थितिः ॥ २६ ॥
इति तेनाऽहमुक्तः संस्तमित्थं प्रोक्तवाञ्छृणु ।
आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ २७ ॥
साधो यावत्त्वया प्राप्तो न नामाभिमतो वरः ।
त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ २८ ॥
तावत्कालमहमपि तव रक्षार्थ परिचर्या सेवा तदर्थ च स्थितो भविष्यामीत्यर्थः ॥ २८
॥
मयेत्युक्ते स पाषाणमौनवानभवच्छमी ।
निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ २९ ॥
क्षीणस्य मृतस्य रूपमिव रूपं यस्य । यतो बहिरकलनः ॥ २९ ॥
तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् ।
षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ ३० ॥
कालकृतान् शीतोष्णादिवेगान् सहन्सन् ॥ ३० ॥
अर्कबिम्बाद्विनिष्क्रम्य तत्प्रदेशान्तरे स्थितम् ।
एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ ३१ ॥
तस्मिन्प्रदेशान्तरे तस्य तापसस्य पुरोदेशे आगत्य स्थितं भानुभास्वरं पुरुषम् ॥
३१ ॥
स तेन पूज्यते यावन्मनसा कर्मणा मया ।
उवाच तावद्ववनममृतस्यन्दसुन्दरम् ॥ ३२ ॥
स पुरुषस्तेन तापसेन मया सह यावत्पूज्यते तावदुवाच ॥ ३२ ॥
शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस ।
तपः संहर संहारि गृहाणाभिमतं वरम् ॥ ३३ ॥
त्वं तपः उपसंहर । सम्यक् हारि मनोहरमभिमतं वरं गृहाण ॥ ३३ ॥
सप्ताब्धिद्वीपवलयां पालयिष्यसि मेदिनीम् ।
सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ ३४ ॥
अनेन देहेन कृतात्तपोधर्मतोन त्वनेन देहेन पालयिष्यसीति । उत्तरग्रन्थविरोधात् ॥ ३४
॥
एवं समीहितं दत्त्वा स द्वितीयो दिवाकरः ।
गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ ३५ ॥
यतः स्वयं प्रोदितो निर्गतस्तमेवार्करूपमब्धिमस्तमदर्शनं गन्तुमविशत् ॥ ३५ ॥
तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः ।
श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ ३६ ॥
शास्त्रे यः श्रुतः स एव प्रत्यक्षं दृष्टो वरदानव्यवहारेणानुभूतश्चाग्र्यः
श्रेष्ठो वरद आदित्यपुरुषो येन तस्य शाखातपस्विनः ॥ ३६ ॥
सम्प्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् ।
तपस्त्यक्त्वा यथाप्राप्तं व्यवहारं समाचर ॥ ३७ ॥
हे ब्रह्मन् तव तरुशाखावलम्बनरूपं यत्तपस्तत्सम्प्रति सम्प्राप्तमभिमतं
यस्मात्तथाविधं सम्पन्नम् अत इदानीं त्वं तपस्त्यक्त्वा यथाप्राप्तं
स्वगृहगमनादिव्यवहारं समाचर ॥ ३७ ॥
एवमङ्गीकृतवतः पादौ तस्य मया ततः ।
मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ ३८ ॥
कालभौ कलभसम्बन्धिनौ । आलानात्तद्बन्धनस्तम्भादिव ॥ ३८ ॥
स्नातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् ।
फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ ३९ ॥
पुण्येन तपःसिद्धिबलेन तस्मादेव विटपाल्लब्धेन फलेन मया सह व्रतपारणं
चक्रे ॥ ३९ ॥
तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः ।
समाश्वस्तावसङ्क्षुब्धावावां तत्र दिनत्रयम् ॥ ४० ॥
सप्तद्वीपसमुद्रमुद्रितदिशं भोक्तुं समग्रां महीं विप्रः
पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः ।
सम्प्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं सार्धं
मत्सुहृदा स्वमेव सदनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१ ॥
उक्तामेव कथां सङ्क्षेपोक्त्योपसंहरति - सप्तद्वीपेति । दिनकृतः
सूर्यपुरुषात्सकाशादभिमतं वरं सम्प्राप्य तदनन्तरं तरुतले अह्नां त्रयं
विश्वस्य विश्रम्य पादपीडानिवृत्त्यनन्तरं मया सुहृदा सार्धं स्वयमेव
मथुरास्थं भवनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु तापतोपाख्यानं
नामाशीत्यधिकशततमः सर्गः ॥ १८० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
तापसोपाख्यानं नामाशीत्यधिकशततमः सर्गः ॥ १८० ॥