सप्तत्यधिकशततमः सर्गः १७०
श्रीराम उवाच ।
ब्रह्मन्कोऽस्य सुहृद्ब्रूहि येनासौ रमते सह ।
रमणं किंस्वभावं स्यादुत रत्यात्म वास्य तत् ॥ १ ॥
सुहृत्स्वकर्मनामात्र पुत्रस्त्रीभृत्यसंयुतः ।
तद्गुणाश्चोपवर्ण्यन्ते रमणं च सुखोदयम् ॥
अस्य जीवन्मुक्तस्य तेन सुहृदा सह यद्रमणं तत्किं स्वभावः
स्वात्मस्वरूपावस्थितिरेव वा स्यादुत रतिः रम्येषु भोगस्थानेषु विहारप्रयुक्ता
प्रीतिस्तदात्मकमित्यर्थः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
स्वप्रवाहेहितं नाम स्वप्रायेहितनाम च ।
स्वकर्म नाम चास्यास्ते मित्रमेकमकृत्रिमम् ॥ २ ॥
प्रवाहेहितं सहजं कर्म प्रायेहितं लोकसङ्ग्रहार्थं शास्त्रीयं कर्म
स्वप्रयत्नाभ्यस्तं
सच्छास्त्राभ्यासविचारसत्सङ्गशमदमतितिक्षोपरमशौचसन्तोषेश्वर##-
त्रिभिर्नामभिरुपाधिभेदाद्व्यपदिश्यते । अत एवैकं मित्रमित्युक्तिः ॥ २ ॥
पितृवद्विहिताश्वासं दारा इव नियन्त्रणम् ।
सङ्कटेषु दुरन्तेषु नित्यमव्यभिचारि च ॥ ३ ॥
तस्य सुहृदो गुणानाह - पितृवदित्यादिना । अकार्यविषये
लज्जानियन्त्रणमव्यभिचारि च ॥ ३ ॥
अशङ्कितोपचरणं सुसम्पादितनिर्वृति ।
कोपेष्वकोपनतया वितीर्णावर्जनामृतम् ॥ ४ ॥
वितीर्णमावर्जनं साम्ना समाधानं तल्लक्षणममृतं येन ॥ ४ ॥
दुर्गदुर्गमदुर्वारदोषोद्धरणतत्परम् ।
सर्वविश्वासरत्नानां कोश आशैशवोषितम् ॥ ५ ॥
एवं दुर्गेषु दुर्गमेषु मार्गेषु दुर्वारवैरकलहादिदोषेषु च मज्जने प्रसक्ते
उद्धरणतत्परम् । अनेकजन्माभ्यासानुवृत्तत्वादाशैशवोषितम् ॥ ५ ॥
सहपांसुकृताक्रीडमाबाल्यादेव सङ्गतम् ।
विनिवारितदुश्चेष्टं पितृवद्रक्षणोन्मुखम् ॥ ६ ॥
तदेवाभिप्रेत्याह - सहेत्यादिना ॥ ६ ॥
वह्नेरिवौष्ण्यं सौगन्ध्यं कुसुमस्येव सर्वदा ।
अविनाभावि विमलं रवेरिव च वासरम् ॥ ७ ॥
लालनैकरतं नित्यं पालनैकपरायणम् ।
सर्वसङ्कटसङ्घट्टरक्षणैकसमुद्यतम् ॥ ८ ॥
हेम्नोऽग्निरिव देहस्य सर्वावस्थस्य शुद्धिदम् ।
इदं हेयमुपादेयमिति दर्शनतत्परम् ॥ ९ ॥
सर्वावस्थस्य अशुचिस्पर्शभक्षणादिना अशुद्ध्याद्यवस्थस्यापि । दर्शने विविच्य
प्रदर्शने तत्परम् ॥ ९ ॥
आह्लादकमनिन्द्याभिः कथाभिरिव नागरम् ।
सच्चेष्टामणिमाणिक्यभाण्डसम्भारमन्दिरम् ॥ १० ॥
नागरं नगराभिजनं चतुरमिवेति यावत् । सच्चेष्टाः शुभा
वाङ्मनःकायचेष्टास्तल्लक्षणानां मणिमाणिक्यानां भाण्डसम्भारमन्दिरं
कोशगृहम् ॥ १० ॥
सूर्यस्तम इवाजस्रमप्रदर्शयदप्रियम् ।
अनुरक्ता महेलेव प्रियमेवाप्रदर्शयत् ॥ ११ ॥
अप्रदर्शयत् दूरतो निरस्यदित्यर्थः । महेला महिलेव ॥ ११ ॥
जनं प्रियंवदं कुर्वत्प्रियमेव समाचरत् ।
पेशलं मधुरं स्निग्धमक्षुब्धमुदिताशयम् ॥ १२ ॥
उदिताशयमप्रमादि ॥ १२ ॥
लोकोपचारकं पूज्यं स्मितपूर्वाभिभाषणम् ।
कामोपशान्तं सद्रूपं परमार्थैककारणम् ॥ १३ ॥
लोकानां सङ्गतसज्जनानामुपचारकं शुश्रूषकम् । कामेभ्य उपशान्तमत एव
सतां रूपमिव रूपं यस्य सद्रूपम् ॥ १३ ॥
रणेऽज्ञानसमुद्भूते पूर्वं प्रहरणोद्यतम् ।
अपूर्वनर्मनिर्माणलीलाललनलालकम् ॥ १४ ॥
अज्ञानेभ्यो जनेभ्यो दैवात्समुद्भूते रणे सम्प्रहारे पूर्वं प्रहरणे
उद्यतमतिशूरमिति यावत् । अपूर्वैर्लोकोत्तरैर्नर्मन्निर्माणैः
क्रीडाहास्यादिकौतूहलनिर्माणैर्लीलया ललनैश्च लालकं विलासयितृ ॥ १४ ॥
पालकं शीलसाराणां दाराणां च कुलस्य च ।
आधिव्याधिपरीतस्य चेतसोऽमृतमौषधम् ॥ १५ ॥
अमृतवदुज्जीवनमौषधमिव रोगहरं च ॥ १५ ॥
विशेषविद्यावैदग्ध्यवादवन्द्यविनोदनम् ।
समानकुलशीलत्वाद्द्विधाभाव इव स्थितम् ॥ १६ ॥
विशेषतो विद्यावैदग्ध्येन पाण्डित्येन वादैश्च वन्द्यानामुत्कृष्टानां
प्रभुगुरुमान्यादीनां विनोदनं कौतुकावहम् । क्वचित्समानकुलशीलत्वाद्विभागेन
द्विधाभावे स्थितमिव ॥ १६ ॥
अनुरक्तान्नृपान्साधून्वदान्यान्कारयत्सदा ।
यज्ञदानतपस्तीर्थन्यायार्थप्रेरणोन्मुखम् ॥ १७ ॥
नृपादीननुरक्तान्कृत्वा वदान्यान्दानशौण्डान् कारयत् । सदेति
देहलीदीपकन्यायेनोभयत्र सम्बध्यते ॥ १७ ॥
पुत्रदारद्विजातिस्त्रीभृत्यबन्धुजनैः सह ।
शुभभोजनपानार्हमुत्तमश्लाघ्यसङ्गति ॥ १८ ॥
उत्तमैः श्लाघ्यैर्महद्भिः सह सङ्गतिर्येन ॥ १८ ॥
भोगादिबद्धतृष्णत्वं दुःखदं विनिवारयत् ।
सुस्निग्धसङ्कथोदारं समाश्वासोत्तमास्पदम् ॥ १९ ॥
ईदृशेनात्ममित्रेण स कलत्रेण संयुतः ।
स्वकर्मनाम्ना रमते स्वभावेनैव नेरितः ॥ २० ॥
स्वभावेन सहजवृत्त्यैव न तु केनचिदीरितः प्रेरितः सन्नित्यर्थः ॥ २० ॥
श्रीराम उवाच ।
कलत्रमस्य मित्रस्य तदीयस्य मुनीश्वर ।
किं तत्किंरूपमेव स्यात्समासेनैव मे वद ॥ २१ ॥
कलत्रं स्त्रीपुत्रादिपोष्यवर्गः । तत्सहितस्य तदीयस्य मित्रस्य तत्कलत्रं किं तच्च किं
रूपं कीदृशगुणवदित्यर्थः ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
स्नानदानतपोध्याननामानोऽस्य महामते ।
सन्ति पुत्रा महात्मानः स्वनुरक्ताखिलप्रजाः ॥ २२ ॥
तत्रादौ पुत्रानाह - स्नानेति । गुणैः स्वनुरक्ता अखिलाः प्रजा येषाम् ॥ २२ ॥
चन्द्रलेखेव लोकस्य दृष्ट्यैवाह्लाददायिनी ।
अविनाभाविनी भार्या मुदितास्यानुरागिणी ॥ २३ ॥
तस्य भार्यां गुणैः सह वर्णयति - चन्द्रलेखेवेति । मुदिता नित्यसन्तुष्टा ॥ २३ ॥
करुणाकारणाकीर्णधना हृदयहारिणी ।
आनन्दजननी चास्य वयस्याऽव्यभिचारिणी ॥ २४ ॥
करुणा दया तत्कारणात् आसमन्तात्कीर्णं विक्षिप्तं विकीर्णं धनं यया ॥ २४ ॥
समतास्य मता नित्यमास्ते हृदयवल्लभा ।
प्रतीहारी पुरः प्रह्वा सम्मुखं सुखदायिनी ॥ २५ ॥
समतानाम्नी हृदयवल्लभा प्रिया भार्या । प्रतीहारी द्वारपालिका ॥ २५ ॥
धैर्ये धर्मे च धीः साधो नित्यमाधीयते च या ।
सास्य धीरस्य धुर्यस्य पुरो धन्यस्य धावति ॥ २६ ॥
धैर्ये धर्मे च विषये या धीः सा ॥ २६ ॥
अस्य सन्ना समं स्कन्धे सर्वदैव महौजसः ।
विषयारिजये राज्ञो मैत्री मन्त्रप्रदायिनी ॥ २७ ॥
अस्य राज्ञः सुहृदो विषयारिजये विषये मन्त्रप्रदायिनी मैत्री नामापरा भार्या
समतया समं सर्वदैव स्कन्धे सन्ना सक्ता ॥ २७ ॥
कार्याणामार्यमर्यादाचार्या चातुर्यशालिनी ।
सर्वेषामस्य मान्यस्य सत्यता स्वार्थदायिनी ॥ २८ ॥
आर्यमर्यादाकार्याणां विषये अस्य आचार्या उपदेष्ट्री । अस्य सत्यता स्वार्थदायिनी
धनाध्यक्षा ॥ २८ ॥
इत्येवम्परिवारेण मित्रेण सह मन्त्रिणा ।
स्वकर्मणा व्यवहरन्न हृष्यति न कुप्यति ॥ २९ ॥
एवंविधः परिवारः पोष्यवर्गो यस्य तथाविधेन मन्त्रिणा सुहृदा स्वकर्मणा
सर्वत्र व्यवहरन् जीवन्मुक्तो लाभालाभयोर्न हृष्यति न कुप्यति ॥ २९ ॥
स यथास्थितमेवास्ते विनिर्वाणमना मुनिः ।
चित्रार्पित इवाजस्रं लोके व्यवहरन्नपि ॥ ३० ॥
चित्रार्पितो योद्धेव युद्धादिना व्यवहरन्नपि यथास्थितमेवास्ते ॥ ३० ॥
वस्तुशून्येषु वादेषु मूकः शैलमयो यथा ।
निष्प्रयोजनशब्देषु परं बाधिर्यमागतः ॥ ३१ ॥
शैलमयः शिलाप्रतिमारूप इव ॥ ३१ ॥
लोकाचारविरुद्धेषु शवं सकलकर्मसु ।
आर्याचारविचारेषु वासुकिर्वा बृहस्पतिः ॥ ३२ ॥
शवं मृतकल्पः ॥ ३२ ॥
प्रवृत्तवाक्पुण्यकथो जिह्मानां प्रतिभानवान् ।
निमेषेणैव निर्णेता वक्ताशु बहु वस्तुनः ॥ ३३ ॥
जिह्मानां स्वपरकौटिल्यादिदोषाणां प्रतिभानवान् । वस्तुनो दुरूहस्यापि
सन्देहपदस्य निर्णीय वक्ता ॥ ३३ ॥
समदृष्टिरुदारात्मा वदान्यः संविभागवान् ।
पेशलस्निग्धमधुरः सुन्दरः पुण्यकीर्तनः ॥ ३४ ॥
स्वभाव एषैव भवेत्प्रबुद्धधियां प्रयत्नेन तु नेदृशास्ते ।
भवन्ति नेन्द्वर्कहुताशनाद्याः क्वचित्परप्रेरणया प्रकाशाः ॥ ३५ ॥
एष वर्णितो गुणगणः प्रबुद्धधियां स्वभाव एव भवेत् । ते प्रयत्नेन ईदृशा
ईदृग्गुणा न भवन्ति । इन्द्वर्कहुताशनाद्याः परप्रेरणया प्रकाशन्त इति प्रकाशा
न भवन्ति किन्तु स्वभावत एव तद्वदित्यर्थः ॥ ३३५ ॥
इत्यार्षे श्रीवाष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि०
तत्त्वज्ञव्यवहारवर्णनं नाम सप्तत्यधिकशततमः सर्गः ॥ १७० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
तत्त्वज्ञव्यवहारवर्णनं नाम सप्तत्यधिकशततमः सर्गः ॥ १७० ॥