षष्ट्यधिकशततमः सर्गः १६०
श्रीवाल्मीकिरुवाच ।
विपश्चिति वदत्येवं तद्वृत्तान्तमवेक्षितुम् ।
इव लोकान्तरं भानुः पादैर्दूरायतैर्ययौ ॥ १ ॥
इह सायं सभोत्थानं परेद्युः पुनरागमः ।
भासस्य जीवन्मुक्तत्वमविद्या चोपवर्ण्यते ॥
श्रुतं तस्य भासस्य पूर्ववृत्तान्तं प्रत्यक्षमवेक्षितुमिव पादैः किरणचरणैः
॥ १ ॥
उदभूत्पूरयन्नाशा दिनपर्यन्तदुन्दुभिः ।
तुष्टाभिरिव निर्मुक्तो दिग्भिर्जयजयारवः ॥ २ ॥
आशा दिशः । दिनपर्यन्तः सायङ्कालस्तत्सूचको दुन्दुभिः । तुष्टाभिरिति तत्रोत्प्रेक्षा ॥ २
॥
विपश्चिते दशरथो गृहदारधनादिकम् ।
राज्यानुरूपं विभवं प्रोत्तस्थौ कल्पयन्क्रमात् ॥ ३ ॥
कल्पयन् समर्थयन् ॥ ३ ॥
राजरामवसिष्ठाद्या मिथः कृत्वा विसर्जनं ।
यथाक्रमं पूजनं च प्रययुः स्वास्पदानि ते ॥ ४ ॥
स्वास्पदानि स्वस्वगृहाणि ॥ ४ ॥
स्नात्वा भुक्त्वा निशां नीत्वा प्रभाते पुनराययुः ।
तेनैव सन्निवेशेन सा सभा संस्थिताऽभवत् ॥ ५ ॥
तेन प्राक्तनेनैव सन्निवेशेन क्रमेण ॥ ५ ॥
क्रमान्मुनिरुवाचाथ तां यथाप्रस्तुतां कथाम् ।
शशीवामृतमाह्लादमुद्गिरन्मुखदीप्तिभिः ॥ ६ ॥
शशी अमृतमिव मुखदीप्तिभिराह्लादयतीत्याह्लादं वचनमुद्गिरन् ॥ ६ ॥
राजन्नेयमविद्येयमसत्येव सती स्थिता ।
नेदृशेनापि यत्नेन निर्णीतैषा विपश्चिता ॥ ७ ॥
एवं विपश्चिदुपवर्णनप्रकारैर्दृश्यभ्रान्तिरूपा अविद्या न निर्णीता
अन्तवत्तयेत्यर्थः ॥ ७ ॥
अविद्यैवमविज्ञाता चिरानन्तावभासते ।
परिज्ञाता तु नास्त्येव मृगतृष्णानदी यथा ॥ ८ ॥
अधिष्ठानब्रह्ममात्रतया अविज्ञाता सती कालतश्चिराद्देशतो वस्तुतश्चानन्ता ॥ ८ ॥
मन्त्रिणस्ते महाबुद्धे भासस्यास्य विपश्चितः ।
इतिवृत्तं त्वमित्यस्य स्वयमेव हि दृष्टवान् ॥ ९ ॥
ते मन्त्रिणो दृष्टवन्त इति विपरिणामेनापकृष्यते ॥ ९ ॥
सदृशोऽयमितस्त्वाभिः कथाभिर्ज्ञाततत्पदः ।
अविद्यायां प्रशान्तायां जीवन्मुक्तो भविष्यति ॥ १० ॥
इतः परमाभिः कथाभिर्ज्ञाततत्त्वोऽयमविद्यायां प्रशान्तायां सत्यां
युष्माभिः सदृशो जीवन्मुक्तो भविष्यति ॥ १० ॥
अविद्येति धृता संविद्ब्रह्मणात्मनि सत्तया ।
तद्भ्रमेणासदप्यस्याः सद्रूपमिव लक्ष्यते ॥ ११ ॥
ब्रह्मणा यद्यस्मादविद्येति संविद्धृता तत्तस्माद्भ्रमेणैवास्या असदपि रूपं
सद्रूपमिव लक्ष्यते ॥ ११ ॥
यदा ब्रह्मात्मिकैवेयमविद्या नेतरात्मिका ।
तदास्त्येषाऽपरिज्ञाता परिज्ञाता न भिद्यते ॥ १२ ॥
इत्थं चास्या ब्रह्मातिरिक्तस्वरूपाभावाद्यावदपरिज्ञातं सत्ता परिज्ञानमात्रेण
निवृत्तिश्चोपपद्यत इत्याह - यदेति ॥ १२ ॥
अविद्यैवमनन्तेयं नानाप्रसवशालिनी ।
जडा हृद्या रसमयी मोहमाधवमञ्जरी ॥ १३ ॥
तामेवाविद्यां वर्णयति - अविद्येत्यादिना । सर्वत्र विशेषणान्युभयत्र योज्यानि ।
रसमयी आसक्तिकरी । मोहलक्षणे माधवे वसन्ते प्रफुल्ला मञ्जरी ॥ १३ ॥
अन्तशून्या ग्रन्थिमती श्लक्ष्णा स्वङ्कुरकण्टका ।
जडा रसमयी दीर्घा लतेव वनवैणवी ॥ १४ ॥
आपातदृष्ट्या श्लक्ष्णा अनुभवकाले तु स्वङ्कुराः सर्वे कण्टका यस्याः ।
वनवेणौ जाता वनवैणवी लता शाखेव ॥ १४ ॥
फलाशङ्का मुधैवातिनिष्फला चित्तहारिणी ।
अकालपुष्पमालेव श्रेयसा नाभिनन्दिता ॥ १५ ॥
मुधैव फलमस्तीत्याशङ्का यस्याम् । श्रेयसा प्रशस्यतरेणाभिज्ञजनेन
नाभिनन्दिता औत्पातिकी अकालपुष्पमालेव ॥ १५ ॥
न किञ्चिद्रूपिणी पीना नानाभुवनपूरिणी ।
भूताकुला निरालोका सुदीर्घेव तमोमयी ॥ १६ ॥
भूतैः प्राणिभिः पिशाचैश्चाकुला । तमोमयी रात्रिरिव ॥ १६ ॥
केशोण्ड्रकभ्रान्तिरिव विचित्रग्रन्थिवेष्टना ।
मिथ्यैव दृश्यमाना खेऽदृश्यमाना न किञ्चन ॥ १७ ॥
अविचित्रवर्णा विगुणा शून्ये च वितताकृतिः ।
जडस्पन्दोत्पातमयी शक्रचापलतेव खे ॥ १८ ॥
विगुणा गुणहीना ज्याहीना च । चक्रचापलतापक्षे जडस्पन्दो जलस्पन्दो
वृष्टिस्तस्योत्पाताः सूचका विकृताः सूर्यकिरणास्तन्मयी ॥ १८ ॥
जडकल्लोलबहुला कलुषोल्लासफेनिला ।
चक्रावर्ताक्षयमयी प्रावृषीव तरङ्गिणी ॥ १९ ॥
अनारतवहच्छून्यजगन्मृगनदीशता ।
रजोराशिमयी रूक्षा शवभूरिव दुर्भगा ॥ २० ॥
शवभूः श्मशानभूमिरिव ॥ २० ॥
अन्तं प्राप्नोति न यथा चिरं स्वप्नपुरे चरन् ।
जाग्रदाख्ये स्वप्नपुरे तथैवास्मिंश्चिरं चरन् ॥ २१ ॥
चरन् भ्रमन् ॥ २१ ॥
यानि सङ्कल्पजालानि प्रतिष्ठामागतान्यलम् ।
त्यक्तैकदृश्यजालस्थदेहानां दृढचेतसाम् ॥ २२ ॥
त्यक्ता एकत्र दृश्यजाले प्रपञ्चे स्थिता देहा यैस्तथाविधानां जीवानां मरणकाले
एतज्जगदाकारदृढचेतसां दृढीभूतानि यानि सङ्कल्पजालानि
तान्येवैतज्जगद्देहाद्याकारेण प्रतिष्ठां स्थितिमागतानि ॥ २२ ॥
स्थितानि तानि चिद्व्योम कोशरत्नान्यसङ्कटम् ।
विमानपुरभूम्यादिरूपेणेत्थं स्थितात्मना [स्थिरात्मनेति क्वचित्पाठः ।
] ॥ २३ ॥
तान्येव सिद्धसद्मानि व्योम्नि भान्ति परस्परम् ।
अदृष्टान्यप्यसङ्ख्यानि सूपलब्धान्यसन्त्यपि ॥ २४ ॥
अदृष्टान्यपि सन्ति । सूपलब्धानि सम्यग्दृष्टाभ्यपि असन्ति । सिद्धसद्मानि
सिद्धलोकाः ॥ २४ ॥
सुवर्णमणिमाणिक्यमुक्तावनिमयानि च ।
भक्ष्यभोज्यान्नपानाढ्यरसायनसरांसि च ॥ २५ ॥
तानि सिद्धसद्मान्येव वर्णयति - सुवर्णेत्यादिना ॥ २५ ॥
मधुमद्यदधिक्षीरघृतकुल्याकुलानि च ।
रसायनमयाकारवनितावलितानि च ॥ २६ ॥
रसायनं चन्द्रस्तन्मयाकारवनिताभिर्वलितानि ॥ २६ ॥
सर्वर्तुपुष्पफलपल्लवपूरवन्ति लीलाविलोलललनाकुलितालयानि ।
सङ्कल्पमात्ररचनेन च सर्वकालं सम्पन्नसर्वविभवोत्करसङ्कुलानि ॥ २७ ॥
सर्वर्तुषु प्रसिद्धपुष्पफलपल्लवनदीप्रवाहादिमन्ति । सङ्कल्पेति । स यदि
पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ते तेन पितृलोकेन
सम्पन्नो महीयते इत्यादिश्रुतेरिति भावः ॥ २७ ॥
सहस्रचन्द्रबिम्बानि शतसूर्याणि कानिचित् ।
सुवर्णामृतवेषाम्बुमयभूतानि कानिचित् ॥ २८ ॥
सुवर्णमिवामृतमिव वेषा येषां तथाविधान्यम्बुमयानि च भूतानि येषु ॥ २८ ॥
स्वेच्छातमःप्रकाशानि नित्यानन्दमयानि च ।
कानिचिन्नीयमानानि तनुतूललघूनि च ॥ २९ ॥
वायुना यथाभिलषितदेशं नीयमानानि ॥ २९ ॥
क्षणोत्पत्तिविनाशानि कानिचित्कलनावशात् ।
अनन्तस्वन्नपानानि निर्जरामरणानि च ॥ ३० ॥
उत्पत्तिविनाशाविच्छया दर्शनादर्शने ॥ ३० ॥
विचित्रसन्निवेशानि विचित्रविभवानि च ।
सर्वर्तुगुणरम्याणि सर्वकाममयानि च ॥ ३१ ॥
तानि सङ्कल्पजालानि किल कल्याणकारतः ।
स्थिराणां मनसां भित्तिः कथमेवं भवेत्तु सा ॥ ३२ ॥
कल्याणकारतः शास्त्रीयसत्कर्मोपासनातस्तत्फलाकाराणां तत्तल्लोकतद्भोग्याकारेण
स्थिराणां तन्मनसां परिणतिः । सा तु एवंविधा स्थूला भित्तिः कथं भवेत् ॥ ३२ ॥
नान्यत्किञ्चन नामेह ब्रह्ममात्रमयात्मनि ।
सम्भवत्यङ्ग तेनैतदुच्यतामस्तु किम्मयम् ॥ ३३ ॥
मनःपरिणामास्तु मनोरथादौ चिन्मात्रसत्ताका एव दृष्टा इति
ब्रह्ममात्रमयात्मनि जगति सति एतन्मदुक्तं सर्वं सोपपत्तिकं सम्भवति । हे अङ्ग
प्रकारान्तरमस्ति चेदिदं जगत्किम्मयं तदुच्यतां वादिभिरित्यर्थः ॥ ३३ ॥
सर्गादावेव सर्गादि किञ्चनापीदमस्ति नो ।
कारणाभावतस्तेन जगत्किम्मयमस्त्विदम् ॥ ३४ ॥
यद्यपीदानीं भूतमयं भौतिकमित्युत्प्रेक्षितुं शक्यं तथापि सर्गादिकाले सदेव
सोम्येदमग्र आसीदेकमेवाद्वितीयम् इत्यादिश्रुतेर्नान्यत्कारणं सम्भावयितुं
शक्यमित्यकारणं जगदब्रह्मत्वे अत्यन्तासदेवेत्याह - सर्गादावेवेति ॥ ३४ ॥
सङ्कल्प्यन्ते निरन्तानि किल तानि यथा यथा ।
चितौ तथा तथा भान्ति केवात्र वद चित्रता ॥ ३५ ॥
यद्यत्यन्तासन्ति तर्हि कथं जगन्ति भान्ति तत्राह - सङ्कल्प्यन्त इति । अत्यन्तासतामपि
शशशृङ्गखपुष्पादीनां सङ्कल्पने भानदर्शनादिति भावः ॥ ३५ ॥
इदानीमपि हे साधो त्वमप्यन्येऽपि केऽपि वा ।
तीव्रसंवेगसङ्कल्पनगराण्येवमेव खे ॥ ३६ ॥
तर्ह्यस्मत्सङ्कल्पादेर्वन्ध्यत्वं कुत इति चेत्तीव्रसंवेगत्वाभावादेव । तीव्रसंवेगेन
तु त्वं वा अन्येऽपि केऽपि वा खेऽपि नगराणि कुर्वन्त्येव । तानि
चैकरसाभ्यासादैन्दवन्यायेन प्राप्नुवन्ति चेत्याह - इदानीमिति द्वाभ्याम् ॥ ३६ ॥
कुर्वन्त्येकरसाभ्यासाद्यदि नाम यदृच्छया ।
तत्तानीदं वपुस्त्यक्त्वा प्राप्नुवन्त्यचिरेण खे ॥ ३७ ॥
यस्त्विदं कल्पितं च द्वे वस्तुनी अनुवर्तते ।
स्वर्गादिवदवाप्नोति प्राप्नोत्येवैकमेकधीः ॥ ३८ ॥
इदं पूर्वसिद्धमुपासनादिना स्वकल्पितं चेति द्वे प्रपञ्चे
दृढसङ्कल्पेनावश्यमस्त्येवेति बुद्ध्या योऽनुवर्तते स पुरुषो यथा यज्ञादिकारी
स्वर्गाद्यवश्यमाप्नोति तथा क्रमेण द्वे अप्यवाप्नोति । यस्त्वनयोरेकं सत्यमिति
दृढधीः स एकमेवाप्नोतीत्यर्थः ॥ ३८ ॥
सिद्धाः सदा विभान्त्येवं यथान्तःकल्पनावशात् ।
नरकादीनि दुःखानि तथैवाभान्ति कल्पनात् ॥ ३९ ॥
सिद्धलोकेषूक्तो न्यायो नरकादिपापफलकल्पनास्वपि समान इत्याह - सिद्धा इति ।
एतावांस्तु विशेषः - उपासनाफलं यत्नेन तत्सत्यतादृढाभ्यासे सत्येव
भवति । पुण्यफलं त्वास्तिक्यानुष्ठानयोः सतोर्विनापि तदभ्यासं सत्यमित्येव
दृढं भवति पापफलं तु आस्तिक्याभ्यासयोरभावेऽपि पापाचरणमात्रेण
सत्यमित्येव दृढकपनं भवतीति भावः ॥ ३९ ॥
यद्यत्संवेद्यते किञ्चित्तत्तथाप्यनुभूयते ।
सति वाऽसति देहेऽस्मिन्देह एव मनोमयः ॥ ४० ॥
संवेदनानुसारित्वं तु सर्वत्र समानमित्याह - यद्यदिति । देह एव । कार्त्स्न्ये
एवकारः । सर्वोऽपि देह इत्यर्थः ॥ ४० ॥
जीवस्त्यजति यद्भावे एकां देहमयीं धियम् ।
तद्भावैकमयीमन्यामाशु तत्रैव पश्यति ॥ ४१ ॥
अत एव मनोनुसारेणैवैकं देहं त्यक्त्वा अपरं देहं जीवो गृह्णातीत्याह - जीव
इति । तत्रैवाकाशे ॥ ४१ ॥
शुभा संविच्छुभाṁल्लोकान्सम्पश्यत्यशुभाऽशुभान् ।
खात्मिका खात्मकानेव चिरं वानुभवत्यपि ॥ ४२ ॥
शुभा कृतपुण्या । अशुभा कृतपापा जीवसंवित् ॥ ४२ ॥
शुद्धा सिद्धपुराण्येव पश्यत्यनुभवत्यपि ।
चिदशुद्धानि रूपाणि दुःखानि नरकेष्वति ॥ ४३ ॥
या तु कर्मोपासनशुद्धा सा सूक्ष्मतमानि सिद्धपुराण्येव परेषां पश्यति
स्वान्यनुभवत्यपि । अति दुःखानि पश्यत्यनुभवत्यपि ॥ ४३ ॥
घूर्णत्पाषाणयमलगिरिचक्रकपेषणम् ।
तत्रान्धकूपपतनं पुनरुद्धारवर्जितम् ॥ ४४ ॥
नारके यानि पश्यत्यनुभवति च तानि प्रपञ्चयति - घूर्णदित्यादिना ।
घूर्णत्पाषाणे ये यमलगिरिचक्रके गिरिद्वयचक्रके गोधूमपेषणपाषाणयन्त्राकारे
ताभ्यां पेषणम् । तत्र नरके ॥ ४४ ॥
दारुणेनातिशीतेन देहं पाषाणतां गतम् ।
भूताङ्गारमयानन्तमरुमार्गास्पदं वपुः ॥ ४५ ॥
भूतैः पिशाचैरङ्गारैश्च प्रचुरः अनन्तो यो मरुर्निर्जलो मार्गस्तदास्पदं तत्र
पान्थभूतं स्वं परं वपुः ॥ ४५ ॥
पूताङ्गारमयाम्भोदसरदङ्गारवर्षणम् ।
तप्तनाराचनिकरपरुषासारदारुणम् ॥ ४६ ॥
पूता निरस्तभस्मानो येऽङ्गारास्तन्मयाम्भोदेभ्यः सरतां पततामङ्गाराणां
वर्षणम् ॥ ४६ ॥
अवहत्पाषाणचक्रासिसरिदाकाशसञ्चरम् ।
वक्षोमुक्ताम्बुदाकारकुठाराघातभेदनम् ॥ ४७ ॥
वहन्त्यः पाषाणादिसरितो यत्र तथाविधे आकाशे सञ्चरं सञ्चारम् । वक्षःसु
मुक्तानां पातितानामम्बुदाकारकुठाराणामाघातेन वक्षोभेदनम् । वृष्ट्या
आमुक्तानामिति पाठान्तरे विग्रहः ॥ ४७ ॥
तप्तायःपरुषाश्लेषच्छमिच्छमितिमज्जनम् ।
बृहत्कटकटाशब्दशस्त्रयन्त्रनिपीडनम् ॥ ४८ ॥
तप्तायःसूर्भिशूलादीनामाश्लेषं सशब्दं मज्जनं च ॥ ४८ ॥
चक्रवज्रगदाप्रासशूलासिशरवर्षणम् ।
शाल्मलीग्रहणं पाशं [पाशबन्धनम् ।] कुशक्तिशततोदनम् ॥ ४९ ॥
शाल्मल्याः सकण्टकाया ग्रहणमाश्लेषणम् ॥ ४९ ॥
तप्तसैकतसम्भारपातपातालमज्जनम् ।
दीपच्छन्नानलभयण्म् बृहद्वायसचर्वणम् ॥ ५० ॥
दीपवेषेण प्रच्छन्नो य उल्कानलस्तस्माद्भयम् । बृहद्भिर्वायसैश्चर्वणं
तोदनम् ॥ ५० ॥
निर्निर्गमाकृशाङ्गारमहाङ्गारप्रवेशनम् ।
शरशक्तिगदाप्रासभुशुण्डीचक्रवेधनम् ॥ ५१ ॥
क्षुत्क्षोभपरुषप्रेतव्रातान्योन्याङ्गचर्वणम् ।
तालोत्तालातिपरुषशिलातलनिपातनम् ॥ ५२ ॥
तालादप्युत्तालादुन्नतप्रदेशादतिपुरुषशिलातलेषु निपातनम् ॥ ५२ ॥
रुधिरामेध्यपङ्काङ्कपूयनद्यादिसङ्कटम् ।
शिलाशस्त्रमयाश्वेभपादपाषाणपेषणम् ॥ ५३ ॥
श्वभ्राभोलूकलिखितं जनौघमुसलाहतम् ।
शिरःकरखुरस्कन्धखण्डोत्कगृध्रमण्डलम् ॥ ५४ ॥
श्वभ्राभेषु देशेषूलूकैर्लिखितं देहविदारणम् । शिरःकरपादादीनां खण्डनं
खण्डस्तत्रोत्कमुत्कण्ठितं गृध्रमण्डलं यत्र ॥ ५४ ॥
एतस्मात्कुकृतादेतत्फलमित्येव भावनात् ।
पश्यत्येवन्देशदृढादविसंवादिविस्तृतः ॥ ५५ ॥
भावनाच्छास्त्रतो निर्णयात्प्राग्बहुश एवंविधदेशेष्वनुभवेन दृढात् ।
स्वात्मैव तत्तन्नरकात्मना विस्तृतः सन्नित्यर्थः ॥ ५५ ॥
यन्नाम किञ्चन कदाचन चेतनं खे भातं न भातमथवा यदपूर्वमेव ।
तत्कल्पनाद्भवति तन्मयमेव तद्धि तस्माच्चिरं च चलतीति यदृच्छयैव ॥ ५६ ॥
उक्तं सङ्गृह्योपसंहरति - यन्नामेति । यन्नाम किञ्चन चेतनदेहादि कदाचन
खे चित्ताकाशे भातम् अथवा भाविनोऽपि स्वप्ने दर्शनान्न भातम् वा अपूर्वमेव यत्
तदपि सङ्कल्पभ्रान्तिरूपात्कल्पनाद्भाति । तत्सर्वं तन्मयं मनोमयमेव ।
तस्माद्भावाच्च चिरमनुभूताद्यदृच्छयैव चलति न प्रयत्नशतैरपीति
सिद्धमित्यर्थः ॥ ५६ ॥
इत्यार्षे श्रीवासिष्ठ० वा० दे० मो० नि० उ० अ० वि० श० स्वर्गनरकोपलम्भवर्णनं
नाम षष्ठ्यधिकशततमः सर्गः ॥ १६० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
स्वर्गनरकोपलम्भवर्णनं नाम षष्ट्यधिकशततमः सर्गः ॥ १६० ॥