चतुःसप्तत्यधिकशततमः सर्गः १७४
श्रीवसिष्ठ उवाच ।
सर्गादौ स्वप्नसंवित्त्या चिदेवाभाति केवला ।
जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम् ॥ १ ॥
स्वप्नस्येव प्रबोधेन कृते दृश्यस्य मार्जने ।
परिशिष्टश्चिदात्मैको वर्ण्यतेऽत्र परं पदम् ॥
यतः सर्गादौ केवला चिदेव स्वप्नवित्संवित्त्या जगदित्यवभासेऽवभातीति प्रसाधितमतो
जगत्त्रयं ब्रह्मैवेति प्रबोधे कैवल्यं सिद्धमित्यर्थः ॥ १ ॥
सर्गास्तरङ्गा ब्रह्माब्धेस्तेषु संवेदनं द्रवः ।
सर्गान्तरं सुखाद्यात्म द्वैतैक्यादीतरत्कुतः ॥ २ ॥
अज्ञप्रसिद्धो दुःखात्मकः सर्गो बोधेन प्रमार्जितः । यत्तु तदनन्तरमपि
जीवमुक्तानां व्यवहाराय जगत्प्रसिद्धं तदानन्दसच्चिदेकरसत्वात्सर्गान्तरमेव
तत्तत्र द्वैतैक्यादीतरत् असुखरूपं कुतो निमित्तात्स्यादित्यर्थः ॥ २ ॥
यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् ।
दृश्यादृश्यांशमेकात्मरूपं चिन्नभसस्तथा ॥ ३ ॥
तेषां तादृशसर्गेणैकरस्याविघाते अज्ञदृशा प्रसिद्धतरं दृष्टान्तमाह
- यथेति । यथा स्वप्ने सुषुप्तिस्वप्नभेदाभासेऽपि निद्रैकरस्यं न विहन्यते
तद्वद्विदेहमुक्तिजीवन्मुक्तिभेदप्रतिभासेऽपि सुखैकरस्यं न विहन्यत इत्यर्थः ॥ ३ ॥
जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् ।
परिज्ञातं भवेदत्र कथमास्था विवेकिनः ॥ ४ ॥
कुतो न दुःखमिति चेद्बाधिते विषये विदुष आस्थाभावादित्याह - जाग्रतीति ॥ ४ ॥
सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् ।
जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत् ॥ ५ ॥
यादृशं यथा बाधितम् ॥ ५ ॥
जाग्रति स्वप्ननगरवासना विदिधा यथा ।
सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा ॥ ६ ॥
दग्धपटवद्वासनामात्रेण स्थितिस्तु न दुःखसमर्थेत्याशयेनाह - जाग्रतीति ।
जाग्रत्यो जाग्रतो भोगाभासार्थमाविर्भूताः ॥ ६ ॥
अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् ।
तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा ॥ ७ ॥
ननु जगतो भ्रान्तिमात्रत्वे तत्त्वबोधेन तन्मूलाज्ञानोच्छेदाद्बाधः स्यात् ।
प्रधानपरमाण्वादिकारणान्तरैरन्यथोपपत्त्या भ्रान्तित्वाकल्पने तु न
बाधप्रसक्तिरिति ततो दुःखं स्यादेवेत्याशङ्क्याह - अन्यथेति । उपप्रपद्य
उपपाद्य । स्वाप्ने जगति प्रसिद्धतरत्वाल्लाघवात् वाचारम्भणं विकारो नामधेयम्
तस्य तत्र आवसथास्त्रयः स्वप्नाः मायां तु प्रकृतिं विन्द्यात् भूयश्चान्ते
विश्वमायानिवृत्तिः इत्यादिश्रुतिबोधितत्वाच्च कल्पनान्तरेभ्यो नेदीयसी
शीघ्रोपस्थितिकत्वेन सन्निहिततरा भ्रान्तिमात्रतैव जगतः किं न कल्प्यत इत्यर्थः ॥ ७
॥
स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव ।
कारणं त्वनुमासाध्यं क्वानुमाऽनुभवाधिका ॥ ८ ॥
किं च वाचारम्भणश्रुतिदर्शितन्यायेन पर्यालोचने
मृत्तन्त्वादिव्यतिरिक्तघटपटाद्यदर्शनात्तद्विषये स्वा स्वीया इयं भ्रान्तिरिति
प्रत्यक्षमनुभूयत एव प्रत्यक्षानुभवापेक्षया अधिका बलवत्तरा अनुमा क्व
दृष्टा यद्बलात्प्रधानपरमाण्वादयः सिद्ध्येरन्नित्यर्थः ॥ ८ ॥
दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् ।
अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत् ॥ ९ ॥
किं च जगत्स्वप्नशैलवदन्तर्भ्रान्त्यात्पेत्यत्र दृष्टं प्रत्यक्षं लिङ्गमप्यस्ति ।
यद्यस्मात्कारणादयं जन आत्मनि इष्टमेव स्रष्टुमनिष्टं सर्गं निवारयितुं च न
ईशे नेष्टे । छान्दसः पुरुषव्यत्ययः । अहं न ईशे इत्यनुभवतीति वा अध्याहार्यम् ।
न च तेन प्राग्विचारितं निश्चितमेव दृश्यते अकस्मादेव यत्किञ्चिदर्थदर्शनात् ।
सर्गस्य कारणान्तराधीनत्वे हि तादृशकारणसम्पत्तिसाध्यं जना इष्टमेव
सृजेयुरनिष्टं च वारयेयुराकस्मिकं च दृश्यं न पश्येयुः ।
तल्लिङ्गत्रयान्यथानुपपत्त्या स्वप्नशैलवद्भ्रान्तिरित्येव सिद्धमित्यर्थः ॥ ९ ॥
निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः ।
ध्यानं तेन समाधानं न सम्भवति किञ्चन ॥ १० ॥
अत एव ध्यानमात्रेण निर्विकल्पसमाधिपर्यन्तेन जगद्बाधं विनैव निस्तारं
मन्यमाना योगिनोऽपि निरस्ता इत्याह - निर्विकल्पमिति । योगिनां ह्यात्मा
अनानन्दचिद्रूपः साक्षादनुभूतोऽप्यपुरुषार्थ इति तत्साक्षात्कारकल्पने
प्रयोजनाभावान्नित्यानुमेये तस्मिन् भाट्टज्ञानकल्पे नित्यापरोक्षे जडतैव
परिशिष्यते । तत्र चित्तस्य निर्विकल्पं समाधानं सम्पन्नमपि परं जाड्यमेव ।
सविकल्पं तु सम्पन्नं संसृतिः संसार एव । तेन हेतुना तद्ध्यानं तेन
समाधानं च सम्पन्नमपि किञ्चन पुरुषार्थरूपं न सम्भवतीत्यर्थः ॥ १० ॥
सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति ।
मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः ॥ ११ ॥
तदेव स्पष्टयति - सचेत्यमिति । पराभिमतमनानन्दरूपं मोक्षे
परिशिष्यमाणं यत् ज्ञानं तन्मोक्षः पुरुषार्थविशेषो न । एतेनात्मनो
ज्ञानस्वभावतामनभ्युपगच्छतां वैशेषिकादीनामभिमतोऽपि मोक्षो नितरां
निरस्तः । विकल्पात्मकं सचेत्यं तु ततोऽपि मोक्षो न बन्धाविशेषादित्यर्थः ॥ ११ ॥
न च नामोपलाभेन निर्विकल्पसमाधिना ।
अन्यदासाद्यते किञ्चिल्लभ्यते किं स्वनिद्रया ॥ १२ ॥
योगिसम्मतसमाध्यभ्यासेन भवदभिमतमोक्ष एव किं न लभ्यते तत्राह - न
च नामेति । अन्यत्साङ्ख्याभिमतान्यदस्मदभिमतं यदि लभ्येत तर्हि स्वनिद्रयापि
लभ्येत । चित्तचाञ्चल्यनिवृत्तेरज्ञानावरणानिवृत्तेश्चोभयत्रापि साम्यादिति
भावः ॥ १२ ॥
तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः ।
सर्गात्यन्तासम्भवतो यो जीवन्मुक्ततोदयः ॥ १३ ॥
तस्मात्परोक्तपक्षेष्वनिर्मोक्षदोषानिर्मोक्षाद्भ्रान्तिमात्रं जगत् ।
न्निरतिशयानन्दसच्चिदेकरस एवात्मा । तत्त्वज्ञानेन भ्रान्तिहेत्वज्ञानावरणक्षयेण
भ्रान्तिक्षये परिशिष्यमाणः परमपुरुषार्थ इत्यस्मत्पक्ष एव सर्वेषां
शरणमित्युपसंहरति - तस्मादित्यादिना । यो जीवन्मुक्ततोदयः स एव
निर्विकल्पसमाधानं तदेव वानन्तं निर्वाणमित्युत्तरेणान्वयः ॥ १३ ॥
निर्विकल्पं समाधानं तदनन्तमिहोच्यते ।
यथास्थितमविक्षुब्धमासनं सर्वभासनम् ॥ १४ ॥
तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् ।
तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम् ॥ १५ ॥
सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् ।
दृश्यात्यन्तासम्भवात्म बोधमाहुः परं पदम् ॥ १६ ॥
आहुः यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा
इत्यादिश्रुतयस्तत्त्वविदश्चेत्यर्थः ॥ १६ ॥
तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् ।
न निर्विकल्पं न च वा सविकल्पं न वाऽप्यसत् ॥ १७ ॥
तच्च गौतमकणादाभ्युपगतमुक्तिरिवोपलवज्जाड्यं न ।
हैरण्यगर्भोपगतप्रकृतिप्रलयवत्सुषुप्तोपमं न ।
पातञ्जलोपगतमुक्तिवन्निर्विकल्पतामात्रं न ।
पाशुपतपाञ्चरात्राद्यभिमतमुक्तिवत्सविकल्पं न ।
बौद्धाभिमतमुक्तिवदसन्नैरात्म्यलक्षणं शून्यमपि न ॥ १७ ॥
दृश्यात्यन्तासम्भवात्म तदेवाद्यं [तदेवाच्छमिति पाठः ।] हि
वेदनम् ।
तत्सर्वं तन्न किञ्चिच्च तद्वदेवाङ्ग वेत्ति तत् ॥ १८ ॥
किं तर्हि तदाह - दृश्येति । तदेव सर्वम् । ब्रह्म वा इदमग्र
आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति श्रुतेरिति भावः ।
यत्र नान्यत्पश्यति नान्यच्छृणोति इत्यादिश्रुतेर्न किञ्चिच्च ॥ १८ ॥
सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् ।
यथास्थितमिदं विश्वं तत्रालं प्रलयं गतम् ॥ १९ ॥
सर्वत्वे न किञ्चित्त्वे चोपपत्तिमाह - यथास्थितमिति ॥ १९ ॥
न तत्र नानाऽनाना न न च किञ्चिन्न किञ्चन ।
समस्तसदसद्भावसीमान्तः स उदाहृतः ॥ २० ॥
सीमान्त इति । यथा पटः सन्नसन्निति च कल्पनायाः सीमा तन्तुः । तन्तुः सन्नसन्निति
कल्पनायाः सीमा कार्पासम् । कार्पासं सदसदिति कल्पनायाः सीमान्तस्तद्बीजम् । बीजं
सदसद्वेति कल्पनायाः सीमा मृदात्मिका पृथिवी । सा सती असती वेति कल्पनायाः सीमा
आपस्तासां तेजस्तस्य वायुस्तस्याकाशं तस्याव्याकृतं तस्य
सदसद्भावकल्पनायाः सीमा केवलश्चिदात्मैवेति स सीमान्त इत्यर्थः ॥ २० ॥
अत्यन्तासम्भवं दृश्यं यद्वै निर्वाणमासितम् ।
शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम् ॥ २१ ॥
यन्निर्वाणं सर्वविक्षेपरहितं निरतिशयानन्दात्मना आसितमवस्थानं तदेव
परमं पदं परमपुरुषार्थं विद्धि ॥ २१ ॥
स च सम्प्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् ।
शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना [बोधे न इति
पाठष्टीकानुकूलः स्यात् ।] ॥ २२ ॥
तत्प्राप्तौ चायं मोक्षोपायाख्यो ग्रन्थ उपाय इत्याह - स चेति ॥ २२ ॥
मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् ।
बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित् ॥ २३ ॥
बुद्धिरध्यात्मशास्त्रजन्यज्ञानं तल्लक्षणेनोपायेन । अन्येनोपायान्तरेण केनचिदपि
न प्राप्यते - ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये इत्यादिश्रुतेरिति
भावः ॥ २३ ॥
न तीर्थेन न दानेन न स्नानेन न विद्यया ।
न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः ॥ २४ ॥
तदेव प्रपञ्चयति - नेत्यादिना । विद्यया ब्रह्मविद्यातिरिक्तविद्यया ॥ २४ ॥
भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते ।
व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदम्बरे ॥ २५ ॥
कुतो न तत्राह - भ्रान्तिमात्रमित्यादिना । यतो भ्रान्तिमात्रमतस्तपस्तीर्थैर्न
शाम्यतीति परेणान्वयः ॥ २५ ॥
न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन ।
तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता ॥ २६ ॥
भ्रान्तिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् ।
आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः ॥ २७ ॥
आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति ।
अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी ॥ २८ ॥
प्रकाशेन सूर्योदयेन । तामसी कृष्णरात्रिरिव ॥ २८ ॥
सर्गसंहारसंस्थानां भासो भान्ति चिदम्बरे ।
स्पन्दनानीव मरुति द्रवत्वानीव वारिणि ॥ २९ ॥
संस्था स्थितिः । भासः प्रतिभासाः ॥ २९ ॥
द्रव्यस्य हृद्येव् चमत्कृतिर्निजा नभस्वतः स्पन्द इवानिशं यथा ।
यथा स्थिता सृष्टिरियं तथास्तिता लयं नभस्यन्तरनन्यरूपिणी ॥ ३० ॥
यथा वटबीजादिद्रव्यस्य हृदि वटाकारधारणचमत्कृतिर्नभस्वतो वायोः
स्पन्दचमत्कृतिरिव स्थिता तथा मायाशबलचिन्नभस्यन्तः इयं यथा स्थिता जगतः
सृष्टिस्तस्या अस्तिता स्थितिश्च अनन्यरूपिणी आस्ते लयं च गमिष्यतीति शेषः ॥ ३० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मणीतासु निर्वाणोपदेशो
नाम चतुःसप्तत्यधिकशततमः सर्गः ॥ १७४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणोपदेशो नाम चतुःसप्तत्यधिकशततमः सर्गः ॥ १७४ ॥