एकोनसप्तत्यधिकशततमः सर्गः १६९
श्रीवसिष्ठ उवाच ।
न सुखाय सुखं यस्य दुःखं दुःखाय यस्य नो ।
अन्तर्मुखमतेर्नित्यं स मुक्त इति कथ्यते ॥ १ ॥
भूयो विश्रान्तचित्तस्य जीवन्मुक्तस्य भूरिशः ।
लक्षणान्यभिधीयन्ते सुप्तिश्चात्मवतः सदा ॥
यद्यबोधो मन्दाधिकारिणां त्वया लिङ्गैरुपलक्षितस्तर्ह्यबोधापगमः
कैर्लिङ्गैर्ज्ञायते इति मुक्तलक्षणजिज्ञासून्रामादीन्प्रति तानि भगवान्वसिष्ठ आह
- न सुखायेत्यादिना । सुखं सुखसाधनविषयजातम् । अन्तर्मुखी
प्रत्यगात्मासक्ता मतिर्यस्य ॥ १ ॥
यस्य न स्फुरति प्रज्ञा चिद्व्योमन्यचलस्थितेः ।
प्रसृतेष्विव भोगेषु स मुक्त इति कथ्यते ॥ २ ॥
न स्फुरति न सञ्चलति । प्रज्ञा बुद्धिः । यथा अज्ञानां बुद्धिः प्रसृतेषु
भोगेष्वासक्ता ततो न चलति तद्वदित्यर्थः ॥ २ ॥
चिन्मात्रात्मनि विश्रान्तं यस्य चित्तमचञ्चलम् ।
तत्रैव रतिमायातं स जीवन्मुक्त उच्यते ॥ ३ ॥
श्लोकद्वयार्थं स्फुटमाह - चिन्मात्रात्मनीति ॥ ३ ॥
परमात्मनि विश्रान्तं यस्य व्यावृत्त्य नो मनः ।
रमतेऽस्मिन्पुनर्दृश्ये स जीवन्मुक्त उच्यते ॥ ४ ॥
तत्रैवेत्येवकारार्थं विवृणोति - परमात्मनीति ॥ ४ ॥
श्रीराम उवाच ।
न सुखाय सुखं यस्य दुःखं दुःखाय यस्य नो ।
जडमेव मुने मन्ये मानवं तमचेतनम् ॥ ५ ॥
आद्यश्लोकोक्तलक्षणस्य जडोन्मत्तमूर्च्छितेषु रामो व्यभिचारं शङ्कते - न
सुखायेति ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
चिद्व्योमैकान्तनिष्ठत्वात्प्रयत्नेन विना सुखम् ।
न वेत्ति शुद्धबोधात्मा यः स विश्रान्त उच्यते ॥ ६ ॥
अन्तर्मुखमतेरिति तत्र विशेषणेनैव व्यभिचारस्य निवारितत्वान्न कश्चिद्दोष
इत्याशयेन वसिष्ठस्तत्तात्पर्यं विशदयन्नुत्तरमाह - चिद्व्योमेति । न
सुखायेत्यत्र वा प्रयत्नेन विनेति विशेषणीयमित्याशयेनाह - प्रयत्नेनेति ॥ ६ ॥
सर्व एव परिक्षीणाः सन्देहा यस्य वस्तुतः ।
सर्वार्थेषु विवेकेन स विश्रान्तः परे पदे ॥ ७ ॥
लक्षणान्तराण्याह - सर्व एवेत्यादिना । सर्वार्थेष्विति ।
सर्वसन्देहानामज्ञानमूलत्वान्मूलाज्ञानक्षयेण सर्वसन्देहक्षयोपपत्तेरिति
भावः । तथा च श्रुतिः भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते
चास्य कर्माणि तस्मिन्दृष्टे परावरे इति ॥ ७ ॥
यस्य कस्मिंश्चिदप्यर्थे क्वचिद्रसिकतास्ति नो ।
व्यवहारवतोऽप्यन्तः स विश्रान्त उदाहृतः ॥ ८ ॥
रसिकता रागवत्ता ॥ ८ ॥
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
यथाप्राप्तं विहरतः स विश्रान्त इति स्मृतः ॥ ९ ॥
अविश्रामे निरालम्बे दीर्घे संसारवर्त्मनि ।
चित्त्वादात्मनि विश्रान्तिः प्राप्ता येन जयत्यसौ ॥१० ॥
चित्त्वाच्चिन्मात्रत्वदर्शनात् ॥ १० ॥
धावित्वा ये चिरं कालं प्राप्तविश्रान्तयः स्थिताः ।
ते सुप्ता इव लक्ष्यन्ते व्यवहारपरा अपि ॥ ११ ॥
धावित्वा चिरं भ्रमित्वा धावनश्रमनिवारणाय सुप्ता इव लक्ष्यन्ते । तथा च
विषयेष्वधावनमेव स्पष्टं तल्लक्षणमिति भावः ॥ ११ ॥
ते हि चेत्यचिदाभासनभस्याभान्ति भामयाः ।
भास्करा उदिता नित्यं नेह तिष्ठन्ति ते क्वचित् ॥ १२ ॥
चेत्यचिदाभासौ दृश्यद्रष्टारौ तदुभयशून्ये नभसि स्वचित्ताकाशे भामयाः
शुद्धचिद्रूपा भास्करा उदिता भान्ति । इह संसारे ॥ १२ ॥
सदेहा व्यवहारस्था अपि सुप्ता इवोत्तमाः ।
प्रक्षीणा इव लक्ष्यन्ते जडाभा न तु ते जडाः ॥ १३ ॥
प्रक्षीणा विदेहा इव लक्ष्यन्ते । जडाभा मुग्धसदृशाः ॥ १३ ॥
सुप्ता इवेह शय्यासु ये स्वप्ननगरे स्थिताः ।
सुप्ता इति त उच्यन्ते न तु ते जडतां गताः ॥ १४ ॥
सुप्ता इति पदतात्पर्यं विवृणोति - सुप्ता इवेत्यादिना आसर्गसमाप्तेः । जडतां
निद्रापरवशताम् ॥ १४ ॥
दीर्घाध्वपरिविश्रान्तो विश्रान्तो न ददाति यः ।
वाक्यं स सुखमौनस्थः प्रोच्यते न जडाकृतिः ॥ १५ ॥
केनांशेन तर्हि सुप्तसाम्यमिति चेद्विश्रान्तिमौनाभ्यामित्याह - दीर्घेति ।
परिभ्रमणाद्विश्रान्तो निवृत्तः । विश्रान्तो गतश्रमः सन् यो न ददाति नोच्चारयति
बहिर्मुखेभ्यः ॥ १५ ॥
या निशा सर्वभूतानामविद्यास्तमयात्मिका ।
परो बोधः परा शान्तिस्तत्रासौ सममास्थितः ॥ १६ ॥
उलूकप्रायाणामविद्यान्धकारे व्यवहरतां सर्वभूतानां या तदस्तमयात्मिका
निशा स परो बोधः । समं एकरसम् ॥ १६ ॥
यस्मिञ्जाग्रति भूतानि दृश्येऽस्मिन्दुःखदायिनि ।
तत्रासौ सततं सुप्तस्तन्न पश्यत्यसौ सुखी ॥ १७ ॥
सुप्त इत्यस्य विवरणं तन्न पश्यतीति । तथा च भगवता गीतासु या निशा इति श्लोके
लक्षणद्वयं दर्शितमिति भावः ॥ १७ ॥
यः कर्मौघमनादृत्य स्वात्मन्येवावतिष्ठते ।
स आत्माराम इत्युक्तो न जडोऽसौ रघूद्वह ॥ १८ ॥
सर्वकर्मसन्न्यासोऽपि तल्लक्षणमित्याह - य इति ॥ १८ ॥
दुःखादतिगतः सोऽस्मात्प्राप्तः पारं भवाम्बुधेः ।
तिष्ठत्यनुभवन्भव्यो विश्रान्तिसुखमात्मनि ॥ १९ ॥
दीर्घाध्वनि परिश्रान्तो विषयैश्चतुरैश्चिरम् ।
भोगभावातुरः क्रूरैः प्रोत्थितः पथि डामरैः ॥ २० ॥
धावित्वा ये चिरं कालं इति श्लोकार्थं प्रपञ्चयति - दीर्घाध्वनीत्यादिना ।
वञ्चनचतुरैर्विषयैश्चैरं डामरैर्देशोपप्लवैर्भोगसामग्रीलुण्ठनैरिव
प्रोत्थितः प्रस्थितः ॥ २० ॥
जरातुषाराशनिभिर्भूयोभूयो जडीकृतः ।
जन्मजङ्गलसारङ्गो व्यर्थव्यग्रविहारवान् ॥ २१ ॥
जरालक्षणहिमाशनिभिर्जडीकृतो व्यवहाराक्षमः कृतः ॥ २१ ॥
परमात्मपरिक्रान्तो दुःखकण्टकसङ्कटे ।
सुदुष्प्रापसुखच्छाये पान्थः संसारवर्त्मनि ॥ २२ ॥
परं आत्मना स्वेनैवासहायेन परिक्रान्तश्चलितः ॥ २२ ॥
दुष्कृतैः कृतपाथेयो लुठन्क्षीणः पदे पदे ।
अर्थानर्थमयैर्मार्गैः सङ्कटैर्विवशीकृतः ॥ २३ ॥
दुष्कृतैः पापार्जितधनैः । पदे पदे क्षीणः पतितः सन् लुठन् ॥ २३ ॥
संसारजलधेः पारं प्राप्य भूतविवर्जितम् ।
अशय्योऽतिप्रमाबुद्धः स शेते सुखमात्मवान् ॥ २४ ॥
एवं श्रान्तोऽयं दैवात्साधनसम्पत्त्या सच्छास्त्रसद्गुरुप्रसादादतिप्रमया
तत्त्वसाक्षात्कारेण प्रबुद्धः सन् संसारजलधेः पारं प्राप्य स आत्मवानशय्यः
शय्यारहितोऽपि सुखं शेते इति सर्वेषामन्वयः ॥ २४ ॥
अपसर्पं निरस्तेहमस्वप्नमसुषुप्तकम् ।
प्रबुद्धमबहिर्निद्रं हा शेते सुखमात्मवान् ॥ २५ ॥
शयनार्थिभिः सर्प्यन्ते अपसृप्यन्ते इति सर्पाणि गृहापवरकप्रासादपर्यङ्कादीनि
तद्रहितं यथा स्यात्तथा निरस्तेहं प्राणादिचेष्टारहितं यथा स्यात्तथा
प्रबुद्धमात्मस्वरूपे जागरूकता यथा स्यात्तथा
स्वरूपबहिर्भूतनिद्राख्यवस्त्वन्तररहितं च यथा स्यात्तथा शेते । हा इत्याश्चर्ये ॥
२५ ॥
जात्यश्ववदिहाजातिरश्नन्गच्छन्श्वसन्वदन् ।
लोकमध्ये महारण्ये हा शेते सुखमात्मवान् ॥ २६ ॥
जात्यश्वो ह्यश्नन् गच्छंस्तिष्ठंश्च निद्राति समरे एव केवलं जागर्तीति
लोकप्रसिद्धेर्जात्यश्ववदित्युक्तिः ॥ २६ ॥
अपूर्वैव घना निद्रा कापि सा तत्त्वदर्शिनाम् ।
या न शाम्यति कल्पाभ्ररवैर्नाङ्गविकर्तनैः ॥ २७ ॥
अपूर्वा अलौकिकी । तत्रोपपत्तिर्येति ॥ २७ ॥
अपूर्वैव घना निद्रा कापि सा तत्त्वदर्शिनाम् ।
प्रबुद्धानामपि हि या निमीलयति दृग्दृशौ ॥ २८ ॥
दृग्दृशौ चिन्मात्रदर्शने प्रबुद्धानामपि या प्रमीलयति बाह्येन्द्रियाणीत्यर्थः ।
अथवा व्यवहारे प्रबुद्धानामपि या दृशां बाह्येन्द्रियाणां दृशिः
रूपादिदर्शनं तद्विषये प्रमीलयति संवृणोति ॥ २८ ॥
अनिमीलितनेत्रस्य यस्य विश्वं प्रलीयते ।
स क्षीवः परमार्थेन हा शेते सुखमात्मवान् ॥ २९ ॥
परमार्थेन स क्षीबो न तु मदेन क्षीबः ॥ २९ ॥
विनिगीर्य जगत्सर्वं परमां पूर्णतां गतः ।
आतृप्तेरमृतं पीत्वा हा शेते सुखमात्मवान् ॥ ३० ॥
अमृतमपरिच्छिन्नानन्दरसम् ॥ ३० ॥
निरानन्दमहानन्दी सुखमद्वैतमक्षयम् ।
निरालोकमहालोको हा शेते सुखमात्मवान् ॥ ३१ ॥
निरालोके आलोकान्तराभास्ये स्वात्मनि महानालोकः प्रकाशो यस्य ॥ ३१ ॥
लोभान्धकारोपरमो लोकलम्पटतां गतः ।
अघनत्वघनाभोगो हा शेते सुखमात्मवान् ॥ ३२ ॥
अघनत्वे अमूर्तानन्दरसे घन आभोग आस्वादो यस्य ॥ ३२ ॥
अनन्तदुःखमाशान्तमशान्तं जनतास्थितौ ।
अबहिर्मुखमाभोगि हा शेते सुखमात्मवान् ॥ ३३ ॥
दुःखमा दुःखानुभवस्तद्विषये शान्तमुपरतम् । जनतास्थितौ
वर्णाश्रमोचितव्यवहारे लोकसङ्ग्रहार्थमशान्तमनुपरतम् । अबहिर्मुखं
बाह्यार्थानासक्तम् । आन्तरसुखाभोगि । क्रियाविशेषणानि सर्वाणि ॥ ३३ ॥
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
कृत्वात्मानं नभःशय्यं हा शेते सुखमात्मवान् ॥ ३४ ॥
नभश्चिदाकाश एव शय्या यस्य तथाविधं कृत्वा ॥ ३४ ॥
परमाणौ परमाणौ जगत्कोटिशतान्यपि ।
अणौ स्थूले दधद्देहे हा शेते सुखमात्मवान् ॥ ३५ ॥
सौक्ष्म्यादणौ विभुतया स्थूले च चिद्देहे । प्रतिपरमाणु जगत्कोटि"षतान्यनन्तानि
जगन्ति दधद्धारयन् ॥ ३५ ॥
कुर्वन्संहारसर्गौघानकुर्वंश्च कथञ्चन ।
परमालोकशय्यायां हा शेते सुखमात्मवान् ॥ ३६ ॥
संसारनिचयस्वप्नं परिज्ञाय सुषुप्तताम् ।
नयन्प्रकटदिग्दीर्घां हा शेते सुखमात्मवान् ॥ ३७ ॥
पूर्णप्रकाशेन प्रकटा दिश इव दीर्घामपरिच्छिन्नामिति यावत् ॥ ३७ ॥
सर्वेषां जगदर्थानां सत्तासामान्यतां गतः ।
आकाशादधिको व्यापी हा शेते सुखमात्मवान् ॥ ३८ ॥
सद्रूपेण सर्वत्रानुगमात्सत्तासामान्यताम् । आकाशादिति । ज्यायानाकाशात् इति श्रुतेरिति
भावः ॥ ३८ ॥
अच्छाच्छमम्बरं कृत्वा जगदप्यम्बरीकृतम् ।
शान्तशब्दपरश्वासं हा शेते सुखमात्मवान् ॥ ३९ ॥
आदौ प्रविलापनेनाम्बरीकृतमाकाशतां नीतं जगत्
अच्छादव्याकृताकाशादप्यच्छं चिदम्बरं कृत्वा शान्तौ शब्दश्च
परश्वासः प्रश्वासश्च यस्मिन्कर्मणि तथा । अम्बरमास्तरणवस्त्रमच्छादच्छं
कृत्वा अम्बरीकृतं प्रावारीकृतं जगदप्याच्छाद्य
शान्तघुर्घुराशब्दप्रश्वासं शेते इत्युत्तानार्थः ॥ ३९ ॥
इदमस्मज्जगत्पश्यन्स्वयमाकाशकोणके ।
विशदाकाशकोशात्मा हा शेते सुखमात्मवान् ॥ ४० ॥
स्वयं प्रत्यगात्मभूतो यश्चिदाकाशस्तत्कोणके स्वप्नमिव इदं जगत्
स्वप्नाभासमिव पश्यन् ॥ ४० ॥
यथा प्रवाहसम्प्राप्तव्यवहारमनोरमे ।
तृण्यास्तरणविश्रान्तो हा शेते सुखमात्मवान् ॥ ४१ ॥
व्यवहारलक्षणे मनोरमे तृणानां समूहस्तृण्या कटस्तदास्तरणे विश्रान्त
इत्येतत्पर्यन्तं समस्तमेकं पदम् ॥ ४१ ॥
परमेण स्वयत्नेन परिज्ञानात्स्वरूपिणा ।
स्वप्नसन्दर्शनेनैव जीवम् खमिव खेन खे ॥ ४२ ॥
यथा जागरूकस्य निद्रानुभूतस्वप्नस्य परमेण
प्रयत्नेनानुसन्धानात्स्मृतियोग्यस्वरूपता तथा कथञ्चित्परमेण प्रयत्नेन
स्वपरप्रयत्नेन चित्तमीषद्बहिर्मुखीकृत्य बाह्यव्यवहारपरिज्ञानादापाततः
स्वरूपवता देहादिना जीवन् । यथा निरवकाशे स्थातुमशक्तं खं खात्मकेनैव
द्वितीयमिव कल्पितेन लब्धावकाशं खे आकाशस्वरूपे जीवति सत्तां लभते
तद्वदित्यर्थः ॥ ४२ ॥
ज्ञानेनाकाशकल्पेन धर्मान् गगनसन्निभान् ।
ज्ञेन यत्नेन सम्बुद्धः परमाम्बरतां गतः ॥ ४३ ॥
आकाशकल्पेन स्वरूपज्ञानेन अत्यन्तासत्त्वाद्गगनसन्निभान्
जीवजगल्लक्षणान्धर्मान्यत्नेन ज्ञेन प्रयत्नापादितज्ञातृभावेन स्वस्यैव यः
सम्बुद्धः सम्यग्बुद्धवान् । मतिबुद्दि इति कर्तरि क्तः ॥ ४३ ॥
प्रबुद्धः सुप्तः सुप्तोऽपि प्रबुद्धो रमतेऽनिशम् ।
सुषुप्तोभूत्ततो जाग्रत्स्वप्नार्थसुहृदा सह ॥ ४४ ॥
एवं जीवन्मुक्तस्याज्ञविषये स्वापमुपवर्ण्य परमार्थे सदा प्रबुद्धतामाह -
प्रबुद्धः सुप्त इति । प्रबुद्धस्तत्त्ववित् एवंरीत्या सदा सुप्तोऽपि लोकप्रसिद्धयोः
प्रबोधस्वापयोर्लोकवदेव प्रबुद्धः सुप्तश्च सन् जाग्रत्स्वप्नार्थभोगे
सहायभूतेन वक्ष्यमाणेन सुहृदा सह अनिशं रमते । ततः सुषुप्तस्तु संस्तेन
सहैव सुषुप्तोऽभूदित्यर्थः ॥ ४४ ॥
जन्मान्तरैकसहवाससमाशयेन चित्रानुवृत्तिमधुरेण चिरन्तनेन ।
मित्रेण सार्धमखिलानि दिनानि नीत्वा विश्रान्तिमेष्यति पदे परमे चिरं सः ॥ ४५ ॥
यावत्प्रारब्धभोगं तेन सुहृदा सह क्रीडित्वा [] तस्य तदन्ते
विदेहमुक्तिमाह - जन्मान्तरेति । स जीवन्मुक्तो जन्मान्तरेषु एकतया
चिरसहवासप्रयुक्तस्नेहातिशयादिव सर्वं स्ववैषम्यं परित्यज्य समाशयेन
समचित्तेन अत एव चित्राभिः
शमदमतितिक्षाज्ञानवैराग्यसन्तोषाद्यनुवृत्तिभिर्मधुरेण उत्तरत्र
वक्ष्यमाणेन चिरन्तनेन मित्रेण सार्धमखिलान्यायुःशेषदिनानि
वक्ष्यमाणरमणेन नीत्वा परमे निरतिशयानन्दे विदेहकैवल्यपदे विश्रान्तिमेष्यति
प्राप्स्यति ॥ ४५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० नि० उ० अवि० श०
विश्रान्तचित्तवर्णनं नामैकोनसप्तत्यधिकशततमः सर्गः ॥ १६९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विश्रान्तचित्तवर्णनं नामैकोनसप्तत्यधिकशततमः सर्गः ॥ १६९ ॥