१७८

अष्टसप्तत्यधिकशततमः सर्गः १७८

श्रीराम उवाच ।

पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये ।
यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ॥ १ ॥

इहाऽमूर्तचिता मूर्तचालने युक्तिरुच्यते ।
जगच्चामूर्तचिन्मात्रमैन्दवाख्यानतः स्फुटम् ॥

धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् इत्युक्तिं श्रुत्वा अमूर्तेन चिदात्मना
मूर्तस्य देहादेश्चालने उपपत्तिं जिज्ञासमानो रामस्तदनुपपत्तिं दर्शयितुं
भूमिकां रचयति - पदार्था इत्यादिना । मूर्तामूर्तब्रह्मणा दर्शितो विभाग इह
नाभिप्रेतः किं तु प्रतिघातयोग्यतातदयोग्यतोपाधिभेदकृत इत्याशयेन विशिनष्टि

  • यत्रेति ॥ १ ॥

तानिहाप्रतिघानाहुर्नान्योन्यं वेल्लयन्ति ये ।
तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ॥ २ ॥

कुसुमकार्पासनवनीतादिमृदुतरपदार्थानां
कठिनशिलादिवत्प्रतिघायोग्यत्वादमूर्तत्वमुक्तं मा भूदिति विशेषणतात्पर्यं
लक्षणाभ्यामुद्घाटयति - तानीति । वेल्लयन्ति संश्लिष्यन्ति ॥ २ ॥

इह सप्रतिघानां तु दृष्टमन्योन्यवेल्लनम् ।
न त्वप्रतिघरूपाणां केषाञ्चिदपि किञ्चन ॥ ३ ॥

तदेवं लोकप्रसिद्ध्या विशदयति - इहेति ॥ ३ ॥

तत्र संवेदनं नाम यदिदं चन्द्रमण्डले ।
इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ॥ ४ ॥

अस्त्वेवं प्रस्तुते किं तत्राह - तत्रेति । तत्र संवेदनं नामेदं यत्प्रसिद्धं
तदप्रतिघमेव । यद्यस्माद्धेतोश्चन्द्रं पश्यतः पुरुषस्य इतः
अस्मात्प्रदेशान्नयनरश्म्यनुसारिचित्तेन सह तदवच्छिन्नसंवेदनानि
चन्द्रमण्डले अप्रतिघं निःसंश्लेषमेव पतन्ति । अतोऽमूर्तानीति सर्वेणापि
चन्द्रदर्शिना स्वयमनुभूयत इत्यर्थः ॥ ४ ॥

अर्धप्रबुद्धसङ्कल्पविकल्पाद्वैतकल्पितम् ।
वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ॥ ५ ॥

नन्वयमाक्षेपस्ते प्रबुद्धदृशा अप्रबुद्धदृशा वा । आद्ये
मूर्तमेवाप्रसिद्धम् । द्वितीये अमूर्ता चिद्देहादि प्रवर्तयतीत्यप्रसिद्धम् ।
देहाद्यहङ्कारान्तानां सम्पिण्डितानामेव लौकिकैरात्मत्वानुभवादित्याशङ्क्याह

  • अर्धेति । अर्धप्रबुद्धानां तृतीयचतुर्थभूमिकान्तरालस्थानां
    सङ्कल्पविकल्पद्वैतेन कल्पितमिदं जगदभ्युपगम्य वदाम्याक्षिपामि ।
    बोधदृशा स्थितं परिशिष्टं चिन्मात्रमभ्युपगम्य तु नाक्षिपामीत्यर्थः ॥ ५ ॥

कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः ।
प्रवेशनिर्गममयं कथं वा वद मे प्रभो ॥ ६ ॥

यद्यपि मूर्तः प्राणमारुत एव प्रवेशनिर्गमवृत्तिभेदेन क्षुब्धो देहं
प्रवर्तयतीति सुवचं तथापि तस्य प्राणमारुतस्य क्षोभं को जनयति ॥ ६ ॥

कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् ।
इमं देहं चालयति भारं भारहरो यथा ॥ ७ ॥

ननु जीवात्मकश्चिदाभास एव तं जनयिष्यति तत्राह - कथमिति । देहं
प्राणादिदेहान्तम् ॥ ७ ॥

यदि सप्रतिघं वस्तु वेल्लत्यप्र्तिघात्मकम् ।
कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ॥ ८ ॥

यदि अप्रतिघात्मकमपि संवित्तिमात्रं प्राणादिदेहान्तं सप्रतिघं वेल्लति विष्टभ्य
चालयति तर्हि शैलश्चलत्विति पुंसः सङ्कल्पसंवित्तिमात्रेण शैलः कुतो न चाल्यते ।
बाह्यशैलादेर्देहादेश्च कोविशेष इत्यर्थः ॥ ८ ॥

श्रीवसिष्ठ उवाच ।

विकासमथ सङ्कोचमत्र नाली हृदि स्थिता ।
यदा याति तदा प्राणश्छेदैरायाति याति च ॥ ९ ॥

यथा बाह्यस्य वायोरयस्कारभस्त्रायां प्रवेशनिर्गमाभ्यां तच्चालकत्वं तथा
प्राणवायोरपि कण्ठादिनालीविलाकाशसङ्कोचविकासानुमितप्रवेशनिर्गमाभ्यां
देहादिचालकत्वं प्रत्यक्षमेव हृदयादिप्रवेशेष्वप्येवमेव बोध्यमित्युत्तानोक्त्या
गूढाशयेन वसिष्ठः समाधत्ते - विकासमिति द्वाभ्याम् । छेदैश्छिद्रैः ॥ ९ ॥

बाह्योपस्करभस्त्रायां यथाकाशास्पदात्मकः ।
वायुर्यात्यपि चायाति तथात्र स्पन्दनं हृदि ॥ १० ॥

आकाशश्छिद्रं तदास्पदः तदाश्रयसर्वद्रव्यान्तःसञ्चारस्वभावो वायुर्यथा
बाह्यायामयस्कारोपस्करभस्त्रायां याति प्रविशति आयाति निर्गच्छति ॥ १० ॥

श्रीराम उवाच ।

बहिर्भस्त्रामयस्कारः सङ्कोचनविकासनैः ।
योजयत्यान्तरं नाडीं कश्चालयति चालकः ॥ ११ ॥

सत्यं वायुश्चालयति तथाप्ययस्कारादिचेतनाधिष्ठितभस्त्रायामेव तथा चालयति
नान्यत्रेति चेतनमेवाचेतनस्य नियतव्यवहारचेष्टानिमित्तमवश्यं वाच्यम् । तत्र
नाडीं आनतरं प्रविश्य कश्चेतनश्चालयतीत्यर्थः ॥ ११ ॥

शतं कथं भवेदेकं कथमेकं शतं भवेत् ।
कथं स चेतना एते काष्ठलोष्टोपलादयः ॥ १२ ॥

ननु शतं चैका च हृदयस्य नाड्यः इति श्रुतौ विष्वक्प्रसृताः शतं नाड्यः
श्रूयन्ते । तत्रैकशतं नाडीनां तासां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखं
नाडीसहस्राणि भवन्त्यासु व्यानः सञ्चरतीति च । तत्र सर्वनाडीषु व्यानसञ्चारस्य
देहादिचलननिमित्तत्वे सदैव सर्वाङ्गचलनं स्यान्नककहस्तपादाद्युद्यमनं
नियतम् । यद्युच्येत एकैकाङ्गोद्यमने उपस्थिते नाडीनां शतमपि तदङ्गे एकं
भवति सर्वाङ्गचलने उपस्थिते त्वेकमपि सर्वाङ्गव्यापि नाडीशतं भवतीति
तत्राप्याह - शतमिति । किञ्चामूर्तचैतन्यस्य संश्लेषो देहेऽपि नास्ति ।
आध्यासिकसम्बन्धस्तु काष्ठलोष्टादिष्वपि तुल्य इति तेऽपि सचेतना वाच्यास्तच्च
कथमित्यर्थः ॥ १२ ॥

कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् ।
वस्तु जङ्गममेवेह स्पन्दि मात्रेव किं वद ॥ १३ ॥

तथा स्थावरं वृक्षलताकाष्ठपाषाणादि वस्तु चेतनं चेत्प्रस्पन्दि कस्मान्न ।
देहवद्भोगोपयोगेन चमत्कृतमपि कस्मान्न मात्रा नियन्त्रणा कुलालादिना
अधिष्ठितं चक्रादीव नियतकालस्पन्दि किम् ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् ।
बहिर्भस्त्रामयस्कार इव लोकेऽनुचेष्टनम् ॥ १४ ॥

कार्यकारणस्वामिन्या भोक्तृजीवसंविदो
यत्रानादिप्रवाहोपनीतकामकर्मवासनाप्रयुक्तस्तादात्म्याध्यासस्तच्चालने
आध्यासिकस्वतादात्म्यशालिप्राणसंश्लेषद्वारा स्वातन्त्र्यमन्यत्र पारतन्त्र्यमिति
व्यवस्थेति गूढाभिसन्धिनैव वसिष्ठ उत्तरमाह - अन्तरिति । आन्त्रवेष्टनं
[अन्त्रस्येदमान्त्रमन्त्रसम्बन्धि ।] नाडीसमूहम् । तदनुसारेणैव लोके
सर्वोऽपि बहिश्चेष्टनं करोतीति शेषः ॥ १४ ॥

श्रीराम उवाच ।

वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने ।
कथमप्रतिघा संविच्चालयेदिति मे वद ॥ १५ ॥

उत्तानार्थेन गूढाभिसंहितेन च स्वशङ्काबीजेन परिहृतमिति गूढाभिसन्धिरेव
रामः पुनः स्वशङ्कामनुवदति - वाय्विति ॥ १५ ॥

संविदप्रतिघाकारा यदि सप्रतिघात्मकम् ।
चालयेदचलिष्यत्तद्दूरमम्भो यदिच्छया ॥ १६ ॥

विपर्यये दोषमाह - संविदिति । तत्तर्हि दूरं दूरस्थमप्यम्भः यातीति यन्
तृषितः पान्थस्तदिच्छया अचलिष्यत् स्वयमेवागमिष्यत् ॥ १६ ॥

सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः ।
वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ॥ १७ ॥

तथा च बाह्यव्यवहारे सर्वप्राणिनामिच्छयैव सर्वकार्यसिद्धेः
कर्मेन्द्रियघटाद्युपकरणवैयर्थ्यं च स्यादित्याह - सप्रतिघेति । तत्तर्हि
इच्छैव बहिर्वचनादानविहरणोत्सर्गादिकं करिष्यतीति शेषः ॥ १७ ॥

सप्रतिघाप्रतिघयोः श्लेषो नास्ति बहिर्यथा ।
तथैवान्तरहं मन्ये शेषं कथय मे मुने ॥ १८ ॥

बहिः श्लेषाभावेऽप्यन्तः श्लेषोऽस्तु तत्राह - सप्रतिघेति । एवं
त्वत्समाधानयुक्तिषु निरस्तासु शेषं युक्त्यन्तरं कथय न तु निरस्तमेव पुनः
पुनः कथयेत्यर्थः ॥ १८ ॥

अन्तः स्वयं योगिना वा यथैतदनुभूयते ।
अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ॥ १९ ॥

अथवा योगिना त्वया स्वयं यथा एतत् अमूर्तस्यैव मूर्तेन वेल्लनं लोके
अत्यन्ताप्रसिद्धमपि योगबलेनान्तर्यथा येनोपायेनानुभूयते तद्वदेत्यर्थः ॥ १९ ॥

श्रीवसिष्ठ उवाच ।

सर्वसन्देहवृक्षाणां मूलकाषमिदं वचः ।
सर्वैकतानुभूत्यर्थं शृणु श्रवणभूषणम् ॥ २० ॥

एवमाक्षिप्तो वसिष्ठः प्रागुक्तगूढाभिसन्ध्युत्तरमपि वासनानां
बाह्याध्यात्मिकपरिच्छेदभ्रान्तिमात्रमूलत्वादनवस्थाग्रस्तं निष्कर्षासहं
रामेण ज्ञातमुद्घाटितमपि रामः खण्डयिष्यत्येवेति मन्यमानस्तदुपेक्ष्य
सिद्धान्तावलम्बनेनैवैकोक्त्या सर्वं समाधत्ते - सर्वेति । सर्वेषां
सन्देहानां तत्त्वाज्ञानमूलकत्वात्सर्वैकतानुभवलक्षण##-

नेह किञ्चिन्न नामास्ति वस्तु सप्रतिघं क्वचित् ।
सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ॥ २१ ॥

भवेदयं त्वदाक्षेपनिवहः सर्वोऽपि सप्रतिघयथार्थप्रपञ्चाभ्युपगमे । यदा
त्वप्रतिघा चिदेव बाह्याध्यात्मिकवस्तुभेदभ्रान्त्यात्मनां अविद्यावशाद्विवर्तते
तदा यथादर्शनमेव प्राणादिदेहान्तसङ्घाते
आन्तरचैतन्यमात्राधीनश्चलनाद्यध्यासो बाह्ये घटादौ तु करावष्टम्भाद्यधीन
इति व्यवस्थित एवाभ्युपगम्यते न सङ्कीर्ण इति समुदिताभिप्रायः ॥ २१ ॥

शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् ।
पदार्थजातं पृथ्व्यादि स्वप्नसङ्कल्पयोरिव ॥ २२ ॥

आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् ।
भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ॥ २३ ॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
महता कारणौघेन बोधमप्रतिघं विदुः ॥ २४ ॥

अत एव तत्त्वविदो महता
विवेकवैराग्यत्यागश्रवणमनननिदिध्यासनादिप्रयत्नसाध्यकारणौघेन
मूर्ताकारं सवासनं निर्मृज्य द्यौः क्षमा वायुरित्यादि सर्वं जगदप्रतिघं
बोधमात्रमिति विदुरित्यर्थः ॥ २४ ॥

अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा ।
सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ॥ २५ ॥

चेतनमिति भावे ल्युट् ॥ २५ ॥

तत्रैवमैन्दवाख्यानं शृणु श्रवणभूषणम् ।
मया च पूर्वमुक्तं तत्किञ्चान्यदभिवर्ण्यते ॥ २६ ॥

चिन्मात्रमेव सर्वजगन्न मूर्तं किञ्चिदस्तीत्यर्थे प्रागुक्तमैन्दवाख्यानं पुनः
श्रावयितुं प्रतिजानीते - तत्रेति । पूर्वं मनोमात्रं
जगदित्युत्पत्तिप्रदर्शनायोक्तमिह त्वन्यच्चिन्मात्रमेव जगदिति
निर्वाणनिष्कर्षार्थमभिवर्ण्यत इत्यर्थः ॥ २६ ॥

तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु ।
यथेदं सर्वमद्र्यादि चिदित्येव तु भोत्स्यते ॥ २७ ॥

प्रस्तुतप्रश्नसमाधानप्रयोजनभेदादपि पौनरुक्त्यमदोषायेत्याह - तथापीति ।
अमूर्ता चिदित्येव प्रश्नसमाधानं त्वया भोत्स्यते । कर्मणि ऌटि स्ये भष्भावः ॥
२७ ॥

कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः ।
तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ॥ २८ ॥

प्राक्तनेनोत्पत्तिप्रकरणव्र्णितप्रकारेण विशिष्टे जगज्जाले ॥ २८ ॥

दश तस्याभवन्पुत्रा जगतो दिक्तटा इव ।
महाशया महात्मानो महतामास्पदं सताम् ॥ २९ ॥

जगतो ब्रह्माण्डोदराकाशस्य दश दिक्तटा इव । आस्पदं प्रतिष्ठा ॥ २९ ॥

स तेषां कालवशतः पिताऽन्तर्धिमुपाययौ ।
दशानां भगवान् रुद्र एकादश इव क्षये ॥ ३० ॥

क्षये महाप्रलये ॥ ३० ॥

तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः ।
अनुरक्ता दिनस्येव सन्ध्या ताराविलोचना ॥ ३१ ॥

तयोस्ते तनया दुःखकलिता विपिनं गताः ।
कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ॥ ३२ ॥

दुःखेन वियोगदुःखेन कल्पिता व्याप्ताः ॥ ३२ ॥

धारणानां समस्तानां का स्यादुत्तमसिद्धिदा ।
धारणा यन्मयाः सन्तः स्याम सर्वेश्वरा वयम् ॥ ३३ ॥

धारणानां विषयविशेषाकारितमनःस्थैर्यलक्षणानां मध्ये का किंविषयिणी
उत्तमधारणा स्यादित्यर्थः । सर्वेश्वरा हिरण्यगर्भभूताः ॥ ३३ ॥

इति ते तत्र सञ्चिन्त्य बद्धपद्मासना दश ।
इदं सञ्चिन्तयामासुर्निर्विघ्ने कन्दरोदरे ॥ ३४ ॥

निर्विघ्ने श्वापदाद्युपघातरहिते ॥ ३४ ॥

पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः ।
भवामः पद्मजोपेतं जगद्रूपमविघ्नतः ॥ ३५ ॥

पद्मजेन चतुर्मुखेनाधिष्ठितं यदशेषं जगद्ब्रह्माण्डं तदेवाहमिति स्थिता
निश्चलाः सन्तः ॥ ३५ ॥

इति सञ्चिन्त्य सब्रह्मजगद्धारणया चिरम् ।
निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ॥ ३६ ॥

अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः ।
आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ॥ ३७ ॥

अच्युताः मनसो वृत्त्यन्तरधारणेन प्रच्युतिमप्राप्ताः ॥ ३७ ॥

शुष्काः कङ्कालतां याताः क्रव्यादैश्चर्विताङ्गकाः ।
नाशमभ्याययुस्तत्र च्छायाभागा इवातपैः ॥ ३८ ॥

कङ्कालतां शवताम् ॥ ३८ ॥

अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः ।
इति सम्पश्यतां तेषां दीर्घकालोऽभ्यवर्तत ॥ ३९ ॥

जगच्चेदमहम् । सम्पश्यतां ध्यायताम् ॥ ३९ ॥

तानि चित्तान्यदेहानि दशैकध्यानतस्ततः ।
सम्पन्नानि जगन्त्येव दश देहानि वै पृथक् ॥ ४० ॥

दश चित्तानि दश देहानि दश ब्रह्माण्डरूपाणि जगन्त्येव ध्यानपरिपाकेन
सम्पन्नानि तत्क्रतुन्यायेनेत्यर्थः ॥ ४० ॥

इति तेषां चिदिच्छा सा सम्पन्ना सकलं जगत् ।
अत्यन्तस्वच्छरूपैव स्थिता चाकारवर्जिता ॥ ४१ ॥

चिदेवेच्छा भूत्वा जगत्सम्पन्ना । किञ्चित्स्वभावहानेन नेत्याह - अत्यन्तेति ॥ ४१ ॥

संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् ।
सर्वं चिदात्मकं विद्धि नो चेदन्यत्किमुच्यताम् ॥ ४२ ॥

तथा च प्रतिज्ञातं सिद्धमित्याह - संविन्मयत्वादिति ॥ ४२ ॥

किल यत्त्रिजगज्जालं तेषां किमात्म तत्तथा ।
संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ॥ ४३ ॥

नो चेत्तेषां किल दशविधं त्रिजगज्जालं तत्किमात्म वा तत्त्वया उच्यतामिति
पूर्वत्रान्वयः । त्वया किमुच्यते तदाह - संविदिति ॥ ४३ ॥

विद्यते न यथा किञ्चित्तरङ्ग सलिलादृते ।
संवित्तत्त्वादृते तद्वद्विद्यते चलनादिकम् ॥ ४४ ॥

चलनादिकं न विद्यत इत्यनुकृष्यान्वयः ॥ ४४ ॥

ऐन्दवानि तथैतानि चिन्मयानि जगन्ति खे ।
तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ॥ ४५ ॥

ऐन्दवजगत्साम्यं प्रस्तुतेऽपि जगति बोध्यमित्याह - ऐन्दवानीति ॥ ४५ ॥

यथैवैन्दवसङ्कल्पास्ते जगत्त्वमुपागताः ।
तथैवाब्जजसङ्कल्पो जगत्त्वमयमागतः ॥ ४६ ॥

तुल्यत्वमेव दर्शयति - यथेति ॥ ४६ ॥

तस्मादिहेमे गिरयो वसुधा पादपा घनाः ।
महाभूतानि सर्वं च चिन्मात्रमयमाततम् ॥ ४७ ॥

चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः ।
नाचित्क्वचित्सम्भवति तेष्वैन्दवजगत्स्विव ॥ ४८ ॥

चिन्मात्रखकुलालेन स्वदेहचलचक्रके ।
स्वशरीरमृदा सर्गः कुतोयं क्रियतेऽनिशम् ॥ ४९ ॥

कुत इत्यसम्भावनोक्तिर्मिथ्यात्वद्योतनाय ॥ ४९ ॥

सङ्कल्पनिर्मिते सर्गे दृषदश्चेन्न चेतनाः ।
तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ॥ ५० ॥

एतेन कथं सचेतना एते काष्ठलोष्टोपलादयः इति प्रश्नोऽपि समाहित इत्याशयेनाह ##-

कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे ।
प्राङ्मृष्टं कल्पनादीनामन्यैवार्थकलावताम् ॥ ५१ ॥

कलनमनुभवः स्मृतिस्तज्जनकसंस्काराः चकारादिच्छाकृतय इत्येते हि
संविद्विशेषा अर्थगोचराः एतेषां ह्यन्तरर्थाः प्रथन्ते । एते च स्वोदरे
अभिव्यक्तचिन्मात्रमेव दधति न जडमर्थमतोऽप्यर्थाश्चिद्रूपा एवेत्याह -
कलनेति । तत्कुतस्तत्राह - प्रागिति । यत इदं प्रागेवास्माभिर्विमृष्टं
यत्कल्पनादीनामर्थशून्यानामन्यैव स्थितिः । अर्थकलावतां
तत्त्वावगाहनचमत्कारशालिनामन्यैव चमत्कृतिरिति । अथवा । ननु
लोष्टादिकलनस्मृतिसंस्कारैकरूप्येण लोष्टाद्यचिद्रूपमेव निश्चितं कथं
तत्सचेतनमित्युपवर्ण्यते तत्राह - कलनेति । कलनादयो लोष्टशैलादितत्त्वं
चिन्मात्रमुदरेण दधति नावगाहितुं शक्नुवन्ति यतस्तदर्थकलावतां
कल्पनादीनामुत्थानात्प्रागेवास्तीति मृष्टं परामृष्टम् । अज्ञातविषये हि
चक्षुरादिना कलनं ज्ञातविषये हि स्मृतिसंस्कारौ ज्ञानसमानविषयौ ।
अतस्तेभ्यः पूर्वमज्ञातविषयसिद्धिरवश्यं वाच्येति भावः । न चाचिद्रूपं
तृणकाष्ठशैलाद्यज्ञातं वक्तुं शक्यम् । जडेष्वज्ञानावरणप्रयोजनाभावात्
। अतो जडेभ्योऽन्यैव ब्रह्मसत्ता तृणादीनां तत्त्वं
सैवान्यथाकलनस्मृतिसंस्कारैर्जडत्वेन भ्रान्त्या विमृश्यत इत्यर्थः ॥ ५१ ॥

तद्धाम संविदो धाम्नि मणिराशौ मणिर्यथा ।
सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ॥ ५२ ॥

इतश्च काष्ठलोष्टादयश्चेतना इत्याह - तदिति । यतस्तत्परमं चिद्धामैव
सर्वात्मनि संविदो धाम्नि समष्टिव्यष्टिचित्ते मणिराशौ मणिरिव देदीप्यमानमन्तः
स्थित्वा कश्चित्तृणकाष्ठशैलाद्यर्थ इव उदेति । तदनुप्रविश्य सच्च त्यच्चाभवत् इति
श्रुतेरिति भावः ॥ ५२ ॥

अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् ।
स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ॥ ५३ ॥

इतश्च तृणकाष्ठादिश्चेतनो यतोऽयमकार्यकरणस्य तस्य सृष्टिः । यथा सूर्यस्य
प्रभा तत्स्वभाव एव नाप्रकाशरूपा तद्वदिदं सर्व चेतनं ब्रह्मैवेत्यर्थः ॥ ५३

यथा प्रवृत्तं चिद्वारि वहत्यावर्ततेऽवनौ ।
स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ॥ ५४ ॥

यथा निम्नावनौ प्रवृत्तं वारि परात्मीयात्मना कारणान्तरेण विना स्वयत्नेन स्वत
एव आवर्तप्रवाहतरङ्गादिवैचित्र्येणावर्तते तथा चिदपीत्यन्वयः ॥ ५४ ॥

पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् ।
चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ॥ ५५ ॥

यथा पाद्मे कल्पे भगवन्नाभिपद्मलीला एव जगदिव कचन्ति
तद्वच्चिन्मात्राद्ब्रह्मणः सकाशाज्जगन्ति प्रकचन्ति यत्ततोऽपि मनागपि ततो नान्यानि ॥
५५ ॥

अजातमनिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् ।
शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ॥ ५६ ॥

अनन्यत्वे यत्फलितं तदाह - अजातमिति । सदसतोर्भावाभावयोर्द्वयोरपि
मार्जनान्मध्यम् ॥ ५६ ॥

यत्संविन्मयमद्र्यादि सङ्कल्पजगति स्थितम् ।
तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ॥ ५७ ॥

अत एव तृणशैलकाष्ठादयः अचेतना इति द्रष्टारो मूढा विद्वद्भिरुपहस्यन्त
इत्याह - यदिति । वक्ता अज्ञ इति च्छेदः ॥ ५७ ॥

जगन्त्यात्मेव सङ्कल्पमयान्येतानि वेत्ति खे ।
खात्मकानि तथेदं च ब्रह्म सङ्कल्पजं जगत् ॥ ५८ ॥

ब्रह्मा चतुर्मुखस्तत्सङ्कल्पजत्वादपि स्वमनोराज्यवच्चिन्मात्रत्वमनुमेयमित्याह

  • जगन्तीति । आत्मा स्वयमिव ॥ ५८ ॥

यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते ।
तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ॥ ५९ ॥

किमर्थमियमेव दृष्टिर्भङ्ग्यन्तरैः पुनः पुनः समर्थ्यते तत्राह -
यावदिति । इयं प्रपञ्चदृष्टिर्दृढीकृतया चिद्दृष्ट्या यावद्यावद्विलोक्यते
तावत्तावदिदं दुःखं विलीयते ॥ ५९ ॥

यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता ।
तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ॥ ६० ॥

दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् ।
संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ॥ ६१ ॥

नेहाकृतिर्न च भवाभवजन्मनाशाः सत्ता न चैव न च नाम तथास्त्यसत्ता ।
शान्तं परं कचति केवलमात्मनीत्थं ब्रह्माथवा कचनमप्यलमत्र नास्ति
॥ ६२ ॥

अतो महाफलत्वादियमेव दृष्टिर्दृढीकार्येत्युपसंहरति - नेहेति । इह
जगत्याकृत्यादयो विकल्पा न सन्ति । सत्ता द्वितीयो भावविकारः । असत्ता तदभावः ।
आत्मनि परमार्थचित्स्वभावे इत्थं कचति । अथवा ब्रह्मातिरिक्तं
कचनमप्यलमत्यन्तं नास्ति । कचधातुप्रवृत्तिनिमित्ताभावादित्यर्थः ॥ ६२ ॥

आद्यन्तवर्जितमलभ्यलताग्रमूलनिर्माणमूलपरिवेशमशेषमच्छम् ।
अन्तस्थनिर्गगनसर्गकपुत्रकौघं नित्यं स्थितं ननु घनं
गतजन्मनाशम् ॥ ६३ ॥

कचनस्याप्यभावे ब्रह्म कीदृक् स्थितं तदाह - आद्यन्तेति । तद्ब्रह्म
स्फटिकस्तम्भवदन्तस्थनिर्गगनसर्गकपुत्रिकौघमपि अलभ्या जगल्लतास्तदग्राणि
तन्मूलानि तन्निर्माणानि तन्मूलानां मूले भूमौ परिवेशाः प्रवेशाश्च
यस्मिंस्तथाविधमाद्यन्तवर्जितं कालतोऽप्यजन्मनाशमशेषमच्छमतिस्वच्छं
चिदानन्दैकघनं नित्यं स्थितं कैवल्यमित्यर्थः ॥ ६३ ॥

सन्मात्रमन्तरहिताखिलहस्तजातं पर्यन्तहीनगणनाङ्गममुक्तरूपम् ।
आत्माम्बरात्मकमहं त्विदमेव सर्वं सुस्तम्भरूपमजमौनमलं
विकल्पैः ॥ ६४ ॥

इदमेवामुक्तरूपं यदा तदा अन्तरहितमसङ्ख्यमखिलं विश्वतोव्याप्तं
हस्तजातं पर्यन्तेष्वपि हीनगणनान्यसङ्ख्यानि
चक्षुःश्रोत्रशिरःकण्ठोदरपादाद्यङ्गानि च यस्य तथाविधमिदमेव सर्वमासीत् ।
मुक्तरूपं त्वात्माम्बरात्मकं सुस्तम्भरूपं सन्मात्रं अजमौनं
वर्णितस्फाटिकसुस्तम्भरूपमिदमहमेव सम्पन्नमिति पुनर्विकल्पैरलं प्रयोजनं
नास्तीत्यर्थः ॥ ६४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतास्वैन्दवोपाख्यानं
नामाष्टसप्तत्यधिकशततमः सर्गः ॥ १७८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ऐन्दवोपाख्यानं नामाष्टसप्तत्यधिकशततमः सर्गः ॥ १७८ ॥