१७१

एकसप्तत्यधिकशततमः सर्गः १७१

श्रीवसिष्ठ उवाच ।

संविदाकाशकचनमिदं भाति जगत्तया ।
वस्तुतो न जगन्नाभा न शून्यं न च संविदः ॥ १ ॥

जीवन्मुक्तिप्रतिष्ठार्थं सर्वसन्देहशान्तये ।
भूयस्तत्त्वोपदेशेन क्रियते दृश्यमार्जनम् ॥

वस्तुतस्तु न जगत् नापि जगत आभानमाभा नापि शून्यं नापि वृत्तिसंविदः ॥ १ ॥

यदिदं भाति चिद्व्योम जगदाख्यं न तत्ततः ।
आकाशादिव शून्यत्वमन्यदन्यदपि स्थितम् ॥ २ ॥

अज्ञदृष्ट्या अन्यत् स्थितमपि ततश्चिद्व्योम्नोऽन्यन्न । यथा
शून्यत्वमाकाशादन्यन्न तद्वत् ॥ २ ॥

देशाद्देशान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।
तद्दृश्यमिति भातीदं दृश्यमन्यन्न विद्यते ॥ ३ ॥

तथा च निर्विषयमेव चैतन्यं यदेकविषयादपरविषयप्राप्तावन्तराले प्रसिद्धं
तदेव दृश्यमिति भातीत्यर्थः ॥ ३ ॥

महाप्रलयसम्पत्तावादिसर्गः पुनः किल ।
परस्मात्कारणाभावे कुतो दृश्यस्य सम्भवः ॥ ४ ॥

सदेव सोम्येदमग्र आसीत् । यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासन् शिव एव केवलः
इत्यादिश्रुतिषु सन्मात्रपरिशेषलक्षणमहाप्रलयसम्पत्तौ प्राक्सत्यां तदुत्तरं
पुनरादिसर्गः किल भवतीति श्रुतम् । तत्र सदेवेत्यवधारणादविकारात्परस्मादन्यस्य
कारणस्याभावे कुतोऽस्य दृश्यस्य सम्भवः ॥ ४ ॥

तदाणुमात्रमपि हि दृश्यबीजं न विद्यते ।
किल यस्मादिदं चक्रं पुनर्मूर्तं प्रवर्तते ॥ ५ ॥

तत्र श्रुतिविरोधात्परमाण्वादिकारनान्तरकल्पनाया अनवकाश इत्याह - तदेति ।
प्रवर्तते प्रवर्तेत ॥ ५ ॥

उत्पन्नमेव नैवातो मूर्तं दृश्यमिदं जगत् ।
वन्ध्यापुत्र इवात्यन्तमतोऽस्त्येव न दृश्यधीः ॥ ६ ॥

किं ततस्तत्राह - उत्पन्नमेवेति । अनुत्पत्तिप्रतिपादने एव सृष्टिश्रुतीनां
तात्पर्यमित्यर्थः ॥ ६ ॥

यच्चेदं किञ्चिदाभाति दृश्यमित्यभितः स्थितम् ।
तच्चिन्मात्रं खमेवाच्छं परमेव पदं विदुः ॥ ७ ॥

प्रत्यक्षं दृश्यभानस्य का गतिस्तत्राह - यच्चेदमिति । विदुः श्रुतितात्पर्यविद
इत्यर्थः ॥ ७ ॥

यथा सुषुप्तात्स्वप्नत्वं गच्छद्यात्यनवस्थितिम् ।
चिन्मात्रमजहत्स्वच्छं निजं रूपमनामयम् ॥ ८ ॥

चिन्मात्रस्य दृश्याकारेण भानं सुषुप्तात्स्वप्नगमने प्रसिद्धमित्याह -
यथेति ॥ ८ ॥

सर्गस्यादौ तथैवेदमात्मैव स्वात्मनात्मनि ।
व्योमात्मैव चिदाभासं दृश्यमित्यवभासते ॥ ९ ॥

सुषुप्तात्स्वप्नगमनवत्प्रलयात्सर्गगमनमपि तथा बोध्यमित्याह - सर्गस्येति ॥ ९

यथा पुरतया भाति मनः सङ्कल्पमन्थरम् ।
तथा दृश्यमिवाभाति सर्गादौ चिन्नभः परम् ॥ १० ॥

यथात्मन्यनिलः स्पन्दश्चक्रावर्तवदीहते ।
सर्गादौ चिन्नभः स्थित्वा दृश्यमित्येव तिष्ठति ॥ ११ ॥

यथा निलः स्पन्दः सन्नात्मनि स्वस्मिन्नेव चक्रावर्तवद्वात्यावदीहते तथा
चिन्नभोऽप्यज्ञातमात्मन्येव दृश्यमित्येव तिष्ठति ॥ ११ ॥

अतो ज्ञातमनाभातमेव दृश्यं जगत्त्रयम् ।
ब्रह्मैवेदं परं भाति स्वात्मनीत्थमवस्थितम् ॥ १२ ॥

अत एव ज्ञातं चेद्दृश्यं जगत्त्रयमनाभातमेव परं ब्रह्मैव भाति ॥ १२ ॥

नास्त्येव मूर्तं पृथ्व्यादि किञ्चनापि कदाचन ।
अस्तु मूर्तममूर्तं वा ब्रह्मैवेदं विराजते ॥ १३ ॥

अज्ञदृशा ज्ञदृशा वा मूर्तममूर्तं वा अस्तु ब्रह्मैव तथा विराजत इति तु
निष्कर्ष इत्यर्थः ॥ १३ ॥

प्रबोधकाले स्वप्नाद्रिर्यथा व्योमैव निर्वपुः ।
तथेदं शान्तचिन्मात्रं खं प्रबोधे जगत्त्रयम् ॥ १४ ॥

प्रबोधो जागरणं तत्काले । प्रबोधे आत्मप्रबोधे ॥ १४ ॥

प्रबुद्धानां परं ब्रह्म निर्विभागमिदं जगत् ।
धीमन्तोऽपि न तद्विद्मो यदिदं त्वप्रबोधनम् ॥ १५ ॥

धीमन्तश्चिन्तयन्तोपि अप्रबोधनं कीदृशमिति न विद्मः ॥ १५ ॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
स्वस्वभावो हि भूतानां तत्पदं परमात्मकम् ॥ १६ ॥

सर्वभूतानां निर्विषयचिन्मात्रमेव स्वस्वभाव इत्याह - देशादिति ॥ १६ ॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
एतत्तत्परमाकाशमत्र सर्वं प्रतिष्ठितम् ॥ १७ ॥

अत्रेति । सर्वाधिष्ठानमपि निर्विषयचिदेवेत्यर्थः ॥ १७ ॥

यादृगेतत्पदं तादृगिदं सदसदात्मकम् ।
येनार्थपञ्चकादन्यत्किञ्चनापि न विद्यते ॥ १८ ॥

अधिष्ठानानुरूपोऽयमध्यास इत्याह - यादृगिति । केनांशेन सादृश्यं
तदाह - येनेति । येन हेतुना अर्थपञ्चकात्पञ्चभूतेभ्योऽन्यत्किञ्चिन्न विद्यते ।
तथा च स्वातिरिक्तस्वकार्यशून्यत्वमेवास्य ब्रह्मसादृश्यमित्यर्थः ॥ १८ ॥

रूपालोकमनस्कारा एतदेव पदं विदुः ।
एते ते द्रवतावर्ताः पदस्यास्य महाम्भसः ॥ १९ ॥

बाह्येन्द्रियजन्यविषयाभासा रूपालोका आभ्यन्तरमनोधीनास्तु मनस्कारा एते
सर्वेप्येतत्पदमेव ॥ १९ ॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
एतस्याव्यतिरेकेण जगत्ता नास्ति काचन ॥ २० ॥

तथा च निर्विषयचिन्मात्रव्यतिरेकेण जगत्ता नास्तीति प्रसिद्धमित्याह - देशादिति ।
जगत्ता जगद्भावः ॥ २० ॥

रागद्वेषादयो भावा भावाभावदृशस्तथा ।
एतद्रूपममुञ्चन्त एतस्यावयवाः स्थिताः ॥ २१ ॥

एतद्रूपं सद्रूपं भानरूपं च ॥ २१ ॥

त्यक्त्वा पूर्वापरे कोट्यौ मध्ये यत्संविदो वपुः ।
स स्वभावः परो ज्ञेयो जगत्पयसि सञ्ज्ञितः ॥ २२ ॥

शाखाचन्द्रदर्शने पूर्वा कोटिः शाखा अपरा कोटिश्चन्द्रस्तौ त्यक्त्वा मध्ये
यत्संविदो निर्विषयं वपुः प्रसिद्धं स तस्याः स्वभावः स एव
जगल्लक्षणमरुमरीचिकापयस्यधिष्ठानसञ्ज्ञित इत्यर्थः ॥ २२ ॥

देशाद्देशान्तरप्राप्तौ विद्धि मध्यमसंविदः ।
जगदित्यपरं नाम स्व्रूपादच्युतात्मनः ॥ २३ ॥

एतदेवाभिप्रेत्य मया पुनःपुनर्निर्विषयविस्तृतापरोक्षचैतन्यस्य
सकलजनसाधारणप्रसिद्धिप्रद्र्शको देशाद्देशान्तरम् इति श्लोके उद्धुष्यत
इत्याशयेनाह - देशादिति । कूटस्थत्वादेव स्वरूपादप्रच्युतात्मनः ।
जाग्रद्देशात्स्वप्नदेशप्राप्तौ मध्ये सुषुप्तिदशायां यत्संविदो वपुः
पूर्वसर्गदेशात्पुनःसर्गप्राप्तौ मध्ये प्रलये यत्संविदो वपुः
इहलोकदेशात्परलोकदेशप्राप्तौ मध्ये मूर्च्छावस्थायां यत्संविदो वपुस्तदेव
तथैव सर्वदा आस्ते तस्यैव जगदित्यपरं नामाज्ञैः कल्पितमित्यर्थः ॥ २३ ॥

आदिसर्गात्प्रभृत्येव दृश्यमुत्पन्नमेव नो ।
यन्नाम तदिहास्तीति मायाशम्बरडम्बरः ॥ २४ ॥

तथा सति यत्फलितं तदाह - आदिसर्गादिति । जगन्मायालक्षणस्य
शम्बरस्यैन्द्रजालिकस्याडम्बरमात्रमिति फलितमिति भावः ॥ २४ ॥

कष्टं नास्त्येव यद्दृश्यं तदप्यस्तीति संस्थितम् ।
यदप्यस्ति परं ब्रह्म कष्टं नास्तीति तत्स्थितम् ॥ २५ ॥

तथा च मूढानामभाग्यवशादेव मणिर्नास्ति काचोऽस्तीति भ्रान्तिवद्वैपरीत्यभ्रमः
सम्पन्नोऽयमित्याह - कष्टमिति । खेदे कष्टशब्दौ ॥ २५ ॥

अब्रह्मण्यं क्व गच्छामि विपरीतमतो जगत् ।
असद्दृश्यं सदित्युक्तं ब्रह्मैवं नावगम्यते ॥ २६ ॥

अहं तु अब्रह्मण्यं ब्रह्मभावशून्यमतो विपरीतं जगत् क्व गच्छामि क्व लभेय ।
मूढैस्तु असद्दृश्यं सदित्युक्तं तैरपि ब्रह्मैवैवं नाम गम्यते न दृश्यम् ।
असतो गन्तुमशक्यत्वादित्यर्थः ॥ २६ ॥

न चोत्पन्नं न चाभाति दृश्यं किञ्चन कुत्रचित् ।
यदिदं भाति तद्ब्रह्म व्योमैव कचति स्वयम् ॥ २७ ॥

यथा मणिः प्रकचति स्वभासाऽव्यतिरिक्तया ।
आत्मनोऽनन्यया [स्वात्मनः इति टीकानुगुणः पाठः ।] सृष्ट्या
चिद्व्योम कचितं तथा ॥ २८ ॥

अव्यतिरिक्तयेत्यस्य दार्ष्टान्तिके विवरणं स्वात्मनोऽनन्ययेति ॥ २८ ॥

तस्मिन्नेव पदे शान्ते तपत्येष दिवाकरः ।
तस्यैवावयवश्चैव न नामान्योऽस्ति भास्करः ॥ २९ ॥

कथमिदं प्रत्येयमिति चेद्दिवाकरादिजगतः सद्रूपेणैव
सत्सामान्यैकदेशप्रायतया अनुभूयमानत्वादित्याह - तस्मिन्नेवेत्यादिना ॥ २९ ॥

स्थितोऽपि तत्र न तपत्यर्को न च निशाकरः ।
प्रकाशयति देवोऽसावर्कं नार्कस्तमीश्वरम् ॥ ३० ॥

यथा अर्कादयस्तदधीनप्रकाशा न तथा ब्रह्म अर्काद्यधीनप्रकाशमित्याह -
स्थितोऽपीति । तपति प्रकाशयति । तथा च श्रुतिः न तत्र सूर्यो भाति न चन्द्रतारकं नेमा
विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं
विभाति इति ॥ ३० ॥

तस्य भासा विभातीदं तदहो दृश्यमण्डलम् ।
सर्वचन्द्रार्कवह्नीनां पदार्थानां स दीपकः ॥ ३१ ॥

स साकारो निराकार इति शब्दार्थकल्पना ।
खपुष्पवदसद्रूपा न सम्भवति तद्विदाम् ॥ ३२ ॥

विषयासत्त्वादेवासद्रूपा ॥ ३२ ॥

साङ्गभूतो यथैकोऽणुर्भाति जीवार्कतेजसि ।
न भान्ति भान्ति वा तत्र तथा सूर्यादयोऽणवः ॥ ३३ ॥

जीवभूतस्य जगत्पश्यतोऽस्यार्कस्य तेजसि जालान्तरे यथा एकोऽणुर्भाति तथा
अपरिच्छिन्नचित्प्रकाशे ब्रह्मणि एते अर्कादयो भान्ति न भान्ति वेत्यनादरोक्तिः ॥ ३३ ॥

चिन्मात्राकाशरत्नस्य सृष्टयोऽर्कादिसंयुताः ।
या भासस्ताः कथं तस्माद्व्यतिरिक्ताः स्युरुच्यताम् ॥ ३४ ॥

न हि रत्नात्तद्भासोऽतिरिक्ताः ॥ ३४ ॥

चिन्मात्रेणापि रहितं शून्यत्वेनापि वर्जितम् ।
पदं सर्वात्मरिक्तं तत्सर्वार्थैश्च समन्वितम् ॥ ३५ ॥

अचिदप्रसिद्धौ व्यावर्त्याभावाच्चिन्मात्रेणापि रहितम् ॥ ३५ ॥

पृथ्व्यादीन्यपि सन्त्येव तत्र सन्ति न कानिचित् ।
जीवन्तोऽपि न विद्यन्ते जीवास्तत्र च केचन ॥ ३६ ॥

अत्यजन्तो द्वयस्थौल्यं तत्रैते परमाणवः ।
स्वरूपमत्यजद्द्वैतमैक्यं वात्र न किञ्चन ॥ ३७ ॥

अवयवद्वयघटनप्रयुक्तं स्थौल्यमत्यजन्त एव तत्र चित्प्रकाशे एते सूर्यादयः
परमा निरवयवा अणवः । स्व्रूपं सत्ताम् ॥ ३७ ॥

किञ्चिदत्र न किञ्चिद्वै न किञ्चिच्च न किञ्चन ।
किञ्चिन्न किञ्चिदित्येषा कलनात्रातिदूरगा ॥ ३८ ॥

किञ्चिदिति । व्यवहारमात्रस्य निरासे विरोधाविरोधयोरपि तत्र निरासादिति भावः ॥ ३८ ॥

एका निरन्तरानन्ता नित्यमत्याततात्मना ।
चिन्मात्रव्योमसत्तैव जगन्नाम्नात्मनि स्थिता ॥ ३९ ॥

एकं चेत्यं त्यक्तवत्या अप्राप्तायाश्चितोऽपरम् ।
यद्रूपं जगतो रूपमस्य नानात्मनोऽपि तत् ॥ ४० ॥

देशाद्देशान्तरम् इति श्लोकस्य तात्पर्यं तत्र साधकत्वेन वर्णयति - एकमिति ॥ ४० ॥

नानेवेदमनानैव चिद्व्योमैवेदमाततम् ।
भूतपञ्चकरूपेण स्वप्ने चितिरिव स्थितम् ॥ ४१ ॥

चितिर्जीवचैतन्यमिव । तथा च बादरायणस्य भगवतः सूत्रम् आत्मनि चैवं
विचित्राश्च हि इति ॥ ४१ ॥

सुषुप्ताद्विशतः स्वप्नं सुषुप्तस्थैव चिद्यथा ।
यथा स्थितैव स्वप्नत्वमेत्येवं सर्गतामिमाम् ॥ ४२ ॥

तथा च सुषुप्तात्स्वप्न इव प्रलयात्सर्गात्मना चिदेव भातीत्याह - सुषुप्तादिति ॥ ४२ ॥

यादृक्सुषुप्तं स्वप्नतु तादृगेव तथैव च ।
जाग्रत्तुर्यं तथैवेदमतो व्योमसमं जगत् ॥ ४३ ॥

तदेव स्पष्टयति - यादृगिति ॥ ४३ ॥

जाग्रत्स्वप्नः सुषुप्तं च तुर्यमेवाखिलं स्थितम् ।
तत्त्वविद्गोत्रमूढस्तु यद्वै वेत्ति न वेद्मि तत् ॥ ४४ ॥

तत्त्वविदां गोत्रं ब्रह्मविद्यासम्प्रदायस्तद्विषये मूढस्तु पामरो यद्वेत्ति तदहं
न वेद्मि ॥ ४४ ॥

जडानामजडानां यः सर्वार्थानामनारतम् ।
दुर्लक्ष्यपरिणामोऽन्तर्मनोबुद्ध्यादिवर्जितः ॥ ४५ ॥

जडानां जगतामजडानां जीवानां चान्तः स्थित्वा योऽन्तर्यामितया दुर्लक्ष्यमेव
यथा स्यात्तथा जगत्परिणामयतीति दुर्लक्ष्यपरिणाम ईश्वरः स एव शोधिताया
जीवचितेः पारमार्थिकं रूपम् । जगत्पदार्थाश्च तन्मया एवेति तदेव जगदाकारेण
स्थितमिति निष्कर्ष इति द्वयोरर्थः ॥ ४५ ॥

सुशुद्धायाश्चितो रूपं पदार्थास्तन्मयाश्च ते ।
ते वसन्ति न सद्रूपास्तदेव हि तथा स्थितम् ॥ ४६ ॥

परिणामादिशब्दार्थदृशामत इहानघ ।
उपदेशार्थमुक्तीनां गन्धोऽप्येवं न विद्यते ॥ ४७ ॥

ननु यदि पृथिव्यादिपदार्थाश्चिद्रूपा एव न चिद्रूपात्पृथक् सन्ति
तर्ह्यन्तर्यामितया तत्परिणामयितृत्वं कथं तत्राह - परिणामादीति ।
उपदेशार्थं परिणामं लौकिकमङ्गीकृत्य प्रवृत्तानामुक्तीनां न
परमार्थतः परिणामपरतेत्यर्थः ॥ ४७ ॥

आदिसर्गात्प्रभृत्येव महासत्तात्मनात्मनि ।
चिन्मात्रपरमाकाशं स्थितमेकं महात्मनः ॥ ४८ ॥

कुत्र तर्हि तात्पर्यं तदाह - आदिसर्गादिति । महात्मनस्तत्त्वविदः प्रपूर्णैकात्मनि
प्रख्या अनुभूतिरत्र प्रमाणमित्युत्तरान्वयि ॥ ४८ ॥

प्रपूर्णैकात्मनि प्रख्या सा सर्वव्यापिनी चितिः ।
स्थिता तयात्मन्येवान्तर्जगदित्यभिधाः कृताः ॥ ४९ ॥

अभिधाः अज्ञान्प्रति कृताः ॥ ४९ ॥

परिज्ञाते यथा स्वप्ने स्वाङ्गीकारात्सुखं सुखम् ।
अनङ्गीकारतो दुःखं सदुःखं भवति क्षणात् ॥ ५० ॥

तथा च प्रबोधे यादृश आत्मा परिशिष्यते
तदङ्गीकाराद्यद्यज्जगत्कौतुकमनुभूतं तत्सर्वं सुखं सुखमेव भव्ति ।
अप्रबोधे तदनङ्गीकारे तु सदुःखं यद्यदनुभूयते जन्ममरणजरामयादि
तत्सर्वं दुःखमेव भवति स्वप्नप्रबोधाप्रबोधवदित्याह - परिज्ञाते इति ॥ ५० ॥

गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतस्तथा ।
नित्यमेकं समाधानं स्थितं शान्तस्य तद्विदः ॥ ५१ ॥

अत एव तद्विदो दुःखविक्षेपाभावान्नित्यं समाधानसुखमेवेत्याह - गच्छत
इति ॥ ५१ ॥

भेदेऽप्यभेदनिष्ठस्य दुःखेऽपि हि सुखस्थितेः ।
सतोऽप्येवासतो ज्ञस्य किमन्यदवशिष्यते ॥ ५२ ॥

बहिःसंसारे सतोऽप्यन्तर्मुक्तत्वात्तत्रासत एव । अन्यत्किं साध्यं परिहरणीयं वा
अवशिष्यते ॥ ५२ ॥

न सन्त्यजति नादत्ते किञ्चिद्व्यवहरन्नपि ।
हृदयेन बहिःकार्येऽकार्य एवावतिष्ठते ॥ ५३ ॥

बहिःकार्ये व्यवहरन्नपि हृदयेन किञ्चिन्न सन्त्यजति नादत्ते च किन्त्वकार्ये
ब्रह्मण्येवावतिष्ठते ॥ ५३ ॥

यथा हिमस्य शीतत्वं वह्नेरौष्ण्यं तथेदृशः ।
स्वभावोऽस्य भवेन्नित्यं न त्वाहार्यो गुणोऽस्य सः ॥ ५४ ॥

एवंस्थितिश्चास्य स्वभाव एव न तु यत्नेन आहार्यः सम्पाद्यो गुणः ॥ ५४ ॥

यस्य त्वेष स्वभावः स्यान्न नाम न स तत्त्ववित् ।
एतदेवाज्ञताचिह्नं यदिच्छा प्रकृतेतरा ॥ ५५ ॥

प्रकृतेतरा आत्मातिरिक्तविषयिणी ॥ ५५ ॥

आश्वस्तान्तःकरणः क्षीणविकल्पः स्वरूपसारमयः ।
परमशमामृततृप्तस्तिष्ठति विद्वान्निरावरणः ॥ ५६ ॥

यो निरावणो विद्वान् स आश्वस्तान्तःकरणः सदा समाहितचित्तः
प्रक्षीणशत्रुमित्रादिविकल्पः स्वात्मसुखसारप्रचुरः परमेण शमामृतेन सदैव
तृप्तस्तिष्ठति ॥ ५६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ०
द्वैतैक्यनिरामययोगोपदेशो नामैकसप्तत्यधिकशततमः सर्गः ॥ १७१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
द्वैतैक्यनिरामययोगोपदेशो नामैकसप्तत्यधिकशततमः सर्गः ॥ १७१ ॥