१६७

सप्तषष्ट्यधिकशततमः सर्गः १६७

श्रीवसिष्ठ उवाच ।

आत्मख्यातिरसत्ख्यातिः ख्यातिरख्यातिरन्यथा ।
शब्दार्थदृष्टयस्तज्ज्ञं प्रत्येताः शशशृङ्गवत् ॥ १ ॥

इह तज्ज्ञदृशोदस्य वादिख्यातिचतुष्टयम् ।
अवस्थात्रयनिर्मुक्तमात्मतत्त्वं निरूप्यते ॥

अन्यथा ख्यातिरिति व्यवहितपूर्वपदेन सम्बन्धः ॥ १ ॥

कदाचनापि नामाङ्ग सम्भवन्ति न काश्चन ।
शान्तमव्यपदेश्यात्मा ज्ञ आस्तेऽस्तङ्गतेङ्गनः ॥ २ ॥

जगत्ख्यातिसत्त्वे हि सा किमात्मख्यातिरुतासत्ख्यातिरित्यादिविकल्पानामवसरः स्यात् सैव
नास्ति चेत्कस्याश्चातुर्विध्यमित्याशयेनाह - कदाचनेति । अस्तङ्गतेङ्गनः
ख्यात्यादिकल्पनामूलचित्तचेष्टाशून्यः ॥ २ ॥

एता उद्यन्ति चिन्मात्रादात्मख्यात्यादिका दृशः ।
तच्च शुद्धतरं व्योम तन्मय्येव च दृश्यते ॥ ३ ॥

दृशो भ्रान्तिदृष्टयः । तच्च चिन्मात्रं परमार्थतः शुद्धतरं
सर्वकल्पनाशून्यं व्योम । सर्वापि कल्पना तन्मय्येव दृश्यते मया ।
तद्यदिदम्मयोऽदोमयः सर्वमयः इति श्रुतेरित्यर्थः ॥ ३ ॥

अयमात्मा त्वियं ख्यातिरित्यन्तःकलनाभ्रमः ।
न सम्भवत्यतश्चैनं शब्दं त्यक्त्वा भवार्थभाक् ॥ ४ ॥

शब्दं त्यक्त्वेति । अत एवास्माभिः सार्थकेनात्मशब्देन ख्यातिशब्देन
चोज्झितामित्युक्तमिति भावः । अर्थबाक् परमार्थभाक् ॥ ४ ॥

गच्छंस्तिष्ठन्नददपि सर्वं शान्तमतो जगत् ।
आकाशमौनमेवाच्छमच्छिन्नं वाऽप्रवृत्तिमत् ॥ ५ ॥

गच्छंस्तिष्ठन्निति च्छान्दसो लिङ्गव्यत्ययः । अतोऽस्मादर्थदर्शनाद्गच्छत् तिष्ठत्
अदद्भक्षयदपि जगदप्रवृत्तिमत् सर्वप्रवृत्तिशून्यं भातीत्यर्थः ॥ ५ ॥

नानामहाशब्दमपि शिलामौनमवस्थितम् ।
अनारतं गच्छदपि व्योमवच्छैलवत्स्थितम् ॥ ६ ॥

इदमेव विशदयति - नानेत्यादिना ॥ ६ ॥

नानाविधारम्भमपि महाशून्यमनङ्कितम् ।
पञ्चभूतात्मकमपि खमिवालब्धपञ्चकम् ॥ ७ ॥

पदार्थसङ्कुलमपि शून्यं संवित्तिमात्रकम् ।
स्वप्ने महापुरमिव दृष्टमप्यच्छचिन्मयम् ॥ ८ ॥

सारम्भमप्यनारम्भं सङ्कल्पनगरं यथा ।
आकाशमात्रं भ्रान्त्यात्म स्वप्नस्त्रीसङ्गमोपमम् ॥ ९ ॥

आकाशमात्रमतिशून्यम् ॥ ९ ॥

अनुभूतमपि व्यर्थं प्रतिबिम्बाङ्गनासमम् ।
नानानुभवनिर्माणं वस्तु शून्यं तु वस्तुतः ॥ १० ॥

श्रीराम उवाच ।

जाग्रत्स्वप्नात्मकमिदं मन्ये स्मृत्यैव दृश्यते ।
सद्रूपबाह्यार्थकृता स्मृतिरेवेह कारणम् ॥ ११ ॥

यद्यविद्यमानमेव जाग्रत्स्वप्नात्मकं जगद्वासनामात्राद्दृश्यते तर्हि
स्मृत्यैव दृश्यते इति मन्ये । इह जगत्प्रतिभाने स्मृतिरेव कारणं न भ्रान्तिः ।
यतः सा अधिष्ठानदोषसादृश्यसम्प्रयोगादिनिमित्तशून्या सद्रूपबाह्या
अविद्यमाना ये अर्थास्तत्कृता तन्मात्रगोचरेति रामप्रश्नार्थः ॥ ११ ॥

श्रीवसिष्ठ उवाच ।

यत्तच्चित्काचकच्येन काकतालीयवद्वपुः ।
व्योमात्माऽऽभाति भावानां सत्तामात्रमभित्तिमत् ॥ १२ ॥

अविद्यानिद्रादिदोषजत्वात्स्वप्रकाशचिति सम्प्रयोगानुपयोगाच्च तदधिष्ठाना
भ्रान्तिरेवेयं न स्मृतिः । पूर्वपूर्वानुभवेष्वपि साम्प्रतिकतुल्यतया
स्मृतित्वापत्त्या तन्मूलानुभवाप्रसिद्धिप्रसङ्गादित्याशयेन वसिष्ठः समाधत्ते

  • यत्तदित्यादिना । तत्राधिष्ठानसद्भावं दर्शयति - यत्तदिति ।
    यत्तद्व्योमात्म सत्तामात्रं काचकच्येनाभाति तदेवेदं जगदित्यर्थः ॥ १२ ॥

तदेतदविनाशात्म सर्वत्र परमात्मनि ।
सर्वदा विद्यते शान्ते पयसीव तरङ्गकाः ॥ १३ ॥

निर्निमित्तं स्वरूपात्म तदेतत्परमात्मनि ।
सर्वात्मन्यपि निर्वाणे व्योमात्मनि निरात्मनि ॥ १४ ॥

यदा यदावभात्यन्तर्येन तेन यथा तथा ।
सर्वदा न कदाचिद्वा यत्र तत्र न किञ्चन ॥ १५ ॥

आविद्यके नियतदोषाद्यपेक्षा नास्ति । अनियतदोषास्तु सम्भवन्त्येवेत्याशयेन येन
तेनेत्याद्युक्तिः ॥ १५ ॥

तस्यैव ब्रह्मभानस्य तेनैवं ब्रह्मणात्मना ।
स्वच्छस्यैव स्वभावस्य स्वस्वभावमनुज्झता ॥ १६ ॥

तर्हि अस्येयं भ्रान्तिः केन जगदादिनामानि कृतानि तत्राह - तस्यैवेति द्वाभ्याम् ॥
१६ ॥

इदं जाग्रदयं स्वप्नः सुषुप्तं तुर्यमित्यपि ।
कृतं नाम स्वयं चित्त्वाद्ब्रह्म वात्मेति चात्मनि ॥ १७ ॥

वस्तुतस्त्वस्तिन स्वप्नो न जाग्रन्न सुषुप्तता ।
न तुर्यं न ततोऽतीतंसर्वं शान्तं परं नभः ॥ १८ ॥

ततः अतीतमतिरिक्तम् ॥ १८ ॥

अथवा सर्वमेवेदं जाग्रद्रूपं सदैव च ।
सर्वदैव च वा स्वप्नः सुषुप्तं सर्वदैव च ॥ १९ ॥

चितः कदापि स्वापाभावात्सर्वदैव जाग्रद्रूपम् । भ्रान्तिमात्रत्वात्सर्वदैव स्वप्नो वा
। अविद्यावरणमात्रत्वात्सर्वदैव सुषुप्तम् ॥ १९ ॥

सर्वदैव च वा तुर्यं तदन्तः सर्वदैव वा ।
तदिदं वा न यद्विद्मो वयमाशान्तरूपिणः ॥ २० ॥

स्वेनैव सदैव वावस्थात्रयातिक्रमणात्सदैव तुर्यमित्येव वा वक्तुं
शक्यमित्यर्थः । त्रयाप्रसिद्धेस्तस्य तुर्यस्यान्तः असत्त्वं वा निर्विकल्पे तदिदं
वेत्यादिविकल्पं च न विद्मः ॥ २० ॥

इदं फेनो न किञ्चिद्वा बद्बुदो वा न कश्चन ।
शून्यताम्भसि चिद्व्योम महार्णवमहोदरे ॥ २१ ॥

यथा संवेद्यते यद्यत्तथा तदनुभूयते ।
सद्वासद्वा भवत्स्वप्ने व्योम्नीव सदसच्च तत् ॥ २२ ॥

कल्पनावेदनदृशा तु येन यथा यदा संवेद्यते तस्य तदा तथेत्येव
सन्तोष्टव्यमित्याह - यथेति ॥ २२ ॥

संवित्कचनमेवेदं यथा भानं विभासते ।
व्योम व्योमनि चिद्रूपं चिद्रूपे विततात्मनि ॥ २३ ॥

संविच्च चिन्नभोमज्जा सैवंरूपैव सर्वदा ।
नास्तमेति न चोदेति तस्याः स्वाङ्गमिदं जगत् ॥ २४ ॥

यतः संविदेव जगदतो नास्तमेति नोदेति च ॥ २४ ॥

महाप्रलयसर्गाद्या महाप्रलयरात्रयः ।
तस्या एवावयवतां याताः केशनखादिवत् ॥ २५ ॥

महाप्रलयसर्गाद्याः कालविभागास्तर महाप्रलयलक्षणा रात्रयः
सर्गलक्षणदिनानि चेत्युपलक्षणीयम् ॥ २५ ॥

तस्या भानमभानं तद्भास्वरं जिह्ममेव वा ।
नान्यत्स्वभाववत्स्पन्द इव वायोर्महाचितेः ॥ २६ ॥

भास्वरं चिद्रूपं जिह्मं मायारूपं वा ॥ २६ ॥

तस्मात्किं नाम जाग्रत्स्यात्कः स्वप्नः का सुषुप्तता ।
किं तुर्यं का स्मृतिः केच्छा तुच्छा एताः कुदृष्टयः ॥ २७ ॥

उपसंहरति - तस्मादिति ॥ २७ ॥

अन्तःसंवेदनं भाति स्वं बाह्यार्थतया यतः ।
क्व द्वैतं क्व च वार्थश्रीः स्मृतिरेवमतः कुतः ॥ २८ ॥

एवं सति स्मृतिश्च कुतः ॥ २८ ॥

तदिदं भाति निर्भित्ति तत्स्वभानं यदात्मना ।
भानोर्नभसि भारूपमेव भूतविवर्जितम् ॥ २९ ॥

निर्भित्तं निर्भेदं यदात्मना भाति तत्स्वभानं स्वात्मकमेव भानं न
स्वभिन्नम् । यथा भानोर्नभसि निराश्रये भारूपमेव भानं न भास्यसापेक्षं
तद्वदित्यर्थः ॥ २९ ॥

सद्रूपो यदि बाह्योऽर्थो विद्यते तत्तदुत्थिता ।
स्मृतिः कारणतामेतु नामाद्यजगतः स्थितेः ॥ ३० ॥

तदुत्थिता तदनुभवहेतुका एतु नाम । आद्यायाः सर्गादिकालिक्या जगतः स्थितेः ॥ ३० ॥

किन्तु नास्त्येष बाह्योऽर्थो भूतानामत्यसम्भवात् ।
पञ्चानामादिसर्गादौ कारणानामभावतः ॥ ३१ ॥

शशशृङ्गं यथा नास्ति यथा नास्ति खपादपः ।
यथा वन्ध्यासुतो नास्ति यथा नास्त्यसितः शशी ॥ ३२ ॥

तथाऽज्ञप्रतिभातोऽर्थो जगदाद्यहमादिकः ।
अप्रेक्षितोऽस्ति नास्त्येव प्रेक्षितः सन्न कश्चन ॥ ३३ ॥

जगदादौ सर्गादिकाले अज्ञान्प्रति भातोऽहमादिकोऽर्थस्तत्त्वतोऽप्रेक्षितश्चेदस्ति प्रेक्षितस्तु
नास्ति ॥ ३३ ॥

यथास्तीदं महाकारं न किञ्चिद्रूपमेव वा ।
तत्त्वज्ञविषयं राम तथास्तीदमखण्डितम् ॥ ३४ ॥

तत्त्वज्ञविषयं न किञ्चिद्रूपं मूर्तामूर्तरूपरहितं चिन्मात्रैकघनं
त्वखण्डितमस्त्येवेत्यर्थः ॥ ३४ ॥

संविद्घननभोमज्जा यथोदेति यदा यदा ।
नित्योदितोपचारेण कल्पितास्तमयोदया ॥ ३५ ॥

नित्योदितापि व्यवहारे उपचारेण कल्पितास्तमयोदया ॥ ३५ ॥

मुधा व्योम्न्येव पृथ्व्यादितया वेत्ति तदा तदा ।
स्वस्यैव तस्य भानस्य धत्ते पृथ्व्यादिकल्पनाम् ॥ ३६ ॥

व्योम्न्येवाज्ञो मुधा पृथ्व्यादितया यदा यदा वेत्ति तदा तदा पृथ्व्यादिकल्पनां
धत्ते ॥ ३६ ॥

स्वमेव भानमाकाशमात्रमेव महाचितिः ।
पृथ्व्यादिव्यपदेशेन पश्चाद्व्यपदिशत्यजा ॥ ३७ ॥

महाचितिः स्वभानमेव पृथ्व्यादिव्यपदेशेन पृथ्व्यादिनाम्ना
पश्चाद्व्यपदिशति व्यवहरति ॥ ३७ ॥

आकाश एव पृथ्वीयमिति धत्ते स्वसंविदम् ।
मनोराज्यपुरं बाल इव चिन्मात्रमव्ययम् ॥ ३८ ॥

अव्ययं चिन्मात्रमाकाशकल्पे स्वात्मन्येव पृथ्वीयमिति स्वसंविदं धत्ते ॥ ३८ ॥

किं भानं किमभानं स्यात्तस्येति न विकल्प्यते ।
स्पन्दास्पन्दस्वभावं तद्विद्धि वातमिवाम्बरे ॥ ३९ ॥

चिन्मात्रमेव चेत्तस्य जगदाकारं भानं किं अभानं च किं स्यादिति तु तन्न
विकल्प्यते न विकल्पनीयम् । यतस्तत्प्राणशक्त्या स्पन्दस्वभावं चिच्छक्त्या
अस्पन्दस्वभावमिति विद्धि ॥ ३९ ॥

यथा भाति चिदाकाशं तथेदमवभासते ।
व्योम व्योम्न्येव नीरूपं नेदं पृथ्व्यादि सत्क्वचित् ॥ ४० ॥

यथा यथा वासनोद्भवेन भाति स्फुरति तथा तथा इदं जगदित्यवभासते ॥ ४० ॥

यथा भाति चिदाकाशरूपत्वाद्भातमप्यलम् ।
न सन्नासदिति किञ्चित्तन्न किञ्चिन्न किञ्चन ॥ ४१ ॥

तद्यथा भाति तथा तद्भातु नाम । भातमपि तच्चिदाकाशरूपत्वादलं न सत्
नाप्यसदिति । तत्प्रपञ्चरूपं किञ्चिदपि न किन्तु किञ्चनानिर्वचनीयमेवेत्यर्थः ॥ ४१ ॥

इदमित्थमनित्थं च सद्वाऽसद्वा यथास्थितम् ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥ ४२ ॥

स एव हृदयाकाशे कचन्त्या दृश्यसंविदा ।
बाह्यं ब्रह्माण्डमित्थं च सद्वाऽसद्वा यथास्थितम् ॥ ४३ ॥

यतः स प्राज्ञ एव सर्वेषां हृदयाकाशे आत्मतया आस्ते अतस्तद्रूपयैव कचन्त्या
दृश्यसंविदा इदमान्तरं शरीरमिदं बाह्यं ब्रह्माण्डमित्यादिभेदकल्पनया
नाम कृतमित्यर्थः ॥ ४३ ॥

किमत्र बाह्यं किं वान्तः किं दृश्यं कास्य दृश्यता ।
शिवं शान्तमशान्तं च सर्वमोमिति शाम्यताम् ॥ ४४ ॥

सर्वं ओमिति प्रणवमात्राऽभेदकल्पनया प्रविलाप्य शाम्यताम् । मा मा इति पाठे मा
मा इति निषेधवीप्सया निरस्येत्यर्थः ॥ ४४ ॥

नो वाच्यवाचकदृशा रहितो विचारः सम्पद्यते स च विकल्पमयेन सिद्ध्यै ।
सिद्धिश्च सम्भवति तेन विना न काचिद्दीपं विना निशि यथा नयनोपलम्भः ॥
४५ ॥

यावद्विचारं त्वसदपि वाच्यवाचकविकल्पं यथालोकमभ्युपगम्यैव
श्रवणादिविधयः प्रवर्तन्त इत्याशयेनाह - नो इति । वाच्यवाचकदृशा रहितः
शास्त्रार्थविचारो नो सम्पद्यते । स च विचारो विकल्पमयेन विषयो विशयश्चैव
पूर्वपक्षस्तथोत्तरम् । प्रयोजनं च पञ्चाङ्गं शास्त्रेऽधिकरणं विदुः ॥ इति
प्रसिद्धेन पञ्चाङ्गेन कृतः सिद्ध्यै भवति । तेन विचारेण विना सिद्धिर्न
सम्भवत्येव । यथा दीपं विना चाक्षुषप्रत्यक्षं निशि न भवति तद्वदित्यर्थः ॥ ४५

तस्मादपास्य परयाऽमलया धियान्तःसङ्कल्पकल्पनमनल्पविकल्पजालम् ।
कृत्वा मनः सकलशास्त्रमहार्थनिष्ठमुड्डीय गच्छ
पदमुत्तममेकनिष्ठः ॥ ४६ ॥

तस्मात्सम्यग्विचारामलया धिया अन्तःसङ्कल्पनलक्षणमनल्पविकल्पजालमपास्य
मनः सकलशास्त्रनिष्कर्षसिद्धमहार्थः सच्चिदानन्दाद्वयात्मा तन्निष्ठं
कृत्वा तदेकनिष्ठः सन्नस्मात्संसारादुड्डीयोत्तमं मोक्षाख्यं पदं
गच्छेत्यर्थः ॥ ४६ ॥

इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० जाग्रत्स्वप्नसुषुप्त्यभावप्रतिपादनं
नाम सप्तषष्ट्यधिकशततमः सर्गः ॥ १६७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जाग्रत्स्वप्नसुषुप्त्यभावप्रतिपादनं नाम सप्तषष्ट्यधिकशततमः सर्गः ॥ १६७ ॥