चतुःषष्ट्यधिकशततमः सर्गः १६४
श्रीवसिष्ठ उवाच ।
जीवाणवो जगत्यन्तश्चिदादित्यांशुमण्डले ।
यत्र तेऽवयवास्तुल्यास्तेनानवयवात्मता ॥ १ ॥
ब्रह्मभावोद्भवाज्जीवजगद्भावविमार्जनैः ।
इह जीवजगद्ब्रह्मसामरस्यं प्रसाध्यते ॥
तत्रादौ जीवभावं विमार्ष्टुमारभते - जीवाणव इत्यादिना । इत्यादिना । सर्वतः
परिपूर्णस्य चिदादित्यस्य मण्डले अन्तःस्फुरति यत्र जगति ते प्रसिद्धा जीवाणवस्तेन
चिदादित्येन तुल्या अग्निविस्फुलिङ्गवत्समानप्रकाशस्वभावास्तेन हेतुना
अनवयवात्मता चिदादित्यस्य सिद्धा । हस्तपादाद्यवयवानां
परस्परविलक्षणाकारादिस्वभावत्वदर्शनादवयविनश्च तेभ्यो
भिन्नाकारसंस्थानादिदर्शनात्तत्र भेदोऽवयवावयविभावश्च लोके प्रसिद्धो न
चात्यन्ततुल्यत्वे इति भावः ॥ १ ॥
सर्वं प्राप्य परं बोधं वस्तु स्वं रूपमुज्झति ।
पुनस्तदेकवाक्यत्वान्न किञ्चिद्वापरं भवेत् ॥ २ ॥
नन्वेवं नक्षत्राणामपि नभसि समानप्रकाशस्वभावदर्शनात्परस्पराभेदो
निरवयवत्वं च तेजसः किं न स्याद्भिन्नदेशत्वेन प्रकाशतारतम्येन च परिहारस्तु
जीवेष्वपि तुल्य इत्याशङ्क्याह - सर्वमिति । न नक्षत्रभेदवज्जीवानां भेदः किन्तु
घटकरकाद्याकाशभेदवदौपाधिकः । तच्च भेदकमन्तःकरणाद्युपाधिवस्तु
सर्वं परमखण्डाकारमपरोक्षमहं ब्रह्मास्मीति बोधं प्राप्य
स्वमुपाधिरूपं स्वकृतं भेदरूपं चोज्झति उत्सृजति । अपगते चोपाधिभेदे
प्रतिज्ञासिद्धिरित्यर्थः । अथवा पूर्वं जीवानामविद्यया परस्परविरुद्धधर्मतां
प्रदर्श्य ब्रह्मैकवाक्यताविच्छेदाद्भेद इव बन्ध इवानर्थ इवाभूत् । इदानीं
विद्यया अविद्यां निरस्य विरुद्धधर्मनिरासेन
पुनर्ब्रह्मैकवाक्यतासम्पादनादवयवावयविभावादिना भेदकमपरं किं
भवेदित्यर्थः ॥ २ ॥
सर्वास्वेवास्ववस्थासु तत्त्वज्ञविषयं तु तत् ।
परमेवामलं ब्रह्म नान्यत्किञ्चित्कदाचन ॥ ३ ॥
तर्हि किमविद्यान्तःकरणदेहभेदाद्यवस्थासु पूर्वं जीवा भिन्ना एव इदानीं विद्यया
ब्रह्मैक्यं प्रापिताः नेत्याह - सर्वास्वेवेति । तत्त्वज्ञविषयं तु यद्ब्रह्म तत् आसु
सर्वास्वेवावस्थासु भेदादिमलशून्यमेकरसमेव । न कदाचिदपि किञ्चिद्द्वैतमलं
तत्रास्तीत्यर्थः ॥ ३ ॥
यच्चातत्त्वज्ञविषयं तज्जानाति स एव तत् ।
वयं तु विद्मो नाहं त्वं नातत्त्वज्ञं न वस्तु तत् ॥ ४ ॥
कथं तर्हि पूर्वमहन्त्वादिमलदर्शनं तत्राह - यच्चेति । तन्मलिनं वस्तु च न
विद्मः ॥ ४ ॥
अयं सोहमयं चाज्ञः सत्योऽयमिति बुद्धयः ।
सम्भवन्ति न तत्त्वज्ञे क्व मेरौ मृगतृष्णिका ॥ ५ ॥
कुतो विद्मस्तत्राह - अयमिति । पिपासितश्रान्तदृशा हि मृगतृष्णाप्रसिद्धिः । न
च स्वर्गभूते मेरौ पिपासाश्रमादयः कस्यचित्सन्तीति तदप्रसिद्धिरिति भावः ॥ ५ ॥
यथैकद्रव्यनिष्ठे हि चित्तेऽन्यद्रव्यसंविदः ।
न भवन्ति परे तद्वन्नान्यास्तिष्ठन्ति संविदः ॥ ६ ॥
यथा स्थाणुरेव शुक्तिरेवेत्येकद्रव्यनिष्ठे एकरूपद्रव्यतत्त्वनिश्चयवति पुरुषे
अन्यास्तद्विरुद्धाः स्थाणुर्वा पुरुषो वेति संशयसंविद इदं रजतमिति
भ्रान्तिसंविदश्च न भवन्ति तद्वत् परे तत्त्वे निश्चिते अन्या भेदभ्रमसंविदो न
तिष्ठन्ति ॥ ६ ॥
इदं नासीन्न चोत्पन्नं न चास्ति न भविष्यति ।
जगद्ब्रह्मैव सद्रूपमिदमित्थमवस्थितम् ॥ ७ ॥
इत्थं जीवभावं विमृज्य तथैव जगद्भावमपि विमार्ष्टुमारभते - इदमिति ।
इत्थं मार्जने जगद्ब्रह्मैव भूत्वावस्थितम् ॥ ७ ॥
चिन्नभः काचकच्यं च स्वात्मन्येवावतिष्ठते ।
जगदित्येव तत्तत्र तज्ज्ञानेनैव चेत्यते ॥ ८ ॥
एवं मार्जने जगत्त्वेन गृहीतं चिन्नभः काचकच्यं स्वात्मन्येव
शुद्धब्रह्मभावेऽवतिष्ठते । तत्र तस्यां दशायां जीवन्मुक्तैस्तदेव जगदिति
तज्ज्ञानेनैव चेत्यते न जडं किञ्चिदित्यर्थः ॥ ८ ॥
स्वप्नेषु कल्पनपुरेषु यथान्यदस्ति चिन्मात्रमच्छगगनं ननु वर्जयित्वा ।
नो किञ्चनापि न च रूपमरूपकेषु रूपं तथा जगति सम्प्रति जाग्रदाख्ये ॥ ९ ॥
यथा स्वप्नेषु मनोराज्यकल्पितपुरेषु च अमलं चिन्मात्रमेकं वर्जयित्वा अन्यन्नास्ति
तथा सम्प्रति जाग्रदाख्येऽपि जगति चिन्मात्रं विना न किञ्चनाप्युपाधिस्वरूपमस्ति ।
एवमुपाधिमार्जनेनारूपकेषु जीवेषु न च रूपान्तरमस्तीति चिदैकरस्यं
सिद्धमित्यर्थः ॥ ९ ॥
पूर्वं किलोद्भवति किञ्चन नाम नेदं तच्चावभाति तदनादि खमेव चित्त्वात् ।
नो कारणं न सहकारि किलास्ति यत्र तस्मात्स्वयं भवति वस्त्विति केयमुक्तिः ॥ १० ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति श्रुतेर्यत्र सर्गात्पूर्वं नो कारणं
परिणाम्युपादानं नापि सहकारि निमित्तकारणं च किलास्ति
तस्माज्जगद्भवतीतीयमुक्तिः का । अतः किञ्चनेदं नोद्ब्भवति यच्चेद्भूतमिवावभाति
तदनादि ब्रह्म खमेव चित्स्वभावात्स्वयमेव तथावभातीति सिद्धमित्यर्थः ॥ १० ॥
तस्मात्स्वयं भवति नेह हि कश्चिदादौ ब्रह्मादयोऽज्ञविदिता न च नाम सन्ति ।
व्योमेदमाततमयं स इतः स्वय्म्भूरित्यादि चिद्गगनमेव चिता विभाति ॥ ११ ॥
अमुमेवार्थं दृढीकुर्वन्पुनः स्पष्टमाह - तस्मादिति । अज्ञैर्विदिता
ब्रह्मादयो व्यष्टिसमष्टिजीवतदुपाधयो नैव सन्ति । किन्तु स स्वयम्भूरयं
प्रपञ्चश्च इति ब्रह्मणः सकाशाद्व्योम शून्यमेवेदमाततं चिद्गगनमेव
स्वचिता तथा विभातीति सिद्धमित्यर्थः ॥ ११ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ०
जगत्परमात्मनोरैक्यभोगोपदेशो नाम चतुःषष्ट्यधिकशततमः सर्गः ॥ १६४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगत्परमात्मनोरक्यभोगोपदेशो नाम चतुःषष्ट्यधिकशततमः सर्गः ॥ १६४ ॥
प्द्फ़् ३५२, प्। १४५५