त्रिसप्तत्यधिकशततमः सर्गः १७३
श्रीराम उवाच ।
सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् ।
अनन्तस्यात्मतत्त्वस्य देहेऽपि किमहङ्ग्रहः ॥ १ ॥
यथा चितोऽपि देहादि जडभावक्रियाग्रहः ।
यथा सर्वात्मकत्वं च तथेह प्रतिपाद्यते ॥
यदि स्वप्रकाशचिच्चमत्कार एव जगत्तर्हि चितः सर्वत्र तुल्यतया अहम्भावग्रहो
युक्तः । ग्रह आग्रहोऽभिनिवेशः । देहे एवातिशयेनाहम्भावाग्रहोऽन्यत्र नेति नियमः
कुत इत्येकः प्रश्नः ॥ १ ॥
चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् ।
इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ॥ २ ॥
एवं चितः अचिद्रूपपाषाणकाष्ठादिभावाग्रहश्च कुतः । चिद्भावस्य
हातुमशक्यत्वात् । अचिद्रूपस्य स्वीकर्तुमशक्यत्वाच्चेति द्वितीयः । एवं चित एव
सार्वात्म्ये इदं पाषाणकाष्ठादि नास्तित्वं कथमापद्यते । चितोऽपह्नवासम्भवात् ।
एवं सर्वात्मकचिद्विरुद्धमचिद्रूपं पाषाणकाष्ठाद्यस्ति वा कथम् । येन
सार्वात्म्यं स्यादिति द्वौ प्रश्नौ ॥ २ ॥
श्रीवसिष्ठ उवाच ।
शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः ।
सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ॥ ३ ॥
सर्वशरीरस्याहन्तया प्रथायां तुल्यायां हस्ते एव हस्तत्वं पादे एव पादत्वं
नैतरत्रेति जातिकर्म संस्थानादीनां यथा व्यवस्थाग्रहः
अनादितत्तदाकारसंस्कारव्यवस्थयैव नान्येन हेतुना तथा देहे
देहतायामहन्तादौ चाग्रहो बोध्य इत्याशयेन दृष्टान्तप्रपञ्चनेनाद्यौ
प्रश्नौ समाधत्ते - शरारिण इत्यादिना ।
देहतावृक्षतादिशब्दास्तत्तदहन्तापराः । अत्र सर्वत्र विषयाध्यासे विषयाध्यासो
ज्ञानाध्यासे ज्ञानाध्यासो दृष्टान्त इति द्वौ द्वौ यथातथाशब्दौ प्रयुक्ताविति
बोध्यम् ॥ ३ ॥
पादपस्य यथा पत्रे पत्रतायां यथाग्रहः ।
सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ॥ ४ ॥
वृक्षाकाशादावप्यभिमानिजीवसत्त्वात्तत्तद्दृशाध्यासा उदाहृताः ॥ ४ ॥
आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः ।
सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः ॥ ५ ॥
द्रव्ये मणिमुक्तास्वर्नादिधने । द्रव्यतायां प्रयत्नोपार्ज्यतालक्षणभव्यतायाम् ॥ ५
॥
स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः ।
सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ॥ ६ ॥
अरूपचित्तोपादानकत्वादरूपत्वेन भवितुमुचिते स्वप्नपुरे रूपतायां साकारतायां
यथा आग्रहः स्वप्नभुजः । स्वप्नजागरादौ अवस्थात्रये ॥ ६ ॥
यथागेन्द्रे दृषद्वृक्षवार्यादौ स तथाग्रहः ।
तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ॥ ७ ॥
अगेन्द्रे पुरे च विद्यमाने दृषदादौ स तथा प्रसिद्ध आग्रहो यथेत्यर्थः ।
अद्रितायां पुरतायां च तदभिमानिन आग्रहः ॥ ७ ॥
शरीरस्य यथा केशनखादिषु यथाग्रहः ।
सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ॥ ८ ॥
अन्त्यौ प्रश्नावपि समाधत्ते - शरीरस्येत्यादिना । यथा चेतनत्वेनाभिमतस्यापि
शरीरस्य केशनखादिषु यथा अचेतनत्वाग्रहस्तथा चिद्रूपस्यापि सर्वात्मनः
काष्ठदृषदादौ तथाग्रहः अचेतनत्वाग्रहः । चिता चित्त्वस्य
हातुमशक्यत्वमचित्त्वस्य स्वीकर्तुमशक्यत्वं च
मायागतावरणविक्षेपशक्तिभ्यामघटितस्यापि घटनात्परिहर्तव्यमिति भावः ॥ ८ ॥
चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता ।
चिदाकाशस्य सर्गादौ तथैवावयवादिता ॥ ९ ॥
चितस्तद्विरुद्धमचित्त्वमिव निरवयवायाः सावयवत्वमपि स्वप्नानुभवबलादेव
भवतीति स्वीकार्यमित्याह - चित एवेति । चितः सकाशादेव ॥ ९ ॥
चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः ।
नखकेशजलाकाशधर्ममाकारभासुरम् ॥ १० ॥
किं च मायाशबलस्य
चेतनाचेतनोभयात्मकैकवस्तुत्वाद्प्युभयव्यवहारप्रवर्तकता न
विरुद्धेत्याशयेनाह - चेतनेति । न च विरोधः ॥ १० ॥
चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः ।
जङ्गमं स्थावरमयं किन्तु नित्यमनाकृति ॥ ११ ॥
यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् ।
स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसम्भ्रमः ॥ १२ ॥
अत एव तत्त्वतस्तज्ज्ञानात्सर्वे विरुद्धधर्माः शाम्यन्तीत्याह - यथास्थितमिति ॥ १२
॥
चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता ।
इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ॥ १३ ॥
स्वप्नद्रष्टुर्या सा प्रातः प्रसिद्धा प्रबुद्धता सैव न द्रष्टास्ति न दृश्यता
किन्त्विदं सर्वं चिन्मात्राकाशमेवेति निश्चये अलं समर्थेत्यर्थः ॥ १३ ॥
कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च ।
त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ॥ १४ ॥
सहस्रकोटिशोऽप्यागतैरीदृशाध्यासैर्नाधिष्ठानैकरूप्यक्षतिरित्याह -
कल्पकोटीति ॥ १४ ॥
करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः ।
चित्करोति तथा सञ्ज्ञाः सर्गाद्याश्चेतने निजे ॥ १५ ॥
करोति सलिलमिति शेषः । निजे चेतने मायाशबलचिति ॥ १५ ॥
यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा ।
तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ॥ १६ ॥
नाहं तरङ्गः सलिलमहमित्येव युक्तितः ।
बुद्धं येन तरङ्गेन कुतस्तस्य तरङ्गता ॥ १७ ॥
तरङ्गेन । प्रातिपदिकान्तनुम्विभक्तिषु [अत्रापि
पूर्वपदादित्यनुवृत्तेरत्रोदाहरणे अस्य कथं प्रवृत्तिरिति विचारणीयम् ।] च
इत्यत्रापि पूर्वपदात्सञ्ज्ञायाम् इति सूत्रादग इत्यनुवृत्तेर्न णत्वम् । अचेतनस्यापि
चेतनत्वारोपादियमुक्तिः ॥ १७ ॥
ब्रह्मणोऽस्य तरङ्गत्वमिवाभानं यतस्ततः ।
तरङ्गत्वातरङ्गत्वे ब्राह्म्यौ शक्ती स्थितिं गते ॥ १८ ॥
तरङ्गशब्दास्तत्सदृश्जगत्पराः ॥ १८ ॥
चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् ।
तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ॥ १९ ॥
व्यस्तवेदनमन्योन्यधर्मविनिमयेन व्यत्यस्तचेतनभावं मनःसमष्ट्युपहितं
यद्रूपं तदिदं मनो ब्रह्मेति शब्दैः पितामह उक्तः ॥ १९ ॥
एवमाद्यः प्रजानाथो निराकारो निरामयः ।
चिन्मात्ररूपसङ्कल्पपुरव्त्कारणोज्झितः ॥ २० ॥
येनाङ्गदत्वं नास्तीति बुद्धं हेमाङ्गदेन वै ।
अङ्गदत्वं कुतस्तस्य तस्य शुद्धैव हेमता ॥ २१ ॥
अजे सङ्कल्पमात्रात्म चिन्मात्रव्योमदेहिनि ।
अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ॥ २२ ॥
समष्टेश्चिन्मात्रत्वे तद्व्यष्टीनामस्मदादीनां तदनुक्तमपि सिद्धमित्याह - अजे
इति ॥ २२ ॥
चिच्चमत्कृअयो भान्ति याश्चिद्व्योमनि शून्यताः ।
एतास्ताः सर्गसंहारस्थितिसंरम्भसंविदः ॥ २३ ॥
अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् ।
स्वप्नाभं चित्ततामात्रं स एष प्रतिपामहः ॥ २४ ॥
प्रपितामहो हिरण्यगर्भः ॥ २४ ॥
यथा तरङ्गस्तेनैव रूपेणान्येन वाऽनिशम् ।
स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ॥ २५ ॥
चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् ।
भवेत्सङ्कल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ॥ २६ ॥
विराडपि तादृगेवेत्याह - चिद्व्योम्न इति । तस्य विराजो मन्नोह्हिरण्यगर्भोपि
यत्कुर्याद्भुवनभूतग्रामादि तदपि सङ्कल्पपुरवदित्यर्थः ॥ २६ ॥
सर्गः स्वप्नः स्वप्न एव् जाग्रद्देहः स एव च ।
घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ॥ २७ ॥
तथा च स विराडेव सर्गः स एव स्वप्नः स्वप्न एव जाग्रद्व्यष्टिसमष्टिदेहः
सम्पन्नः । यथा घनं सुषुप्तं निद्रातिशयलक्षणतैमिर्यात्स्वप्नसंवेदनं
भवेत्तथा प्रलये अविद्यातिमिरावृत आत्मैव जगत्संवेदनं भवेदित्यर्थः ॥ २७ ॥
तस्य कल्पान्तरजनी शिरोरुहतयोदिता ।
प्रकाशतमसी कालक्रियाख्याः स्वाङ्गसन्धयः ॥ २८ ॥
जगत्सर्वं विराजोऽङ्गतया वर्णयति - तस्येत्यादिना । तस्य विराड्वेषस्य
परमात्मनः कल्पान्ता अवान्तरप्रलयास्तद्रूपा चतुर्मुखस्य रजनी शिरोरुहतया
केशतया उदिता प्राथमिकत्वात् । प्रकाशतमसी दिनरात्री अङ्गसन्धयः ॥ २८ ॥
तस्याग्निरास्यं द्यौर्मूर्धां खं नाभिश्चरणौ क्षितिः ।
चन्द्रार्कौ दृगू दिशौ श्रोत्रे कल्पनेति विजृम्भिता ॥ २९ ॥
दिशौ प्राचीप्रतीच्यौ श्रोत्रे इत्यनया रीत्या मनःकल्पनैव विराडाकारेण विजृम्भिता ॥
२९ ॥
एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः ।
अस्मत्सङ्कल्पशैलाभो विराड् स्वप्नाकृतिस्थितः ॥ ३० ॥
तथा चास्मत्स्वप्नतुल्यता तस्य सिद्धेति निष्प्रपञ्चतैव परमार्थ इत्याह - एवमिति
॥ ३० ॥
यच्च चेतच्चिदाकाशे स्वयं कचकचायते ।
तदेतज्जगदित्येवं तेनात्मैवानुभूयते ॥ ३१ ॥
यच्चेतत् चेतनात्मकजीवभावापन्नं सत् स्वयं कचकचायते अतिशयेन दीप्यते ।
दीप्त्यर्थात्कचेः पचाद्यचि डाचि द्वित्वे डाजन्तस्यापि भृशादित्वकल्पनात्क्यङ् ॥ ३१ ॥
विराडात्मैवमाकाशं भाति चिन्मयमाततम् ।
स्वभावस्वप्ननगरं नगनागमयात्मकम् ॥ ३२ ॥
चिन्मयमाततमाकाशमेव एवंरीत्या विराडात्मा भाति । एवंरीत्या दर्शने
विराडात्म चिन्मयमाकाशमेव भातीति वा ॥ ३२ ॥
अनुभवितैवानुभवं सत्यं स्वात्मानमप्यसन्तमिव ।
अनुभवतीयत्त्वेन स्वप्ननटः स्वप्नदेशमिव ॥ ३३ ॥
अनुभविता चिदात्मैव स्वस्वरूपमनुभवैकरसं सत्यं स्वात्मानमपि
मायावरणादसन्तमिव कृत्वा इयत्त्वेन परिच्छिन्नप्रपञ्चभावेनानुभवति यथा
स्वप्नप्राप्तो नटः स्वात्मानमेव स्वातिरिक्तनाट्यद्रष्ट्टसमाजपूर्णं स्वप्नदेशं
कक्पयित्वा तत्र स्वनाट्यं स्वयमेवानुभवति तद्वदित्यर्थः ॥ ३३ ॥
वेदान्तार्हतसाङ्ख्यसौगतगुरुत्र्यक्षादिसूक्ता दृशो ब्रह्मैव स्फुरितं
तथात्मकलया स्तादात्मनित्यं यतः ।
तेषां चात्मविदोऽनुरूपमखिलं स्वर्गं फलं तद्भवत्यस्य ब्रह्मण
ईदृगेव महिमा सर्वात्म यत्तद्वपुः ॥ ३४ ॥
अस्मिन्नर्थे सर्ववादिसिद्धान्ताविरोधः सर्वाभिलक्षितफलसिद्धिश्चेत एवेत्याह -
वेदान्तेति । वेदान्ताः शुद्धब्रह्मपराः सर्वज्ञेश्वरपरा उपासनापराश्च । आर्हता
दिगम्बराः । साङ्ख्याः कापिला योगिनश्च । सौगताः
सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकाः । एतेषां ये गुरवो
व्यासार्हत्कपिलपतञ्जलिबुद्धाः । त्र्यक्षः पशुपतिर्भैरवो वा
आगमशास्त्रभेदनिर्माता । आदिपदाद्वैष्णवहिरण्यगर्भाद्या आगमनिर्मातारो
विष्ण्वादयो गृह्यन्ते । तैः सुष्ठु उक्ता स्वस्वागमेषु प्रतिपादिता या यादृशस्ताः
सर्वा भूत्वा अस्मदभिमतं ब्रह्मैव तत्तद्वासनालक्षणतदात्मकतया स्फुरितम् ।
तेषां च वादिनामात्मविदः स्वस्वनिश्चयस्यानुरूपं स्वर्गं
पारलौकिकसुखरूपमखिलमैहलौकिकं च सर्वं फलं तद्ब्रह्मैव भवति
यतस्तदात्मरूपमेव तैस्तैस्तथा तथा फलं स्तादित्याशास्यते इत्यर्थः । अस्य
ब्रह्मण ईदृगेव महिमा प्रसिद्धो यद्यस्माद्ब्रह्म
एवंवपुर्मायाशबलस्वरूपं सर्वात्मकमित्यर्थः ॥ ३४ ॥
इत्यार्षे श्रीवासिष्ठ वा० दे० मो० नि० उ० ब्रह्मगीतासु परमार्थोपदेशो नाम
त्रिसप्तत्यधिकशततमः सर्गः ॥ १७३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमार्थोपदेशो नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १७३ ॥