१७६

षट्सप्तत्यधिकशततमः सर्गः १७६

श्रीराम उवाच ।

जगन्ति सन्त्यसङ्ख्यानि भविष्यन्ति गतानि च ।
तत्कथाभिः कथं ब्रह्मन्प्रबोधयसि मामिमम् ॥ १ ॥

स्वप्नवद्भान्ति सर्गादौ ब्रह्माण्डाश्चिदणाविति ।
अत्रार्थे ब्रह्मणा प्रोक्तं ब्रह्माण्डाख्यानमीर्यते ॥

यदि दृश्यमसदिति दृश्यबाधेन चिन्मात्रपरिशेष एव पुरुषार्थस्तर्हि समूलस्य
वर्तमानस्यैव दृश्यस्य जगतो बन्धतया तन्मार्जनमेवोपयुज्यते न
त्वतीतानागतानामप्रतीयमानानामवर्तमान जगतामपि । तेषामप्रतीत्यैव
बन्धत्वाप्रस्क्तेस्तथा च तदुपन्यासः शास्त्रे व्यर्थ एवेत्याशयेन रामः शङ्कते

  • जगन्तीति ॥ १ ॥

श्रीवसिष्ठ उवाच ।

जगत्स्वप्नेषु शब्दार्थसम्बन्धोऽवगतस्त्वया ।
न नाम न च लोकेन व्यर्थं तत्कथनं ततः ॥ २ ॥

वर्तमानदृश्यमात्रमेवोपन्यासार्हं नातीतं भविष्यद्वा किञ्चिदपीति त्वदाक्षेपो
निष्कर्षे फलति । तत्तु न युक्तम् पदपदार्थसम्बन्धस्य व्याप्तिग्रहस्य च
दृष्टान्तसिद्ध्यादीनां चातीतव्यवहाराधीनत्वेन तदुपन्यासं विना
विचारात्मकशास्त्रप्रवृत्त्ययोगात् । तस्मादतीतानागतब्रह्माण्डा
वर्तमानब्रह्माण्डान्तराणि च
शब्दार्थसम्बन्धग्रहादावनुपयोगान्नोपन्यसनीया इत्येतावानाक्षेपः कर्तुं
युक्तश्चेदस्तु नामेत्यनास्थया अभ्युपगच्छन्निव भगवान्वसिष्ठ उत्तरमाह -
जगत्स्वप्नेष्वित्यादिना । लोकेन एतच्छास्त्रार्थश्रवणाधिकृतजनेन ॥ २ ॥

या कथावगतात्मभ्यां शब्दार्थाभ्यां निगद्यते ।
बुध्यते सेतरा नान्तः सैवेह व्यवहारिणी ॥ ३ ॥

अवगतात्मभ्यां निश्चितवाच्यवाचकभावाभ्यां व्यवहारिणी व्यवहारोपयुक्ता
नान्येति केवललौकिकबुद्ध्यनुसारेण पर्यालोचने त्वया सम्यगाक्षिप्तमित्यर्थः ॥ ३ ॥

यदा विदितवेद्यः संस्त्रिकालामलदर्शनः ।
भविष्यसि तदा तानि प्रत्यक्षेणैव भोत्स्यसे ॥ ४ ॥

तत्त्वज्ञेषु प्रसिद्धं त्रिकालमलदर्शनं यदि पर्यालोचयिष्यसि तदा सर्वत्र स्वस्यैव
द्रष्ट्टत्वादतीतानागतव्यवहितविप्रकृष्टानन्तब्रह्माण्डानां वर्तमानस्यास्य
ब्रह्माण्डस्य च विशेषलेशस्याप्यभावान्नायं तवाक्षेप
उत्थातुमर्हतीत्याशयेनाह - यदेति । वर्तमानाया अपि तत्त्वदृष्टेरपर्यालोचनेन
वृथात्वापादनात्परिहासेन भविष्यसि भोत्स्यसे इति च भविष्यत्त्वारोपेणोक्तिः ॥ ४ ॥

स्वप्ने चिन्मात्रमेवाद्यं स्वयं भाति जगत्तया ।
यथा तथैव सर्गादौ नात्रान्यदुपपद्यते ॥ ५ ॥

तत्त्वविदो वर्तमानब्रह्माण्डान्तरेषु भविष्यद्ब्रह्माण्डेषु च
पुनरावृत्तिशङ्कावारणाय तेषामपि स्वप्नप्रपञ्चसाम्येन मूलाज्ञानबोधेन
बाधप्रतिपादनाय तेऽपि शास्त्रे अवश्यमुदाहरणीया एवेत्याशयेनाह - स्वप्ने इति ।
सर्गादौ अतीतानागतादिसर्वसर्गादौ इत्येतावानंशस्तत्राप्युपयुज्यते
नान्यत्तद्वैचित्र्यं प्रकृतोपयुक्तमत्रोपपद्यत इत्यर्थः ॥ ५ ॥

अणावणावसङ्ख्यानि तेन सन्ति जगन्ति खे ।
तेषां तान्व्यवहारौघान्सङ्ख्यातुं क इव क्षमः ॥ ६ ॥

तत्कुत इति चेदसङ्ख्यत्वेन तद्वैचित्र्येयत्तायाः शास्त्रे
वर्णयितुमशक्यत्वादित्याशयेनाह - अणावणाविति ॥ ६ ॥

अत्रैव मे पुरा प्रोक्तं मत्पित्रा पद्मजन्मना ।
पद्मरेणुमताख्यानं शृणु तत्कथयामि ते ॥ ७ ॥

अत्र अणावणावसङ्ख्यानि इत्युक्तेऽर्थे पद्मरेणुमता पद्मपरागकीर्णदेहेन
मत्पित्राऽऽख्यानं मे प्रोक्तं तच्छृणु ॥ ७ ॥

पुरा पृष्टो मया ब्रह्मा जगज्जालमिदं कियत् ।
क्व वा भातीति वद मे ब्रह्मोवाच ततः स माम् ॥ ८ ॥

श्रीब्रह्मोवाच ।

ब्रह्मैवेदं मुने सर्वं जगदित्यवभासते ।
सतामनन्तं सत्त्वेन जगत्त्वेनासतामपि ॥ ९ ॥

शुभं ममेदमाख्यानं शृणु श्रवणभूषणम् ।
ब्रह्माण्डपिण्ड इत्युक्तं ब्रह्माण्डाख्यानमेव च ॥ १० ॥

तस्य आख्यानस्य द्वे नामनी आह - ब्रह्माण्डपिण्ड इति । अन्वर्थनाम्ना उक्तं
प्रसिद्धम् ॥ १० ॥

अस्ति खे खादनन्यात्मा चिद्व्योमपरमाणुकः ।
शून्यरूपमिवाकाशे शुद्धः स्पन्द इवानिले ॥ ११ ॥

तदेव वक्तुमारभते - अस्तीत्यादिना । अनिले शुद्धः स्पन्द इव स्वसत्तामात्रेण
जगच्चेष्टाहेतुः ॥ ११ ॥

सोऽपश्यदात्मना स्वप्न इव जीवत्वमात्मनि ।
शून्यरूपमिवाकाशं पवनः स्पन्दनं यथा ॥ १२ ॥

स चिद्व्योमपरमाणुकः स्वतत्त्वादर्शननिद्रावशात्स्वप्न इवात्मनो जीवत्वं
समष्टिजीवत्वमपश्यत् । यथा वस्तुभूतमेवाकाशं स्वमसदेव शून्यत्वं
पश्येत्तद्वत् । यथा वा पवनः स्वं स्पन्दनं पश्येत्तद्वच्च ॥ १२ ॥

आकाशरूपमजहदेव जीवस्ततः स्वयम् ।
अपश्यदहमित्येव रूपमाकाशरूपकम् ॥ १३ ॥

तर्हि स किं परिणामी नेत्याह - आकाशरूपमिति ।
आकाशरूपमविकारितामसङ्गतां पूर्णतां सूक्ष्मतां च ।
आकाशरूपकमाकाशप्रतिममहमित्येव जीवः स्वं रूपमपश्यत् ॥ १३ ॥

अहङ्कारस्त्वहम्बुद्धिरित्येवापश्यदात्मनि ।
एकनिश्चयनिर्माणमयी मायानुरूपिणी ॥ १४ ॥

सः अहङ्काररूपस्त्वहमात्मनि बुद्धिरित्येव रूपमपश्यत् । सा च
बुद्धिरेकनिश्चयनिर्माणमयी मायायाश्चानुरूपिणी असदर्थभ्रमदायित्वादित्यर्थः
॥ १४ ॥

बुद्धिर्मनोहमित्येवं स्वप्ने पश्यदसन्मयम् ।
नमयन्त्यात्मनात्मानमविकल्पं विकल्पनैः ॥ १५ ॥

विकल्पनैर्विकल्पाभासारोपणैरात्मना आत्मानं नमयन्ती न्यग्भावयन्ती ॥ १५ ॥

अपश्यत्तन्मनः स्वप्ने देहे पञ्चेन्द्रियं ततः ।
अनाकारं घनाकारं स्वप्नाद्रित्वमिवाज्ञधीः ॥ १६ ॥

ददर्श स मनोदेहो वपुस्त्रिभुवनात्मकम् ।
खात्मा खात्मैव निर्भित्ति भित्तिभासुरमाततम् ॥ १७ ॥

स चिद्व्योमपरमाणुक इत्थं मनोदेहसमष्ट्यात्मा संस्त्रिभुवनात्मकं
विराड्वपुर्ददर्श ॥ १७ ॥

अनेकभूतकलितं नानास्थावरजङ्गमम् ।
कलनाकालकलितं कल्पितान्योन्यसङ्गमम् ॥ १८ ॥

विराड्वपुर्वर्णयति - अनेकेति ॥ १८ ॥

स्वप्ने प्रत्येकमेवात्र पश्यत्यादर्शबिम्बितम् ।
इव त्रैलोक्यनगरं नवरङ्गमनोहरम् ॥ १९ ॥

व्यष्टिजीवभेदकल्पनेन प्रत्येकं त्रैलोक्यद्रष्ट्टतायां दृष्टान्तमाह -
स्वप्ने इति । नवरङ्गाः द्रष्टा दृश्यं दृष्टिः भोक्ता भोग्यं भोगः कर्ता
कार्यं क्रियेति तिस्नस्त्रिपुट्यस्तैर्मनोहरम् ॥ १९ ॥

अथ प्रत्येकमत्रापि नवरङ्गमनोहरम् ।
त्रिजगद्वेत्ति हृदये स्वादर्श इव बिम्बितम् ॥ २० ॥

तद्दार्ष्टान्तिकमाह - अथेति । प्रत्येकं प्रतिजीवम् ॥ २० ॥

परमाणोः परमाणोरिति सन्ति तनूदरे ।
अतनूनि जगन्त्युच्चैर्घनानीव च तान्यपि ॥ २१ ॥

एवं जीवभेदेन विविक्तस्य चित्परमाणोः सर्वस्यापि तनुनि अतिसूक्ष्मेऽप्युदरे इति
वर्णितरीत्या कल्पितानि अतनूनि महान्ति जगन्ति सन्ति । तान्यपि उच्चैर्जीवघनैः
पृथ्व्यादिघनैश्च घनानीव ॥ २१ ॥

अविद्येयमनन्तेयमविद्यात्वेन चेतिता ।
ब्रह्मत्वेन परिज्ञाता भवति ब्रह्म निर्मलम् ॥ २२ ॥

इयं च सर्वा स्वतत्त्वाज्ञानलक्षणा अविद्यैव । सा ज्ञानेन निवारिता चेद्ब्रह्म
निर्मलम् ॥ २२ ॥

एवं द्रष्टापि यः स्वप्नजालं दृष्टे न किञ्चन ।
कोऽत्र द्रष्टा कुतो दृश्यं क्व द्वैतं क्व च कारणम् ॥ २३ ॥

ब्रह्मत्वेन दृष्टे सति योजगत्स्वप्नजालं द्रष्टा सोऽपि न किञ्चन ॥ २३ ॥

सर्वं निःशान्तमाभातं खात्म निर्भित्ति केवलम् ।
ब्रह्मात्मनि स्थितं स्वच्छमाद्यन्तपरिवर्जितम् ॥ २४ ॥

निर्भित्ति निर्भेदं ब्रह्म आत्मनि स्वस्वरूपे स्थितम् ॥ २४ ॥

ब्रह्माण्डलक्षनिचयाः परमात्मनीति नित्यं स्थिता निपुणमन्यवदप्यनन्ये ।
वारिण्यवारितविसारितरङ्गवेगाल्लोलं स्थिताम्बुपरमाणुचया यथैते ॥ २५ ॥

तथा च परमात्मनि यावदज्ञाननिद्रास्ति तावत्परमात्मनि ब्रह्माण्डलक्षनिचया इति
वर्णितप्रकारेण नित्यमनन्ये अपि अन्यवत्स्थिताः । यथा वारिणि समुद्रे एते
अवारितविसारितरङ्गवेगान्निमित्ताल्लोलं स्थितस्याम्बुनः परमाणुचया असङ्ख्याताः
स्थितास्तद्वदित्यर्थः ॥ २५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० ब्रह्मगीतासु
ब्रह्माण्डोपाख्यानं नाम षट्सप्तत्यधिकशततमः सर्गः ॥ १७६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ब्रह्माण्डोपाख्यानं नाम षट्सप्तत्यधिकशततमः सर्गः ॥ १७६ ॥