द्विषष्ट्यधिकशततमः सर्गः १६२
श्रीवसिष्ठ उवाच ।
चिद्व्योमार्थतयार्थानां यथास्थितमिदं जगत् ।
सरूपालोकमननमपि चिद्व्योम केवलम् ॥ १ ॥
इह द्वैतस्य कृत्स्नस्य ब्रह्ममात्रत्ववर्णनैः ।
हितोक्तिभिरविद्याया निरास उपपाद्यते ॥
सर्वस्य दृश्यस्य चिद्व्योमार्थमेव स्फुरणादपि तन्मात्रतापरिशेष इत्याह -
चिद्व्योमेति । अर्थानां विषयाणां बाह्यरूपालोकनेन आन्तरमननेन च सहितं
बाह्यमाभ्यन्तरं च दृश्यजातं गवाद्यर्थतृणादि गवात्द्यात्मने
चिद्व्योमोपभोग्यं चिद्व्योमैव केवलं परिशिष्यत इत्यर्थः ॥ १ ॥
स्वप्नचित्पुररूपत्वादन्यद्यस्मान्न विद्यते ।
जगत्तस्मान्नभः शान्तं नेह नानास्ति किञ्चन ॥ २ ॥
चिद्भोग्यस्य चिन्मात्रपरिशेषत्वं केन दृष्टान्तेन साध्यते तत्राह - स्वप्नेति ।
यस्माद्धेतोः स्वप्ने पुरभोक्त्र्याश्चित एव पुररूपत्वादन्यन्न विद्यते
तस्माज्जाग्रज्जगदपि नभ इव शान्तम् । उक्तानुमाने श्रुतिसम्मतिं दर्शयति - नेह
नानास्ति किञ्चनेति ॥ २ ॥
चिदाभानमनानैव नानेव परिलक्ष्यते ।
अनात्मैवात्मनात्मानं स्वप्नाकाशपुरेष्विव ॥ ३ ॥
यदि नाना नास्ति तर्हि किं तद्यन्नानेव परिलक्ष्यते तत्राह - चिदाभानमिति । यन्नाना
तदनात्मैव निःस्वरूपमेव स्वसाक्षिणा आत्मनात्मानं स्वं दर्शयति । यथा
स्वप्नपुरेष्वाकाशपुरेषु गन्धर्वनगरेषु च पदार्थस्तद्वदित्यर्थः ॥ ३ ॥
सर्गादाविव चिद्व्योम स्वप्नाकाशपुरं जगत् ।
आभातमेवासत्यं च नूनं सत्यमिव स्थितम् ॥ ४ ॥
तत्साम्यमेव स्फुटयति - सर्गादाविति । सर्गस्य आदौ प्रलयकाल इवेदानीमपि जगत्
स्वप्नाकाशपुरवत् आभातमेवासत्यं चेति साम्यमित्यर्थः ॥ ४ ॥
तज्ज्ञाज्ञातो न मूर्खाणामज्ञाज्ञातो न तद्विदाम् ।
विद्यते सर्गशब्दार्थः सत्यासत्यमयात्मकः ॥ ५ ॥
चन्द्रप्रादेशिकत्ववत्तज्ज्ञानानुभवविसंवादादपि जगत्तथेत्याह - तज्ज्ञेति ।
उभयत्र अज्ञात इति च्छेदः । अथवा न मूर्खाणां तद्विदां वा अनुभवमनुसृत्य
प्रपञ्चो व्यवस्थापयितुं शक्यः
परस्परविसंवादादुभाभ्यामप्यज्ञातत्वादित्यर्थः ॥ ५ ॥
तज्ज्ञाज्ञयोस्तयोरन्तःप्रतिपत्तौ तु यत्स्थितम् ।
न बोद्धुं न च वक्तुं ते जानीतस्तौ परस्परम् ॥ ६ ॥
तत्कुतस्तत्राह - तज्ज्ञाज्ञयोरिति । यतः केवलान्तर्दृष्टयस्तज्ज्ञाः
केवलबाह्यदृष्टयोऽज्ञाः प्रपञ्चरूपं त्वन्तःप्रतिपत्तौ बुद्धिवृत्तौ अन्तराले
स्थितमुभावपि बोद्धुं ते तुभ्यं परस्परं वा वक्तुं च न जानीतो न शक्नुतः ॥ ६ ॥
स्वबुद्धौ स्वर्गशब्दार्थो मिथोन्तस्तत्किलानयोः ।
स्थैर्यास्थैर्ये जाग्रतो द्वे अक्षीबक्षीबयोरिव ॥ ७ ॥
उक्तमेवोपपादयति - स्वबुद्धाविति । सर्गशब्दार्थस्तावत्स्वस्वबुद्धौ स्थित एव
स्फुरति नान्य इत्यविवादं तत्राक्षीबक्षीबयोरिवाभ्रान्तभ्रान्तयोरनयोर्मिथः
परस्परं तत्तत्प्रपञ्चरूपमान्तरबुद्धिस्थत्वादन्तःस्थम् । किलेति यौक्तिकप्रसिद्धौ
। तत्र विदुषो बुद्धिः सदैव स्थैर्ये जागर्तीति स स्थिरमात्मतत्त्वमेव पश्यति ।
अविद्वद्बुद्धिरस्थैर्ये जागर्तीति सोऽस्थिरं बाह्यमेव पश्यति । बुद्धिगतं तु
प्रपञ्चस्वरूपं नात्यन्तमान्तरं नात्यन्तं बाह्यमिति नोभयोरपि
तत्परिज्ञानमस्तीत्यर्थः ॥ ७ ॥
द्रवस्थितिमिता यद्वत्सरिद्वारिणि वीचयः ।
चितौ स्थितिमितास्तद्वच्चेतनात्सर्गवीचयः ॥ ८ ॥
यद्युभाभ्यामपि द्रष्टुमशक्यः प्रपञ्चस्तर्हि कथं स्थितिं प्राप्तस्तत्राह -
द्रवेति । अज्ञातचित्स्वभावमेवावलम्ब्य जलद्रवतया तरङ्गा इवात्मसत्तयैवान्तराले
स्थितिं प्राप्ता इत्यर्थः ॥ ८ ॥
चिद्रूपं यन्न किञ्चित्तदिदं किञ्चिदवस्थितम् ।
भाति दृश्यमिवादृश्यमपि स्वप्नपुरेष्विव ॥ ९ ॥
अत एव चिच्चमत्कारमात्रं जगदित्याह - चिद्रूपमिति ॥ ९ ॥
चिच्छायेयं प्रकचति जगदित्यभिशब्दिता ।
नन्वमूर्तैव मूर्तेव द्रव्यच्छायेव वै तता ॥ १० ॥
अथवा मायायां यश्चित्प्रतिबिम्बः स एव जगदाकारेण [जीवजगदाकारेण इत्यपि
पाठः ।] स्फुरतीत्याह - चिछायेति । दर्पणे घटपटादिद्रव्यच्छायेव ॥ १० ॥
कायमात्रकमेवेदं भ्रान्तिमात्रमसन्मयम् ।
पिशाचविभ्रमालोकप्रायमायासनं दृढम् ॥ ११ ॥
तत्र देहात्मताभ्रान्तिरेव सर्वायासमूलमित्याह - कायेति ॥ ११ ॥
मनोराज्यमिवासत्यं लोलं लम्बाम्बुबिन्दुवत् ।
द्वाभ्यामित्यनुभूतिभ्यां यदसत्तत्र कात्मता ॥ १२ ॥
देह एवात्मास्त्विति भ्रमं वारयति - द्वाभ्यामिति । प्राग्वर्णिताभ्यां द्वाभ्यां
विद्वदविद्वदनुभूतिभ्यामपि विमृश्यमानं यदसत् तत्र का
आत्मताप्रसक्तिरित्यर्थः ॥ १२ ॥
विदार्यदारुरववत्तरङ्गानिलशब्दवत् ।
खे शब्दाः पवनस्फोटा भान्त्यर्था वासनोदयाः ॥ १३ ॥
कथं तर्हि रामोऽहं वसिष्ठस्त्वमित्यादिदेहात्मव्यवहारशब्दार्थास्तत्राह -
विदार्येति । यथा पृथिव्यां स्थूलवंशदारुविदारणे तदन्तःस्थितः शब्दो
बहिर्निःसरतीव प्रतिभाति न च तदन्तःशब्दः स्थितो निःसृतो वा तथा जले
तरङ्गेभ्यः अग्नौ ज्वालादिभ्यः खे प्रतिध्वनिशब्दाः पवनाच्च
कण्ठताल्वादिप्रदेशे वर्णपदवाक्यस्फोटा निर्गता इव भान्ति न च ते प्राक् तदन्तः
सन्ति तद्वद्वासनामया अप्यर्था अग्निविस्फुलिङ्गवज्जाग्रत्स्वप्नयोरात्मनो निर्गता इव
भान्ति न च तत्र सन्तीत्यर्थः ॥ १३ ॥
सर्गादितः स्वपरिभा कचति स्वप्नशैलवत् ।
वस्तुतस्तु न शब्दोस्ति नार्थोऽस्ति न च दृश्यता ॥ १४ ॥
स्वपरिभा स्वात्मचित् ॥ १४ ॥
यदिहं चास्ति चाभाति तत्सर्वं परमार्थसत् ।
अन्यादृक्कारणाभावात्सर्गादावेव नोदितम् ॥ १५ ॥
अन्यादृक् सद्व्यतिरिक्तं रूपं तु सर्गादावेव कारणाभावान्नोदितं नोत्पन्नमेव ॥
१५ ॥
निरस्तशब्दभेदार्थमनिरस्ताखिलार्थकम् ।
शाम्यामि परिनिर्वामि व्योमैवास्मीति बुद्ध्यताम् ॥ १६ ॥
अतः सदैवैकरूपं सद्व्योमैवाहमिति परमशान्तनिर्वृत्तिरूपं बुध्यतामित्याह
- न्निरस्तेति ॥ १६ ॥
त्यज्यतामात्मविश्रान्त्या शुद्धबोधैकरूपया ।
जीवेऽजवं जवीभावस्त्वसदुत्थित आत्मना ॥ १७ ॥
जीवे प्रसिद्धोऽजवं जवीभावो मनोविक्षेपः ॥ १७ ॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
आत्मात्मना न चेत्त्रातस्तदुपायोऽस्ति नेतरः ॥ १८ ॥
अत एव स्वविवेकेनैवात्मानमुद्धरेत्याह - आत्मैवेति ॥ १८ ॥
तर तारुण्यमस्तीदं यावत्ते तावदम्बुधेः ।
ननु संसारनाम्नोऽस्माद्बुद्ध्या नावा विशुद्धया ॥ १९ ॥
यावत्तारुण्यमस्ति तावदेव बुद्ध्या नावा संसारनाम्नोऽम्बुधेस्तर परतीरं व्रज ॥
१९ ॥
अद्यैव कुरु यच्छ्रेयो वृद्धः सन्किं करिष्यसि ।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥ २० ॥
वयसो विपर्यये वृद्धत्वे ॥ २० ॥
शैशवं वार्धकं ज्ञेयं तिर्यक्त्वं मृतिरेव च ।
तारुण्यमेव जीवस्य जीवितं तद्विवेकि चेत् ॥ २१ ॥
शैशवं वार्धकं च तिर्यक्त्ववज्ज्ञानासाधकं ज्ञेयम् । विवेकि चेदिति । अविवेकित्वे तु
तत्तिर्यक्त्वादप्यधममिति भावः ॥ २१ ॥
संसारमिममासाद्य विद्युत्सम्पातचञ्चलम् ।
सच्छास्त्रसाधुसम्पर्कैः कर्दमात्सारमुद्धरेत् ॥ २२ ॥
कर्दमात् मोहकर्दमात् । सारमात्मानम् ॥ २२ ॥
अहो बत नराः क्रूरा गतिः कैषां भविष्यति ।
कुर्वन्ति कर्दमोन्मग्ने नात्मन्यपि निजोदयम् ॥ २३ ॥
ये कर्दमोन्मग्नेऽप्यात्मनि शास्त्रोपायैर्निजोदयमुद्धारोपायं न कुर्वन्ति एषां का
गतिर्भविष्यतीत्यनुशोचति वसिष्ठः ॥ २३ ॥
यथा मृन्मयवेतालसभा ग्राम्यस्य भङ्गदा ।
यथा भूतार्थविज्ञानान्मृन्मय्येव न भङ्गदा ॥ २४ ॥
ग्राम्यस्य मृन्मयत्वानभिज्ञस्य सत्यवेताला सभा मया दृष्टेति भ्रान्तिमत इति
यावत् । भङ्गदा भयज्वरादिदुःखदा ॥ २४ ॥
तथा ब्रह्ममयी दृश्यलक्ष्मीरज्ञस्य भङ्गदा ।
यथा भूतार्थविज्ञाने ब्रह्मैवास्ते न भङ्गदा ॥ २५ ॥
शाम्यत्यशान्तमेवेदं स्थितमेव विलीयते ।
दृश्यं तत्त्वपरिज्ञानाद्दृश्यमानं न दृश्यते ॥ २६ ॥
कुतो न भङ्गदतत्राह - शाम्यतीति ॥ २६ ॥
स्फुटानुभवनस्यापि स्वप्नकाले निजे यथा ।
परिज्ञानादसत्यत्वमेव सत्यपदं गता ॥ २७ ॥
ननु स्फुटानुभवनत्वात्सत्यपदं गतस्य जगतः कथं
ज्ञानमात्रादसत्त्वापत्तिस्तत्राह - स्फुटेति । यथा स्वप्नकाले
स्फुटानुभवनस्यापि स्वाप्नजगतः परिज्ञानात्प्रबोधात् । तथा अनुभूयमाना अत
एव सत्यपदं गतापि सर्गसंवेदनेति परेणान्वयः ॥ २७ ॥
तथानुभूयमानापि सर्गसंवेदनाम्बरे ।
चिन्मये तत्त्वविज्ञानाच्छून्यतैवावशिष्यते ॥ २८ ॥
जातिज्वरज्वलितजीवितजङ्गलेषु जीर्णानि वातहरिणाहरणक्रमेण ।
माद्यन्मनःपवनपातयुतान्यमूनि जित्वेन्द्रियाणि जयमेहि जहीहि जन्म ॥ २९ ॥
तत्तु ज्ञानं समनस्केन्द्रियजयं विना न लभ्यत इति दर्शयन्नुपसंहरति - जातीति
। जातिज्वरैर्जन्मज्वरभूतैः कामक्रोधादिदवाग्निभिर्ज्वलितेषु दीप्तेषु जीवितजङ्गलेषु
वातहरिणानां वातमृगाणां यस्तृणपर्णाद्याहरणक्रमः कदाचिल्लभ्यते
कदाचिन्नेत्येवंरूपस्तेन जीर्णानि शिथिलीभूतानि माद्यतो मनसः प्राणपवनस्य च
यः पातो बहिः सञ्चारस्तेन युतान्यमूनीन्द्रियाणि जित्वा ज्ञानेनाविद्याजयमेहि
प्राप्नुहि । तेन च मुक्तः सन् पुनर्जन्म जहीहि त्यज । निवारयेति यावत् ॥ २९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वा० दे० मो० नि० उ० अ० वि० अविद्यानिरसनो
नाम द्विषष्ट्यधिकशततमः सर्गः ॥ १६२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अविद्यानिरसनो नाम द्विषष्ट्यधिकशततमः सर्गः ॥ १६२ ॥