अष्टषष्ट्यधिकशततमः सर्गः १६८
श्रीवसिष्ठ उवाच ।
अबुद्धिपूर्वमेवागो यथा शाखाविचित्रताम् ।
करोत्येवमजश्चित्राः सर्गाभासः ख एव खम् ॥ १ ॥
अबुद्धिपूर्वकः सर्गस्याध्यारोपोऽत्र वर्ण्यते ।
चिन्मात्रात्मा च स चितोऽविकारित्वादपोद्यते ॥
मिथ्यात्वसिद्धये सर्गस्याबुद्धिपूर्वकत्वं दृष्टान्तैः समर्थयति -
अबुद्धिपूर्वमित्यादिना । अगो वृक्षो यथा अबुद्धिपूर्वं अहं शाखावैचित्र्यं
करोमीति बुद्धिपूर्वकतां विना । अजो जन्मादिविक्रियाशून्यः परमात्मा खे
आकाशकल्पे स्वात्मनि खं शून्यात्मिकाश्चित्रा विचित्राः सर्गाभासः
प्रपञ्चाध्यासान्करोति । ननु स ऐक्षत लोकान्नु सृजा इति सोऽकामयत बहु स्यां
प्रजायेयेति स तपोऽतप्यत सतपस्तप्त्वा इदं सर्वमसृजत तपसा चीयते ब्रह्म
ततोऽन्नमुपजायते इत्यादिश्रुतिषु बुद्धिपूर्वक एव सर्ग उद्घोष्यते
तत्कथमत्राबुद्धिपूर्वकः सर्ग इति प्रत्यक्षश्रुतिविरुद्धमुच्यत इति चेत् शृणु ।
भवेदेतदेवं यदि श्रुतेः सर्गादिप्रतिपादने तात्पर्यं स्यात् । न तु तदस्ति ।
प्रयोजनाभावात् । न हि सर्गादिज्ञानेन किञ्चित्प्रयोजनं श्रुतम् ।
अद्वितीयब्रह्मात्मताज्ञानं हि प्रयोजनवदुपक्रान्तं सर्वश्रुतिषु । तस्य फलवतः
सन्निधौ श्रुतमफलं सर्गादिकैमर्थक्याकाङ्क्षायां तदङ्गतां प्रतिपद्यते ।
सा चास्य शाण्डिल्यविद्याङ्गशमविधिपरे सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त
उपासीत इति वाक्ये यत इदं सर्वं जगत्तस्माज्जायत इति तज्जम् । तस्मिन् लीयत इति तल्लम् ।
तेनानिति प्राणिति जीवतीति तदन् उत्पत्तिस्थितिप्रलयेषु तदधीनसत्ताकमतः सर्वं खल्विदं
तद्ब्रह्मैवेति ब्रह्माद्वैतव्युत्पादनोपायतया सर्गादेर्ज्ञानाङ्गभावस्य श्रुत्यैव
सिद्धवत्कीर्तनात्प्रकारान्तरेण तद्घटनायोगात्
तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यादिसूत्रभाष्यादिव्युत्पादितयुक्तिसहस्रेभ्यः
स्मृतिपुराणाद्युपबृंहणसहस्रेभ्यश्चाध्यारोपापवादाभ्यां
निष्प्रपञ्चब्रह्मात्मतत्त्वव्युत्पादने सर्गश्रुतीनां तात्पर्ये निश्चिते
रज्जुसर्पशुक्तिरजतमरुमरीचिकास्वप्नाद्यध्यारोपेष्वबुद्धिपूर्वकत्वमेव दृष्टं
न क्वचिदारोपे बुद्धिपूर्वकता लोके दृश्यत इति भगवता
वसिष्ठेनात्रानारोपितत्वशङ्का कस्यचित्सर्गे मा भूदित्यबुद्धिपूर्वकता प्रसाध्यते
। श्रुतिषु ईक्षणादिपूर्वकत्वकीर्तनं तु ब्रह्मणः सर्वज्ञत्वचिदेकरसत्वादिलाभेन
साङ्ख्याद्यभिमता चेतनप्रधानाद्युपादानकत्वनिरासे पर्यवस्यति ।
ईक्षतेर्नाशब्दम् इत्यादिसूत्रैस्तथैव श्रुतितात्पर्यवर्णात् । तस्य त्रय आवसथास्त्रयः
स्वप्नाह् यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्
इत्यादिश्रुतिदृष्टान्तानुगुण्यात् । भगवदीक्षणकामसङ्कल्पादीनां
बुद्धितत्त्वोत्पत्तेः पूर्वभाविनां मायावृत्तिमात्रत्वेन तत्पूर्वकत्वेऽपि
कामसङ्कल्पादिधर्मिबुद्धिपूर्वकत्वाभावोपपत्तेः । अध्यारोपस्य
त्वम्पदार्थनिष्ठस्यैव चापवादेन निरासस्य तन्मुक्तिफलत्वोपपत्तेस्तत्पदार्थे
जगदध्यारोपप्रतिपादने प्रयोजनाभावात्प्रपञ्चस्य स्वनिष्ठाविद्याकार्यत्वे
स्वविद्यया निरासोपपत्तेः
स्वस्मिंश्चाबुद्धिपूर्वकस्यैवावस्थात्रयाध्यारोपस्यानु##-
यथा करोत्यबुद्ध्यादिरावर्तादि पयोनिधिः ।
तथा करोति खे खात्मा सर्वेशः सर्ववेदनाः ॥ २ ॥
अबुद्ध्यादिः अबुद्धिपूर्वः सन् । सर्ववेदनाः जगत्प्रतिभासान् ॥ २ ॥
तासां स्वसंविदामेव ततः स कुरुते स्वयम् ।
मनो बुद्धिरहङ्कार इत्याद्या विविधाभिधाः ॥ ३ ॥
तासां जगदाकाराणां स्वसंविदां स्वयमेव मनो बुद्धिरित्याद्यभिधा नामानि
सर्गादौ यथाश्रुति कुरुते इत्यर्थः ॥ ३ ॥
अबुद्धिपूर्वमारम्भो दृश्यरूपः स्वतश्चितेः ।
सङ्कल्प्यमानो बुद्ध्यादिस्तरङ्गादिर्यथाम्बुधेः ॥ ४ ॥
चितेर्बुद्ध्यादिसिद्धिपर्यन्तमबुद्धिपूर्वं स्वत एवारम्भः । यस्तु
बुद्धिसिद्ध्यनन्तरं सङ्कल्प्यमान आरम्भः स बुद्ध्यादिर्बुद्धिपूर्वः ।
तरङ्गादिरित्युभयत्र दृष्टान्तः ॥ ४ ॥
चिन्मात्रात्सम्प्रवर्तन्ते मनोबुद्ध्यादयस्तथा ।
आवर्तकणकल्लोलवीचयो वारिधेर्यथा ॥ ५ ॥
भित्तिमात्रं यथा चित्रजगदालोकमात्रकम् ।
चिति चिद्व्योममात्रात्म तथैवाभासमात्रकम् ॥ ६ ॥
आलोक्यत इत्यालोकस्तन्मात्रकं चित्रलिखितं जगद्यथा भित्तिमात्रं तथा चिति आभास्यत
इत्याभासस्तन्मात्रकमिदं जगच्चिद्व्योममात्रात्मैव ॥ ६ ॥
अबुद्धिपूर्वमारम्बो नियत्या सन्निवेशवान् ।
यथा सम्पद्यते वृत्ते तथा सर्गात्मकश्चिति ॥ ७ ॥
वृत्ते प्रागुक्तवृक्षपयोनिध्यादिचरित्रे यथा अबुद्धिपूर्वं प्रवृत्तोऽपि
शाखावर्ताद्यारम्भो नियत्या तुल्यसन्निवेशवान्सम्पद्यते तथा चिति
सर्गाकारोऽप्यारम्भस्तुल्यसन्निवेशवान्भविष्यतीति न तदर्थमपि
बुद्धिपूर्वकत्वापेक्षेत्यर्थः ॥ ७ ॥
तरौ गुलुच्छकादीनां यथान्यः कुरुतेऽभिधाः ।
तथा चिद्वृक्षपुष्पादिपृथ्व्यादिविहिताभिधम् ॥ ८ ॥
समष्टिबुद्ध्याद्युत्तरकालिकं चिद्वृक्षपुष्पादिप्रायपृथ्व्यादि तु
चिदन्यबुद्धिसमष्ट्यात्महिरण्यगर्भादिना विहिताभिधं कृतनामधेयं
बोध्यम् ॥ ८ ॥
अनन्यत्पुष्पपत्रादि यथा नाम महातरोः ।
तथैवानन्यदेवेदं चिद्व्योम्नः परमात्मनः ॥ ९ ॥
अनन्यत् अभिन्नम् ॥ ९ ॥
तराववयवेष्वन्यः करोति विविधाभिधाः ।
चिद्व्योमात्मनि सर्वेषु भूत्वान्य इव खात्मसु ॥ १० ॥
अन्यो व्यष्टिजीव इव भूत्वा स्वपुत्रादिषु कार्यान्तरेषु च सर्वेषु विविधा अभिधा नामानि
करोति ॥ १० ॥
चित्तरोः पल्लवाः सर्गाश्चित्त्वादेव न सन्त्यलम् ।
कार्यकारणवद्भाति स एव स्वप्नवत्स्वयम् ॥ ११ ॥
एवं नामरूपाध्यारोपं प्रपञ्च्येदानीमपवादमारभते - चित्तरोरित्यादिना । स
चित्तरुरेव ॥ ११ ॥
वक्षि चेत्कथमेतस्माद्व्यर्थं तदनुभूयते ।
सर्गाद्यमुत्र स्वप्नादिष्वेषु कोऽपह्नवं भजेत् ॥ १२ ॥
यदि सर्गादि नास्त्येव तर्हि चिता अमुत्र परलोके व्यर्थं तदनुभूयत इत्यापतति । तत्तु न
युक्तम् । विहितनिषिद्धकर्मफलत्वायोगप्रसङ्गादिति हेतोरेतत्कथं स्यादिति त्वं वक्षि
आक्षिपसि चेत्तर्हि स्वप्नादिष्वेषु प्रसिद्धरज्जुसर्पमृगतृष्णिकाद्यनुभवेषु मध्ये
को वैयर्थ्यापह्नवं भजेत् । तस्यापि स्वाप्नभोगप्रदकर्मफलत्वाविशेषात् । यदि च
भोगाभासमात्रविभावनेन तत्र कर्मसाफल्यं ब्रूषे तर्हि प्रकृतेऽपि सममिति
भावः ॥ १२ ॥
तरावाकारवत्येषा कल्पना रचिता यथा ।
चितेराकाशमात्रायास्तथैषा कल्पना कृता ॥ १३ ॥
एतावांस्तु साकाराध्यासेषु सर्वादिभ्यश्चितेर्विशेषो यत्साकारे साकाराध्यासास्ते चिति तु
निराकारे जगदध्यास इत्याशयेनाह - तराविति ॥ १३ ॥
यथा गन्धादयः पुष्पे गगने शून्यतादयः ।
यथा स्पन्दादयो वायौ तथा बुद्ध्यादयः परे ॥ १४ ॥
यथा गन्धादयः पुष्पे गगने शून्यतादयः ।
यथा स्पन्दादयो वायौ तथेमाः सृष्टयश्चिति ॥ १५ ॥
सृष्टयः पृथ्व्यादयोऽपि ॥ १५ ॥
यथा खानिलपुष्पाणां शून्यतास्पन्दगन्धदृक् ।
शून्यरूपानुभूता च तथा सर्गस्थितिश्चिति ॥ १६ ॥
खस्य शून्यतादृक् अनिलस्य स्पन्ददृक् पुष्पाणां गन्धदृक् च यथा अनुभूतापि
तद्व्यतिरेकशून्यरूपा तथा चिति सर्गस्थितिरपीत्यर्थः ॥ १६ ॥
न पृथक् शून्यता व्योम्नो न पृथग्द्रवताम्भसः ।
न पृथक् कुसुमाद्गन्धो नानिलात्स्पन्दनं पृथक् ॥ १७ ॥
तदेव स्पष्टमाह - नेत्यादिना ॥ १७ ॥
अग्नेर्न पृथगुष्णत्वं पृथक् शैत्यं च नो हिमात् ।
चिद्व्योमैकात्मनः स्वच्छान्न जगत्पृथगीश्वरात् ॥ १८ ॥
सर्गादावेव यद्व्योम्नि स्वप्नाद्धृदि च दृश्यते ।
अकारणं तच्चिद्व्योम्नः कथमन्यद्भवेत्किल ॥ १९ ॥
कुतो न पृथक् तत्राह - सर्गादावेवेति । यतः अकारणं ततो न पृथगित्यर्थः ।
विनाकारणं कूटस्था चित्कथमन्या भवेत् । वदन्त्वित्यर्थः । किलेति प्रश्ने ॥ १९ ॥
स्वप्न एवात्र दृष्टान्तो नित्यदृष्टो विचार्यताम् ।
चिन्मात्रव्यतिरेकेण सारं किं तत्र कथ्यताम् ॥ २० ॥
तदिदं बुद्धिसंस्कारदृ"ष्यमित्यादिका स्मृतिः ।
न सम्भवति यत्तत्त्वं कथयेदं कथं भवेत् ॥ २१ ॥
ननु स्वप्नः स्मृतिरेव । इतरस्मृतिषु संस्कारजासु विषयशून्यासु तत्ता भासते । इह
तु निद्रादोषवशादिदन्तागोचरत्वांशेऽपि संस्कारोद्बोधात्तत्तांशप्रमोषादिदन्ता
भासत इति तदिदं बुद्धिजन्यसंस्कारदृश्यमुभयत्राप्येकं वस्त्वित्यादिका
शङ्का तु न सम्भवति । यद्यस्मात्तत्त्वं तत्ता इदं इदन्ता कथं भवेत् । अपरोक्षे
हीदन्ता प्रसिद्धा स्मृतौ त्वसन्निकृष्टं वस्तु परोक्षमेव । अतः कथमिदं
घटते कथयेत्यर्थः ॥ २१ ॥
यत्तत्र दृष्टं तदिह स्मृतिकाले भवेद्यदि ।
नानुभूयेत तत्तत्र कैवैकस्य द्विधा स्थितिः ॥ २२ ॥
ननु स्वाप्नस्मृतिकाले तत्रारण्यादौ दृष्टं व्याघ्रादि इह स्वप्नप्रदेशे निद्रया
सन्निधाप्यते इति यदि इदन्ता तत्र भवेत्तर्हि तत्रारण्ये तद्व्याघ्राद्यन्यैस्तदा
नानुभूयेत । निद्रया एक एव व्याघ्रो द्विधा स्थाप्यत इति चेत्तत्राह - कैवेति ॥ २२ ॥
तस्मादावर्तवृत्त्येदं काकतालीयवज्जगत् ।
चिति यद्भाति तत्रैषा पश्चात्स्वप्नादिकल्पना ॥ २३ ॥
तस्मात्स्वाप्नबोधस्यानुभवत्वानपह्नवाद्दृष्टान्तोऽस्त्येवेति स्वोक्तं
सिद्धमित्युपसंहरति - तस्मादिति । पश्चाज्जाग्रत्स्वप्नानुभवसिद्ध्यनन्तरम् ॥ २३
॥
अबुद्धिपूर्वं सम्पन्ने सर्गे वीच्यादयो यथा ।
सन्निवेशः स्थितिः पश्चात्स्वयं सम्पद्यते तथा ॥ २४ ॥
जातमेव न तज्जातं जातं यत्कारणं विना ।
यतोऽजातं तदेवाद्यं तत्समं संस्थितं तथा ॥ २५ ॥
यतः अजातमिति च्छेदः ॥ २५ ॥
अबुद्धिपूर्वं सञ्जाता रत्नादीनां यथार्चिषः ।
सत्तैव सन्निवेशेन तथैवासां जगद्दृशाम् ॥ २६ ॥
ब्रह्मसत्तैव जगद्दृशां सन्निवेशेन वेषेण स्फुरतीति शेषः ॥ २६ ॥
यथाकथञ्चिदेवेदमान्दौ सम्पद्यते जगत् ।
पश्चाद्गृह्णाति नियतिमावर्तोऽब्धाविवात्मनि ॥ २७ ॥
यथाकथञ्चित् अनिर्वचनीयमायाकारणबलादेव । नियतिमर्थक्रियानियतिलक्षणां
सत्यताम् ॥ २७ ॥
चिद्व्योम्नि स्वप्नजालानि चिज्जगन्त्यपकारणम् ।
प्रवर्तन्ते निवर्तन्ते शून्यशून्यात्मकान्यपि ॥ २८ ॥
यावत्सर्वमथान्योन्यं याति कारणतां चिरम् ।
तेषां शून्यात्मका एव पदार्था ईश्वरादयः ॥ २९ ॥
ईश्वरादय इति । ईश्वरत्वस्यापि मायासापेक्षरूपत्वादिति भावः ॥ २९ ॥
जायते शून्यमेवेदं शून्यमेव च वर्धते ।
ननु शून्यतयात्यन्तं शून्यमेव विनश्यति ॥ ३० ॥
शून्यमविद्यमानम् ॥ ३० ॥
शून्यं कचत्यशून्याभं दृष्टान्तं स्वप्नमत्र यः ।
अपह्नुतेऽनुभूतं स पशुभर्तृकुकं कुधीः ॥ ३१ ॥
अत्र असतोऽपि कचने दृष्टान्तभूतस्वप्नं स्वानुभूतं योऽपह्नुते अपलपति स
कुधीर्मेषपालः सन् पशुभर्तुर्महामेषस्य साक्षात्स्वयं दृष्टं कुकं कोकनं
कुकः । कुक आदाने इत्यस्माद्घञर्थे कः । वृककर्तृकमादानां
तमप्यपह्नुयादित्यर्थः ॥ ३१ ॥
असदेवेदमाभाति भ्रान्तिमात्रं सुकृत्रिमम् ।
चिच्चमत्कारमात्रात्म ज्ञे सन्मात्रमकृत्रिमम् ॥ ३२ ॥
चितो मायाविन्याश्चमत्कार एवात्मा स्वरूपं यस्य तदेव ज्ञे अकृत्रिमं सन्मात्रं
न जगदित्यर्थः ॥ ३२ ॥
अयं चिरस्थसङ्कल्पः सर्गप्रलयविभ्रमः ।
ज्ञानं स्वभावकचनमज्ञानं भ्रान्तिजृम्भणम् ॥ ३३ ॥
अयं प्रपञ्चधातुश्चिरस्थसङ्कल्पात्मक एव सर्गप्रलयविभ्रमो नान्यः । तस्य
तात्त्विकस्वभावकचनं तत्त्वज्ञानं भ्रान्त्याकारेण जृम्भणं त्वज्ञानमिति
बोध्यमित्यर्थः ॥ ३३ ॥
झटित्युदेति ब्रह्मात्म दृश्यं दृष्टमकारणम् ।
खे सुषुप्तादिव स्वप्नः पश्चान्नियतिमृच्छति ॥ ३४ ॥
मायोपहितब्रह्मात्म झटित्येव दृश्यं भूत्वा अकारणमेवोदेतीति दृष्टम् । यथा
दृश्यशून्ये आत्मनि सुषुप्तादनन्तरं स्वप्नो
दृष्टस्तद्वत्पश्चादर्थक्रियाव्यवस्थया कार्यकारणभावादिनियतिं ऋच्छति
गच्छति ॥ ३४ ॥
काकतालीयवच्चित्त्वाच्चिति दृश्यं प्रकाशते ।
स्वयमेव स्वभावस्थमावर्तादि यथाम्बुधौ ॥ ३५ ॥
अकस्माद्दृश्यस्फुरणे निमित्तापेक्षा नास्तीत्याह - काकतालीयवदिति ।
स्वभावस्थं चित्स्वभावमात्रनिबन्धनं ॥ ३५ ॥
ईदृशो नाम चिद्धातुरयमाकाशमात्रकः ।
यदित्थं नाम कचति जगद्रूपेण चिद्वपुः ॥ ३६ ॥
स्वभावमेव विशदयति - ईदृश इति ॥ ३६ ॥
तेन चिद्रूपिणा पश्चाद्दृश्येनात्मनि कल्पिताः ।
सञ्ज्ञाः स्मृत्यादिपृथ्व्यादिबुद्ध्यादिकलनात्मिकाः ॥ ३७ ॥
प्रथममबुद्धिपूर्वदृश्याकारप्रतिभासाद्दृश्यभूतेन तेन चिदात्मना
पश्चादात्मनि अतीतमिति भाते स्मृत्यादिकलनात्मिकाः वर्तमानमिति भाते च
पृथ्व्यादितद्बुद्ध्यादिकलनात्मिकाः सञ्ज्ञाः कल्पितास्तथा च सर्वोऽप्ययं
तात्कालिकप्रतिभासे अविभक्ते बुद्ध्यादिविभागः कल्पनामात्रमित्यर्थः ॥ ३७ ॥
श्रीराम उवाच ।
एवं स्थिते हे भगवन्बुद्धिसंस्कारतः स्मृतिः ।
इति किं प्राप्यते ब्रूहि सम्बुद्धा यदि न स्मृतिः ॥ ३८ ॥
यदि तात्कालिकप्रतिभासेष्वेव विभागसञ्ज्ञाभेदकल्पनामात्रं जगत्तर्हि
प्रतिभासक्षणमात्रस्थायि जगदप्रतिभासकाले नास्त्येवेति फलितम् । तथा च
प्रतिभासस्योत्तरक्षणे नाशे जगतोऽपि नाशात्क्षणभङ्गवादप्रसङ्गः । अस्तु नाम
तथा मायामये जगति स्थायित्वव्यवस्थापनस्यापि ब्रह्मविदः प्रयोजनाभावादिति
चेन्न । लोके स्मृतिप्रत्यभिज्ञादेः
पूर्वानुभूतगोचरत्वनियमाधीनवेदशास्त्रादिप्रामाण्यभङ्गापत्त्या
ब्रह्मवादस्य मूलशैथिल्यापत्तेरित्याशयेन रामः शङ्कते - एवं स्थिते इति ।
एवं त्वदुक्तरीत्या तात्कालिककल्पनामात्रत्वे जगतः स्थिते पूर्वोत्पन्नबुद्धेः
प्रामाणिकादनुभवाज्जातात्संस्कारतः स्मृतिः प्रत्यभिज्ञा चेति
सर्वशिष्टानुभवसिद्धो नियमः किं प्राप्यते कथं लभ्यते । यदि स्मृतिः
प्रत्यभिज्ञा सम्बुद्धा प्रागनुभूतविषयिणी नाभ्युपगम्यते । अत्रोत्तरं
ब्रूहीत्यर्थः ॥ ३८ ॥
श्रीवसिष्ठ उवाच ।
शृणु राम भिनद्भ्येनं प्रश्नं सिम्ह इवेभकम् ।
अभेदं स्थापयाम्येकमालोकमिव भास्करः ॥ ३९ ॥
तत्र भगवान्वसिष्ठ आक्षेपं बहु मन्यमानः समाधानं प्रतिजानीते -
शृण्विति । प्रश्नमाक्षेपं भिनद्मि युक्त्या विदारयामि । अभेदमद्वैतमात्मतत्त्वम्
॥ ३९ ॥
विद्यते जगदात्मेदं दृश्यं चिन्मात्रकोटरे ।
अनुत्कीर्णा यथा वृक्षे वनस्था शालभञ्जिका ॥ ४० ॥
भवेदयं दोषो यदि प्रागसदेव जगत्क्षणिकप्रतिभासेन सहोत्पद्यत इति
बौद्धराद्धान्ताभ्युपगमे । न तु तथा वयमभ्युपगच्छामः किन्तु
नित्यब्रह्मसत्तात्मकमेव जगन्नित्यचिदात्मकेनैव प्रतिभासेन सदाभिव्यक्तियोग्यमपि
अविद्यावरणविक्षेपशक्तिवैचित्र्यचमत्कारेण कदाचिदाविर्भूतमिव तिरोभूतमिव
घटपटाद्याकारविशेष इव च्छिन्नमिव भिन्नमिव
कारणैरुत्पादितमिवापरोक्षमिवैकमिव नानेव भिन्नाभिन्नमिव क्षणिकमिव
स्थायीवातीतं वर्तमानं भविष्यदिवेत्यादिनानाचमत्कारैर्नियतैश्चानियतैः
सदृशैर्विसदृशैश्चावभासत इति । तत्र च स्मृतिप्रत्यभिज्ञादिकं
सर्वमुपपद्यत एवेत्याशयेन समाधातुमारभते - विद्यते इत्यादिना ।
वनस्थेत्यानन्त्यद्योतनाय ॥ ४० ॥
उद्धरेद्वृक्षतस्तक्षा कदाचिच्छालभञ्जिकाम् ।
अद्वितीयाच्चितिस्तम्भादुत्कीर्णां कः करोति ताम् ॥ ४१ ॥
उद्धरेत्तदावरककाष्ठावयवनिरसनेन यथा प्रकटयेत्तथा
अद्वितीयात्कर्त्रादिकारकशून्याच्चितिस्तम्भात्तां जगच्छालभञ्जिकां सम्यगुत्कीर्णां
कः तदन्यः करोतीत्यकारकतन्त्रत्वाद्दारुप्रतिमावत्तदभिव्यक्तिर्न भवतीत्यर्थः ॥ ४१
॥
स्तम्भे जडेन सा व्यक्तिमनुत्कीर्णेह गच्छति ।
चिति त्वन्तर्गता चित्त्वादेवात्मन्येव भात्यलम् ॥ ४२ ॥
तर्हि सा कथं व्यक्तिं गच्छति तत्राह - चिति त्विति ।
तदधिष्ठानचित्यावरणन्निवृत्तौ तादृशचिद्बलादेव चन्द्रान्तर्गतो राहुरिव
आत्मनि चिदात्मन्येव अलं भाति व्यक्तिं गच्छतीत्यर्थः ॥ ४२ ॥
भासमाना त्वनुत्कीर्णदेहैवापि च खात्मिका ।
स्वरूपादच्युता चैव चिन्मात्रादात्मनि स्थिता ॥ ४३ ॥
तर्हि सा प्रलयसुषुप्त्योरपि किं न भातीति चेत्सत्तासामान्यात्मना भात्येवेत्याह -
भासमाना त्विति । तु शब्दः सर्गकालाद्विशेषद्योतनार्थः ॥ ४३ ॥
सर्गादौ सर्गकलनाः करोति कलनावती ।
सा चित्स्वभावतः स्वप्ने खात्मन्यद्योदितामिव ॥ ४४ ॥
सर्गादावपि सा चित् प्रथमं प्रागुक्तनिर्विकल्पकलनावती सती
पश्चाद्भोजकादृष्टानुसारेणोद्भूतैर्मनोविकल्पैर्विचित्राः सर्गकलनाः करोति ।
यथा स्वप्ने अद्योदितां कलनामिव हृदये सङ्कल्पयतीति परेण सम्बन्धः ॥ ४४ ॥
आकाश एव हृदये परमाकाशरूपिणी ।
सङ्कल्पयति चिच्छालभञ्जिकाः स्वात्मनात्मनि ॥ ४५ ॥
इयं ब्रह्मकला सेह चिन्मात्रकलना त्वियम् ।
इयं चितिरियं जीवस्त्वहङ्कारस्त्वसाविति ॥ ४६ ॥
कथं कथं विशेषविभागान्सर्गादौ सङ्कल्पयति तत्प्रपञ्चयति - इयमित्यादिना
। इयं ब्रह्मकला सत्तासामान्यरूपा जगद्बीजभूता । इहास्यां ब्रह्मकलायामेव
सेयं चिन्मात्रकलना सदा अनावृतस्वभावा तत्प्रतिबिम्बचितिरियम् । इयमेव
प्राणादिसंवलिता जीवः । असावभिमानवृत्तिप्रधानस्तु अहङ्कारः ।
अध्यवसानप्रधाना बुद्धिरित्याद्यूह्यम् ॥ ४६ ॥
इयं बुद्धिरियं चित्तमयं काल इदं नभः ।
अयं सोऽहं क्रिया चेयमिदं तन्मात्रपञ्चकम् ॥ ४७ ॥
इन्द्रियाणामिदं वृन्दं पुर्यष्टकमिदं स्मृतम् ।
इहातिवाहिको देहस्तथायं चाधिभौतिकः ॥ ४८ ॥
इह एतत्सङ्घाते । अयं पञ्चीकृतभूतमयः ॥ ४८ ॥
ब्रह्माहं शङ्करश्चाहमुपेन्द्रोऽहमहं रविः ।
इदं बाह्यमिदं चान्तरयं सर्ग इदं जगत् ॥ ४९ ॥
इत्यादिकलनाजालं चिद्व्योमैवातिनिर्मलम् ।
तस्मात्क्वैते पदार्थौघाः क्व स्मृतिः क्व द्वयैकते ॥ ५० ॥
इत्यादि सर्वं कलनाजालमतिनिर्मलं चिद्व्योमैव न ततोऽन्यदणुमात्रमपीत्यर्थः ।
तस्मादज्ञकल्पिता जडपदार्थौघा एते क्व तिष्ठन्तीत्यर्थः ॥ ५० ॥
अकारणकमेवेति जगदाभोगिखण्डकः ।
सर्गादौ स्वप्नवद्भाति खे खात्मैव विकारिवत् ॥ ५१ ॥
इति अनया रीत्या ॥ ५१ ॥
व्योम्न्येव कचति व्योम चिन्मये चिन्मयं हि यत् ।
बुद्धं तदेव तेनैव जगद्बोधात्क्व तज्जगत् ॥ ५२ ॥
क्व स्मृतिः क्व च वा स्वप्नः क्व कालाः कलनाश्च काः ।
चिदाभानमिदं भाति शान्तं शून्यमिवाम्बरे ॥ ५३ ॥
यदैकमेव चिद्व्योम तदा प्रपञ्चितविभागा न सन्त्येवेति फलितमित्याह - क्वेति ॥
५३ ॥
यदन्तश्चिद्घनस्यास्ति तद्वहिर्भूततां गतम् ।
वस्तुतस्तु न तद्बाह्यं नान्तः सन्मात्रकादृते ॥ ५४ ॥
अन्तर्यदस्ति अन्तर्गता या सत्तेत्यर्थः ॥ ५४ ॥
निरस्तावयवाच्छान्तादनाख्याद्यत्प्रवर्तते ।
अकारणं भवेद्भूतं तदन्धाः कथमन्यथा ॥ ५५ ॥
हे अन्धाः वादिनः अकारणं तद्भूतमुत्पन्नं कथं भवेत् । तत्कूटस्थं च
अन्यथा सविकारं कथम् ॥ ५५ ॥
तस्माद्यादृक्परं ब्रह्म तादृग्दृश्यमिदं परम् ।
यदेव चिन्नभः स्वप्ने तदेव स्वप्नपत्तनम् ॥ ५६ ॥
तस्मात्स्वभ्रान्तिगृहीतं जगतो जाड्यादिस्वभावं परित्यज्य
शुद्धचिन्मात्रस्वभावोऽङ्गीक्रियतामित्याह - तस्मादिति ॥ ५६ ॥
न किञ्चित्किञ्चनापीदं दृश्यमस्ति मनागपि ।
क्व रजः पूर्णजलधौ क्व दृश्यं परमाम्बरे ॥ ५७ ॥
रजश्चिज्जलानार्द्रमणुमात्रम् ॥ ५७ ॥
तच्चेदं भाति वा किञ्चित्तच्चिन्मात्रमचेत्यकम् ।
अकचत्त्वेव संशान्तमात्मनीत्थमवस्थितम् ॥ ५८ ॥
यतः अचेत्यकमतोऽकचत् अप्रकाशयदेव स्वमात्रप्रकाशं सद्व्यवस्थितम् ॥ ५८ ॥
पूर्णाद्वै ब्रह्मणः पूर्णमप्यनुद्धृतमुद्धृतम् ।
इवेदं भाति भारूपमाभानं परमात्मकम् ॥ ५९ ॥
उक्तेऽर्थे पूर्णमदः पूर्णमिदम् इति श्रुतिं स्मारयति - पूर्णादिति । परमात्मैव
परमात्मकम् ॥ ५९ ॥
इत्थं मयि प्रकथयत्यनुभूयमानमप्युच्चकैर्बत जनस्य विमूढतान्तः ।
स्वप्ने जगद्वपुषि जाग्रदिति प्रतीतिं नाद्यापि यत्त्यजति नाम विदन्नपि द्राक् ॥ ६० ॥
एतावद्विस्तृतेनान्वहमावर्तितेनाप्युपदेशेन
कांश्चिन्मन्दाधिकारिजनानप्रबुद्धान् लिङ्गैरुपलक्ष्य भगवांस्ताननुशोचन्नाह
- इत्थमिति । मयि स्वयमनुभूयमानमात्मतत्त्वमित्थं विशदतरं
पुनःपुनरत्युच्चकैः प्रकथयति सत्यपि मन्दाधिकारिजनस्यान्तर्गता विमूढता
स्वप्नप्राये जगद्वपुषि इयं जाग्रत्सत्यमेवेति प्रतीतिमद्यापि न सन्त्यजति । वतेति खेदे ।
विदन्नप्यधिकारी द्राक् झटिति तां न त्यजति । नामेति मोहप्राबल्यप्रसिद्धौ ॥ ६० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० शालभञ्जिकोपदेशो
नामाष्टषष्ट्यधिकशततमः सर्गः ॥ १६८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शालभञ्जिकोपदेशो नामाष्टषष्ट्यधिकशततमः सर्गः ॥ १६८ ॥