१७७

सप्तसप्तत्यधिकशततमः सर्गः १७७

श्रीराम उवाच ।

अकारणकमेवेदं जगद्ब्रह्म परात्पदात् ।
यदि प्रवर्तते नाम स्वप्नसङ्कल्पनादिवत् ॥ १ ॥

सकारणं कल्पनया वस्तुवृत्त्या त्वकारणम् ।
जगत्स्वप्नसमं मोहाद्बोधाद्ब्रह्मेति वर्ण्यते ॥

अकारणक एव स्वप्नसमोऽयं सर्ग इति बहुशो यद्वर्णितं तत्र रामः
सस्यधान्यादिकार्यस्यापि [सतुषातुषत्वाभ्यां सस्यधान्ययोर्भेदः ।] तर्हि
कृषिवृष्ट्यादिकारणं विनैवोत्पत्तिः स्यादित्युत्पत्तिप्रसङ्गं शङ्कते -
अकारणकमिति द्वाभ्याम् ॥ १ ॥

तदकारणतः सिद्धेः सम्भवेऽन्यदकारणम् ।
कथं न जायते वस्तु क्वचित्किञ्चित्कदाचन ॥ २ ॥

तत्तर्हि अकारणत एव सर्वाभिलषितसिद्धेः सम्भवे अन्यत्सस्यधान्यादिकमपि वस्तु
कृषीबलानामकारणकं कृषिवृष्टिबीजवापादिकारणं विनैव कथं न जायते
इत्यर्थः ॥ २ ॥

श्रीवसिष्ठ उवाच ।

यद्यथा कल्पितं येन स सम्पश्यति तत्तथा ।
कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ॥ ३ ॥

न वयं व्यवहारव्यवस्थापकं काल्पनिकं कार्यकारणभावं
बीजाङ्कुरादेर्वारयामः किन्तु जगत्सत्यत्वप्रसञ्जनेन
तत्त्वज्ञानवैयर्थ्यापादकं ब्रह्मातिरिक्तं प्रधानपरमाण्वाद्यश्रौतं
वादिभिः कल्पितं कारणं निराचक्ष्महे । जगतो ब्रह्मविवर्तमात्रत्वप्रसिद्ध्या
तत्त्वज्ञानेन बाधे कैवल्यसिद्धिर्यथा स्यादितीत्याशयेन वसिष्ठः समाधत्ते -
यद्यथेति । अनादि व्यवहारे येन यद्यद्यथा दृढाध्यासेन कल्पितं स तत्तथा
कार्यं कारणं वा सर्वं पश्यति । अन्यथा व्यवहारेऽपि व्यावहारिकनियमापलापे
कापि कल्पना न स्यादित्यनभ्यासेनैव सर्वमुक्तिप्रसङ्ग इत्यर्थः ॥ ३ ॥

यथेदं कल्पितं दृश्यं मनसा येन तत्तथा ।
वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ॥ ४ ॥

अत एव कल्पकबुद्ध्यनुसारेण व्यवस्थितमेव वस्तु अनुभूयत इत्याह - यथेदमिति
। तथा च निरालम्बनवादनिष्कर्षे भट्टवार्तिके उदाहृतम् -
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्यमिति तिस्रो
विकल्पनाः इति ॥ ४ ॥

कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः ।
कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ॥ ५ ॥

तर्हि किं निरालम्बनैव कल्पना नेत्याह - कल्पनाकल्पनात्मेति । तत्राचिदंशः
कल्पनात्मा चिदंशस्त्वकल्पनात्मा उभयघटितमिदं जगत् । यथा जन्तुश्चेतनः
पुरुषः केशनखाद्यचेतनघटितः प्रतीयते तद्वदित्यर्थः ॥ ५ ॥

अकारणपदार्थत्वं सकारणपदार्थता ।
ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ॥ ६ ॥

अत एव वस्तुतत्त्वदृशा अकारणपदार्थत्वम् कल्पनादृशा सकारणपदार्थतेति
ब्रह्मणि द्वयमप्यविरोधेनास्ति ॥ ६ ॥

यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किञ्चित्कदाचन ।
तत्कारणविकल्पेन संयोगस्तस्य युज्यते ॥ ७ ॥

यद्युभयात्मकं ब्रह्म तर्हि कथमकारणकत्वपक्ष एव त्वया प्रतिष्ठापितस्तत्राह

  • यत इति । तत्त्वज्ञानस्यैव सप्रयोजनत्वात्तत्त्वदृष्टिमात्रपक्षपातेन स
    प्रतिष्ठापित इति भावः ॥ ७ ॥

यत्र सर्वमनाद्यन्तं नानानानात्म भासते ।
ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ॥ ८ ॥

नेह प्रवर्तते किञ्चिन्न च नाम निवर्तते ।
स्थितमेकमनाद्यन्तं ब्रह्मैव ब्रह्म खात्मकम् ॥ ९ ॥

किं कस्य कारणं केन किमर्थं भवतु क्व वा ।
किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ॥ १० ॥

वास्तवमकारणकत्वं कल्पितकार्यानुत्पत्तितदुत्पत्त्योर्द्वयोरप्यविरोधीत्याह - किं
कस्येति ॥ १० ॥

नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता ।
विद्यते न महाशून्ये न नेति न न नेति च ॥ ११ ॥

शून्याशून्याद्युभयविधमात्रशून्यत्वान्महाशून्ये । न नेति न नेति चेति
तदुल्लेखः ॥ ११ ॥

इदं न किञ्चित्किञ्चिद्वा यन्नामास्त्यथ नास्ति वा ।
सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ॥ १२ ॥

सर्वस्यापि ब्रह्मैकरस्यादेव शून्यता न शून्यैकरस्यादित्याह - इदमिति ।
यद्यस्माद्धेतोस्तद्ब्रह्म अध्यारोपे सर्वानुगतत्वात्तथैव अपवादे सर्वतो
व्यावृत्तत्वादतथैव च ॥ १२ ॥

श्रीराम उवाच ।

अतज्ज्ञविषये ब्रह्मन्कार्ये कारणसम्भवे ।
किमकारणतात्म स्यात्कथं वेति वद प्रभो ॥ १३ ॥

नन्वतत्त्वज्ञविषयौ यथा अध्यारोपापवादौ तत्त्वज्ञैस्तद्बोधनायाभ्युपगम्येते
तथा प्रधानपरमाण्वादिप्रयुक्तकार्यकारणसम्भवोऽपि कुतो नाभ्युपगम्यत इति
रामः शङ्कते - अतज्ज्ञेति । पृथिव्यप्तेजोवायुलक्षणे कार्ये
तदवयवपरम्परासौक्ष्म्यावधीनां परमाणूनां सत्त्वादिगुणानां कारणानां
वा सम्भवे किं जन्यद्रव्यमकारणवत्स्यात् कथं वा अद्वितीयब्रह्मपरिशेष
इत्यर्थः ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

अतज्ज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति ।
असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ॥ १४ ॥

भवेदेवं यदि ब्रह्मातिरिक्तः प्रधानपरमाण्वादिकल्पकोऽतज्ज्ञः प्रसिद्ध्येत् । यदा
तु ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्
इति श्रुतिदर्शितदिशा ब्रह्मैव स्वाज्ञानादतज्ज्ञं तस्यैव तत्त्वज्ञानोपयुक्तं
शास्त्रं तदा तदध्यारोपापवादन्यायेनैव तत्त्वज्ञाने उपयुज्यते न
प्रधानपरमाण्वादिकल्पनयेति वैषम्यमित्याशयेन वसिष्ठः समाधत्ते -
अतज्ज्ञ इति ॥ १४ ॥

एकबोधमयाः शान्तविज्ञानघनरूपिणः ।
तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ॥ १५ ॥

कुतो नास्ति तत्राह - एकबोधमया इति । तद्यथा सैन्धवघनोऽनन्तरोऽबाह्यः
कृत्स्नो रसघन एवं वा अरे अयमात्मा विज्ञानघन एव प्रज्ञानघन एव इति
श्रुतेरिति भावः ॥ १५ ॥

अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदङ्गता ।
गते स्वप्नसुषुप्तेऽन्तरिवनिद्रात्म केवलम् ॥ १६ ॥

ननु ब्रह्मातिरिक्तः अतज्ज्ञो नास्तीति कथं सम्भाव्यते । तार्किकैः पामरैश्च नाहं
ब्रह्म नाहं ब्रह्मज्ञश्चेति स्वात्मन्यतत्त्वज्ञत्वाब्रह्मत्वयोः
प्रत्यक्षमनुभवादित्याशङ्क्य तादृशानुभवबलेनैव तदात्मनामपि
ब्रह्मत्वं समर्थयति - अतज्ज्ञत्वमिति ।
अज्ञानादिसर्वजगदारोपाधिष्ठानचिन्मात्रत्वं हि ब्रह्मत्वम् । तच्चाहमज्ञ
इत्यनुभवितरि तार्किकात्मनि दुर्वारम् । यतः अज्ञत्वं प्रबोधरूपे
आत्मन्यन्तरवभाति । यदि च वैशेषिककल्पितो जडोऽयमात्मा स्यात्
कथमात्मन्यज्ञानमनुभवेत् । अतः
अज्ञानाधिष्ठानचिद्रूपत्वमस्मादेवानुभवात्सिद्धम् । जगच्च
केवलमज्ञानात्मैव यतस्तदङ्गतां गतम् । यथा स्वप्नसुषुप्ते
निद्रान्तर्निद्राङ्गतां गते केवलं निद्रैव न निद्राव्यतिरिक्तं तयोः स्वरूपमस्ति
तद्वत् । न च ज्ञानस्वभावे आत्मनि स्वभावविरुद्धमज्ञानमारोपमन्तरेण
भवितुमर्हतीत्यज्ञानादिजगदारोपाधिष्ठानत्वस्यास्मादेवानुभवात्##-

तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते ।
मयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ॥ १७ ॥

नन्वज्ञानादिजगदधिष्ठानत्वरूपं सर्वात्मत्वं ब्रह्मलक्षणं चेज्ज्ञानेन
तदपाये तदब्रह्मैव स्यादित्याशङ्क्याह - तथापीति । मूर्खप्रतिबोधनार्थं
मूर्खबुद्धिमनुसृत्य शुद्धब्रह्मव्युत्पादनार्थं मयेदं
ब्रह्मणस्तटस्थलक्षणमुच्यते । स्वरूपलक्षणं तु तस्य
शुद्धनिरामयानन्दैकरसत्वं नाज्ञानुभवपथमवतरतीत्यर्थः ॥ १७ ॥

सन्त्यकारणका एव सन्ति कारणजास्तथा ।
भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ॥ १८ ॥

तथा चाज्ञबुद्ध्यनुसारेण जगदन्यदिव कृत्वा ब्रह्मकल्पादौ कारणमिति
स्वीकारेऽपि यक्षानुरूपो बलिरिति न्यायेन मिथ्याभूतस्य प्रपञ्चस्य तादृशी मायैव
कारणं तथापि न वास्तवाद्वैतक्षतिरित्याशयेनाह - सन्तीति । अकारणकाः
शुक्तिरजतमरुनदीरज्जुसर्पादयः । तत्र संविदा कारणजत्वेन कल्पिताः सकारणका
अन्यथाकल्पितास्त्वकारणका इति
मृन्मयगौरीगणपत्योर्मातृपुत्रतावत्कल्पनानुसारेणैव तद्व्यवस्थेत्याह -
संविदिति ॥ १८ ॥

सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् ।
सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥ १९ ॥

तत्त्वदृशा त्वखण्डाद्वयचिन्मात्रमेव सदा नाणुमात्रमपि कदाचिद्विपर्यास इति न
सर्गकारणं केनचिदपि निरूपयितुं शक्यमित्याह - सर्वेति ।
सर्वेषामनुभवशालिनां तत्त्वविदाम् ॥ १९ ॥

हृदयङ्गमतात्यक्तमीश्वरादि प्रकल्प्यते ।
यदत्र किञ्चिद्दुःस्वादु व्यर्थं वाग्जालमेव तत् ॥ २० ॥

अत्र ईदृशे स्वप्नगन्धर्वनगरमरुमरीचिकाप्राये जगति सत्यत्वसाधनाभिनिवेशेन
यद्वैशेषिकादिभिः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्
इत्यादिश्रुतिप्रसिद्धमायोपहितब्रह्मातिरिक्ततटस्थेश्वरप्रधानपरमाण्वादि
किञ्चित्कारणं प्रकल्प्यते
तत्प्रत्यक्षश्रुतिविद्वदनुभवविरोधाद्वेदान्तशास्त्रप्रसिद्धयुक्तिपराहतत्वाच्च
दुःस्वादु तिक्तं स्रष्टुरीश्वरस्य भोक्तुर्जीवस्य वा पुरुषार्थापर्यवसायित्वाद्व्यर्थम्
। अत एवाभिज्ञानां हृदयङ्गमतया त्यक्तमहृदयङ्गममिति वृथा
कण्ठशोषं वाग्जालमेव तदित्यर्थः ॥ २० ॥

अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते ।
स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥ २१ ॥

प्रबोधबाध्यत्वान्यथानुपपत्त्यापि जगत्स्वप्नाभमेवेति तदर्थं न
कारणकल्पनावकाश इत्याह - अन्यथानुपपत्त्येति ॥ २१ ॥

स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् ।
चित्स्वभावादृते ब्रूइ स्वप्नार्थो नाम कीदृशः ॥ २२ ॥

तदेव विशदयति - स्वप्नेति । अबुद्धस्य अप्रबुद्धस्य ॥ २२ ॥

स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः ।
परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥ २३ ॥

शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् ।
कल्प्यते कारणं किञ्चित्सा मौर्ख्याभिनिवेशिता ॥ २४ ॥

अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् ।
स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥ २५ ॥

यद्यवश्यं कारणमपेक्षितं तर्ह्यज्ञातब्रह्मस्वभाव एव तथास्त्वित्याशयेनाह

  • अग्नेरिति । अबुद्धस्याज्ञानोपहितस्यात्मनः स्वभावो वा कारणमिति शेषः ॥ २५ ॥

किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् ।
किं च गन्धर्वनगरे पुरे भित्तिषु कारणम् ॥ २६ ॥

मनोरथकल्पितनगरवद्ध्यातृभेदेन व्यवस्थिताकारत्वादपि न
सर्वसाधारणमेकं कारणं सुवचमित्याशयेनाह - किमिति ॥ २६ ॥

धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् ।
देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥ २७ ॥

धर्माधर्मयोस्तु अमूर्तत्वादेव मूर्तदेहाद्युपादानकारणता न सम्भवतीति
कर्ममीमांसककल्पनमपि निराचष्टे - धर्मादीति । अमुत्र परलोके ॥ २७ ॥

भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः ।
किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥ २८ ॥

विज्ञानवादिमतेऽप्यमूर्तस्य क्षणिकस्य च विज्ञानस्य मूर्ता क्षणिकोपादानता
दुर्वचेत्याह - भित्तीति । भित्तयः स्थूलकुड्यादयः अभित्तयस्तद्विलक्षणाः
परमाणवः । उत्पन्नध्वंसिनामित्युक्त्या कार्यानुकूलव्यापारस्य कार्यसम्बन्धस्य
च क्षणिकेष्वसम्भवः सूचितः ॥ २८ ॥

स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि ।
यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पना ॥ २९ ॥

स्वभाववादिनश्चार्वाकस्य मतं निरस्यति - स्वभावस्येति । अङ्कुरादिस्वभावस्य
कालक्षेत्रजलादिसहितबीजादिस्वभावोऽसौ कारणमिति चार्वाकैर्यदुच्यते सा उक्तिरपि
बीजस्वभावपदयोरर्थभेदानिरूपणादङ्कुरस्वभावस्येत्यत्रत्यस्वभावपदे
षष्ठ्यर्थसम्बन्धस्यापि दौर्लभ्यान्नानार्थत्वे उभयत्रापि पर्यायतया
सहप्रयोगानापत्तेः सकलसाधारणस्वभावत्वसामान्याप्रसिद्धेः
प्रातिस्विकरूपापरामर्शप्रसङ्गाच्चैकार्थ्याघटनाच्च निरर्थिकोक्तिः सेत्यर्थः ॥ २९

तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् ।
अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥ ३० ॥

अतः परिशेषात्स्वाभिमतं सिद्धं दर्शयति - तस्मादिति । तस्मात् सर्वे
भावास्तत्कारणं चेत्यखिलमज्ञे अकारणा भ्रान्तिरेव ज्ञे तु सन्मात्रात्मना
स्थितमेव कार्यं कारणात्तस्मादेव चिच्चमत्काररूपेणाविर्भवति तिरोभवति चन
तद्व्यतिरिक्तमणुमात्रमप्यस्तीत्यर्थः ॥ ३० ॥

यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः ।
न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥ ३१ ॥

अत एव ज्ञस्याज्ञकृतैरपराधकोटिभिरप्यन्तर्दुःखं न जायत इत्याह -
यद्वदिति । स्वप्ने द्रव्यापहारिभिश्चोरैः कृतं ताडनबन्धनादिकं प्रबुद्धस्य
स्वप्नमिथ्यात्वपरिज्ञानाद्यद्वद्दुःखाकरणं पीडासम्पादकं न
तद्वत्तत्त्वदर्शनोत्तरं जीवनमपि दुःखाकरणं नेत्यर्थः । सुख दुःख
तत्क्रियायाम् इति डाच् ॥ ३१ ॥

सर्गादावेव नोत्पन्नं दृश्यन्न् चिद्गगनं त्विदम् ।
स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥ ३२ ॥

अन्यद्दुःखं तन्निमित्तं च ॥ ३२ ॥

अन्या न काचित्कलना दृश्यते सोपपत्तिका ।
अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥ ३३ ॥

अस्मान्न्यायादृते अन्या कलना अन्यादृशी वादिनां कल्पना अत एषा जगत्कलना
ब्रह्मानुभूतिभूरेवेत्यर्थः ॥ ३३ ॥

ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा ।
तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥ ३४ ॥

स्पन्दावर्तविवर्तादि निर्मले पवने यथा ।
तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥ ३५ ॥

यथानन्तत्वसौषिर्यशून्यत्वादि महाम्बरे ।
स सन्नासन्नबोधात्म तथा सर्गः प्रापरः ॥ ३६ ॥

आसन्नो बोधात्मा येन तथाविधं सत् स प्रसिद्धः सन् आकाश एव तथेत्यर्थः । न सन्
इति पाठे स्पष्टम् ॥ ३६ ॥

एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् ।
भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥ ३७ ॥

कुतः सन्नेव तत्राह - एष्विति । यतः सदनन्यात्मका इत्यर्थः ॥ ३७ ॥

सर्गप्रलयसंस्थानान्येवमात्मनि चिद्घने ।
सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥ ३८ ॥

स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा ।
सर्गात्सर्गान्तरात्मास्ते [अन्तराण्यास्ते इति पाठः ।] स्वसत्तायामजस्तथा ॥
३९ ॥

अजः जन्मादिशून्यः परमात्मा स्वयमेव सर्गात्सर्गान्तरात्मना आस्ते ॥ ३९ ॥

पृथ्व्यादिरहितोऽप्येष ब्रह्माकाशो निरामयः ।
अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥ ४० ॥

स्थिता यथास्यां पश्यन्त्यां शब्दा घटपटादयः ।
जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥ ४१ ॥

पश्यन्त्यां साम्प्रतिकसर्वदर्शनात्मनि । जाताः पूर्वतना अजाता भविष्यन्तः ॥ ४१ ॥

पश्यन्त्यामेव पश्यन्ती यथा भाति तथैव च ।
यथा शब्दास्तथा सर्गाश्चितैव चिति चिन्मयाः ॥ ४२ ॥

यदा अनन्ये तदा शब्दास्तदर्थभूतसर्गाश्च ब्रह्मणि सन्तीत्युक्तिः पश्यन्त्यामेव
पश्यन्ती तिष्ठतीत्यभिन्नायामेव भेदोपचारेणौपचारिके आधाराधेयभावे
पर्यवस्यतीत्याह - पश्यन्त्यामेवेति ॥ ४२ ॥

किं शास्त्रकं तत्रकथाविचारैर्न्निर्वासनं जीवितमेव मोक्षः ।
सर्गे त्वसत्येवमकारणत्वात्सत्येव नास्त्येव न नाम काचित् ॥ ४३ ॥

यदा श्ब्दाः सर्गाश्च चिन्मया एव तदा तत्र कृतकार्यं शास्त्रमपि
शास्याभावान्मोक्षफलस्य पृघगसत्त्वान्निरसनीयप्रपञ्चबन्धाभावाच्च
निवर्तत इत्याह - किमिति । शास्त्रमेव शास्त्रकं तत्र किम् । तत्रत्यकथाविचारैश्च
किम् । यतः शास्त्रफलं निर्वासनं जीवितमेव मोक्षः सिद्धः । एवं वर्णितरीत्या
अकारणत्वात्सर्गे असति नानाप्रपञ्चरचना प्रत्यक्षं सत्येव काचिन्न च नास्त्येवेति
निःशेषं मार्जितेत्यर्थः ॥ ४३ ॥

एषा च सिद्धेह हि वासनेति सा बोधसत्तैव निरन्तरैका ।
नानात्वनानारहितैव भाति स्वप्ने चिदेवेह पुरादिरूपा ॥ ४४ ॥

या चैषा वासनेतीह प्रपञ्चबीजतया भाति सा नानात्वेन नानात्वरहिता बोधसत्तैव
भाति । यथा इह प्रत्यक्षे स्वप्ने चिदेव पुरादिरूपा भाति तद्वदित्यर्थः ॥ ४४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु सत्यवर्णनं
नाम सप्तसप्तत्यधिकशततमः सर्गः ॥ १७७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सत्यवर्णनं नाम सप्तसप्तत्यधिकशततमः सर्गः ॥ १७७ ॥