१७२

द्विसप्तत्यधिकशततमः सर्गः १७२

श्रीवसिष्ठ उवाच ।

एवं पृथ्व्यादिरहितः खमेवाद्यः प्रजापतिः ।
मनोमात्रमहं मन्ये सङ्कल्पविटपी यथा ॥ १ ॥

मनोमात्रं विधातात्र तत्सङ्कल्पो जगद्भ्रमः ।
न देहोऽस्य स्मृतिर्वेति स्मृतितत्त्वं च कीर्त्यते ॥

ननु विधातृसृष्टं जगच्छ्रूयते सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः इति तत्कथं चिन्मात्रकचनं स्वप्नवदिति
वर्णितमित्याशङ्कां वारयितुं तत्सङ्कल्पानां तन्मयजगतश्च चिन्मात्रत्वमेवेति
वर्णयितुमुपक्रमते - एवमिति । एवमनादिजीवन्मुक्तत्वादेव प्रजापतिर्विराडपि
पृथ्व्यादिरहितो निरावरणं खं चिदाकाशमेव । तं च
मनःसमष्टिहिरण्यगर्भमात्रमहं मन्ये । मनश्च सङ्कल्पविटपीव
चित्कचनमात्रं प्रसिद्धमिति चिन्मात्रत्वसिद्धिस्तस्येति भावः ॥ १ ॥

मन इत्यभिधानेन पश्चादास्था प्रकल्पिता ।
वार्यावर्तविवर्तेन प्रोत्थायावर्तता यथा ॥ २ ॥

कथं प्रसिद्धं तत्राह - मन इति । मननाकारकल्पनात्प्राक्तच्चिन्मात्रमेव
पश्चान्मननाकारकल्पनानन्तरं मन इत्यभिधानेन तस्यास्था
चित्तादात्म्याध्यासः प्रकल्पिता । यथा वारिण्येव आवर्तविवर्ताकारेण स्वयं प्रोत्थाय
आवर्तता तेन कल्पिता तद्वत् ॥ २ ॥

सत्तामात्रात्मनस्तस्य कुतो बुद्ध्यादयः किल ।
अविद्यमाने पृथ्व्यादौ खस्यानन्तस्य किं रजः ॥ ३ ॥

अत एव तस्य बुद्ध्यादयोऽपि चिद्व्यतिरेकेण न सन्तीत्याह - सत्तेति ॥ ३ ॥

न तस्य देहचित्तादि नेन्द्रियाणि न वासनाः ।
सदप्येतत्सदा तस्य न किञ्चिदपि विद्यते ॥ ४ ॥

एवं देहादयोऽपि न सन्तीत्याह - न तस्येति । व्यवहाराभासन्निर्वाहार्थमापाततः
सदपि परमार्थतो न किञ्चिदपि विद्यते ॥ ४ ॥

प्राक्तनस्य प्रजेशस्य मुक्तत्वात्कथमेव च ।
भूयः सम्भवति प्राज्ञ न स्मृतिर्न च सम्भवः ॥ ५ ॥

कुतो न विद्यत इति चेदादिसर्गादौ कारणाभावात् । न च प्राक्तनः प्रजापतिरेवोत्तरस्य
कारणम् । तस्य प्राक्तनद्विपरार्धावसाने मुक्तत्वादित्याह - प्राक्तनस्येति ।
कारणाभावाद्भूयो [कारणाभावादित्यादिव्याख्याभागः केनचित्प्रक्षिप्तः इति
प्रतिभाति मूलव्याख्याविसंवादात् ।] देहबुद्ध्यादिग्रहणे कारणाभावात् ।
तस्मादभिनवस्य प्रजापतेर्जगद्रचनानुकूला स्मृतिस्तस्य सम्भव उत्पत्तिश्च यतो न
सम्भवतीत्यर्थः ॥ ५ ॥

न भवत्येव मुक्तानां स्मृतिर्देहोदयः पुनः ।

संसारे सतामावर्तानां परिवृत्तिपराणां जीवानामिव मुक्तानां विदेहमुक्तानां
संसारस्मृतिः पुनर्देहोदयश्च न भवत्येव । देशान्तरे कालान्तरे वा
पुनरावर्तत्वं यतो नास्ति । इमं मानवमावर्तं नावर्तन्ते न स पुनरावर्तते
इत्यादिश्रुतेरिति भावः ॥ ६ ॥

यदि वापि भवेत्किञ्चित्स्मृत्या देहादि तस्य तत् ।
तदपृथ्व्यादिभिः शान्तं सङ्कल्पनगरं तनु ॥ ७ ॥

यदि वापि तस्य प्रजापतेः पूर्वकल्पकृतो
वासनाजन्यहिरण्यगर्भाहम्भावगोचरसंस्कारबलात्तथैव स्मृत्या तद्देहादि
किञ्चित्सम्भवेत् तत्केवलोपासनात्मकमनःकल्पनासंस्कारजत्वात्
केवलमानसमपृथ्व्यादिभिरुत्पन्नं तनु अतितुच्छं सङ्कल्पनगरप्रायं
मिथ्याभूतमेव भवेत्तत्तु सत्यमित्यस्मत्सिद्धान्तसिद्धिरित्यर्थः ॥ ७ ॥

यथा सङ्कल्पशैलस्य दृश्यमानमपि स्फुटम् ।
पृथ्व्यादिरहितं रूपं तद्विराड्वपुषस्तथा ॥ ८ ॥

ननु पृथ्व्यादिघटितत्वेन दृश्यमानस्य ब्रह्माण्डात्मकस्यास्य विराट्शरीरस्य
कथं तद्रहितता तत्राह - यथेति ॥ ८ ॥

स्मृतिश्च सम्भवत्येव न कदाचन काचन ।
एषा लौकिकबुद्ध्या या सा सद्बुद्ध्या न विद्यते ॥ ९ ॥

ननु प्रागुदाहृतश्रुतौ दिवं च पृथिवीं चान्तरिक्षमथो स्वः इति
पृथ्व्यादिघटितमेव तद्रूपं श्रुतम् तच्च धाता यथापूर्वमकल्पयत् इति
पूर्वतनस्मृतिपूर्वकमेव निर्मितं गम्यते तत्राह - स्मृतिश्चेति । अस्य
प्रजापतेरादि सर्गे पूर्वानुभवाभावात्स्मृतिर्न सम्भवत्येव । या चेयं
श्रुतिबलाद्गम्यते एषा लौकिकानां जगत्सत्यतादर्शिनामज्ञानां बुद्ध्या
अनादिसिद्धकर्ममार्गप्रवाहप्रवर्तनार्थं श्रुत्या परबुद्ध्यनुसारेणैव
बोधनात् । तस्य तत्त्वविदः प्रजापतेः बुद्ध्या तु सा स्मृतिर्न विद्यते ॥ ९ ॥

श्रीराम उवाच ।

कथं न सम्भवत्येषां स्मृतिः स्मृतिमतां वर ।
स्मृतेश्चासम्भवे कस्माद्गुणो गुणगणाकर ॥ १० ॥

नन्वस्य प्रजापतेः पूर्वकल्पे उपासकतादशायां पृथ्व्याद्यनुभवोऽस्त्येव
तदभावे पृथ्व्यादिघटितविराट्शरीरोऽहमिति कथमुपासीत । ततश्चासौ
तद्बलादेतत्कल्पादौ पृथ्व्यादिस्मृतेस्तद्घटितविराट्शरीरमुपासनबललब्ध##-
यथापूर्वमकल्पयत् इति श्रुतिबोधितः पूर्वकल्पीयब्रह्माण्डगुणः
सर्वोऽस्मिन्ब्रह्माण्डे कथं सिद्ध्येदिति रामः शङ्कते - कथमिति । हे
गुणगणाकरेति वसिष्ठसम्बोधनम् ॥ १० ॥

श्रीवसिष्ठ उवाच ।

दृश्ये हि सम्भवत्येषा कार्यकारणतात्मनि ।
तद्भावाभावसम्पन्ना न तु सम्भवति स्मृतिः ॥ ११ ॥

न वयं कल्पनाभ्रान्तिसंस्कारजामर्थशून्यां स्मृतिं प्रत्याचक्ष्महे किन्तु
सत्यार्थानुभवजन्यसंस्कारजाम् । तस्यां हि सत्यां
पूर्वानुभवगोचरसत्यार्थजातस्य स्वगोचरानुभवसंस्कारस्मृतिद्वारा
एतत्कल्पीयार्थान्प्रत्यन्वयव्यतिरेककल्पनात्कार्यकारणभावसिद्धौ
स्वकारकसत्तालब्धसत्ताकस्यास्य जगतः सत्यत्वे ब्रह्माद्वैतसिद्धान्तोपरोधः
स्यादिति पूर्वकल्पीये पृथ्व्यादिदृश्ये परमार्थतः सति तद्भावाभावौ
तदन्वयव्यतिरेकौ तद्वशात्सम्पन्ना स्मृतिद्वारिका एषा लौकिकन्यायप्रसिद्धा
कार्यकारणता सम्भवति सा द्वारभूता स्मृतिरेव तु न सम्भवति ॥ ११ ॥

आब्रह्मस्तम्बपर्यन्तं दृश्यं किञ्चिन्न विद्यते ।
यत्र तत्र कथं कीदृक् कुतः स्यात्सम्भवः स्मृतेः ॥ १२ ॥

कुतो न सम्भवति तत्राह - आब्रह्मेति । नेह नानास्ति किञ्चन एकमेवाद्वितीयम् अथात
आदेशो नेति नेति यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः
वाचारम्भणं विकारो नामधेयम् इत्यादिश्रुतिभिः सर्वदृश्यप्रतिषेधात्तथैव
विदुषामनुभवाच्च । तथा च सह सिद्धं चतुष्टयम् इति स्मृतिदर्शितदिशा
सहजतस्तत्त्वविदुषो विराजस्तत्त्वज्ञानबाधितः प्राक्तनः प्रपञ्चो मिथ्यैव सम्पन्नो
न तस्य यथार्थस्मृतिमाधातुं तद्द्वारा सत्यसर्गं प्रति कारणीभवितुं च
समर्थ इति भावः ॥ १२ ॥

भूत्वा भावे हि दृश्यस्य स्मरणं स्मृतिरुच्यते ।
दृश्यमेव न यत्रास्ति तत्रैताः कलनाः कुतः ॥ १३ ॥

भूत्वा परमार्थत उत्पद्य भावे विद्यमानत्वे सति प्रमाणैस्तदनुभूय कालान्तरे
स्मरणं हि स्मृतिः शास्त्रज्ञैरुच्यते । न त्वसतो भ्रान्तिकल्पितस्य
तत्त्वबोधबाधितस्य च स्मृतिरस्तीत्यर्थः ॥ १३ ॥

अत्यन्ताभाव एवास्य दृश्यस्य किल सर्वदा ।
सर्वं ब्रह्मेति सत्यार्थास्तत्स्मृतेः कलनाः कुतः ॥ १४ ॥

स्मृतिर्न सम्भवत्येव तस्मादाद्या प्रजापतेः ।
आकारवत्त्वमेवास्य शुद्धज्ञानात्मनः कुतः ॥ १५ ॥

उक्तमेवाभिप्रायं सूचयन्समाधानमुपसंहरति - स्मृतिरिति ॥ १५ ॥

स्मर्तव्यं भाववशतः स्मृतिर्नास्त्येव लौकिकी ।
स्मृत्यर्थस्त्वन्यदीयोऽस्ति सत्यात्मा त्वमिमं शृणु ॥ १६ ॥

पूर्वजन्मन्युपासनात्मिका या स्वस्य जगच्छरीरत्वभावना तद्वशतस्तु
उपासनाफलसिद्धये जगच्छरीरोऽहमिति तेनावश्यं स्मर्तव्यम् । या तु लोके विदिता सा
मे माता सा मे दुहितेत्यादिस्मृतिरिवार्थप्रमाजन्या सा तस्य नास्त्येव । अन्यदीयो
लौकिकः स्मृत्यर्थस्तु मातृदुहितादिर्गृहेऽस्ति । उपासनाविषयस्तु मनोराज्यकल्पो
नास्तीति वैषम्यमित्यर्थः । कथं नास्ति इममर्थं त्वं शृणु ॥ १६ ॥

भूतस्यान्तः पदार्थस्य स्मरणं स्मृतिरुच्यते ।
पदार्थस्तु न चैवास्ति न भूतो न भविष्यति ॥ १७ ॥

भूतस्यातीतस्यापि पदार्थस्य संस्कारवशादन्तः स्मरणं स्मृतिरिति लोके उच्यते ।
प्रजापतेस्तु कल्पादौ वर्तमानोपि पदार्थो नास्ति न भूतोऽस्ति नापि कश्चिद्भविष्यति
यत्स्मृतिः स्यादित्यर्थः । तथा चोक्तं सुरेश्वरवार्तिके
तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्यासहकारेयण नासीदस्ति
भविष्यति इति । तदेतद्ब्रह्मापूर्वमनपरमनतरमबाह्यम् इति च श्रुतिः ॥ १७ ॥

एवं हि खल्विदं ब्रह्म परमेवाचलं यतः ।
अनादिमध्यपर्यन्तं कुतः स्मृत्यादयस्ततः ॥ १८ ॥

अचलं कूटस्थम् ॥ १८ ॥

सर्वात्मत्वात्पदार्थात्म चिद्व्योमक्चनं तु यत् ।
व्यवहारेऽप्यलं शान्तं स्मृत्या तच्छब्दितं मया ॥ १९ ॥

यदि सर्वात्मत्वात्स्मृत्यात्मापि ब्रह्म भव्तीति सर्वात्मदृशा उच्येत तर्ह्ह्यस्तु
नामेत्याह - सर्वात्मत्वादिति । एतदेवाभिप्रेत्य मयापि यदि वा भवेत्किञ्चित्स्मृत्या
देहादि तस्य तत् इत्युक्तमित्याह - व्यवहारेऽपीति ॥ १९ ॥

तदेतत्स्मरणं नाम स्वभावकचनं हि तत् [सदित्यत्र तदिति पाठ
आवश्यकः ।] ।
तेनाभ्यस्तोऽथ बाह्यार्थः सादृश्यादवभासते ॥ २० ॥

अज्ञातब्रह्मस्वभावस्य परोक्षतयैव कचनं तेनोपासनात्मना
पुनःपुनरभ्यस्तः सन् ब्रह्मात्मैवोपासनाफलीभूतबाह्यार्थ
इवोपासनाकल्पिताकारसादृश्यादवभासते ॥ २० ॥

यद्यत्संवेद्यते किञ्चित्तत्स्वभावं स्वभावयत् ।
तेनावभासते योऽर्थस्तस्य स्मृत्यभिधा कृता ॥ २१ ॥

अज्ञानोपहितं ब्रह्म जीवेन यद्यत्संवेद्यते भ्रान्त्या स्मृतिपरम्परया वा
तत्स्वभावमेवावलम्ब्य स्वं स्वभावं यत्सत् तेनाकारेण कालान्तरेण
यस्तत्तालिङ्गित इवार्थोऽवभासते तस्य स्मृतिरित्यभिधा स्वस्मिन्नेव तेन कृतेत्यर्थः
॥ २१ ॥

अविद्यमानं भातीव यथा दृश्यं तथा स्थितिः ।
भातैवाविद्यमानैव मृगतृष्णा यथोद्यता ॥ २२ ॥

यथा भ्रान्तानुभवे अविद्यमानं दृश्यं भातीव तथा स्मृतावपि स्थितिर्बोध्या ॥
२२ ॥

सर्वात्मनि स्थिताः सत्ये याः कचन्ति सुसंविदः ।
ता एवाभ्यासरूढार्थाः सादृश्यात्स्मृतयः स्मृताः ॥ २३ ॥

भ्रान्ताभ्यासेन सत्यत एव रूढार्था भ्रान्त्यनुभवेन
समानविषयत्वलक्षणात्सादृश्यात्स्मृतयः स्मृताः ॥ २३ ॥

काकतालीयवद्भान्ति सर्वात्मनि सुसंविदः ।
स्वाङ्गभूताः स्वतः स्वस्थास्ता एव स्मृतयः कृताः ॥ २४ ॥

काकतालीयवदाकस्मिकोद्बोधकवशेन याः संविदो भान्ति ।
स्वाङ्गभूताश्चिदवयवभूता इव विषयतः पारोक्ष्यादस्वस्था अपि स्वत
आपरोक्ष्यात्स्वस्था अविकृताः ॥ २४ ॥

यद्यत्कचति सद्रूपं [चिद्रूपमिति पाठः ।] स्वाङ्गं सर्वात्मनः
स्वतः ।
तदभ्यस्तार्थसादृश्यात्स्मृतिरित्युच्यते बुधैः ॥ २५ ॥

अनुभवे यद्यत्कचति तेनाभ्यस्तार्थेन समानाकारतया सादृश्यात् ॥ २५ ॥

हेतौ लब्धेऽप्यलब्धे वा पवनस्पन्दवद्विदः ।
ता एवाभ्यासरूढार्थाः सादृश्यात्स्मृतयः कृताः ॥ २६ ॥

हेतौ उद्बोधके लब्धे अलब्धेऽपि वा । यथा पवनास्पन्दो व्यजनादिहेतौ
लब्धेऽप्यलब्धेऽपि भवति तद्वत् । ता अनुभववृत्त्युपलक्षिता एव विदः कालान्तरे
स्मृतयः कृताः ॥ २६ ॥

काकतालीयवद्भान्ति यास्ताः स्मृत्यभिधाः कृताः ।
यथा तवैतेऽवयवाः कचन्ति न कचन्ति च ॥ २७ ॥

यदि संविदोऽवयवभूतास्तर्हि तद्वत्सदैव कुतो न कचन्ति तत्राह - काकतालीयवदिति
। उद्बोधकसमवधानस्य कादाच्xइत्कत्वेनेति भावः । अवयवा हस्तपादादयो यथा
मनसस्तत्प्रवणत्वे कचन्त्यन्यप्रवणत्वे न कचन्ति तद्वदित्यर्थः ॥ २७ ॥

स्थिता एवात्मनि तथा सर्वाः सर्वात्मिका विदः ।
मिथ्याज्ञानमया यद्वदर्था घटपटादयः ॥ २८ ॥

स्वप्नेन्द्रजालादौ यथा घटपटादयो मिथ्याज्ञानमयास्तादृशभ्रमस्य
स्मृतिपदार्थस्य किं मूलं विचार्यत इत्यन्वयः ॥ २८ ॥

तद्वत्स्मृतिपदार्थस्य किं भ्रमस्य विचार्यते ।
दृश्यस्यासम्भवाज्ज्ञस्य स्मृतिर्नास्त्येव तत्त्वतः ॥ २९ ॥

अत एवाभ्रान्तस्य ज्ञस्य प्रजापतेः स्मृतिर्नास्त्येव ॥ २९ ॥

स तथैकघनत्वाच्च चिद्व्योमत्वाज्जगत्स्थितेः ।
यथास्थितमिदं दृश्यमस्त्येवाज्ञस्य सम्प्रति ॥ ३० ॥

स तत्त्ववित्तथैव यथापूर्वं निर्विकार एवास्ते । जगत्स्थितेस्तद्दृशा
चिद्व्योममात्रत्वादित्यर्थः । अज्ञस्य तु तद्वैपरीत्यमित्याह - यथास्थितमिति ॥ ३० ॥

न मोक्षोपायकथनं च न जानामि तत्स्थितिम् ।
सन्देहादिव जिज्ञासुस्तावन्मोक्षकथोच्यते ॥ ३१ ॥

तत्कुतस्तत्राह - नेति । तस्य तत्त्वविदः स्थितिम् । अत एव स दैवात्साधनचतुष्टयं
प्राप्य सन्देहाद्यावज्जिज्ञासुरिव भवति तावन्मोक्षकथा तस्मै गुरुणोच्यते ॥ ३१ ॥

यावद्दृश्यं स्मृतिश्चैव संस्मृतिश्चास्य शाम्यति ।
अविद्यायास्तु मौर्ख्यस्य विमोहस्यात्यसम्भवात् ॥ ३२ ॥

यथा अज्ञास्तत्त्वज्ञस्थितिं न जानन्ति तथा वयं तत्त्वज्ञा अपि अज्ञनिश्चयं न
जानीम इत्याह - अविद्याया इति ॥ ३२ ॥

अज्ञस्थो निश्चयोऽस्माकं न कदाचन गोचरः ।
यच्च यद्विषये नास्ति तन्नैवानुभवत्यसौ ॥ ३३ ॥

रजन्यनुभवो भानोर्भवत्यङ्ग कथं वद ।
भातं वस्तुस्वरूपात्म चिन्मात्रे किञ्चिदेव यत् ॥ ३४ ॥

इदानीं स्मृतिहेतुसंस्कारं प्रमार्ष्टुं तत्स्वरूपमाह - भातमिति ।
अन्तःकरणोपहितचिन्मात्रे बाह्यवस्तुस्वरूपात्म यत्किञ्चिदेव् भातं
तच्चेत्पुनःपुनर्व्यवहारेणाभ्यस्तं तादृशार्थसादृश्याद्वासितं चित्तं
तत्संस्कार इति स्मृतमित्यर्थः ॥ ३४ ॥

तदभ्यस्तार्थसादृश्यात्तत्संस्कार इति स्मृतम् ।
आत्मस्वभावभूतानामपि चिद्व्योमरूपिणाम् ॥ ३५ ॥

तत्र परिकल्प्यानां सर्वेषां बाह्यार्थानां तत्त्वज्ञानेनात्मस्वभावभूतानां
बाधितानुवृत्त्या दग्धपटन्यायेनाभासेऽपि वस्तुतोऽनवस्थितेस्तत्सादृश्यस्य चित्ते
मार्जनान्न संस्कारस्तत्त्वविदां सम्भवतीति शेषः ॥ ३५ ॥

सर्वेषां परिकल्प्यानामाभासेऽप्यनवस्थितेः ।
एवं न सम्भवत्येव जगत्किञ्चित्कदाचन ॥ ३६ ॥

तथा च यत्फलितं तदाह - एवमिति ॥ ३६ ॥

दृष्टं मृगतृषेवाम्बु न तु तत्परमार्थतः ।
यदा त्वयं तदा स्वप्ने सर्गादौ चावभासते ॥ ३७ ॥

तथा च प्रतिज्ञातं सिद्धमित्याह - यदा त्विति । अयमर्थः सिद्ध इति शेषः ॥ ३७ ॥

चिद्व्योमैव परं सर्गपर्यायं स्वात्मनि स्थितम् ।
चिद्व्योमैवेत्थमाभातं न च्युतं सत्स्वरूपतः ॥ ३८ ॥

आत्मनात्मनि रूपं वा सद्रूपमिव संस्थितम् ।
सर्गादावेव कचिते मिथ्या कचदपि स्थितम् ॥ ३९ ॥

आत्मना आत्मनि इत्थमाभातमिति पूर्वत्रान्वयः । अथवा मिथ्या कचदिव स्थितं
जगद्रूपं चासद्रूपं ब्रह्म भूत्वा स्थितम् ॥ ३९ ॥

अतः कुतः क्वचिन्नाम हेयादेयादिभासनम् ।
नेदमाकारवत्किञ्चिन्नापि स्मृत्यात्मकं क्वचित् ॥ ४० ॥

कारणाभावतो भाति स्वरूपं परमात्मनः ।
आकारवत्त्वे यद्दुःखं भवेत्स्मृत्यां तदेव च ॥ ४१ ॥

न तु स्मृत्यात्मकताप्यस्य किमर्थं प्रत्याख्यायते तत्राह - आकारवत्त्वे इति ।
स्मृतेनापि भार्यापुत्रादिमरणेन दुःखदर्शनादिति भावः ॥ ४१ ॥

द्वयमेतदसत्तस्माद्बन्धो नाम न विद्यते ।
चिद्व्योम्नि भूतव्योमाभे शून्य एव यथास्थितम् ॥ ४२ ॥

यथास्थितं जीवन्मुक्तानां यावज्जीवं व्यवहारक्षमं स्थितमित्युत्तरत्रान्वयः ॥ ४२

स्थितं स्वरूपमजहद्भुवनार्काचलादिकम् ।
यथास्थितोग्रदिक्कालं जगत्स्वं रूपमत्यजत् ॥ ४३ ॥

स्वमेवात्यजतो रूपं चिद्व्योम्न उदरे स्थितम् ।
स्वानुभूत्येकमात्रात्म प्रमातृस्वाप्नपत्तनम् ॥ ४४ ॥

स्वप्नप्रपञ्चदृष्टान्तोऽप्यत्र सुसदृश इत्याह - स्वमेवेति ॥ ४४ ॥

अपृथ्व्यादि कुतस्तत्र किल पृथ्व्यादयो वद ।
तद्भाति केवलं शान्तं चिदाकाशं तथात्मनि ॥ ४५ ॥

साम्यमेवोपपादयति - अपृथ्व्यादीति ॥ ४५ ॥

सर्वादौ स्वप्नकाले च पृथ्व्यादेः सम्भवः कुतः ।
उद्भूयेव जगद्रूपाद्ब्रह्मसत्तात्मनात्मनि ॥ ४६ ॥

करोति पृथ्व्याद्यभिधाः पश्चात्सत्यार्थदा इव ।
न स्मृत्यात्म न साकारं पृथ्व्यादीनामसम्भवात् ।
न भ्रान्तिर्न विवर्तादि जगद्ब्रह्मात्म केवलम् ॥ ४७ ॥

ब्रह्मेदमाकचति चारुजगत्स्वरूपं तच्चैकमेव कचनाकचनात्मनिष्ठम् ।
दृश्याभमप्यमलमेव नभः प्रशान्तं नित्योदितं
प्रलयसर्गमयोदयात्म ॥ ४८ ॥

इदं ब्रह्मैव चारुजगत्स्वरूपमाकचति तच्च कचनाकचनयोः
सर्गप्रलययोरात्मन्यविकृतस्वभावनिष्ठं तदेकरूपमेव दृश्याभं
भातमप्यमलं नभ एव नित्यमनादिकालतः
प्रलयसर्गमयोदयात्मकमुदितमज्ञानामित्यर्थः ॥ ४८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० जगतो ब्रह्मत्वप्रतिपादनं
नाम द्विसप्तत्यधिकशततमः सर्गः ॥ १७२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
ब्रह्मत्वप्रतिपादनं नाम द्विसप्तत्यधिकशततमः सर्गः ॥ १७२ ॥