१६१

एकषष्ट्यधिकशततमः सर्गः १६१

श्रीराम उवाच ।

यन्मुनिव्याधयोरेतद्वृत्तं नानादशाशतम् ।
अन्यकारणकं किं स्यादेतत्किं वा स्वभावजम् ॥ १ ॥

अनन्यकारणं चित्रं चिन्मात्रप्रतिभात्मकम् ।
अबोधाज्जगदाभाति बोधे ब्रह्मेति वर्ण्यते ॥

मुनिव्याधयोरेतद्भासवर्णितं सुखदुःखादिदशाशतं यद्वृत्तं तत्किं
प्रत्यहं दृश्यमानस्वप्नादिवदनन्यकारणकं किं वा
लवणगाधिप्रभृतीनां चण्डालभावादिकमैन्द्रजालिकभगवद्वरादिनिमित्तादिव
निमित्तान्तरस्वभावजमिति रामप्रश्नार्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

ईदृशाः प्रतिभावर्ताः परमात्ममहाम्बुधौ ।
अनारतं प्रवर्तन्ते स्वतः स्वात्मनि खात्मकाः ॥ २ ॥

तत्र निमित्तान्तरमस्तु मा वा । अज्ञातात्मनि यावन्मोक्षमीदृशा भ्रमाः सदैव
प्रवर्तन्त इति वसिष्ठ उत्तरमाह - ईदृशा इत्यादिना ॥ २ ॥

यथा स्पन्दात्मनो वायोरजस्रं स्पन्दलेखिकाः ।
उद्यन्त्येव सतश्चित्त्वाच्चिद्व्योम्नि प्रतिभायुताः ॥ ३ ॥

यथा व्यजनादिनिमित्तान्तरे सत्यसति च वायावल्पाल्पतराः स्पन्दलेखिकाः स्पन्दलवाः
सदैवोद्यन्ति तद्वदित्यर्थः । प्रतिभा अर्थाकारप्रथा ॥ ३ ॥

या यथा स्वाङ्गभूतास्मादुदिता प्रतिभा प्रभा ।
तावत्सेह तथैवास्ते न हता यावदन्यया ॥ ४ ॥

अन्यया आकारान्तरप्रतिभया यावन्न हता न विनाशिता । यथा मृदः पिण्डाद्याकारो
घटाद्याकारान्तरपरिणतिविनाश्यस्तद्वदिति भावः ॥ ४ ॥

नानावयववानेक एवेहावयवी यथा ।
चिद्ब्रह्मैकमिदं व्योम तथैवं प्रतिभात्मकम् ॥ ५ ॥

तेषु चानन्तेषु प्रतिभासेष्वधिष्ठानसन्मात्रात्मकं ब्रह्म शाखादिषु वृक्ष
इवानुगतं तिष्ठतीत्याह - नानेति ॥ ५ ॥

ब्रह्म काश्चित्स्थिराः काश्चिदस्थिराः प्रतिभार्थवत् ।
देहावस्था इवात्मस्थाः स्थितमात्मनि खात्मनि ॥ ६ ॥

तत्र काश्चिद्भूम्यन्तरिक्षदिगाद्यवस्थाश्चिरकालावस्थानात्स्थिराः । अन्या अस्थिराः
अल्पकालस्थायिन्यः । यथा देहस्य पिण्डहस्तपादाद्याकारावस्था
निमेषोन्मेषाद्यवस्थाश्चेत्यर्थः ॥ ६ ॥

स्वात्मनि स्वप्नपुरवद्भानं चिति चमत्कृतिः ।
किं सारं किमसारं वा किं सत्किं वाप्यसद्भवेत् ॥ ७ ॥

तासु सारासारत्वादिग्रहो वृथैव मूढानामित्याह - स्वात्मनीति ॥ ७ ॥

परिज्ञातमिदं यावत्सर्वं चिद्व्योममात्रकम् ।
दृश्यं जगद्भवद्बुद्धं न सन्नासत्किमुच्यते ॥ ८ ॥

यावद्यदा भवद्भिरज्ञैर्बुद्धं तु ॥ ८ ॥

चिद्व्योममात्रकचनं संसारे सर्वतः शिवे ।
आस्थानास्थादि किं तज्ज्ञा यथासंस्थानमास्थित ॥ ९ ॥

यथासंस्थानं यथास्थितं स्वरूपमालम्ब्य आस्थित तिष्ठत ।
छान्दसस्तिङ्व्यत्ययः ॥ ९ ॥

समुद्यन्ति स्वतोऽम्भोधेर्वीचिवत्प्रतिभाकृताः ।
स्वात्मिकाः स्वात्मनो देवात्कार्यकारणदृक्तया [द्योतमानात् ।] ॥ १० ॥

स्वतः स्वात्मनः सकाशात् कार्यकारणदृक्तया प्रतिभाकृताः प्रतिभाकाराः
समुद्यन्ति ॥ १० ॥

स्फारं यत्परमं व्योम्नः स्वसङ्कल्पस्वसर्गवत् ।
तत्तेनैव जगद्बुद्धं कुतः पृथ्व्यादयोऽत्र के ॥ ११ ॥

यत्स्वसङ्कल्पवत्स्वसर्गवच्च स्फारं प्रतिभानं तदेव तेन जगदिति बुद्धम् ॥ ११ ॥

भात्येवमयमाभासो नैव भाति च किञ्चन ।
ब्रह्मण्येव स्थितं ब्रह्म तदविद्याभिधं स्वतः ॥ १२ ॥

तज्जगत् । स्वतः न कारणान्तरतः ॥ १२ ॥

घनता चिद्घनेनेह चिद्व्योमैवाखिलं जगत् ।
इत्येव परमो बोध एतत्प्रौढिस्तु मुक्तता ॥ १३ ॥

इह चिद्घनेनैव घनता नान्येन पृथ्व्यादिरूपेण । प्रौढिर्भूमिकाभ्यासेन
दृढीभावः ॥ १३ ॥

चिद्व्योमशून्यतारूपमात्रमाभास आततः ।
ऐदमप्रतिघं शान्तं जगदित्येव भासते ॥ १४ ॥

शून्यताया आकाशताया रूपं नैल्यमिव स्थितमज्ञानमालम्ब्येति शेषः । आभासो
भ्रमः ॥ १४ ॥

ध्यायिनः क्षीणदेहस्य ध्याने दृक्त्वे क्षणं स्थिते ।
चिन्मात्रव्यतिरेकेण शक्तत्वं स्यात्किमुच्यताम् । १५ ॥

एतच्च ध्यायिनामनुभवसिद्धमित्याह - ध्यायिन इति ।
निर्विकल्पसमाधिप्रतिष्ठया क्षीणदेहस्य उच्छिन्नदेहभावस्य । दृक्त्वे
साक्षिचिन्मात्ररूपत्वे । शक्तत्वं जगद्दर्शनसामर्थ्यं किं स्यात् ।
तस्मादज्ञानदृशैव तत्सामर्थ्यं परिशेषादिति भावः ॥ १५ ॥

चिद्धातुव्योमभागो यो भाति यत्र यथा यथा ।
तथा तथा स तत्रास्ते यावदित्थं स्वभावतः ॥ १६ ॥

तथा च ब्रह्मैवाज्ञचित्तोपाधौ जगदात्मना भात्यन्यत्र चिन्मात्रस्वभावेनेति
व्यवस्थेत्याह - चिद्धात्विति । बोधाबोधस्वभावतः ॥ १६ ॥

अविचारवतो दृश्यभ्रान्तिर्गगनमय्यपि ।
जातितैमिरिकद्वीन्दुदोषवन्नोपशाम्यति ॥ १७ ॥

जातितैमिरिकस्य जन्मप्रभृति तिमिररोगदुष्टचक्षुषः पुरुषस्य ॥ १७ ॥

यदिदं दृश्यते किञ्चित्तद्रह्मैव निरामयम् ।
चिदाकाशमनाद्यन्तं तत्कथं किं प्रशाम्यति ॥ १८ ॥

ब्रह्मभावापन्नं तु जगन्न नश्यतीत्याह - यदिदमिति ॥ १८ ॥

स्वमसन्त्यजतो रूपं स्वच्छसंवेदनात्मकम् ।
स्वप्नवत्कचनं स्वस्य यन्नाम तदिदं जगत् ॥ १९ ॥

तथा चाज्ञदशायामपि स्वप्नचिद्विवर्तमात्रं जगदित्याह - स्वमिति ।
अविकृतस्यान्यथा प्रतिभासो विवर्त इति तल्लक्षणयोगादिति भावः ॥ १९ ॥

शास्त्रार्थैस्तीक्ष्णया बुद्ध्या मिथो यन्न विकल्पनैः ।
कृत्वा सुप्तमिवात्मानं किञ्चिद्बुद्धेन बोध्यते ॥ २० ॥

रूढा येयमविद्येति संविदव्यभिचारिणी ।
भवतां ननु नास्त्येव सा सरित्स्विव पांसुभूः ॥ २१ ॥

या भवतां जगदाकारेण रूढा सास्माकं नास्त्येव ॥ २१ ॥

यथा स्वप्नेऽवनिर्नास्ति स्वानुभूतापि कुत्रचित् ।
तथेयं दृश्यता नास्ति स्वानुभूताप्यसन्मयी ॥ २२ ॥

नन्वनुभवः कथमुपलभ्यते तत्राह - यथेति ॥ २२ ॥

चिद्व्योममात्रमेवार्थाऽनलवद्भासते यथा ।
स्वप्ने तथैव जाग्रत्त्वेऽनलं स्वस्यैव लक्ष्यते ॥ २३ ॥

रूपाद्यर्थवत्तत्प्रकाशकानलवच्च यथा स्वप्ने चिद्व्योमैव भासते । स्वस्य
जाग्रत्साक्षिणः अनलमपूर्णं स्वप्रकाशरूपमेव तथा लक्ष्यत इत्यर्थः ॥ २३ ॥

इदं जाग्रदयं स्वप्न इति नास्त्येव भिन्नता ।
सत्ये वस्तुनि निःशेषसमयोर्यानुभूतितः ॥ २४ ॥

या भिन्नता भासते अनुभूतितः समयोस्तयोः सा नास्त्येवेत्यर्थः ॥ २४ ॥

नैतदेवमिति स्वप्नप्रबोधात्प्रत्ययो यथा ।
मृत्वामुत्र प्रबुद्धस्य जाग्रति प्रत्ययस्तथा ॥ २५ ॥

अमुत्र शरीरान्तरे प्रबुद्धस्य गर्भस्थस्य जातिस्मरस्य जाग्रति प्रसिद्धः प्रत्ययोऽपि
तथा नैतदेवमिति बाधितो भवतीत्यर्थः ॥ २५ ॥

कालमल्पमनल्पं च स्वप्नजाग्रदितीह धीः ।
वर्तमानानुभवनसाम्यात्तुल्ये तयोर्द्वयोः ॥ २६ ॥

कथं तर्ह्यसाम्यप्रत्ययो जनानामिति चेत्कालाल्पत्वमहत्त्वाभ्यां नानुभवत इत्याह

  • कालेति ॥ २६ ॥

बाह्ये तदेवमित्यादिगुणसाम्यादशेषतः ।
न जाग्रत्स्वप्नयोर्ज्यायानेकोऽपि यमयोरिव ॥ २७ ॥

न च बाह्ये जाग्रदन्तः स्वप्न इति भेदः । स्वप्नोऽपि बाह्ये । तत्स्वाप्नमेव जाग्रद्वदेव
सर्वमिति सर्ववस्तुषूभयत्र गुणसाम्यानुभवेन नैकतरज्यायस्त्वमित्यर्थः ॥ २७ ॥

यदेव जाग्रत्स्वप्नोऽयं यः स्वप्नो जाग्रदेव तत् ।
नैतदेवं किलेत्यस्ति धीः कालेनोभयोरपि ॥ २८ ॥

धीर्बाधधीः ॥ २८ ॥

आजीवितान्तं स्वप्नानां शतान्यनियतं यथा ।
अनिर्वाणमहाबोधे तथा जाग्रच्छतान्यपि ॥ २९ ॥

अनिर्वाणस्य जीवस्य महत्यबोधे स्वापे ॥ २९ ॥

उत्पन्नध्वंसिनः स्वप्नाः स्मर्यन्ते बहवो यथा ।
तथैव बुद्धैः स्मर्यन्ते सिद्धैर्जन्मशतान्यपि ॥ ३० ॥

बुद्धैः प्रबुद्धैः सिद्धैर्जातिस्मरणानुकूलयोगसिद्धिमद्भिः ॥ ३० ॥

एवं समस्तसाधर्म्ये समस्तानुभवात्मनि ।
कचति स्वप्नवज्जाग्रज्जाग्रद्वत्स्वप्नवेदनम् ॥ ३१ ॥

यथा दृश्यं जगच्चेति नित्यमेकार्थतां गतौ ।
उभौ शब्दौ तथैवैतज्जाग्रत्स्वप्नात्मकौ स्मृतौ ॥ ३२ ॥

कथं तर्हि नामभेदस्तत्राह - यथेति ॥ ३२ ॥

एवं स्वप्नपुरं स्फारं यथा व्योमैव चिन्मयम् ।
तथैवेदं जगदतः क्वाविद्या दृश्यते कुतः ॥ ३३ ॥

स्वप्नसाम्यप्रतिपादनस्य प्रयोजनं दर्शयति - एवमिति ॥ ३३ ॥

तदेवाकाशमात्रात्म यद्यविद्येति कथ्यते ।
तद्यदास्ते तदेवाहं बन्धः स्वकलनात्मकः ॥ ३४ ॥

स हि स्वप्नो इत्यादिश्रुतौ स्वप्नशब्देनेवाविद्याशब्देनापि तद्ब्रह्मैव यदि कथ्यते
तर्हि न शब्दे वयं विवदामहे किन्तु सर्वभ्नमशान्तौ यदेवास्ते तदेवाहम् । प्राक्
स्वकल्पनात्मक एव बन्ध इत्येतावदस्मदभिमतं तच्च सिद्धमेवेति भावः ॥ ३४ ॥

तन्मैवं क्रियतामेतदबन्धस्यैव बन्धनम् ।
कान्यता अमलव्योम्नश्चिन्मयस्य निराकृतेः ॥ ३५ ॥

यदैवं तदा नित्यमुक्तस्यात्मनो बन्धनभ्रान्तिरेव न कार्येत्याह - तदिति ।
अमलस्य व्योम्नो निराकृतेश्चिन्मयस्य च का अन्यता किं वैलक्षण्यं येन व्योम न
बध्यते चिदात्मा तु बध्यत इति वाचो युक्तिः प्रसरेत् ।
द्वयोरप्यमूर्तत्वालेपकत्वसूक्ष्मतमत्वादिना अत्यन्तसाम्यादिति भावः ॥ ३५ ॥

चिन्मयाकाशकचने क्वास्मिन्किल निराकृतेः ।
दृश्यनामन्यविद्याख्ये बन्धो मोक्षोऽथवा कुतः ॥ ३६ ॥

अस्मिन्दृश्यनामन्यविद्याख्ये चिन्मयाकाशकचने सति बन्धो वा मोक्षो वा कुतो
हेतोः स्यादित्यर्थः ॥ ३६ ॥

नाविद्या विद्यते नाम बन्धो बन्धो न कस्यचित् ।
मोक्षो न कस्यचिन्मोक्षश्चास्तिनास्तीति नास्त्यलम् ॥ ३७ ॥

यथा अविद्या नाम न विद्यते तदा बन्धो बन्धो न । तथा मोक्षोपि मोक्षो न । यतो
ब्रह्मातिरिक्तं अस्तिनास्तीति अव्यवहारयोग्यमेव दुर्लभमित्यर्थः ॥ ३७ ॥

नास्त्येव विद्याऽविद्या वा चिदेवेयं कचत्यजा ।
ख एव खाकृतिः स्वप्न इव सर्गस्वदेहिनी ॥ ३८ ॥

स्वप्न इव चिदेव सर्गाकारस्वदेहिनी भूत्वा कचति ॥ ३८ ॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
तज्जाग्रत्स्वप्नदृश्यस्य रूपमित्येव निश्चयः ॥ ३९ ॥

मध्ये यन्निर्विषयं संविदः स्वरूपं प्रसिद्धं तदेव
जाग्रत्स्वप्नप्रसिद्धदृश्यस्य पारमार्थिकं रूपमित्येव निश्चयः कार्यः ॥ ३९ ॥

सबाह्याभ्यन्तरे दृश्ये शान्तनिद्रस्य यद्वपुः ।
एकस्य निशि तद्रूपं जाग्रत्स्वप्नदृशामिह ॥ ४० ॥

बाह्ये दृश्ये आभ्यन्तरे च दृश्ये इन्द्रियमनस्तद्विकारादौ प्रकाशनाय सदा
जागरूकस्य स्वयञ्ज्योतिरात्मनो यद्वपुः स्वरूपम् । असुप्तः सुप्तानबिचाकशीति इति
श्रुतेः । तदेव जाग्रत्स्वप्नदृशां तात्त्विकं रूपमित्यर्थः ॥ ४० ॥

विद्धि तद्रूपमेवेदं भेदवेदनमित्यपि ।
चित्यन्तमागतः कोऽन्यो नाम स्याद्भेदवेदने ॥ ४१ ॥

अत एव जाग्रत्स्वप्नभेदवेदनमित्यपि कल्पनं तद्रूपं तदुभयसाक्षिरूपमेव
विद्धि न चिद्भेदवेदनम् । यतः अवस्थात्रयानुगतायाः साक्षिचितेरन्तमन्यः क आगतो
दृष्टवान् यश्चिति भेदं पश्येदित्यर्थः ॥ ४१ ॥

चिद्व्योमैवाभेदबुद्धिश्चिद्व्योमैव च भेदधीः ।
द्वैताद्वैते चैकमेव तथा शान्तमखण्डितम् ॥ ४२ ॥

तथा सतीति शेषः ॥ ४२ ॥

सदंशो बोधतद्ग्राह्यमय एव यथा तथा ।
दृष्टा य एव दृश्यं तद्द्वैतवेदनमेककम् ॥ ४३ ॥

यथा ब्रह्मणः सच्चिदानन्दांशेषु सदंशो बोधमयो
बोधग्राह्यमयश्चेत्युभयत्राभिन्नस्तथा द्वैतं तद्वेदनं चैककमिति
चिदंशोऽप्यभिन्नः । यतो य एव दृष्टा दृशां विषयीकृतास्त एव
दृश्यमित्युच्यन्ते । न च विषयविषयिभावश्चित्तादात्म्यातिरिक्तः केनचिन्निरूपयितुं
शक्यस्तत्तस्माद्धेतोरित्यर्थः ॥ ४३ ॥

तद्ब्रह्म खं विदुर्द्वैतमद्वैताद्वैतमेव च ।
सर्ग एव परं ब्रह्म द्वैतमद्वैतमेव सत् ॥ ४४ ॥

एकस्य सद्वस्तुन एव सर्वद्वैतात्मना यदा प्रतिभासस्तदा ब्रह्मैव
द्वैताद्वैतमद्वैताभिन्नं च । न तद्व्यतिरिक्तं किञ्चित्प्रसिद्ध्यतीत्यर्थः ॥ ४४ ॥

नेति नेति विनिर्णीय सर्वतोऽभिभवत्यपि ।
पश्चात्त्यक्त्वा चिदाकाशे शिलां कृत्वास्यतामिह ॥ ४५ ॥

तर्हि किं द्वैताद्वैतसमुच्चयात्मकमेव ब्रह्म बोद्धव्यं नेत्याह - नेतीति ।
पूर्वं सर्ग एव परं ब्रह्म द्वैतमद्वैतमेव [अत्र सत् इति पाठः साधुः
तथैव ४४ तमश्लोके पठितत्वात् च इति तत्पूर्वार्धान्तेन भ्रान्तिः सुसम्भाव्या ।]
इति मूर्तामूर्तप्रपञ्चस्य ब्रह्मरूपतां विनिर्णीय पश्चात् नेति नेति इति
सर्वद्वैतनिषेधेन सर्वतः कृत्स्नं द्वैतं त्यक्त्वा अभितो भवत्याविर्भूतेऽपि इह
प्रत्यगात्मनि चिदाकाशे उत्तरोत्तरभूमिकाभ्यासेन
सैन्धवघनवदानन्दैकरसघनां शिलां कृत्वा आस्यताम् ॥ ४५ ॥

यथाक्रमं सुभग यथास्थितस्थिति यथोदयं व्रज पिब भुङ्क्ष्व भोजय ।
अभीप्सितं गतमननो निरिङ्गनः सुचिन्मये परमपदोपलो भवान् ॥ ४६ ॥

हे सुभग एवं सुचिन्मये ब्रह्मणि परमपदोपलभूतो भवान् यथाक्रमं
स्ववर्णाश्रमोचितक्रममनतिक्रम्य यथास्थितं लोकस्थितिं चानतिक्रम्य यथोदयं
स्वविभवानुसारेणाभीप्सितं देशं विषयं च व्रज विहर पिब भुङ्क्ष्व
द्विजसुहृद्वर्गान्भोजय च । अनीप्सितम् इति पाठे निरिच्छं यथा स्यात्तथा ॥ ४६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० अ० वि० श०
निर्वाणवर्णनं नामैकषष्ट्यधिकशततमः सर्गः ॥ १६१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणवर्णनं नामैकषष्ट्यधिकशततमः सर्गः ॥ १६१ ॥