१७५

पञ्चसप्तत्यधिकशततमः सर्गः १७५

श्रीवसिष्ठ उवाच ।

स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् ।
दृश्यान्यताऽसम्भवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥ १ ॥

यावन्मौर्ख्यं चिदेवाभात्यकारणम् ।
शास्त्रेण मौर्ख्येऽपहृते सा मुक्तेतीह वर्ण्यते ॥

इयं सृष्टिस्तदस्तिता चानन्यरूपिणीत्युक्ते चितः सर्गः शरीरमेवेत्याशङ्कां
प्रसक्तां निराकरोति - स्वप्नाभमिति । आद्यं हि चिद्व्योम स्वाविद्यया स्वप्नाभं
भूत्वा जीवभावेन संसरद्देवोऽहं मनुष्योऽहमित्यादि
तत्तद्देहतादात्म्याध्यासानां कामकर्मवासनादिद्वारा कारणं जीवोपाधिसिद्धेः
पूर्वं महाप्रलये स्वप्नाब्भत्वप्राप्तौ तु दृश्यान्यताऽसम्भवतो
निमित्तादिसिद्धेस्तत्सर्गरूपं दृश्यं तस्य चिद्व्योम्नो वपुः शरीरं कुतो
निमित्ताद्भवेदित्यर्थः ॥ १ ॥

सर्गादौ स्वप्नसंवित्तिरूपं सर्वं विनानघ ।
न सर्गो न परो लोको दृश्यमानोऽपि सिद्ध्यति ॥ २ ॥

स्वप्नसंवित्तिरूपेणैव जीवभावसमकाला सर्गादिसिद्धिर्न निमित्तान्तरादित्याह -
सर्गादाविति ॥ २ ॥

असदेवानुभूरित्थमेवेदं भासते जगत् ।
स्वप्नाङ्गनासङ्ग इव शान्तं चिद्व्योम केवलम् ॥ ३ ॥

नापि चिद्व्योम्नो वास्तवो जीवभावो जगद्भावो वास्ति येन जगत्तस्य शरीरं भवेदित्याह

  • असदेवेति । अनुभवतीत्यनुभूरनुभवैकरसश्चिदात्मा इत्थमसदेव जगद्भूत्वा
    स्वाविद्यया भासते ॥ ३ ॥

एवन्नामास्ति चिद्धातुरनादिनिधनोऽमलः ।
शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥ ४ ॥

तर्हि किमनुभूतिरप्यसती नेत्याह - एवन्नामेति । यो जगदित्यवभाति स
जगच्छून्यात्मैवाच्छरूपश्चिद्धातुरस्ति ॥ ४ ॥

मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् ।
कुतः किल परे व्योमन्यनादिनिधने मलः ॥ ५ ॥

एष परमात्मैव यावदपरिज्ञातस्तावन्मलः अविद्यैव । तत्र संसरन् जीव इव
पृथगिव भवति । परिज्ञातस्तु परं निर्मलं ब्रह्मैव भवेत् । स यो ह वै
तत्परमं ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतेरिति भावः । ब्रह्मभावे त्वस्य
मलप्रसक्तिरेव नास्तीत्याह - कुत इति । प्रबोधेन स्वप्नस्येव बाधादिति भावः ॥ ५ ॥

यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् ।
जगत्तदेव सर्गादौ पृथ्व्यादेः सम्भवः कुतः ॥ ६ ॥

स्वप्नसाम्यं तु कारणासम्भवाद्बहुशः प्रसधितमेव
पुनर्दृढीकारायानुवदति - यदित्यादिना ॥ ६ ॥

चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी ।
कृता पृथ्व्यादिकलना मनोबुद्ध्यादिता तथा ॥ ७ ॥

वार्यावर्त इवाभाति पवनस्पन्दवच्च यत् ।
अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥ ८ ॥

पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना ।
कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥ ९ ॥

पश्चाज्जगद्भानानन्तरं जीवभावेन तदनुप्रविश्य हिरण्यगर्भोऽहं
भुवनस्रष्टेत्यैश्वर्यशंसिना बुद्ध्यादिपृथ्व्यादिनामरूपव्याकरणलक्षणं
कल्पनं कृतम् । सदसन्मयं मूर्तामूर्तप्रचुरम् सत्यानृतमिथुनीकरणरूपं
वा ॥ ९ ॥

स्वयमेव कचत्यच्छाच्छा येयं स्वा महाचितिः ।
सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥ १० ॥

अच्छादप्यच्छा येयं महाचितिः सा स्वयमेव जगद्रूपेण कचतीति जगच्चिन्नभ एव
नेतरत् ॥ १० ॥

न च किञ्चन नामाङ्ग कचत्यच्छैव सा स्मृता ।
चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥ ११ ॥

अनया पर्यालोचनया हे अङ्ग न किञ्चन कचति । चिन्मात्रलक्षणं यदेकमेवैकं
तत्कलनमेव वा इत्थमात्मनि ततम् ॥ ११ ॥

चिदाकाशश्चिदाकाशे तदिदं स्वमलं वपुः ।
चित्तं दृश्यमिवाभाति यथा स्वप्ने तथा स्थितम् ॥ १२ ॥

स्वं अलं पूर्णं वपुः स्व्रूपम् । अज्ञातं तदेव स्वमलं वपुरिति वा । चित्तमिव
तद्दृश्यमिव च ॥ १२ ॥

अन्यथानुपपत्त्यार्थकारणाभावतः [अर्थस्य सत्यस्य
कारणान्तरस्याभावतश्चेत्यर्थः ।] स्वतः ।
सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥ १३ ॥

अन्यथानुपपत्त्या प्रकारान्तरेण वादिसहस्रैरपि सर्गोपपादनासम्भवात्परिशेषात् ॥
१३ ॥

स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥ १४ ॥

उपपादितं जगद्वपुष्ट्वनिरासमुपसंहृत्य शिष्टमवधारयति - तस्मादिति ।
चिद्व्योम चिद्व्योमेति अवधारणार्थं वीपसा ॥ १४ ॥

यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥ १५ ॥

स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते ।
नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥ १६ ॥

उक्तमेव निष्कृष्य पुनरनूद्य दृष्ट्यन्तरमाह - स्वप्ने इत्यादिना ॥ १६ ॥

ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् ।
रूपमत्यजदेवाच्छं मनस्तामिव गच्छति ॥ १७ ॥

इदं सर्वं तनोतीव तच्च खात्मकमेव खम् ।
भवतीव जगद्रूपं विकारीवाविकार्यपि ॥ १८ ॥

तच्च मनःसमष्टिरूपेण इदं सर्वं तनोतीव ॥ १८ ॥

मन एव स्वयं ब्रह्मा स सर्गस्य हृदि स्थितः ।
करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥ १९ ॥

ब्रह्मा हिरण्यगर्भः ॥ १९ ॥

पृथ्व्यादिरहितो यस्मिन्मनोहृद्यङ्गवर्जिते ।
अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥ २० ॥

पृथ्व्यादिरहितः स मनोरूपो ब्रह्मा अङ्गवर्जिते स्वहृद्येव यस्य जगतो हृदि
स्वयं स्थितस्तस्मादन्यद्वा त्रिजगद्भूत्वा स्वयं भाति ॥ २० ॥

देहरूपजगद्रूपैरहमेकमनाकृति ।
मनस्तिष्ठाम्यनन्तात्म बोधाबोधं पराभवम् ॥ २१ ॥

स्वाविद्यया पूर्णभावपराभवं प्राप्य तन्मन एवाहमाकारेण
देहजगद्रूपैरनन्तात्म भूत्वा बोधाबोधरूपं तिष्ठतीत्याह - देहेति ॥ २१ ॥

नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता ।
जगत्तया केवलं खं मनः कचकचायते ॥ २२ ॥

विचार्यदृष्ट्यैतदपि न किञ्चिदपि विद्यते ।
केवलं भाति चिन्मात्रमात्मनात्मनि निर्घनम् ॥ २३ ॥

वर्णितदृष्ट्यन्तरमुपसंहरन्प्रकृते योजयति - विचार्येति । नितरां घनं
निर्घनम् ॥ २३ ॥

यतो वाचो निवर्तन्ते तूष्णीम्भावोऽवशिष्यते ।
व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥ २४ ॥

वाङ्मनसागोचरनिरतिशयानन्दलाभेन तूष्णीम्भावो मिश्चलता । सा निश्चलता
व्यवहारकालेऽपि नापैतीत्याह - व्यवहार्यपीति ॥ २४ ॥

अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका ।
तूष्णीम्भूत्वा भव्त्येष प्रबुद्धः पुरुषोत्तमः ॥ २५ ॥

चिन्मात्रलक्षणा परमा इष्टैवेष्टका परमप्रेमास्पदीभूतनिरतिशयानन्दघनता
स्वयं भवतीत्यर्थः । ज्ञानाग्निपरिपाकेन दृढीभावाद्ब्रह्मभूत एवेष्टकेति वा
॥ २५ ॥

अबुद्धिपूर्वं द्रवतो यथाव्र्तादयोऽम्भसि ।
क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥ २६ ॥

एवं मुक्तस्य पुनः कालान्तरे सर्गादिना बन्धप्रसक्तिं वारयितुं
सर्गस्याज्ञानपूर्वकत्वं दर्शयति - अबुद्धिपूर्वमिति ।
अबुद्धिर्बोधनाश्यमज्ञानं तत्पूर्वम् । अविद्यावृतब्रह्मचैतन्यस्यैव
जलादिभावेनावर्तादिविकल्पभाक्त्वाज्जलादेर्दृष्टान्तता ॥ २६ ॥

अबुद्धिपूर्वं वातेन क्रियते स्पन्दनं यथा ।
अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥ २७ ॥

अनन्यदात्मनो वायोर्यथा स्पन्दनमव्ययम् ।
अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥ २८ ॥

चिन्मात्रं सर्वे चिदाभासलक्षणा जीवा आत्मनः प्रत्यग्रूपात्परमात्मनोऽनन्यत् ॥२८ ॥

चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति ।
परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥ २९ ॥

अत एव जीवानामपि ब्रह्मपर्यायात्मता मतेत्याशयेनाह - चिद्व्योमेति ॥ २९ ॥

ब्रह्मोन्मेषनिमेषात्म स्पन्दास्पन्दात्म वातवत् ।
निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥ ३० ॥

अविद्यावृतं हि ब्रह्म चक्षुरिव उन्मेषनिमेषात्म वातवत् स्पन्दास्पन्दात्म वा । अस्य
यादृगेव प्रलयात्मको निमेषस्तादृगेव सर्गात्मक उन्मेषो जगदित्यर्थः ॥ ३० ॥

दृश्यस्य समुन्मेषो दृश्याभावो निमेषणम् ।
एकमेतन्निराकारं तद्द्व्योरप्युपक्षयात् ॥ ३१ ॥

यथा उन्मेषनिमेषयोः साधारणं चक्षुर्गोलकमेकं
तत्रैवोन्मेषनिमेषयोरुपक्षयात्तथा ब्रह्मापीत्याह - एकमेतदिति ॥ ३१ ॥

निमेषोन्मेषयोरेकरूपमेव परं मतम् ।
अतोऽस्ति दृश्यं नास्तीति सदसच्च सदा चितिः ॥ ३२ ॥

अतश्चितेः सकाशादेव दृश्यस्यास्ति नास्तीति स्फुरणाद्दृश्यं सदसच्च चितिस्तु सदा
सत्तैकरूपैवेत्यर्थः ॥ ३२ ॥

निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः ।
ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥ ३३ ॥

उन्मेषनिमेषावपि तद्धेतुपक्ष्मसहितचक्षुःस्थानीयशबलब्रह्मात्मना
परस्पराभिन्नावेवेत्याह - निमेष इति ॥ ३३ ॥

तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः ।
अजातमजरं व्योम सौम्यं समसमं जगत् ॥ ३४ ॥

अनया दृष्ट्या यत्सिद्धं तदाह - तदिति । समेन
निमेषोन्मेषसाधारणब्रह्मरूपेण सममेकरसम् ॥ ३४ ॥

चिदचित्यात्मकं व्योम रूपं कचकचायते ।
चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥ ३५ ॥

यथा व्योम स्वाध्यस्तनैल्यरूपं कचकचायते तथा चिदपि अचित्यात्मकमिव
कचकचायते ॥ ३५ ॥

न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते ।
स्वय चमत्करोत्यन्तः केवलं केवलैव चित् ॥ ३६ ॥

महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् ।
अनन्यान्येव भातापि भानुभास इवोष्णता ॥ ३७ ॥

महाचिद्व्योममणेर्भा प्रभा निजाकरान्मणेः सकाशादनन्या ॥ ३७ ॥

सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव् सर्गवत् ।
सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥ ३८ ॥

यद्यत्संवेद्यते यादृक्सद्वाऽसद्वा यथा यदा ।
तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥ ३९ ॥

सत् भावरूपं वा यद्यच्चिता यथा संवेद्यते प्रकाश्यते तथा
चिदाभासेनानुभूयते ॥ ३९ ॥

अन्यथानुपपत्त्या चेत्कारणं परिकल्प्यते ।
तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥ ४० ॥

जगतो जडत्वान्यथानुपपत्त्या तदनुरूपं प्रधानपरमाण्वादिकारणं परिकल्प्यते
चेत्तत्तर्हि स्वप्ने आभातीति स्वप्नाभः प्रपञ्चः
प्रधानपरमाण्वादिभिर्निर्वोढुमशक्यत्वादात्मन एव जगद्भावं विहाय
नोपपद्यत इत्यर्थः । तत्रात्मन एव जगद्भावाभ्युपगमे तन्न्यायेन सर्गादावपि
ब्रह्मैव जगद्वेषं करिष्यतीति तेन प्रधानपरमाण्वादिकल्पनं विरुद्धमिति
भावः ॥ ४० ॥

प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः ।
प्रमातीतमिदं चैव किञ्चिन्नाभ्युदितं ततः ॥ ४१ ॥

एवं च सति जगतः प्रमाणाविषये ब्रह्मण्यध्यासात्स्वप्नवदनिर्वचनीयतालक्षणा
प्रमाणानिर्धार्यरूपतापि सेत्स्यतीत्यद्वैताविरोधादपरमनुकूलमित्याह -
प्रमातीतादिति ॥ ४१ ॥

यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति ।
ब्रह्मैकरसिकं तेन मनस्तत्तां समश्रुते ॥ ४२ ॥

अत एव ब्रह्मरसिकानां चित्तं जगद्ब्रह्मैव पश्यतीति तदनुभवानुसारोऽपि जात इत्याह

  • यस्येति ॥ ४२ ॥

यच्चित्तो यद्गतप्राणो जनो भव्ति सर्वदा ।
तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥ ४३ ॥

ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् ।
यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥ ४४ ॥

विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् ।
व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥ ४५ ॥

यस्य जन्तोश्चित्तं दृढन्निश्चयेन यत्र विश्रान्तं तस्य तदेव परमार्थसत् । अत एव
ब्रह्मविन्नास्तिकश्च स्वनिश्चितान्यद्यागदानादि करोति तत्केवलं
लोकसङ्ग्रहार्थव्यवहृत्यै अतद्रसमनिच्छमेव बलादिव करोतीत्यर्थः ॥ ४५ ॥

द्वित्वैकत्वादिकलना नेह काचन विद्यते ।
सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥ ४६ ॥

इत एतस्मान्मदुक्तोपायतश्चेज्जगदवलोक्यते तदा इदं सर्वं सत्तामात्रं इयं
दृगेव । द्वित्वैकत्वकलना इह काचन न विद्यते ॥ ४६ ॥

अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह ।
नैवास्ति न च नास्त्येव कर्ता भोक्ताऽथवा क्वचित् ॥ ४७ ॥

अदृश्यं ब्रह्मैव दृश्यं सदसन्मूर्तममूर्तं चेति दृग्येषां तेषां इह
कर्ता भोक्ता वा जीवो नैवास्ति नापि नास्त्येव । तस्यैव ब्रह्मतया परिशेषादित्यर्थः ॥ ४७

इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि ।
ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥ ४८ ॥

अज्ञानां पान्थानां चोरसन्देहभ्रान्त्यादियोग्ये कान्ताराध्वनि स्थाणुरिव स्थितम् ॥
४८ ॥

यदेव ब्रह्म बुद्ध्यादि तदेवैतन्निरञ्जनम् ।
यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥ ४९ ॥

बुद्ध्यादि बुद्धिसमष्टिहिरण्यगर्भादि जगत् ॥ ४९ ॥

केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः ।
द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥ ५० ॥

तथा बुद्ध्यादि देहादि वेदनादि परापरे ।
अनेकान्यप्यनन्यानि शून्यत्वानि यथाम्बरे ॥ ५१ ॥

परापरे सर्वसामान्यात्मके ब्रह्मणि शून्यत्वानि घटपटाद्यभावाः सर्वे ॥ ५१ ॥

सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा ।
सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥ ५२ ॥

सर्गस्थस्य स्वाप्नसर्गस्थस्यापि स्वस्य न द्वित्वं नाप्येकत्वं व्यावर्त्याप्रसिद्धेः ॥
५२ ॥

एवमेव कचत्यच्छा छायेयं स्वा महाचितेः ।
न च किञ्चन नामाङ्ग कचत्यच्छैवमास्थिता ॥ ५३ ॥

छाया कान्तिरविद्या वा ॥ ५३ ॥

चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः ।
चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथस्थितम् ॥ ५४ ॥

अन्यथानुपपत्त्यार्थकारणाभावतः स्व्तः ।
चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥ ५५ ॥

अन्यथानुपपत्त्या वादिसहस्रैरपि सद्वस्त्वतिरिक्तस्योपपादयितुमशक्या अर्थस्य
सत्यस्य कारणान्तरस्याभावतश्च चिद्व्योम स्वतः आत्मानमेव सर्गादौ दृश्यमिति
पश्यतीत्येव पक्षो निरूढ इत्यर्थः ॥ ५५ ॥

सर्गादावेव खात्मैव दृश्यं भाति निराकृति ।
सम्भ्रमः स्वप्नसङ्कल्पमिथ्याज्ञानेष्विवाभितः ॥ ५६ ॥

निराकृति मूर्ताकारतद्विशेषशून्यम् । तच्च भानमभितः सम्यग्भ्रमः
सम्भ्रमः ॥ ५६ ॥

स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥ ५७ ॥

तच्च दृश्यं स्वप्नवन्निर्धर्म सर्वधर्मशून्यं चिद्व्योमैव । यतस्तत्र
मनागपि धर्मो न विद्यते । वस्तुनः परमार्थभूतस्य चिद्व्योम्नो विकारी
सधर्माप्याकारोऽविद्यामलात्प्रतीयत इत्यर्थः ॥ ५७ ॥

तत्स्वप्ननगराकारं सधर्माप्यसध्र्मकम् ।
शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥ ५८ ॥

प्रतीतितः सधर्मापि असधर्मकम् । शिवादधिष्ठानसन्मात्रादनन्यमेव
अज्ञदृशा इत्थं जगदाकारेण निरन्तरमेव स्थितम् ॥ ५८ ॥

दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते ।
तस्माच्चिद्व्योमचिद्व्योम्नः शून्यत्वं गगनादिव ॥ ५९ ॥

न भिद्यते स्वाधिष्ठानात् । तस्माच्चिद्व्योममात्रत्वेन परिशिष्टस्य चिद्व्योम्नो
गगनादपि शून्यत्वमतिसूक्ष्मत्वं सिद्धमित्यर्थः ॥ ५९ ॥

यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥ ६० ॥

स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते ।
पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥ ६१ ॥

ननु स्वप्नकाले सत्सत्यं पुरादिजीवेन रचितमस्तु । अथ रथान् रथयोगान्पथः सृजते
स हि कर्ता इति श्रुतेरित्याशङ्क्याह - न त्विति । न तत्र रथा रथयोगाः पन्थानो
भवन्ति मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् इत्यादिश्रुतिसूत्रैः स्वप्ने
सृष्टिप्रतिषेधान्मायामात्रत्वप्रतिपादनाच्चेति भावः ॥ ६१ ॥

स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा ।
न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसम्भवात् ॥ ६२ ॥

ननु स एवायं देवदत्तस्तदिदं पूर्वदृष्टमेव
मद्गृहमित्याद्यबाधितप्रत्यभिज्ञादिना स्वप्नेऽपि पदार्थाः सत्याः सन्तु तत्राह

  • स्वप्ने चेति । तदिदमिति प्रत्यभिज्ञायमानस्य गृहाद्यर्थस्य
    हृदयकण्ठनाडीच्छिद्रादिदेशे अत्यन्तमसम्भवेन प्रत्यभिज्ञाया असम्भवात् ।
    अर्थासम्भवे तद्गोचरसंस्कारस्मृत्योरप्यसम्भवः स्पष्ट एवेति भावः ॥ ६२ ॥

तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः ।
तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥ ६३ ॥

तस्मादसम्भवादेव प्रसिद्धस्मृत्यादिकं त्यक्त्वा ब्रह्मसंविद एव
निद्रादोषाद्यदन्यथाभानं तस्यैव जाग्रद्दृष्टार्थसादृश्यं कल्पयित्वा
अनुभवव्यवहाराभास इव स्मृत्यादिसादृश्यमपि कल्पयित्वा स्मृत्यादितापि
मूढैरूहितेत्यभ्युपेयमिति शेषः ॥ ६३ ॥

यथा यत्रैव लहरी वारिण्येति पुनः पुनः ।
तत्रैवैति तथा तद्वदनन्या खे परे जगत् ॥ ६४ ॥

सादृश्यादपि सैवेयं लहरी सैवेयं दीपज्वालेत्यादिप्रत्यभिज्ञाभ्रमालोके
प्रसिद्धाः सन्तीत्याह - यथेति । कल्पनाधिष्ठाने खे चिदाकाशविषये अनन्या न तु
कल्पनाविषयेऽपि तथा स्वप्नेऽपि । तद्वत् सर्गादौ जगदपि बोध्यमित्यर्थः ॥ ६४ ॥

विधयः प्रतिषेधाश्च सर्व एव सदैव च ।
विभक्ताश्च विमिश्राश्च परे सन्ति न सन्ति च ॥ ६५ ॥

कल्पनामात्रत्वादेव ब्रह्मणि स दाधार पृथिवीं द्यामुतेमाम् यस्मिन् द्यौः
पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैस्तमेवैकं जानथ आत्मानम्
इत्यादिजगद्विधयो नेह नानास्ति किञ्चन इत्यादिजगत्प्रतिषेधाश्चाविरोधेन समावेशं
लभन्त इत्याह - विधय इति ॥ ६५ ॥

तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते ।
सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥ ६६ ॥

सैव सत्ता ब्रह्मसत्तैव सर्वात्मेत्येतत्सर्वमप्येतदात्मकं सदात्मकं सर्वात्मकं
च ॥ ६६ ॥

भ्रान्तस्य भ्रमणं भूमेर्न भूर्भ्रान्तैव वा गणैः ।
न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥ ६७ ॥

अत एव तत्र सर्वेषां वादिनां सर्वकल्पनानामप्यविरोधेन
समावेशस्त्यक्तकल्पनस्य मोक्षश्चोपपद्यत इत्याशयेनाह - भ्रान्तस्येति ।
क्रीडार्थं भ्रान्तस्य भ्रमतो बालस्य वृक्षगिरिनद्यादिगणैः सह
भूमेर्भ्रमणमन्येषां तु भूर्न भ्रान्तैवेत्युभयमपि सदात्मकम् । भ्रमत्वे
बालस्य भूर्न भ्रमतीति ज्ञातुरपि स्थैर्याभ्यासं विना उपात्ता भ्रमणदृक् न
शाम्यति तद्वज्जगद्भ्रान्तिदृगपीति भावः ॥ ६७ ॥

शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः ।
अभ्यासो दृश्यसंशान्त्यैन भूतो न भविष्यति ॥ ६८ ॥

दृश्यभ्रान्तिशान्त्युपयुक्तः प्रकृते कस्य को वाऽभ्यासः कार्यस्तमाह -
शास्त्रस्येति । अस्य मोक्षोपायस्य शास्त्रस्य यत्तत्त्वज्ञं गुरुं सेवादिना वशीकृत्य
वादनं व्याख्यापनं तत्पूर्वकश्रवणाभ्यासं विना अपरः अन्यः ॥ ६८ ॥

न जीवन्न मृतं चित्तं रोधमायाति संसृतेः ।
अविनाभाविदेहत्वाद्बोधात्त्वेतन्न पश्यति ॥ ६९ ॥

ननु किमेतच्छास्त्राभ्यासेन योगशास्त्रप्रसिद्धचित्तनिरोधादेव
दृश्यादर्शनलक्षणेष्टसिद्धिरित्याशङ्क्याह - नेति । भवेदेतदेवं यदि
चित्तनिरोधः सिद्ध्येत् तत्तु चित्तं संसृत्यविनाभाविस्वरूपत्वाज्जाग्रत्स्वप्नाभ्यां
जीवत्सुषुप्तौ विलयान्मृतं वा यत्नेनापि निरुध्यमानं रोधं नायाति
किन्त्वेतच्छास्त्राभ्यासाधीनाद्बोधादेव बाधितमेतत्संसृतिं न
पश्यतीत्येतदभ्यास एवोपाय इत्यर्थः ॥ ६९ ॥

सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः ।
इह चामुत्र चैतस्य बोधान्ते [बोधात्ते इति टीकानुगुणः पाठः ।]
शाम्यतः स्वयम् ॥ ७० ॥

यथा चित्तं संसृत्यविनाभावि एवं दृश्यरूपा संसृतिरपि
चित्तशरीरोभयाविनाभाविनी । ते च दृश्यशरीरे एतच्छास्त्राभ्यासादसति प्रतिबन्धे
इहजन्मन्येव तत्त्वबोधाच्छाम्यतः । सति तु प्रतिबन्धे अमुत्र जन्मान्तरे वा
प्रतिबन्धक्षये बोधोदयाच्छाम्यतः । तथा च भगवतो वादरायणस्य सूत्रम्
ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् इति ॥ ७० ॥

चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः ।
पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥ ७१ ॥

पवनस्पन्दौ तत्प्रयुक्तमेघसैन्यानि च यथा
तत्प्रयोजकशुक्रास्तोदयादिकारणापायाच्छाम्यन्ति तद्वदित्यर्थः ॥ ७१ ॥

कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः किञ्चित्संस्कृतबुद्धीनां
वाचितादेव शाम्यति ॥ ७२ ॥

किं तर्ह्यत्र चित्तादित्रिकस्य कारणं तदाह - कारणमिति । मौर्ख्यं
ब्रह्मात्मभावावरिका अविद्या ॥ ७२ ॥

अबुद्धमुत्तरग्रन्थात्पूर्वं पूर्वं हि बुध्यते ।
ग्रन्थं पदपदार्थज्ञः खेदवान्न निवर्तते ॥ ७३ ॥

ननु वाचनमात्रेण कथमस्यार्थः सर्वो बुध्यते तत्राह - अबुद्धमिति । न
निवर्तते यदीति शेषः ॥ ७३ ॥

उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये ।
अनन्यसाधारणतां गतमित्यनुभूयते ॥ ७४ ॥

तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् ।
भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥ ७५ ॥

भागमेकमर्धग्रन्थं वा ॥ ७५ ॥

आरुषेयमिदमिति [बहुपुस्तकेषु आऋषेयमिति पाठ उपलभ्यते ।
उभयत्राप्यार्षत्वं समानम् ।] प्रमादाच्चेन्न रोचते ।
तदन्यदात्मविज्ञानशास्त्रं किञ्चिद्विचारयेत् ॥ ७६ ॥

ऋषिणा कृतमिदं शास्त्रं स्मृतिरूपं स्मृतेश्चश्रुतिर्मूलमिति श्रुतिमेव
विचारयिष्याम इति बुद्ध्या प्रमादवशादिदं शास्त्रं न रोचते तत्तर्हि
अन्यच्छ्रुतिरूपमुपनिषद्भाष्यादिरूपमात्मज्ञानशास्त्रमेव विचारयेन्न
त्वात्मशास्त्रविमुखो भवेदित्यत्र नस्तात्पर्यं न त्वत्रैवाग्रह इत्यर्थः ॥ ७६ ॥

अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् ।
बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥ ७७ ॥

ज्ञानसारेण श्रवणाद्युपायेन यथाकथञ्चित्तत्त्वबोधेन सर्वं दृश्यमात्मने
देयमात्मसात्कर्तव्यम् । बाधमुखेनात्मना ग्रसनार्हं कर्तव्यमिति यावत् । देये त्रा
च इति सातिप्रत्ययः । ब्राह्मणसादिदमन्नं कर्तव्यमितिवत् ॥ ७७ ॥

आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते तद्वृथा येन प्रमादः सुमहानहो ॥ ७८ ॥

तत्रालसानुद्योजयति - आयुष इति । स्वर्णादिराशिसहितैः सर्वरत्नैरपि प्रमादस्तस्येति
शेषः ॥ ७८ ॥

अनुभूतमपि च नो सद्दृश्यमिदं द्रष्ट्टसहितमपि ।
स्वप्ननिजमरणबान्धवरोदनमिव सदिव कचितमपि ॥ ७९ ॥

इदं दृश्यं प्रत्यक्षमनुभूतमपि द्रष्ट्रा अन्तःकरणोपहितेन जीवेन सहितमपि
स्वप्ने दैवाद्दृष्टे निजमरणे परितो बान्धवैः कृतं रोदनमिव सदिव कचितमपि
नो सत् मिथ्यैवेति ब्रह्माद्वैतदिग्विजयडिण्डिम इत्यर्थः ॥ ७९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि०
परमार्थगीतास्वद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥ १७५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥ १७५ ॥