एकोनाषष्ट्यधिकशततमः सर्गः १५९
अग्निरुवाच ।
विपश्चिच्छ्रेष्ठ भो साधो त्वं गच्छाभिमतां दिशम् ।
स्थिरं भूमण्डलं भूयः प्रकृतव्यवहारवत् ॥ १ ॥
इहाग्नेरिन्द्रगमनमुपदिश्य विपश्चिते ।
आश्चर्याणि बहून्यन्ते ब्रह्मतत्त्वं च वर्ण्यते ॥
श्रेष्ठ भो विपश्चित् त्वं स्थिरं भूयः प्रकृतव्यवहारवद्भूमण्डलं प्राप्य
अभिमतां दिशं गच्छ ॥ १ ॥
यज्ञं यष्टुं प्रजौघस्य शक्रः शततमं दिवि ।
तत्राहूतोऽस्मि मन्त्रेण गच्छामि गतिकोविद ॥ २ ॥
शक्रो दिवि यज्ञं यष्टुं प्रवृत्तः । अहं तत्राहूतोऽस्मि गच्छामि ॥ २ ॥
भास उवाच ।
इत्युक्त्वा भगवानग्निस्तत्रैवान्तरधीयत ।
गगने निर्मले याति अनलो वैद्युतो यथा ॥ ३ ॥
मूर्त्याकारेणान्तरधीयत । अग्न्याकारेण तु वैद्युताग्निवद्गगने याति ॥ ३ ॥
तथाहमपि चित्तेन प्राक्तनांश्च स्वयं वहन् ।
पुनः स्वकर्म निर्णेतुं भ्रमन्व्योमनि संस्थितः ॥ ४ ॥
प्राक्तनानविद्यान्तदर्शनविषयकसंस्कारान्वहन्सन् स्वं दिगन्तोपसर्पणकर्म
निर्णेतुं निष्पादयितुम् ॥ ४ ॥
भूयोऽपि दृष्टवानस्मि जगन्त्यगणितानि खे ।
नानाचारविचाराणि नानासंस्थानवन्ति च ॥ ५ ॥
क्वचिच्छत्रमयाङ्गानि एकीभूतानि भूपते ।
भान्ति चेतन्ति चोपन्ति हृदयानि हरन्ति च ॥ ६ ॥
तान्येव स्वदृष्टानि जगन्ति वर्णयति - क्वचिदित्यादिना । एकीभूतानि
परस्परसंलग्नानि । भूपते इति दशरथसम्बोधनम् । चोपन्ति मन्दं गच्छन्ति
द्रष्ट्टणां हृदयानि मनांसि हरन्ति च ॥ ६ ॥
क्वचिन्मृन्मयदेहानि सर्वभूतानि राघव ।
भान्ति चेतन्ति चोपन्ति पर्वतप्रतिमानि च ॥ ७ ॥
क्वचिद्दारुमयाङ्गानि भान्ति भूतानि कुत्रचित् ।
क्वचित्पाषाणदेहानि सन्ति भूतानि भूरिशः ॥ ८ ॥
कुत्रचिज्जगति ॥ ८ ॥
क्वचिदाजीवमेकत्र स्थितान्युपलदेहवत् ।
वाङ्मात्रव्यवहाराणि भूतान्यालोकितानि खे ॥ ९ ॥
आजीवं यावज्जीवम् । उपलदेहवत् प्रतिमावत् । परस्परं सम्भाषणादिना
वाङ्मात्रव्यवहाराणि न गमनादानादिव्यवहारवन्ति । खे स्वचित्ताकाशे ॥ ९ ॥
इत्यहं सुचिरं कालं पश्यन्नश्यन्मनस्तया ।
अविद्यान्तमपश्यंश्च तत्रोद्विग्नोऽभवं दृशाम् ॥ १० ॥
मनस्तया स्वप्न इव मनोमात्रदेहतया । तत्र अविद्यायां दृशां
दृश्यवर्गाणां विषये उद्विग्नः अभवम् ॥ १० ॥
तपः कर्तुं समुद्युक्तः कस्मिंश्चिन्मोक्षसिद्धये ।
प्राहेन्द्रो मम चैवेदं मृगयोन्यन्तरं हि खे ॥ ११ ॥
एवं समुद्विग्नोऽहं कस्मिंश्चिद्रहसि उपविश्य मोक्षसिद्धये तप आत्मतत्त्वालोचनं
कर्तुं समुद्युक्तोऽभवम् । ततो मामिन्द्रः प्राह । किं प्राह । हे विपश्चित् खे चित्ताकाशे
मम च तव च इदं मृगयोन्यन्तरमुपस्थितमस्ति ततो नायमात्मतत्त्वालोचनकाल
इत्यर्थः ॥ ११ ॥
प्रवृत्तः स्वर्गसम्मोहे पूर्वाभ्यासवशीकृतः ।
मन्दारकानने तत्र भ्रमतो वै ममाम्बरे ॥ १२ ॥
ननु ममाल्पपुण्यस्य कदाचिन्मृगयोनिप्रापकं दुष्कृतादि सम्भाव्येत तव तु
महापुण्यस्य कुतस्तत्सम्भावना तत्राह - प्रवृत्त इति । अहमपि स्वर्गभोगयुक्ते
सम्मोहे दुर्वासोपराधे प्रवृत्तः । क्व ते तत्प्रवृत्तिस्तत्राह - मन्दारेति ॥ १२ ॥
तेनेत्युक्ते मया प्रोक्तं देव खिन्नोऽस्मि संसृतेः ।
मुच्येयं शीघ्रमित्युक्तं श्रुत्वोवाच ततो मम ॥ १३ ॥
तेन इन्द्रेण इत्युक्ते सति ॥ १३ ॥
विशुद्धात्मा त्वरूपोऽहमिति चैव हुताशनात् ।
वरं गृहाणेत्युक्ते स ततोऽन्यं याचितो मया ॥ १४ ॥
किमुवाच तदाह - विशुद्धेति । शीघ्रं मुक्तिस्तु अरूपः अवस्थात्रयरूपेण
मूर्तामूर्तरूपेण च रहितो विशुद्ध आत्मैवाहमिति तत्त्वज्ञानादेव भवति । तत्तु
त्वया प्राग्व्याधमुनिसंवादवर्णनप्रसङ्गेन हुताशनाच्छ्रुतमेवेति शेषः ।
ततस्त्वमन्यं वरं गृहाणेतीन्द्रेणोक्ते सति मया सः अन्यं मृगत्वे स्वस्य
किमग्रे भविष्यतीत्येतत्परिज्ञानरूपं वरं याचितः ॥ १४ ॥
इन्द्र उवाच ।
तवेयं मृगयोन्यन्तश्चिरं संसरते चितिः ।
अवश्यं भवितव्योऽर्थ इति दृष्टो मया तव ॥ १५ ॥
संसरते संसर्तुमिच्छति ॥ १५ ॥
मृगो भूत्वा महापुण्यां तां सभां समवाप्तवान् ।
यस्यां तदहतं ज्ञानं मदुक्तं बोधमेष्यति ॥ १६ ॥
तां दाशरथीं सभाम् । मदुक्तं विशुद्धात्मा त्वरूपोऽहमित्येवंरूपम् ॥ १६ ॥
तदेवं तत्र हरिणो भवार्तस्त्वं भवावनौ ।
आत्मोदन्तमिदं वन्ध्यं सकलं संस्मरिष्यसि ॥ १७ ॥
हरिणः संस्तदेवं क्रमेण सभां प्राप्य वसिष्ठप्रसादात्सकलमात्मोदन्तं
स्ववृत्तान्तम् ॥ १७ ॥
स्वप्नभ्रममिवाशेषसङ्कल्परचितोपमम् ।
प्रलोकानुभूतार्थकथायातार्थसन्निभम् ॥ १८ ॥
वन्ध्यत्वमेव दृष्टान्तैर्विवृणोति - स्वप्नेति ॥ १८ ॥
यदा तु मृगतोन्मुक्तः पुरुषस्त्वं भविष्यसि ।
ज्ञानाग्निदग्धदेहान्ते तदा हृत्स्थं स्फुरिष्यति ॥ १९ ॥
किं मृगदेहेनैव संस्मरिष्यामि नेत्याह - यदेति ॥ १९ ॥
तेन तां त्वमविद्याख्यां भ्रान्तिं त्यक्त्वा चिरं स्थिताम् ।
भविष्यसि विनिर्वाणो गतस्पन्द इवानिलः ॥ २० ॥
तेन आत्मतत्त्वस्फुरणेन । विनिर्वाणो मुक्तः ॥ २० ॥
इत्युक्ते तेन देवेन तदैव प्रतिभोदभूत् ।
ममायं हरिणोऽस्मीति वनेऽस्मिन्निति निश्चिता ॥ २१ ॥
इति तेन देवेनेन्द्रेणोक्ते सति सा पूर्वा मानसी हरिणोऽस्मीति प्रतिभा निश्चिता
व्यवहारार्थक्रियासमर्था उदभूत् ॥ २१ ॥
ततः प्रभृति सम्पन्नस्तत्रैवान्तरकोणके ।
हरिणोऽहं गिरिवरे तृणदूर्वाङ्कुराशनः ॥ २२ ॥
तत्रैव मन्दारवनान्तरकोणके ॥ २२ ॥
ततः सीमान्तसामन्तमागतं मृगयार्थिनम् ।
दृष्ट्वाहमेकदा भीतः पलायनपरोऽभवम् ॥ २३ ॥
ततस्तेन समाक्रम्य गृहं नीत्वा दिनत्रयम् ।
संस्थाप्य तव लीलार्थमिहानीतो रघूद्वह ॥ २४ ॥
एष ते कथितः सर्व आत्मोदन्तो मयानघ ।
संसारमायाप्रतिमो नानाश्चर्यरसान्वितः ॥ २५ ॥
संसारप्रसिद्धैन्द्रजालिकमायाप्रतिमः ॥ २५ ॥
अविद्यैवमनन्तेयं शाखाप्रसरशालिनी ।
आत्मज्ञानादृते नैव केनचिन्नाम शाम्यति ॥ २६ ॥
श्रीवाल्मीकिरुवाच ।
यदा विपश्चिदित्युक्त्वा तत्र तूष्णीं स्थितः क्षणात् ।
समवोचत्तदा रामस्तमनिन्द्यमतिस्त्विदम् ॥ २७ ॥
इदं वक्ष्यमाणम् ॥ २७ ॥
श्रीराम उवाच ।
एवं पश्यत्यसङ्कल्पो योऽन्यसङ्कल्प आत्मनि ।
मृगश्चेद्दृश्यतां यातः कथं सर्गे वद प्रभो ॥ २८ ॥
अन्यसङ्कल्परूपोऽयं मृगश्चेदस्माकं दृश्यतां यातः । एवं सति असङ्कल्पोपि
पुरुषोऽन्यसङ्कल्पसर्गे स्थितं वस्तुजातं पश्यतीति फलितम् । इदं तु कथमुपपद्यते
वदेत्यर्थः ॥ २८ ॥
विपश्चिदुवाच ।
महाशवं यत्पतितं यस्मिञ्जगति भूतले ।
तां भुवं पूर्वमिन्द्रेण यज्ञगर्वेण गच्छता ॥ २९ ॥
महामुनिदेवतादिवरशापादिना अन्यसङ्कल्पकल्पितोप्यर्थोऽन्येषामसङ्कल्पानामपि
दर्शनादिव्यवहारयोग्यो भवतीत्युत्तरं वक्तुं प्रागुक्तशवपतनमेव
निमित्तान्तरेण वर्णयितुं विपश्चित्प्रस्तौति - महाशवमित्यादिना । पूर्वं
शवपतनात्पूर्वकाले तां भुवं प्रति मन्दारवने
स्वकृतयज्ञप्रयुक्तयजमानतागर्वेणान्धवद्गच्छताइन्द्रेण
मुनिरयमित्यविज्ञानाद्गतासुरयमित्यवज्ञया च दुर्वासाः पादेनाभिहतः ॥ २९ ॥ ॥
पादेनाभिहतो व्योम्नि दुर्वासा ध्यानसंस्थितः ।
गतासुरित्यविज्ञानात्तेनासौ कुपितोऽशपत् ॥ ३० ॥
शक्र शक्रावनितलं ब्रह्माण्डप्रतिमं शवम् ।
अचिरेण महाघोरं तव चूर्णीकरिष्यति ॥ ३१ ॥
शक्र शक्रेति वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्स्नेषु इति कोपादिषु
द्विर्वचनम् । तव गन्तुमिष्टमवनितलं चूर्णीकरिष्यति ॥ ३१ ॥
मामिमं शवबुद्ध्या त्वं यदतिक्रान्तवानतः ।
शापेन ममतां पृथ्वीं शीघ्रमासादयिष्यसि ॥ ३२ ॥
मृगार्थं तेन मुनिना तथा देवेति सद्यथा ।
तत्तया कथयाऽऽयातं सदैव विषयं दृशाम् ॥ ३३ ॥
तेन मुनिना दुर्वाससा विपश्चिता सह शक्रस्य मृगभावार्थमपि तथा
देवमृगश्च त्वं तुल्यकालं विपश्चितेति वाक्येन यथा विपश्चितो
मनःसङ्कल्पितमपि मृगत्वं सत् अन्यदर्शनाद्यर्थक्रियासमर्थं भवति तथा स
शप्त इति शेषः । तत्तस्मात्तया इन्द्रशापकथयैव मुनिवाक्यबलात्साङ्कल्पिकमपि
विपश्चितो मृगत्वं भवदादिदृशां सदैव विषयं विषयत्वमायातम् ॥ ३३ ॥
वस्तुतस्तु न चैकं सन्न द्वितीयं न चाप्यसत् ।
सा तथा प्रतिभोदेति किं सत्किमथवाप्यसत् ॥ ३४ ॥
एवं जगत्प्रसिद्धदृशा रामप्रश्नं समाधायतत्त्वदृशा समाधत्ते -
वस्तुतस्त्विति । वस्तुतोविचारे एकं व्यावहारिकं जगत् सत् इत्यपि न । द्वितीयं साङ्कल्पिकं
वा असदित्यपि न । द्वयोरपि तुल्यत्वादित्याह - सेति ॥ ३४ ॥
अन्यच्च राघवे मां तां युक्तिं त्वमपरां शृणु ।
एतस्मिन्नयसन्दर्भे सुस्फुटप्रतिपत्तये ॥ ३५ ॥
ब्रह्मणः सर्वशक्तिसर्वात्मकत्वादपि न कोऽपि विरोध इत्याह - अन्यच्चेत्यादिना ।
नया युक्तयस्तासां सन्दर्भे ॥ ३५ ॥
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
ब्रह्म तस्मिन्महाभाग किं न सम्भवतीह हि ॥ ३६ ॥
सङ्कल्पजातं नान्योन्यं मिलतीत्युपपद्यते ।
सङ्कल्पजातमन्योन्यं मिलतीत्युपपद्यते ॥ ३७ ॥
सङ्कल्पजातं परस्परं न मिलति मिलतीति च द्वयमपि सर्वशक्तावुपपद्यते इत्यर्थः
॥ ३७ ॥
सङ्कल्पजातमन्योन्यं मिलतीत्यवगम्यते ।
सर्वात्मनि हि यत्रैव च्छाया तत्रैव चातपः ॥ ३८ ॥
आवगम्यते प्रत्यक्षं मृगदर्शनादौ । उपपत्तिश्चात्रास्तीत्याह - सर्वात्मनीति ॥
३८ ॥
न सम्भवति चेत्तत्तत्कथं सर्वात्मतामियात् ।
कस्मात्सङ्कल्पनगरं न मिथः श्लिष्यतीति सत् ॥ ३९ ॥
यदि विरुद्धमेकत्र न सम्भवति तदा सर्वात्मत्वमेवब्रह्मणो व्याहन्येतेत्याह -
नेति । इदं च सर्वं प्राग्बहुशो व्याख्यातप्रायम् ॥ ३९ ॥
मिथश्च श्लिष्यतीत्येवमपि सत्सर्वरूपिणि ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ॥ ४० ॥
सर्वत्र सर्वथा सर्वं सर्वदा सर्वरूपिणि ।
अहो नु विषमा माया मनोमोहविधायिनी ॥ ४१ ॥
मायायाअघटितघटनासमर्थत्वेनात्याश्चर्यरूपत्वादपि सर्वं घटत इत्याह ##-
विधयः प्रतिषेधाश्च यदेकत्र स्थितिं गताः ।
ईदृशी ब्रह्मसत्तैषा यदेवात्मानमात्मना ॥ ४२ ॥
न मायायाएव ब्रह्मसत्ताया अप्येवं माहात्म्यमित्याह - ईदृशीति ॥ ४२ ॥
तया अनादिः सादिश्चेत्यविद्येत्यनुभूयते ।
न ज्ञप्तिमात्रकचनं यदि स्याद्भुवनत्रयम् ॥ ४३ ॥
तया ब्रह्मसत्तया ॥ ४३ ॥
तन्महाकल्पनष्टानां सृष्टिः स्यात्कथमञ्जसा ।
कथमग्नेः कथं वायोः सत्ता भूमेः कथं भवेत् ॥ ४४ ॥
तस्मात्स्वभावकचनमात्रान्नान्यदृते जगत् ।
शास्त्राण्यनुभवो लोका आमहाकल्पवादिनाम् ॥ ४५ ॥
स्वभावकचनमात्रादृते जगन्नान्यत् । वेदान्तादिशास्त्राणि विद्वदनुभवो
लोकप्रसिद्धदृष्टान्ताश्च येषां मूर्खाणां प्रमाणं न तैः सतां अलं
सम्भाषणेनेत्यर्थः ॥ ४५ ॥
येषां प्रमाणं नो सर्वं प्रशस्तैस्तैरलं सताम् ।
ज्ञप्तिदृष्ट्यानया सर्वं प्रमाणीभवति क्षणात् ॥ ४६ ॥
प्रशस्तैर्विरोधिलक्षणया निन्द्यैः । ज्ञप्तिदृष्ट्या चिद्विलासदृष्ट्या ॥ ४६ ॥
नान्यया तनु तेनैवमेव सारं विदुर्बुधाः ।
शुद्धा ज्ञप्तिर्ब्रह्मसत्ता त्वविद्यास्मीति चेतनात् ॥ ४७ ॥
अन्यया दृष्ट्या तुन प्रमाणीभवति किन्तु तनु फल्गु भवति । तेन हेतुना बुधा
एवमेव ज्ञानदृष्टिसिद्धमेव सारं विदुः । कथं विदुस्तदाह - शुद्धेति ॥ ४७
॥
स्फुरतीयं जगद्रूपा वातश्रीः स्पन्दनादिव ।
न कश्चनेह म्रियते जायते न च कश्चन ॥ ४८ ॥
मृतोऽहमिदमस्तीतिप्रतिमैव चिदात्मिका ।
मृतिरत्यन्तनाशश्चेत्तत्सा निद्रा सुखोपमा ॥ ४९ ॥
अत्यन्तं नाशो दृश्यादर्शनं चेत् सा निद्रा सुटुप्तिस्तत्सुखोपमा ॥ ४९ ॥
पुनर्दृश्योपलम्भश्चेन्ननु जीवितमेव तत् ।
तस्मान्नेहास्ति मरणं तन्नैवेहास्ति जीवितम् ॥ ५० ॥
कस्मिंश्चिन्मात्रकचने द्वयं वाप्यस्ति नैव वा ।
चेतितं द्वयमप्यस्ति नास्ति द्वयमचेतितम् ॥ ५१ ॥
कस्मिन् एकस्मिन् । एकारलोपश्छान्दसः । नैव वेत्यत्रोपपत्तिमाह - चेतितमिति ॥ ५१ ॥
चेतितं चैकमेवास्ति स्वस्त्यनन्तमतश्चितः ।
चिन्मात्रव्यतिरेकेण किं नाम वद जीवनम् ॥ ५२ ॥
अतश्चितो द्वैतसत्त्वासत्त्वसाक्षिण्याः स्वस्तिक्षेमः सदैवेत्यर्थः । अदुःखं जीवनं हि
सर्वाभिलषितं सुखं तच्च चिन्मात्रमेवेति तदेव परपुरुषार्थ इत्याह - चिन्मात्रेति
॥ ५२ ॥
अदुःखमक्षयत्वात्तदतो दुःखं क्व कस्यचित् ।
वाच्यं सवाचकं सर्वं यत्र चिद्व्योममात्रकम् ॥ ५३ ॥
वाच्यं रूपं वाचकनामसहितं सर्वं यत्र यस्यां तत्त्वदृष्टौ ॥ ५३ ॥
तदन्यत्तदनन्यच्च के ते तत्रैकताद्विते ।
आवर्तादि यथा तोये शरीरादि तथा परे ॥ ५४ ॥
ननु शरीराद्येव दुःखमस्तीत्याशङ्क्याह - आवर्तादीति ॥ ५४ ॥
तत्सत्तासन्निवेशात्म कारणानन्यखात्म च ।
चिद्भानमात्रमव्यग्रं खमेवाप्रतिघं जगत् ॥ ५५ ॥
कारणानन्यत्वात्सर्वकारणखात्मकमेव । अप्रतिघमनघम् ॥ ५५ ॥
आश्चर्यं सुघनं व्यग्रं द्रव्यं सप्रतिघं स्थितम् ।
तथेते भूतिभूर्नास्ति वर्तमानानुभूतिभूः ॥ ५६ ॥
यत्सुघनं व्यग्रं द्रव्यं सप्रतिघं च स्थितं तदेवाश्चर्यम् । यथा इते अतीते
भूतेः प्रतीतेः भूः विषयो नास्ति तथा वर्तमानेऽपि अनुभूतौ
भवतीत्यनुभूतिभूर्विषयो नास्ति ॥ ५६ ॥
तत्र भ्रान्त्या पिशाचोऽयं भाति खात्मेति बुध्यताम् ।
यथैतत्खं तथैतत्खमेतत्खमिति खं स्थितम् ॥ ५७ ॥
तत्र वर्तमानानुभूतौ अयं खात्मा शून्यात्मैव दृश्यपिशाचो भूत्वा भातीति
बुध्यताम् । यथा एतत्परिदृश्यमानं खं तथा एतच्चिदाकाशरूपं खम् । यत
एतच्चिदाकाशमेव खमिति प्रतीतं खं शून्यं भूत्वा स्थितम् ॥ ५७ ॥
तथेतो भूरितो भूतमितोऽन्यदिति खं परम् ।
यैव चिद्भा जगत्सैव नैकतात्र न च द्विता ॥ ५८ ॥
तथा इतः अधःप्रदेशे भूः इतः प्रदेशान्तरे वाय्वाकाशादिभूतं इतः दिक्षु
विदिक्षु चान्यदित्यनेकाकारः परं खमेव भाति नान्यदित्यर्थः ॥ ५८ ॥
न च प्रतिघता काचिन्न चाप्रतिघरूपता ।
सर्वमप्रतिघं दृश्यं यथा भूतार्थदर्शिनः ॥ ५९ ॥
तज्ज्ञतातज्ज्ञते चेहन सती नाप्यसत्स्थिती ।
सत्ये सदसती चैकं काष्ठमौनमतोऽखिलम् ॥ ६० ॥
पूर्णदृष्टौ ज्ञताज्ञताभेदोप्यपैतीत्याह - तज्ज्ञतेति ॥ ६० ॥
यद्दृश्यं ब्रह्मतानन्तं तदेव परमं पदम् ।
इदं सर्वं परं ब्रह्ममात्रमित्येव संस्थितम् ॥ ६१ ॥
एवं च दृश्यं सर्व ब्रह्मतयैव सम्पन्नमित्याह - यदिति ॥ ६१ ॥
एवं नामैष चिद्धातुः कचत्येवं यदात्मनि ।
यस्येदं कचनं व्योम्नो रूपमप्रतिघन्न् जगत् ॥ ६२ ॥
सर्गाद्या मृतजीवानां सर्वत्रैवाङ्गुलेङ्गुले ।
असङ्ख्याः सन्त्यसङ्ख्यानामदृश्याप्रतिघामिथः ॥ ६३ ॥
सर्वत्र सर्गाः सनतीत्याह - सर्गाद्या इति । इदं च प्राग्वसिष्ठेन
विस्तरेणोपपादितम् ॥ ६३ ॥
अन्योन्यं सिद्धलोकास्ते स्वं यत्र प्राप्य सङ्गताः ।
परस्परं न पश्यन्ति मिथः प्रोता अपि स्थिताः ॥ ६४ ॥
उत्तरोत्तरं सूक्ष्मतराः सिद्धलोकाः स्वं स्वरूपं प्राप्य यत्र ब्रह्मणि सङ्गताः ।
एतच्च बृहदारण्यके गागीम्प्रश्ने वर्णितम् यदिदं सर्वमप्स्वोतं च प्रोतं चेति
कस्मिन् खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन् खलु वायुरोतश्च
प्रोतस्चेत्यन्तरिक्षलोकेषु गार्गीति इत्यादिना ॥ ६४ ॥
भवत्याकाश एवैषा दृश्यश्रीर्गगनात्मिका ।
अनन्यदृष्टा चिद्रूपा स्वप्नवत्स्वात्मद्रष्ट्टका ॥ ६५ ॥
वस्तुतस्तु आत्मातिरिक्तद्रष्ट्टकत्वमेवाप्रसिद्धमित्याशयेनाह - भवतीति । यत
इयं दृश्यश्रीरात्माकाश एव भवति ततः अनन्यदृष्टा ॥ ६५ ॥
एषा हि सम्परिज्ञाता तिष्ठत्यपि यथास्थितम् ।
भामात्ररूपनिर्वाणा निशान्ताऽप्रतिभाकृतिः ॥ ६६ ॥
चिद्गगनात्मकत्वादेव परिज्ञातमात्रा तदाकृतिः सम्पद्यत इत्याह - एषा हीति ।
निशाया अन्ते प्रभाते अप्रतिभाया अन्धकारस्याकृतिरिवाकृतिर्यस्याः ॥ ६६ ॥
शान्ताशेषविशेषात्म यथास्थितमवस्थितम् ।
सदसद्वा जगज्जालं परिज्ञानेन शाम्यति ॥ ६७ ॥
यथास्थितं चेच्छान्ताशेषविशेषात्मकमवस्थितं तदाज्ञानबाध्यं जगत्
सदसद्वाऽस्तु न काचित्क्षतिरित्याह - शान्तेति ॥ ६७ ॥
यथाब्धिजलबिन्दूनां क्षणविश्लेषसङ्गमम् [समाहारद्वन्द्वः ।] ।
चिदणूनां तथा ब्रह्म वारिधौ स्फुरतां मिथः ॥ ६८ ॥
अस्त्वित्थं जगज्जालं तन्निबद्धजीवानां ब्रह्मणि कीदृशी स्थितिस्तामाह - यथेति ।
यावदज्ञानमंशांशिभावेनेत्यर्थः ॥ ६८ ॥
स्वप्नवद्भाति सर्गश्रीः सर्गादौ चिन्नभोमयी ।
अतः सर्वमिदं ब्रह्म शान्तमित्युपपद्यते ॥ ६९ ॥
तेषां सर्गादौ सर्गश्रीः कथं भाति तदाह - स्वप्नवदिति ॥ ६९ ॥
दृष्टान्यनन्तविभवानि मया जगन्ति भुक्तानि कार्यपरिणामविजृम्भितानि ।
भ्रान्ता दिशो दश बहूनि युगानि यावज्ज्ञानादृते क्षयमुपैति न
दृश्यदोषः ॥ ७० ॥
मया अनन्तविभवानि जगन्ति दृष्टानि । कार्याणां स्वकर्मणां
परिणामविजृम्भितानि सुखदुःखफलानि भुक्तानि । बहूनि युगानि दिशो भ्रान्ताः ।
यावत् साकल्येन । ज्ञानादृते दृश्यदोषः क्षयं नौपैतीत्यर्थः ॥ ७० ॥
इ० वा० महारामायणे वा० दे० मो० नि० उ० अवि० वि० श० विपश्चित्संसारभ्रमवर्णनं
नामैकोनषष्ट्यधिकशततमः सर्गः ॥ १५९ ॥
इति श्रीवासि० ता० प्रकाशे निर्वाणप्रकरणे उत्तरार्धे विपश्चित्संसारभ्रमवर्णनं
नामैकोनषष्ट्यधिकशततमः सर्गः ॥ १५९ ॥