पञ्चषष्ट्यधिकशततमः सर्गः १६५
श्रीवसिष्ठ उवाच ।
जाग्रत्स्वप्ने स्वप्न एव जाग्रत्त्वमनुगच्छति ।
स्वप्नजाग्रति जाग्रत्तु स्वप्नतामुपगच्छति ॥ १ ॥
परस्परानुप्रवेशात्परस्परसमुद्भवात् ।
चिन्मात्रत्वं दृढीकर्तुं जाग्रत्स्वप्नैक्यमीर्यते ॥
जाग्रत्स्वप्नसुषुप्तयः परस्परानुप्रवेशेन प्रत्येकं त्रिविधाः । जाग्रज्जाग्रत्
जाग्रत्स्वप्नः जाग्रत्सुषुप्तिः स्वप्नजाग्रत् स्वप्नस्वप्नः स्वप्नसुषुप्तिः सुषुप्तिजाग्रत्
सुषुप्तिस्वप्नः सुषुप्तिसुषुप्तिरिति । एते हि सुरेश्वरवार्तिके प्रागुत्पत्तिप्रकरणे
चोदाहरणभेदैरुपपादिता इह सिद्धवदुपादीयन्ते । तत्र जाग्रत्स्वप्ने मनोराज्ये
इन्द्रियव्यापारनिरपेक्षत्वात्केवलमनोमयत्वाच्चार्थाना। स्वप्नसाम्येन स्वप्न एव
जाग्रत्त्वमुपगच्छति । एवं स्वप्नेऽपि एतावत्कालमहं सुप्त इदानीं जागर्मीति
प्रतीतिदर्शनात्प्रसिद्धे स्वप्नजाग्रति तु स्वानुभवसिद्धा जाग्रदेव
स्वप्नत्वमुपगच्छतीत्यर्थः ॥ १ ॥
स्वप्नो जाग्रत्प्रविशति जाग्रत्स्वप्नात्प्रबुध्यते ।
जाग्रत्स्वप्नं प्रविशति प्रबुद्धः स्वप्नजाग्रतः ॥ २ ॥
परस्परानुप्रवेशवदनयोः परस्परनिमित्तता वास्तीत्याह - स्वप्न इति ।
स्वप्नरूपादेव जाग्रतः प्रबुद्धः सन् जाग्रद्रूपमेव स्वप्नः प्रविशत्यात्मेति
परस्परनिमित्ततापि दृश्यत इत्यर्थः ॥ २ ॥
जाग्रत्स्वप्नवता स्वप्नः स्वप्न इत्यभिधीयते ।
स्वप्नजाग्रद्वता जाग्रज्जाग्रदित्यभिधीयते ॥ ३ ॥
अनयोर्व्यपदेशसाङ्कर्यमपि दृश्यत इत्याह - जाग्रदिति । स्वप्नस्वप्नो
जाग्रज्जाग्रदित्युभ्यत्र वीप्सया द्विर्वचनम् ॥ ३ ॥
तज्जाग्रज्जाग्रतीवेह न तु स्वप्नः कदाचन ।
स्वप्ने स्वप्नो जाग्रदेव न तु जाग्रत्कदाचन ॥ ४ ॥
तत्र स्वप्नेऽपि जाग्रत् इह जाग्रतीव अनुभवतो जाग्रदेव न तु स्वप्नः । एवं जाग्रत्स्वप्ने
मनोराज्ये जाग्रत्स्वप्न एवानुभवतो न तु जाग्रदित्यर्थः ॥ ४ ॥
लघुकालात्मकः स्वप्नः सर्वदैव हि जाग्रति ।
लघुकालात्मकं जाग्रत्स्वप्नकाले सदैव च ॥ ५ ॥
स्वप्नस्याल्पकालता जाग्रतो दीर्घकालता च परस्परानुप्रवेशे विपरीतेत्याह -
लघुकालात्मक इति ॥ ५ ॥
न जाग्रत्स्वप्नयोर्भेदः कश्चनास्ति कदाचन ।
एकस्यावसरोऽन्यत्र द्वयोरपि न सन्मयः ॥ ६ ॥
एवं परस्परसाङ्कर्ये यत्सिद्धं तदाह - नेति । द्वयोरप्यन्यत्र एकस्यावसरः
परस्परानुप्रवेशो युक्त्या सन्मयो न ॥ ६ ॥
मृतिप्रबोधसमये जाग्रत्स्वप्नः प्रशाम्यति ।
स्वप्नानुभवबोधे च शून्य एवातिभास्वरः ॥ ७ ॥
ननु स्वप्नः प्रबोधे प्रशाम्यति स्वाप्नार्थाश्च जागरे शून्य एवावतिष्ठन्ते नैवं
जाग्रत्प्रशाम्यति नाप्यर्था असन्तो दृश्यन्त इति स्वप्नवैधर्म्यशङ्कां निरस्यति
- मृतीति । अयं जाग्रल्लक्षणोऽपि स्वप्नो मृतिकाले यः परलोकप्रबोध
आत्यन्तिकद्वैतमृतिलक्षणस्तत्त्वप्रबोधश्च तत्समये प्रशाम्यत्येव । प्रत्यहं
स्वप्नानुभवलक्षणे स्वाप्नार्थबोधकाले चकारात्सुषुप्तिकाले च शून्य एवावतिष्ठत
इति साधर्म्यमेव न वैधर्म्यमित्यर्थः ॥ ७ ॥
जीवतः स्वप्नसमये मृतिबोधोदयं विना ।
परलोकात्मकं जाग्रत्किञ्चनापि न दृश्यते ॥ ८ ॥
नन्वद्यतनस्वाप्नार्थः श्वस्तनस्वप्ने असन्त एव अद्यतनजाग्रदर्थास्तु
श्वस्तनजाग्रत्यनुवर्तन्त इति वैधर्म्यमित्याशङ्कां
जन्मभेदेष्वननुवृत्तिप्रदर्शनेन परिहरति - जीवत इति । मृतिबोधोदयं विना
मरणोत्तरप्रबोधदृश्यानामभावात्परलोकात्मकं जाग्रत्किञ्चनापि न दृश्यते
॥ ८ ॥
स्थिते जीवितबोधेऽस्मिञ्छून्ये नानामयात्मनि ।
परलोकात्मकः स्वप्नः कश्चनापि न दृश्यते ॥ ९ ॥
एवं स्थिते अस्मिन्नद्यतनस्वप्ने जीवनादिसर्वस्वाप्नपदार्थशून्ये भ्रान्त्यैव
नानामयात्मनि जीवामीति जीवितबोधे सति श्वस्तनः पूर्वेद्युस्तनश्च स्वप्नः
परलोकात्मकप्राय इति कश्चनापि तत्रत्यपदार्थोऽत्रानुवर्तमानो न दृश्यत इत्यर्थः
॥ ९ ॥
चिच्चमत्कृतिमात्रात्म यथा स्वप्ने जगत्त्रयम् ।
हृदि सर्गात्प्रभृत्येव तथैवाभाति जाग्रति ॥ १० ॥
चिच्चमत्कारमात्रात्मत्वं च द्वयोरपि तुल्यमित्याह - चिदिति । हृदि अन्तःकरणे ॥ १०
॥
सन्त्येवासत्यभूतानि स्फारापि परमार्थतः ।
नास्त्येवाकारवत्तेयं स्वप्नोर्व्यामिव जाग्रति ॥ ११ ॥
स्वप्नैक्ये जाग्रतस्तत्रत्योर्व्यादीनां स्वाप्नार्थवन्निराकारत्वमसत्यत्वं च
स्फुटमित्याह - सन्त्येवेति ॥ ११ ॥
नानात्मभासुरमपि स्वप्ने शून्यं यथा जगत् ।
तथैव जाग्रत्यखिलं व्योमैवेदं चिदात्मकम् ॥ १२ ॥
ततश्चिन्मात्रपरिशेषोऽपि सिद्ध इत्याह - नानात्मेति ॥ १२ ॥
चिद्व्योम्नो हि स्वभावोऽयं यदिदं जगदम्बरे ।
कचतीत्थमिह स्फारमालोक इव तेजसः ॥ १३ ॥
तेजसः सूर्यादेरालोकः प्रभेव ॥ १३ ॥
चितेश्चमत्कृतिरियं जगन्नाम्नी चकास्त्यलम् ।
सहजा गगने कुड्ये परमाणौ स्थले जले ॥ १४ ॥
सहजा स्वाभाविकी ॥ १४ ॥
भ्रान्तावसत्यरूपायां स्थितायां सत्यवस्तुवत् ।
आकाशमात्रदेहायां क इवैनां प्रति ग्रहः ॥ १५ ॥
एनां जगद्भ्रान्तिं प्रति ग्रह आग्रहः कः । अनुचित एवेत्यर्थः ॥ १५ ॥
ग्रहीतृग्रहणग्राह्यरूपमाशून्यमेव च ।
सदस्त्वेवासदेवास्तु जगदत्राङ्ग किं ग्रहः ॥ १६ ॥
ग्रहीत्रादित्रिपुटीजगद्रूपमाशून्यमसदेव । ह्यर्ते चः । अधिष्ठानसत्तया सदस्तु
अथवा असदेवास्तु अत्रास्मिन्विषये ग्रह एकतरपक्षव्यवस्थापनदुराग्रहः
किम्प्रयोजन इत्यर्थः ॥ १६ ॥
इत्थमस्त्विदमथान्यथास्तु वा मैव भूद्भवतु कोऽत्र सम्भ्रमः ।
कोऽत्र फल्गुनि फले फलग्रहो बुद्धमेव तदलं विकल्पनैः ॥ १७ ॥
अबोधादेकतरपक्षाभिमानसम्भ्रमः स्यात् । इदानीं भवद्भिस्तत्त्वतो बुद्धमेवेति
अत्रैतदन्तर्गतभोगलक्षणे एतत्सत्यताप्रतिष्ठापनेनेतरजलक्षणे च फल्गुनि फले
कः फलत्वग्रहः । अनुचित एवेत्यर्थः ॥ १७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० म्० नि० उ० जाग्रत्स्वप्नैक्योपदेशो नाम
पञ्चषष्ट्यधिकशततमः सर्गः ॥ १६५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जाग्रत्स्वप्नैक्योपदेशो नाम पञ्चषष्ट्यधिकशततमः सर्गः ॥ १६५ ॥