१६६

षट्षष्ट्यधिकशततमः सर्गः १६६

श्रीवसिष्ठ उवाच ।

सार्थकेनात्मशब्देन ख्यातिशब्देन चोज्झिताम् ।
आत्मख्यातिमिमां विद्धि शिलाजठरनिर्घनाम् ॥ १ ॥

आत्मख्यातिविशेषोऽत्र तथा ख्यात्यन्तरस्थितिः ।
ब्रह्मनीलशिलाख्यानं चोक्तं प्रश्नोत्तरान्वितम् ॥

चितेश्चमत्कृतिरियं जगन्नाम्नी चकास्त्यलम् इति यदुक्तं तत्र
अख्यात्यसत्ख्यात्यन्यथाख्यात्यात्मख्यात्याख्यासु चतसृषु वादिभेदसम्मतासु
ख्यातिषु कया ख्यात्या स विदुषां चकास्तीति रामस्य जिज्ञासां मुनिर्लिङ्गैरुपलक्ष्य
तत्र विद्वद्दृशा वादिभेदकल्पितानां चतसृणामपि शशशृङ्गप्रायतेति
निरसिष्यन्विद्वत्सम्मतां पञ्चमीमलौकिकीमात्मख्यातिं व्युत्पादयितुमारभते ##-
चाखण्डार्थकपदद्वयलक्ष्यामित्यर्थः । वक्ष्यमाणशिलाजठरमिव निरन्तरं
घनाम् ॥ १ ॥

आदिसर्गात्प्रभृत्येव चिद्व्योमैवेत्थमाततम् ।
कचत्यात्मनि यत्तस्य बुद्धा तेनैव सर्गता ॥ २ ॥

आत्मैव ख्यातिरिति पदद्वयस्य सामानाधिकरण्येनान्वये क आत्मा सा च किं विषयिणी
ख्यातिरिति जिज्ञासायामाह - आदिसर्गादिति । यद्यस्मात्तेनात्मना आत्मन्येव सर्गता
बुद्धा स्वचैतन्यबलेन ख्यापिता तत्तस्मादयमात्मैव सर्गताविषयिणी
ख्यातिरित्यर्थः ॥ २ ॥

न वहन्तीह सरितो नेहोन्मज्जनमज्जने ।
व्योम व्योम्न्येव चिद्रूपं कचत्येवमनिङ्गितम् ॥ ३ ॥

तरात्मशब्दव्याख्यानपरे चिद्व्योमशब्दे । व्योमशब्दस्य
प्रपञ्चशून्यतैवार्थः । अतः प्रपञ्चस्तत्ख्यातिश्चात्मैवेत्येवकारार्थ इति
दर्शयति - न वहन्तीत्यादिना । कचति ख्यायते । अनिङ्गितं निष्क्रियम् ॥ ३ ॥

कचनोक्त्या तु रहितां समग्रेणास्तकल्पनाम् ।
विनोत्तरपदार्थेन त्वात्मख्यातिमिमां विदुः ॥ ४ ॥

कचनोक्त्या कचनवाचकेन ख्यातिशब्देन । उत्तरपदं ख्यातिशब्दस्तेन तदर्थेन च
विना स्वप्रकाशमात्मानमेव स्वात्मकसर्गप्रख्यानात्मकत्वादात्मख्यातिं
विदुर्विद्वाम्स इत्यर्थः ॥ ४ ॥

आत्मैवेदं जगत्सर्वं ख्यातिर्यत्र न किञ्चन ।
अख्यातो नाम न ख्यात्या कदाचित्ख्यापितः क्वचित् ॥ ५ ॥

एवं चिन्मात्ररूपे सर्गे वाद्यभिमतार्थानामख्यात्यादिशब्दानामसङ्गतिरित्याह

  • आत्मैवेति । यदा इदं जगत्सर्वमात्मैव स च स्वप्रकाशात्मैव स कदापि
    स्वातिरिक्तया ख्यात्या न ख्यापित इति अख्यात इति वाचोयुक्तिस्तत्र स्यात् । न त्वख्यातिरिति
    भावार्थकक्तिन्नन्तपदं तत्र घटयितुं शक्यमित्यर्थः ॥ ५ ॥

ख्यातिरख्यातिरित्यत्र वाचोयुक्तिरवास्तवी ।
किं तत्र ख्यापनं नाम स्याद्वाप्यख्यापनं च किम् ॥ ६ ॥

कुतो न शक्यं तत्राह - ख्यातिरिति । ख्याधातोर्हि प्रथा अर्थः । प्रत्ययस्य भावः
स च सत्ता । तथा च ख्यानात्मिका सत्ता ख्यातिशब्दार्थः ।
तथाविधश्चायमात्माख्यातिरेवेति न नञर्थेन सम्बध्यत इत्यख्यातिरिति
पराभिमता वाचोयुक्तिस्तत्रावास्तवीत्यर्थः । अस्तु तर्हि हेतुमण्ण्यन्तादत्र क्तिन् । तत्रापि
णेरनिटि इति णिलोपे ख्यातिरिति रूपसिद्धेस्तथा च न विद्यते ख्यातिः ख्यापनं यत्र सा
अख्यातिरिति व्युत्पत्त्या पराभिमतोऽर्थस्तत्र सेत्स्यतीत्याशङ्क्याह - किं तत्रेति । जडे
हि सर्गेऽभ्युपगते तत्रान्यकृतं ख्यापनमख्यापनं चोपयुज्यते । यदा तु
स्वप्रकाश आत्मैव सर्गस्तदा दीपे दीपान्तरेणेव तत्रख्यापनमख्यापनं च किम् न
किञ्चिदिति सर्वथा पराभिमतं न घटत इत्यर्थः । एतेनासत्ख्यात्यन्यथाख्याती अपि
वाद्यन्तराभिमते प्रत्याख्याते । नञर्थवदसदन्यथाशब्दार्थयोरपि
ख्यातिपदार्थेन सह अन्वयायोग्यत्वादिति भावः ॥ ६ ॥

अख्यातिरन्यथाख्यातिरसत्ख्यातिरितीतरा ।
दृश्याश्चिन्मात्ररूपस्य भासश्चित्त्वचमत्कृताः ॥ ७ ॥

यदि तु स्वप्नमनोराज्यादिदृश्यान्तरतुल्याः कल्पनामात्ररूपा
अख्यात्यादयश्चिच्चमत्कारा एवेत्यभ्युपगच्छथ तर्हि तथास्तु न काचिन्नः
क्षतिरित्याह - अख्यातिरिति ॥ ७ ॥

यथा यथा यदा ये ये चिन्मात्रव्योमभास्वतः ।
चिदंशवः कचन्त्यच्छास्तदा ते ते तथा तथा ॥ ८ ॥

चिदंशवः अग्निविस्फुलिङ्गवत्कल्पितचिद्भागाः ॥ ८ ॥

आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा ।
इत्येताश्चिच्चमत्कृत्या आत्मख्यातेर्विभूतयः ॥ ९ ॥

तथा सति भवदभिमतास्ते मदीयात्मख्यातेर्विभूतय एवेत्याह - आत्मख्यातिरिति ॥
९ ॥

आत्मख्यातिपदस्यार्थ आत्मख्यातिपदोज्झितः ।
अनाद्यन्तो निरुल्लेखः सोऽयमेकघनः स्थितः ॥ १० ॥

वर्णितामात्मख्यातिमुपसंहरन् शिलाजठरनिर्घनामिति पदं शिलोपाख्यानेन
व्याख्यातुमुपक्रमते - आत्मख्यातिपदस्येति ॥ १० ॥

तत्रेदं महदाख्यानं शृणु श्रवणभूषणम् ।
दूषणं द्वैतदृष्टीनां द्योतनं बोधभास्वतः ॥ ११ ॥

तत्र एकघनः स्थित इति पदसूचिते शिलाजठरनिर्घनपदव्याख्याने विषये ॥ ११ ॥

अस्ति योजनकोटीनां सहस्राणि प्रमाणतः ।
आनीलकुड्यकठिना विमला विपुला शिला ॥ १२ ॥

आसमन्तान्नीलमाकाशमेव यदि कुड्यं स्यात्तदिव कठिना विमला विपुला च ॥ १२ ॥

न सन्धिबन्धा निबिडा वज्रसारा विसारिणी ।
अत्यन्तपुष्टकठिनजठराकाशनिर्मला ॥ १३ ॥

न विद्यन्ते सन्धिबन्धा अवयवसंश्लेषघटना यस्याम् । न शब्दोऽयं न तु नञ् ।
विसारिणी विस्तारवती ॥ १३ ॥

असङ्ख्यकल्पनिचयमविनाशा घनाङ्गिका ।
कान्ताङ्गी निर्मलत्वेन व्योमरूपैव लक्ष्यते ॥ १४ ॥

कल्पनिचयमिति कालाध्वनोरत्यन्तसंयोगे इति द्वितीया क्रोशं गिरिरितिवत् ॥ १४ ॥

जातिस्तु ज्ञायते तस्या विशिष्टा नैव केनचित् ।
कथं कुत्र कदा चेति न विज्ञाता सदैव सा ॥ १५ ॥

सजातीयवस्त्वन्तराप्रसिद्धेस्तस्या विशिष्टा विजातीयाद्व्यावृत्ता जातिः केनचिन्नैव
ज्ञायते । एवं तस्या देशकालप्रकारा अप्यत्यन्ताप्रसिद्धा इत्याह - कथमिति ॥ १५ ॥

अन्तस्तस्यास्तु हृदये भूतधातुविवर्जिते ।
निबिडानन्तकठिना वज्रसाराऽविनाशिनी ॥ १६ ॥

भूतधातुभिर्महाभूतैश्चतुर्विधभूतग्रामैश्च विवर्जिते तस्या अन्तर्जठरे
लेखामयानि स्फटिकशिलान्तर्लेखाप्रायाणि पद्मजालादीनि विद्यन्त इति परेणान्वयः ॥
१६ ॥

लेखामयानि विद्यन्ते स्वाङ्गभूतानि भूरिशः ।
पद्मजालानि शङ्खाश्च गदाश्चक्रादयस्तथा ॥ १७ ॥

आदिपदात्खड्गखट्वाङ्गादिपरिग्रहः ॥ १७ ॥

खं वायुः सलिलं तेजो वसुधेत्यभिधा कृता ।
नासीत्तत्र स्वलेखानां जीव इत्येव वै तत्या ॥ १८ ॥

तत्र शिलाजठरे खं वायुरित्यादि जगन्नासीदेव किन्तु तथा लक्ष्यमाणानां
स्वलेखानामेव खं वायुरित्याद्यभिधा तया शिलया कृता । स्वस्याश्च तया जीव
इत्येवाभिधा देहलेखासु कृतेत्यर्थः ॥ १८ ॥

श्रीराम उवाच ।

शिलासौ चेतनं तस्याः कुत इत्युच्यतां मम ।
अचेतना शिला नाम कथं नाम करोति च ॥ १९ ॥

नन्वसौ शिला शिलात्वादेव अचेतना । नामेति लोकप्रसिद्धौ । तस्याश्च चेतनं
सञ्ज्ञानं कुतः । यद्यचेतनैव सा तर्हि सा स्वलेखानां खं वायुरित्यादि नाम
कथं करोति । नामकरणस्य चेतनकर्तृकत्वप्रसिद्धेरिति रामः शङ्कते - शिलेति
॥ १९ ॥

श्रीवसिष्ठ उवाच ।

न चेतना न च जडा सा शिला विपुलोज्ज्वला ।
जातिं जानाति कस्तस्याः कस्तत्रान्यश्च विद्यते ॥ २० ॥

जातिस्तु ज्ञायते तस्या विशिष्टा नैव केनचित् इति प्राक्तनोक्त्यैवायं प्रश्नो दत्तोत्तर इति
वसिष्ठः समाधत्ते - नेत्यादिना । अन्यश्च को विद्यते यस्तज्जातिं जानीयादित्यर्थः ॥
२० ॥

श्रीराम उवाच ।

तस्याः पश्यति ता लेखाः कः कथं जठरस्थिताः ।
कथं वा केन सा भग्ना कदा नामेति मे वद ॥ २१ ॥

यदि तत्रान्यो न विद्यते तर्हि ताः खं
वायुरित्याद्याकारास्त्वदुक्तास्तज्जठरस्थितालेखाःकः पश्यति । केन
वासान्तर्विचित्ररेखाकारेण भग्ना टङ्कैर्लिखिता ।
अन्तष्टङ्कप्रवेशाद्ययोगात्कथं वा भग्ना । कदा नाम भग्नेति वदेति
रामप्रश्नः स्पष्टः ॥ २१ ॥

श्रीवसिष्ठ उवाच ।

न भेत्तुं युज्यते सोग्रा न च भेत्ता च विद्यते ।
तथैवापारपर्यन्तदेहिन्या सर्वमावृतम् ॥ २२ ॥

पृष्टानामपह्नवेनैवोत्तरमाह - येत्यादिना । उग्रा अतिदृढा । आवृतं
व्याप्तम् । नैनेन किञ्चनानावृतन्नैनेन किञ्चनासंवृतम् इति श्रुतेरिति भावः ॥
२२ ॥

लेखामयानि विद्यन्ते तत्रानन्तानि कोटरे ।
वृक्षपर्वतजालानि नगराणि पुराणि च ॥ २३ ॥

तत्र लेखामयाः सन्ति देवदानवनामकाः ।
सूक्ष्मासूक्ष्मा निराकाराः साकारा इव पुत्रिकाः ॥ २४ ॥

सूक्ष्मा असूक्ष्माश्च पुत्रिकाः प्रतिमाः ॥ २४ ॥

आकाशनाम्नी तत्रास्ति लेखा वैपुल्यशालिनी ।
उपलेखाश्च सन्त्यस्या मध्ये चन्द्रार्कनामिकाः ॥ २५ ॥

श्रीराम उवाच ।

केन दृष्टा वद ब्रह्मṁल्लेखास्तास्तत्र किंविधाः ।
कथं वा वद दृश्यन्ते निपिण्डोपलकोशगाः ॥ २६ ॥

नितरां पिण्डो निपिण्डः अतिघनो य उपलकोशस्तद्गताः ॥ २६ ॥

श्रीवसिष्ठ उवाच ।

मया राघव ता दृष्टास्तादृश्यस्तत्र लेखिकाः ।
तवापीच्छा यदि भवेत्तत्तास्त्वमपि पश्यसि ॥ २७ ॥

पश्यसि समाधिना द्रक्ष्यसि ॥ २७ ॥

श्रीराम उवाच ।

तादृशी वज्रसारा सा शिला भङ्क्तुं न युज्यते ।
तथापि भवता दृष्टा लेखास्तत्कोशगाः कथम् ॥ २८ ॥

श्रीवसिष्ठ उवाच ।

एतस्या जठरे राम लेखाहं जठरे स्थितः ।
तेन पश्यामि तत्रस्थो लेखाजालं तदक्षतम् ॥ २९ ॥

अहं वसिष्ठदेहोपि एतस्या जठरे स्थितो रेखैव तेन हेतुना ॥ २९ ॥

कोऽसौ शक्तोऽन्यथा भङ्क्तुं तां शिलामहमन्तरे ।
तत्सर्वं दृष्टवांस्तस्या अहं तत्रान्तरस्थितः ॥ ३० ॥

तस्या अन्तरवस्थितोऽहमन्तरे विद्यमानं तत्सर्वं लेखावृन्दं दृष्टवान् ॥ ३० ॥

श्रीराम उवाच ।

कासौ शिलाथ कश्च त्वं वद मे क्वासि संस्थितः ।
किमेतद्वदसि ब्रूहि किमेतद्दृष्टवानसि ॥ ३१ ॥

इदानीं तत्त्वतस्तां शिलां वसिष्ठं च रामो जिज्ञासुः पृच्छति - कासाविति । एतत्
शिलाख्यं किं वदसि ॥ ३१ ॥

श्रीवसिष्ठ उवाच ।

परमात्ममहासत्ता कथितैषा मया तव ।
अनयैव वचोभङ्ग्या न त्वेषा विपुला शिला ॥ ३२ ॥

अनया शिलाख्यानवचोभङ्ग्या ॥ ३२ ॥

परमात्ममहासत्ताशिलाया जठरे वयम् ।
तच्छिलामांसमेवेमे सौषिर्यपरिवर्जिते ॥ ३३ ॥

तच्छिलाया मांसमिव मांसं स्वरूपभूता एवेति यावत् । इमे वयम् ॥ ३३ ॥

तच्छिलाङ्गं नभो विद्धि तच्छिलाङ्गं सदागतिः ।
तच्छिलाङ्गं क्रियाशब्दा वासना कालकल्पना ॥ ३४ ॥

सर्वं जगत्तच्छिलाङ्गमेवेति प्रपञ्चयति - तच्छिलाङ्गमिति । सदागतिर्वायुः ।
पञ्चभूतोपलक्षणमेतत् । एवं क्रियाशब्दग्रहणमपि
वाय्वाकाशादिसर्वभूतभौतिकधर्मोपलक्षणम् । वासना मनोधर्मोपलक्षणम् ॥
३४ ॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीदं तत्तच्छिलाङ्गमुदाहृतम् ॥ ३५ ॥

उक्तमेव पुनः स्पष्टमाह - भूमिरिति ॥ ३५ ॥

परमात्ममहासत्ता शिला मांसमिमे वयम् ।
सर्व एव ततोऽनन्येऽप्यन्ये त्विति च विद्महे ॥ ३६ ॥

अन्ये इति तु भ्रान्त्या विद्महे ॥ ३६ ॥

चिन्मात्रैकात्मिका येयं किलातिमहती शिला ।
एतस्या व्यतिरेकेण क्व तदस्ति किमुच्यताम् ॥ ३७ ॥

एतस्या व्यतिरेकेण किञ्चिदस्ति चेत्तत्क्वास्ति तच्च किमस्ति तदुभयमुच्यताम् ॥ ३७ ॥

शुद्धं वेदनमेवेदं घटावटपटादिकम् ।
यथा स्वप्ने तथा भाति जलमूर्मितया यथा ॥ ३८ ॥

ननु भूतलघटावटपटादिकमेव तद्व्यतिरिक्तं प्रसिद्धं नेत्याह - शुद्धमिति
। नैतत्किमपि तद्व्यतिरेकेणास्तीत्यर्थः ॥ ३८ ॥

इदं ब्रह्म घनं सर्वं चिन्मात्रघनमाततम् ।
परमार्थघनं शान्तं सर्वमेकघनं विदुः ॥ ३९ ॥

एकं महाचिति शिलोदरमेव सर्वं सौषिर्यवर्जितमपारमनादिमध्यम् ।
तेनात्मनैव कलिता कलनात्मनेयं सर्गो जगद्भुवनमित्यपि दृश्यनाम्नी ॥ ४०

सर्वं जगदेकं ब्रह्मशिलोदरमेव । तच्च सौषिर्येण च्छिद्रभावेन
वर्जितमपारमनन्तं तथा अनादिमध्यं च । तेन तथाविधेन ब्रह्मात्मना आत्मना
स्वेनैव सर्गो जगद्भुवनमित्यपि पर्यायनामभिः प्रसिद्धा दृश्यनाम्नी कलना
कलिता स्वीकृतेत्यर्थः ॥ ४० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० शिलोपाख्यानं नाम
षट्षष्ट्यधिकशततमः सर्गः ॥ १६६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शिलोपाख्यानं नाम षट्षष्ट्यधिकशततमः सर्गः ॥ १६६ ॥