१७९

एकोनाशीत्यधिकशततमः सर्गः १७९

श्रीवसिष्ठ उवाच ।

एवं चिन्मात्रमेवैकं शुद्धं सत्त्वं जगत्त्रयम् ।
सम्भवन्तीह भूतानि नाज्ञबुद्धानि कानिचित् ॥ १ ॥

चिन्मात्रमखिलं विश्वं स्थितमप्रतिघं यतः ।
ततः प्रागुक्तशङ्कायाः कः प्रसङ्गः इतीर्यते ॥

अज्ञैः सप्रतिघत्वेन मूर्तत्वेन च बुद्धानि भूतानि नेह सम्भवन्ति ॥ १ ॥

तस्मात्कुतः शरीरादि वस्तु सप्रतिघं कुतः ।
यदिदं दृश्यते किञ्चित्तदप्रतिघमाततम् ॥ २ ॥

अप्रतिघं ब्रह्मैवाततम् ॥ २ ॥

स्थितं चिद्व्योम चिद्व्योम्नि शान्ते शान्तं समं स्थितम् ।
स्थितमाकाशमाकाशे ज्ञप्तिर्ज्ञप्तौ विजृम्भते ॥ ३ ॥

समं सर्ववैषम्यनिर्मुक्तम् ॥ ३ ॥

सर्वं संविन्मयं शान्तं सत्स्वप्न इव जाग्रति ।
स्थितमप्रतिघाकारं क्वासौ सप्रतिघा स्थितिः ॥ ४ ॥

सप्रतिघा असौ त्वदुक्ता स्थितिः क्वास्ति यत्र ते शङ्का प्रसरेदित्यर्थः ॥ ४ ॥

क्व देहावयवाः क्वान्त्रवेष्टनी क्वास्थिपञ्जरम् ।
व्योमेवाप्रतिघं विद्धि देहं सप्रतिघोपमम् ॥ ५ ॥

देहतदवयवादिकं तु स्वप्नदेहवच्चिन्मात्रमेव प्रबुद्धदृशेति
तत्राज्ञदृशैव शङ्का न तत्त्वदृशेत्याह - क्वेति ।
सप्रतिघस्वप्नदेहोपममिति कथञ्चिद्व्याख्येयं सप्रतिघाप्रसिद्धेः ॥ ५ ॥

संवित्करौ शिरः संवित्संविदिन्द्रियवृन्दकम् ।
शान्तमप्रतिघं सर्वं न सप्रतिघमस्ति हि ॥ ६ ॥

ब्रह्मव्योम्नः स्वप्नरूपस्वभावत्वाज्जगत्स्थितेः ।
इदं सर्वं सम्भवति सहेतुकमहेतुकम् ॥ ७ ॥

प्रत्यक्षादिसिद्धस्य मूर्तस्य देहादेरपलापः साहसमिति तु न मन्तव्यमित्याह -
ब्रह्मव्योम्न इति । सहेतुकं प्रत्यक्षादिप्रमाणसिद्धमप्यहेतुकमप्रमाणकं
सकारणकमप्यकारणकं च । तस्य त्रय आवसथास्त्रयः स्वप्नाः नेह नानास्ति
किञ्चन यत्र नान्यत्पश्यति नान्यच्छृणोति अथात आदेशो नेति नेति इत्यादिश्रुत्यैव
जगदपलापादिति भावः ॥ ७ ॥

न कारणं विना कार्यं भवतीत्युपपद्यते ।
यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ ८ ॥

ब्रह्मणो निर्विकाराद्वयत्वाज्जगतः कारणान्तरस्याभावादनुत्पत्तिरेवेत्यपलाप
उपपद्यते तत्त्वदृशा । भ्रान्तिदृशा
त्वनादित्वात्कारणपरम्परासम्भवाद्ब्रह्मा##-
॥ ८ ॥

कारणेन विना कार्यं सद्वदित्युपपद्यते ।
यथाभावितमेवार्थं संविदाप्नोत्यसंशयम् ॥ ९ ॥

यौक्तिकदृशा तु कारणेन विनोत्पन्नं संविदात्मत्वेन लब्धं चेदं
जगन्नात्यन्तमसन्नाप्यत्यन्तं सत् किन्तु सद्वदित्युपपद्यते इत्याह -
कारणेनेत्यादिना ॥ ९ ॥

यथा सम्भवति स्वप्ने सर्वं सर्वत्र सर्वथा ।
चिन्मयत्वात्तथा जाग्रत्यस्ति सर्वात्मरूपता ॥ १० ॥

सर्वात्मनि ब्रह्मपदे नानानानात्मनि स्थिता ।
अस्त्यकारणकार्याणां सत्ता कारणजापि च ॥ ११ ॥

मायावादे तु सर्वमविरुद्धमित्याह - सर्वात्मनीति ॥ ११ ॥

एकः सहस्रं भवति यथा ह्येते किलैन्दवाः ।
प्रयाता भूतलक्षत्वं सङ्कल्पजगतां गणैः ॥ १२ ॥

सहस्रमेकं भवति संविदां च तथा हि यत् ।
सायुज्ये चक्रपाण्यादेः सर्गैरेकं भवेद्वपुः ॥ १३ ॥

चक्रपाणेरादिपदाद्ब्रह्मरुद्रेन्द्रचन्द्रसूर्यादेः सायुज्ये
विपश्चिदुपाख्याननिष्कर्षोक्तदिशा उपाधिमेलनद्वारैक्यापत्तौ । इन्द्रस्यैव सायुज्यं
सलोकतामाप्नोति इत्यादिश्रुतेरिति भावः ॥ १३ ॥

एक एव भवत्यब्धिः स्रवन्तीनां शतैरपि ।
एक एव भवेत्काल ऋतुसंवत्सरोत्करैः ॥ १४ ॥

भिन्नसत्तयोः सत्तैक्यप्राप्तिस्तु लोकेऽपि प्रसिद्धेत्याह - एक एवेति ।
ऋतुसंवत्सरोत्करैर्भिन्नोऽपि ॥ १४ ॥

संविदाकाश एवायं देहः स्वप्न इवोदितः ।
स्वप्नाद्रिवन्निराकारः स्वानुभूतिस्फुटोऽपि च ॥ १५ ॥

तथा एक एवात्मा भ्रान्त्या देहादिनानात्वं प्राप्त इव भातीत्याह - संविदाकाश
इति ॥ १५ ॥

संवित्तिरेवानुभवात्सैवाननुभवात्मिका ।
द्रष्ट्टदृश्यदृशा भाति चिद्व्योमैकमतो जगत् ॥ १६ ॥

द्रष्ट्टदृश्यदृशा भ्रान्तविभागदृशा ॥ १६ ॥

वेदनावेदनात्मैकं निद्रास्वप्नसुषुप्तवत् ।
वातस्पन्दाविवाभिन्नौ चिद्व्योमैकमतो जगत् ॥ १७ ॥

यथा एकैव निद्रा स्वप्ने वेदनात्मा सुषुप्तौ अवेदनात्मेति द्वैविध्येऽप्येका तद्वत् ॥ १७ ॥

द्रष्टा दृश्यं दर्शनं च चिद्भानं परमार्थखम् ।
शून्यस्वप्न इवाभाति चिद्व्योमैकमतो जगत् ॥ १८ ॥

जगत्त्वमसदेवेशे भ्रान्त्या प्रथमसर्गतः ।
स्वप्ने भयमिवाशेषं परिज्ञातं प्रशाम्यति ॥ १९ ॥

यतो जगत्त्वमसदेवातः स्वप्ने प्रसक्तं व्याघ्रादिभयमिव परिज्ञातमात्रं
प्रशाम्यति ॥ १९ ॥

एकस्याः संविदः स्वप्ने यथा भानमनेकधा ।
नानापदार्थरूपेण सर्गादौ गगने तथा ॥ २० ॥

गगने ब्रह्मणि ॥ २० ॥

बहुदीपे गृहे च्छाया बह्व्यो भान्त्येकवद्यथा ।
सर्वशक्तेस्तथैवैका भाति शक्तिरनेकधा ॥ २१ ॥

अनेकदीपप्रभाणामेकवद्भानमिव एकस्या अपि मायाशक्तेरनेकधाभानं
सम्भावनीयमित्याह - बहुदीपे इति । छायाः कान्तयः ॥ २१ ॥

यत्सीकरस्फुरणमम्बुनिधौ शिवाख्ये व्योम्नीव वृक्षनिकरस्फुरणं स
सर्गः ।
व्योम्न्येष वृक्षनिकरो व्यतिरिक्तरूपो ब्रह्माम्बुधौ न तु मनागपि
सर्गबिन्दुः ॥ २२ ॥

व्योम्नि भ्रान्त्या वृक्षनिकरस्फुरणमिव शिवाख्ये अम्बुधौ यत्सीकरस्फुरणं स
एवायं सर्गः । एतावांस्तु विशेषः - यद्व्योम्नि वृक्षनिकरो
व्योमधर्मशून्यतानुविद्धत्वेनास्फुरणादत्यन्तव्यतिरिक्तरूपः । ब्रह्माम्बुधौ
स्फुरन्सर्गबिन्दुस्तु मनागपि व्यतिरिक्तरूपो नेत्यर्थः ॥ २२ ॥

इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० ब्रह्म० ब्रह्ममयत्वप्रतिपादनं
नामैकोनाशीत्यधिकशततमः सर्गः ॥ १७९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ब्रह्ममयत्वप्रतिपादनं नामैकोनाशीत्यधिकशततमः सर्गः ॥ १७९ ॥