त्रिषष्ट्यधिकशततमः सर्गः १६३
श्रीराम उवाच ।
विनेन्द्रियजयेनेदं नाज्ञत्वमुपशाम्यति ।
तदिन्द्रियाणि जीयन्ते कथं कथय मे मुने ॥ १ ॥
इहेन्द्रियजयोपायश्चित्तरोधश्चिदद्वये ।
अभ्यासश्चास्य शास्त्रस्य कीर्तिता बोधहेतवः ॥
जित्वेन्द्रियाणि जयमेहि जहीहि जन्म इति यदिन्द्रियजयस्यावश्यकत्वं वसिष्ठेनोक्तं
तत्रोपायं रामः पृच्छति - विनेति ॥ १ ॥
श्रीवसिष्ठ उवाच ।
न च प्रभूतभोगेषु न पुंस्त्वे न च जीविते ।
न चेन्द्रियजयोन्मुक्तौ दीपस्तनुदृशो यथा ॥ २ ॥
स्थाने त्वया प्रश्नः कृत इत्यनुमोदमानो वसिष्ठः प्रश्नं पुष्णाति - न चेति ।
यथा तनुदृशो मन्दचक्षुषः पुरुषस्य प्रज्वलन्नपि दीपो न सूक्ष्मार्थदर्शने
उपयुज्यते तथा न प्रभूतभोगेष्वासक्तस्य नापि पुंस्त्वे स्वोत्कर्षसम्पादने
आसक्तस्य नापि जीविते जीवनोपाये धनार्जनादावासक्तस्य शास्त्रादिसाधनं
ब्रह्मदर्शन उपयुज्यते । तथा इन्द्रियजयोन्मुक्तावपि तन्नोपयुज्यत इत्यर्थः ॥ २ ॥
तदिन्द्रियजये युक्तिमिमामविकलां शृणु ।
सिद्धिमेति स्वयत्नेन सुखेन तनुरेतया ॥ ३ ॥
तत्तस्मादिन्द्रियजयस्यावश्यकत्वादेतया मदुक्तयुक्त्या तनुरल्पापि साधनसम्पत्
स्वयत्नेन सिद्धिं मोक्षफलसिद्धिमेति प्राप्नोति ॥ ३ ॥
चिन्मात्रं पुरुषं विद्धि चेतनाज्जीवनामकम् ।
यच्चेतति स जीवोऽन्तस्तन्मयो भवति क्षणात् ॥ ४ ॥
चेतनाच्चित्तोपनीतार्थप्रकाशकत्वात् । चित्ताधीनत्वादिति यावत् । यच्चेतति चित्तवृत्त्या
व्याप्य प्रथयति तन्मयो भवति तत्रासज्जते । स्त्रीमयो जाल्म इतिवत् ॥ ४ ॥
संवित्प्रयत्नसम्बोधनिशिताङ्कुशकर्षणैः ।
मनोमतङ्गजं मत्तं जित्वा जयति नान्यथा ॥ ५ ॥
एवं सति चित्तस्य प्रत्याहारप्रयत्नेनान्तराकर्षणेन बाह्याकारतां निरुध्य
ब्रह्माकारताप्रबोधनाभ्यासे स्वतः पङ्गूनीन्द्रियाण्यर्थादेव जितानि भवन्तीति
युक्तिमाह - संविदिति ॥ ५ ॥
चित्तमिन्द्रियसेनाया नायकं तज्जयाज्जयः ।
उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥ ६ ॥
तत्कुतस्तत्राह - चित्तमिति । नायकं स्वामिभावेन प्रवर्तकं निरोधकं च ।
पादमात्रावरणेन सर्वकण्टकजय एव चित्तमात्रावरणेन सर्वेन्द्रियजय
इत्याशयेनाह - उपानदिति ॥ ६ ॥
संविदं संविदाकाशे संरोप्य हृदि तिष्ठतः ।
स्वयमेव मनः शाम्येन्नीहार इव शारदः ॥ ७ ॥
मनःशान्तौ तर्हि क उपायस्तमाह - संविदमिति । संविदं
चित्तावच्छिन्नसंविदं जीवं संविदाकाशे ब्रह्मणि संरोप्य एकीकृत्य ॥ ७ ॥
स्वसंविद्यत्नसंरोधाद्यथा चेतः प्रशाम्यति ।
न तथाङ्ग तपस्तीर्थविद्यायज्ञक्रियागणैः ॥ ८ ॥
स्वसंविदो जीवसंविदो यत्नेन ब्रह्मणि संरोधादुक्तरूपात् ॥ ८ ॥
यच्च संवेद्यते किञ्चित्तत्तत्संविदि संविदा ।
नूनं विस्मार्यते यत्नाद्भोगानामिति तज्जयः ॥ ९ ॥
संवेद्यते बलात्स्मर्यते तत्तत्तदधिष्ठानब्रह्मसंविदि प्रविलापनसंविदा नूनं
निश्चयेन विस्मार्यते तत्संस्कारोच्छेदेन पुनः स्मरणायोग्यं क्रियते । तत्तेनोपायेन
भोगानां भोगहेतूनां विषयाणां इति एवं जयः ॥ ९ ॥
स्वसंवेदनयत्नेन विषयामिषतोऽनिशम् ।
किञ्चित्संरोधिता संवित्तत्प्राप्तं वैबुधं पदम् ॥ १० ॥
संरोधिता संविच्चेत्तेनोपायेन वैबुधं विबुधानां तत्त्वविदामनुभवसिद्धं
स्वाराज्यपदं प्राप्तम् ॥ १० ॥
स्वधर्मव्यवहारेण यदायाति तदेव मे ।
रोचते नान्यदित्येव पदे वज्रदृढीभव ॥ ११ ॥
एवं स्वधर्मैकनिष्ठतादार्ढ्यमपि वैतृष्ण्यसिद्धिद्वारा इन्द्रियजयहेतुरित्याह
- स्वधर्मेति ॥ ११ ॥
संवित्प्रवृत्तिमर्थेषु विरुद्धेषु विवर्जयन् ।
अर्जयञ्छमसन्तोषौ यः स्थितः स जितेन्द्रियः ॥ १२ ॥
विरुद्धेषु स्वधर्मविरुद्धेष्वर्थेषु देहायात्राहेतुष्वन्नादिषु
संवित्प्रवृत्तिमिच्छाम् ॥ १२ ॥
संविद्रसिकतास्वन्तस्तथा नीरसतासु च ।
यस्य नोद्वेगमायाति मनस्तस्योपशाम्यति ॥ १३ ॥
यस्य मनः अन्तः संविद्रसिकतासु बहिर्नीरसतासु चाभ्यस्यमानासु निर्वेदमरतिं
नायाति तस्य तदुपशाम्यति ॥ १३ ॥
संवित्प्रयत्नसंरोधान्मनः स्वायनमुज्झति ।
चेतश्चपलतोन्मुक्तं विवेकमनुधावति ॥ १४ ॥
अयनं विषयानुधावनदुर्व्यसनम् । सैवास्य चपलता तदुन्मुक्तं सत् ॥ १४ ॥
विवेकवानुदारात्मा विजितेन्द्रिय उच्यते ।
वासनावीचिवेगेन भवाब्धौ न स मुह्यते ॥ १५ ॥
साधुसम्पर्कसच्छास्त्रसमालोकनतोऽनिशम् ।
जितेन्द्रियो यथावस्तु जगत्सत्यं प्रपश्यति ॥ १६ ॥
एवं जितेन्द्रियः सन् जगद्यथावस्तु सत्यं ब्रह्ममात्रं प्रपश्यति ॥ १६ ॥
सत्यावलोकनाच्छान्तिमेति संसारसम्भ्रमः ।
मराविव जलज्ञानं मिथ्यापतनदुःखदम् ॥ १७ ॥
मिथ्यावस्तुषु पतनेन धावनेन दुःखदम् ॥ १७ ॥
अचेत्यमेव चिन्मात्रमिदं जगदिति स्थितम् ।
इत्येव सत्यबोधस्य बन्धमोक्षदृशौ कुतः ॥ १८ ॥
अनाकारं यथा वारि क्षीणं वहति नो पुनः ।
अकारणं तथा दृश्यं ज्ञानच्छिन्नं न रोहति ॥ १९ ॥
अनाकारं शोषणेनोच्छिन्नमूर्ताकारम् ॥ १९ ॥
वेदनं व्योममात्रं त्वमहमित्यादिरूपधृक् ।
वर्जयित्वैतदन्यत्स्यादहमित्यादिकं जगत् ॥ २० ॥
यतो व्योममात्ररूपं वेदनमेव स्वाविद्यया त्वमहमित्यादिरूपधृगतः
स्वाध्यस्तमहमित्यादिकमेतज्जगज्ज्ञानेन वर्जयित्वा विमृज्य
अध्यस्तादन्यदधिष्ठानमात्रं स्यात् ॥ २० ॥
अविद्यामात्रमेवेदमहमित्यादिकं जगत् ।
चिद्व्योम्न्येव स्थितं शान्तं शून्यमात्रशरीरकम् ॥ २१ ॥
शान्तं मिथ्यात्वात्स्वत एव शान्तमिति चिद्व्योम्न्येव तात्त्विके रूपे स्थितम् ॥ २१ ॥
इदं चिद्व्योम्नि चिच्छाया जगदित्येव भासते ।
शून्यशून्यैव चिच्चासौ शून्या चेत्येव निश्चयः ॥ २२ ॥
असौ विच्च जगच्छून्याशून्येनापि शून्येत्येव निश्चयः सिद्धान्तः ॥ २२ ॥
स्वप्नदर्शनदृष्टान्तः केन नामात्र खण्ड्यते ।
असन्मयोऽनुभूतश्च स्वानुभूतोऽप्यसन्मयः ॥ २३ ॥
उभयशून्यता क्व प्रसिद्धेति चेत्स्वप्नदर्शने इत्याह - स्वप्नेति । असन्मय इति
शून्यता अनुभूत इति शून्यशून्यता च । अनुभूतस्यासन्मयत्वेऽपि स एव दृष्टान्त
इत्याह - स्वानुभूतोऽपीति ॥ २३ ॥
सोऽङ्ग संवित्तिमात्रात्मा यद्यद्राज्यं महीयते ।
नकर्तृकर्मकरणं रूपं तद्वज्जगच्चितेः ॥ २४ ॥
हे अङ्ग स्वस्वप्नसंवित्तिमात्रमात्मा स्वरूपं यस्य तथाविधो यद्यद्राज्यं
वैभवं भूत्वा महीयते तत्तच्चितेरेव रूपम् ।
यतस्तत्कर्तृकर्मकरणादिकारकनिरपेक्षं रूपम् । तद्वज्जाग्रज्जगदपि
बोध्यमित्यर्थः ॥ २४ ॥
अकर्तृकर्मकरणमहं चिद्घनमात्रकम् ।
जगच्चेदमनिर्देश्यं स्वसंवेदनलक्षणम् ॥ २५ ॥
यद्यत्कर्तृकर्मकरणादिनिरपेक्षं तत्तचिद्घनमात्रकमहमेव । इदं जगच्च
सर्गादौ कर्त्रादिमत्तया निर्देष्टुमशक्यमिति प्रागुपपादितम् । अतो
मदीयस्वप्रकाशात्मस्वरूपमेवेत्यर्थः ॥ २५ ॥
यथा स्वप्नेषु मरणमनुभूतं न विद्यते ।
मरौ जलेच्छाऽविद्येयं विद्यमाना न विद्यते ॥ २६ ॥
तथा च स्वाप्नस्वमरणमरुजलवत्प्रतीतितो विद्यमानापि अविद्या ज्ञानबाधितत्वान्न
विद्यत इत्याह - यथेति । जलेच्छापदेन जलभ्रान्तिर्लक्ष्यते ॥ २६ ॥
चिद्व्योम्ना काचकच्यं स्वं सर्गादौ व्योम्नि चेतितम् ।
जगदित्येव निर्मूलं काकतालीयवत्स्वयम् ॥ २७ ॥
व्योम्नि स्वात्मनि चेतितं सङ्कल्पितम् ॥ २७ ॥
निर्मूलमेव भातीदमभातमपि भातवत् ।
तस्माद्यद्भासुरमिदं तत्तदेव पदं विदुः ॥ २८ ॥
इदं जगद्यस्माच्चित्प्रकाशान्निमित्ताद्भासुरमपरोक्षं प्रथमानमास्ते तदेव
नित्यापरोक्षं परमं पदं विदुरित्यर्थः ॥ २८ ॥
जीवादिकचनं त्वत्र यद्भातीदं तदेव तत् ।
शून्यतैव भवेद्व्योम वार्येवावर्तवृत्तयः ॥ २९ ॥
यथावयविनो रूपमेकं सावयवं भवेत् ।
एकं जीवाद्यवयवं ब्रह्मानवयवं तथा ॥ ३० ॥
अवयवावयविभावकल्पनद्वारा वा जीवादेर्ब्रह्मैक्यं प्रतिपत्तव्यमित्याह -
यथेति ॥ ३० ॥
आभासमात्रं दृश्यात्म चिन्मात्रं शान्तमव्ययम् ।
स्थितमास्थाः [स्थितमच्छमिति पाठो युक्तः ।] किमेतस्मिन्स्वभावे स्वे
विचार्यते ॥ ३१ ॥
स्फटिकशिलान्तर्वनगिरिनद्याद्याभासवद्वा ब्रह्मणि जगद्बोध्यमित्याह -
आभासमात्रमिति । तथा च तत्स्वच्छतास्वभाव एव जगदात्मना भासत इत्याशयेनाह
- स्वभावे इति । किं विचार्यत इत्यन्वयः ॥ ३१ ॥
नाद्यन्तमन्तःकलनाः काश्चित्सन्ति परे पदे ।
तद्रूपमेवाविद्येयं नाविद्या त्विह विद्यते ॥ ३२ ॥
न आदिरन्तं च नाप्यन्तः मध्यप्रदेशानां कलनाः काश्चित्सन्ति ॥ ३२ ॥
जीवः स्वप्नाद्विशञ्जाग्रज्जाग्रतः स्वप्नमाविशन् ।
प्रबुद्धो वास्त्वबुद्धो वाप्येकरूपतया स्थितः ॥ ३३ ॥
स्वप्नजागरान्वयव्यतिरेकेण परिशोधनेन वा शुद्धं जीवजगत्तत्त्वं ज्ञेयमित्याह
- जीव इति । प्रबोधाप्रबोधयोर्भानैकरूपतया ॥ ३३ ॥
स्थिते सुषुप्ततुर्ये द्वे सदा स्वप्नेऽथ जाग्रति ।
जाग्रत्स्वप्नावेकमेव तुर्यं वेत्ति तु बुद्धधीः ॥ ३४ ॥
सुषुप्तमज्ञानावृत आत्मा तुर्यः शुद्धात्मा च भ्रान्तिकृतसर्पान्तः
अज्ञानरज्जुकेवलरज्जू इव स्वप्नजाग्रतोरन्तः स्थिते ॥ ३४ ॥
जाग्रत्स्वप्नः सुषुप्तं च सर्वं तुर्यं प्रबोधिनः ।
नाविद्या विद्यते तस्य द्वयस्थोऽप्येव सोऽद्वयः ॥ ३५ ॥
प्रबोधिनस्तत्त्वबोधवतः । एवकारो भिन्नक्रमः । स द्वयस्थोऽप्यद्वय एवेति ॥ ३५ ॥
द्वैतमद्वैतमित्येतदहन्त्वमिदमित्यपि ।
निरविद्यस्य कलना कुतः काप्यम्बरं कुतः ॥ ३६ ॥
इत्यपि कापि कलना निरविद्यस्य कुतः कथा अम्बरं शून्यं च कुतः ॥ ३६ ॥
द्वैताद्वैतसमुद्भेदैर्वाक्यसन्दर्भविभ्रमैः ।
क्रीडन्त्यबुद्धाः शिशवो बोधवृद्धा हसन्ति तान् ॥ ३७ ॥
अबुद्धा अप्रबुद्धाः शिशवो बालाः क्रीडन्ति ॥ ३७ ॥
द्वैताद्वैतविवादेहा हृदयाकाशमञ्जरी ।
विनैतयेह नोदेति प्रबोधाकाशमार्जनम् ॥ ३८ ॥
प्रबुद्धा अपि शास्त्रेषु कथं द्वैतविवादानिच्छन्ति तत्राह - द्वैतेति ।
हृदयाकाशे अध्यारोपिता शिष्यप्रबोधफला मञ्जरी ॥ ३८ ॥
सुहृद्भूत्वा विवादेन द्वैताद्वैतविचारणा ।
कृता हृदयगेहेऽन्तरविद्याभस्ममार्जनी ॥ ३९ ॥
अत एव मयापि सुहृद्भावेनाभ्युपगम्य द्वैताद्वैतविचारणा कृता कृतकार्या
गेहमार्जनीव निरसिष्यत इत्याह - सुहृदिति ॥ ३९ ॥
तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ॥ ४० ॥
अविद्याभस्मनि मार्जिते सति अधिकारिणस्तच्चित्ता ब्रह्मचित्ता ब्रह्मगतप्राणाः
परस्परं बोधयन्तस्तुष्यन्ति रमन्ति च ॥ ४० ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
जायते बुद्धियोगोऽसौ येन [येनासौ याति तत्पदं इति
पाठोऽपेक्षितष्टीकानुरोधेन ।] ते यान्ति तत्पदम् ॥ ४१ ॥
एवं भजतां सततं विचारयुक्तानामसौ मदुपदिष्टो बुद्धोयोगः कालेन दृढो
जाय्ते येनासौ तदात्मा तत्पदं मोक्षाख्यं याति ॥ ४१ ॥
किलोपकुरुते यत्नात्तृणमात्रावगोपने ।
कथं सिध्यत्ययत्नेन त्रैलोक्यगणगोपनम् ॥ ४२ ॥
सततयुक्तानामिति प्रयत्नातिशयापेक्षोक्तेस्तात्पर्यमुद्घाटयति - किलेति ।
तृणमात्रस्यापि जलवह्निपश्वादिभ्योऽवगोपने रक्षणे यत्नात्साधित एवोपाय
उपकुरुते न हेलया साधितः । त्रैलोक्यगणस्य ब्रह्मीभावापादनेन
गोपनमात्यन्तिकपरिरक्षणरूपं तत्त्वज्ञानमयत्नेन कथं सिध्यति ॥ ४२ ॥
अध्यात्मव्यसनोन्मुक्तं ततं हृत्स्थाऽधमाऽप्रभु ।
उपहासास्पदं यस्या जगदप्युत्तमस्थितेः ॥ ४३ ॥
यस्या निरतिशयानन्दलक्षणाया उत्तमस्थितेर्मानुषानन्दमारभ्य
हैरण्यगर्भानन्दपर्यन्तमुत्तरोत्तरं शतशतगुणोत्कृष्टसुखोपभोगाय
चतुर्दशभुवनभेदेषु ततं विस्तृतं हृत्स्थस्य अधमस्य कामस्य जये अप्रभु
असमर्थम् । कामोपहतमिति यावत् । जगदपि कार्त्स्न्ये अपिशब्दः । कृत्स्नं
जगज्जीवजातं तुच्छभोगासक्तत्वादुपहासास्पदं सा तादृशी सर्वोत्तमा स्थितिः
कथं न यत्नमर्हतीत्यर्थः ॥ ४३ ॥
किं नामेदं किल सुखं यद्राज्यादिमनोङ्कुरम् ।
तत्त्वज्ञानैकविश्रान्तौ देवराजपदं तृणम् ॥ ४४ ॥
भोगानां तुच्छतामवयुत्योदाहरणेन दर्शयति - किं नामेति ॥ ४४ ॥
सुप्ताः प्रबुद्धाः पश्यन्ति दृश्यं दृश्ये रता यथा ।
तथा दृश्येऽरताः शान्ताः सन्तः पश्यन्ति तत्पदम् ॥ ४५ ॥
अज्ञाननिद्रा सुप्ता दृश्ये विषयभोगे रता जना यथा दृश्यमत्यासक्त्या पश्यन्ति
तथा शान्ताः सन्तस्तत्त्वविदो दृश्ये अरताः प्रसुप्तप्रायास्तन्निरतिशयानन्दं
पदं प्रबुद्धाः पश्यन्तीत्यर्थः । तथा चोक्तं भगवता - या निशा
सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो
मुनेः ॥ इति ॥ ४५ ॥
विना यत्नभरेणेदं न कदाचन सिद्ध्यति ।
महतोऽभ्यासवृक्षस्य फलं विद्धि परं पदम् ॥ ४६ ॥
ईदृशं नित्यापरोक्षनिरतिशयानन्दरूपं मोक्षपदं यत्नभरेण विना कथं
सिद्ध्येदित्यभ्यासावश्यकतामाह - विनेति ॥ ४६ ॥
इदं बहूक्तमेतेन किमेतेनेति दुर्मतिः ।
न ग्राह्यैतावताप्युक्ते नादत्ते नेदमज्ञधीः ॥ ४७ ॥
अत एव मया भवतामभ्यासदार्ढ्यं भवत्विति पुनह्।पुनर्भङ्ग्यन्तरेण
युक्त्यन्तरेण कथाख्यानादिविस्तरेण चेदमेव बहुवारमुक्तम् । भवद्भिश्च
पुनःपुनस्तदेव भगवतोच्यते बहूक्तेन पुनरुक्तसहस्रविस्तारितेनैतेन ग्रन्थेन
एतेनाभ्यासश्रमेण च किं प्रयोजनमित्यश्रद्धालक्षणा दुमतिर्न ग्राह्या ।
सुज्ञस्याति कुशलबुद्धेः कस्यचिदेव नाभ्यासापेक्षा । अज्ञधीस्तु एतावता
विस्तृतेनाप्युक्तेनोपदेशवाक्येन इदमतिदुरूहमात्मतत्त्वं हृदि नादत्ते ।
अतस्तस्यावृत्त्यादिलक्षणोऽभ्यास आवश्यक इत्यर्थः । तथा च भगवतो
बादरायणस्य सूत्रम् - आवृत्तिरसकृदुपदेशात् इति ॥ ४७ ॥
भूयोभूयः परावृत्त्या चिरमास्वाद्यते यदि ।
श्रूयते कथ्यते चेदं तज्ज्ञेनाज्ञेन भूयते ॥ ४८ ॥
अत एवायं ग्रन्थो मन्दमध्यमाधिकारिभिर्यावज्ज्ञानोदयं पुनः पुनः
श्रवणाद्यावर्तनेनास्वादनीय इत्याह - भूयोभूय इति । इदं मदुक्तं शास्त्रं ।
अज्ञेनापि एतदावर्तनोपायेनावश्यं तज्ज्ञेन भूयते नात्र सन्देह इत्यर्थः ॥ ४८ ॥
यस्त्वेकवारमालोक्य दृष्टमित्येव सन्त्यजेत् ।
इदं स नाम शास्त्रेभ्यो भस्माप्याप्नोति नाधमः ॥ ४९ ॥
अनभ्यासपरस्य तु नैतत्फलावाप्तिरिति तं निन्दति - यस्त्विति । शास्त्रेभ्यः
अनध्यात्मशास्त्रेभ्यः ॥ ४९ ॥
इदमुत्तममाख्यानमध्येयं वेदवत्सदा ।
व्याख्येयं पूजनीयं च पुरुषार्थफलप्रदम् ॥ ५० ॥
यदस्मात्प्राप्यते शास्त्रात्तत्तद्वेदादवाप्यते ।
अस्मिन्ज्ञाते क्रिया ज्ञानं द्वयं याति पवित्रताम् ॥ ५१ ॥
प्रत्यक्षवेदोपबृंहणत्वादस्य
काण्डद्वयफलसर्वस्वसाधनत्वादतिप्रशस्ततरत्वं दर्शयति - यदिति । क्रिया
पूर्वकाण्डार्थः । ज्ञानमुत्तरकाण्डार्थः । द्वयमपि
पवित्रतामात्यन्तिकाशुद्धिनिरासफलताम् ॥ ५१ ॥
वेदान्ततर्कसिद्धान्तस्त्वस्मिन्ज्ञाते च बुध्यते ।
इदमुत्तममाख्यानं व्याख्यातं शास्त्रदृष्टिषु ॥ ५२ ॥
चकारो भिन्नक्रमः । वेदान्तेषु ये
बादरायणादिभिर्दर्शितास्तात्पर्यनिर्णयानुकूलोपक्रमादि##-
विशेषद्योतनार्थस्तुशब्दः । शास्त्रदृष्टिषु मध्ये विशिष्टत्वेनाख्यातं
व्याख्यातं श्रेष्ठतया ख्यातमित्यर्थः ॥ ५२ ॥
कारुण्याद्भवतामेतदहं वच्मि न मायया ।
भवन्तस्त्ववगच्छन्ति मायामेतद्विचार्यताम् ॥ ५३ ॥
मायया कैतवैन न वच्मि किन्तु कारुण्यात् ।
भवन्तस्त्वस्माच्छास्त्रवराद्विचारितादतद्दृश्यजातं मायां
मिथ्येत्यवगच्छन्त्यत एतच्छास्त्रं विचार्यताम् ॥ ५३ ॥
अस्माच्छास्त्रवराद्बोधा जायन्ते ये विचारितात् ।
लवणैर्व्यञ्जनानीव भान्ति शास्त्रान्तराणि तैः ॥ ५४ ॥
अस्माच्छास्त्रवराद्विचारिताद्ये बोधा जायन्ते तैर्बोधैः शास्त्रान्तराणि
लवणैर्व्यञ्जनानीव रुचिराणि भान्तीतीदं सर्वशास्त्रोपजीव्यमित्यर्थः ॥ ५४ ॥
अनार्यमिदमाख्यानमित्यनादृत्य दृश्यधीः ।
मा भवन्त्वात्महन्तारो ब्भवन्तो भवभागिनः ॥ ५५ ॥
अनार्यं काव्यत्वादपूज्यम् । दृश्येषु भोगेष्वासक्ता धीर्येषाम् । सुपां सुलुक् इति
छान्दसः पूर्वसवर्णदीर्घः सुब्व्यत्ययो वा । आत्मनः [मूलस्थात्महन्तार
इत्यस्यायमर्थः ।] पुनःपुनर्मृत्युपरम्पराप्राप्तिहेतुमोहगर्तपातिनः ।
ततश्च पुनःपुनर्भवभागिनो जन्मभाजो मा भवन्ति ॥ ५५ ॥
तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति ।
यथा भवन्तो विविचारवन्तस्तथानिशं मा भवताज्ञताप्त्यै ॥ ५६ ॥
नन्वस्मत्कुले पूर्वजैस्तपःकर्मादिनिष्ठैवाश्रिता न ब्रह्मनिष्ठा । अस्मदीयाः
पूर्वजाः कर्ममीमांसका अस्मदीयाः पूर्वजास्तार्किका अस्मदीयाः पूर्वजाः
साङ्ख्या अस्मदीयाः पूर्वजास्तान्त्रिका मन्त्रसिद्धा योगसिद्धा
औषधरसायनादिसिद्धा वा अभूवन्नतो वयमपि तद्वंश्यास्तत्तदनुसृतमेव
मार्गमाश्रयिष्यामो नाध्यात्मशास्त्रमिति ब्रुवाणान् जनानुपहसन्मुमुक्षूणां
तन्मार्गप्रवृत्तिं वारयति - तातस्येति । काकपुरुषाः दुरभिमानेन सन्निहितमपि
जाह्नवीजलमनादृत्य यथा क्षारं जलं पिबन्ति तथा भवन्तोऽप्यज्ञताप्त्यै
पुनःपुनर्जन्मपरम्परासु मौर्ख्याप्त्यै मौर्ख्यस्यैव लाभाय अनिशं
विरुद्धविविधविचारवन्तो मा भवतेत्यर्थः ॥ ५६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वा० उ०
इन्द्रियजयोपायशास्त्रवर्णनं नाम त्रिषष्ट्यधिकशततमः सर्गः ॥ १६३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
इन्द्रियजयोपायशास्त्रवर्णनं नाम त्रिषष्ट्यधिकशततमः सर्गः ॥ १६३ ॥