अष्टपञ्चाशदधिकशततमः सर्गः १५८
मुनिरुवाच ।
एतत्ते कथितं सर्वं भविष्यद्भूतवत्तव ।
यथेच्छसि तथेदानीं व्याध साधु विधीयताम् ॥ १ ॥
श्रुत्वा मुनिवचो व्याधस्तपः कृत्वा वराद्विधेः ।
अखमाप्लुतः शवीभूतः पपातेत्यादि वर्ण्यते ॥
भूतवत् अतीतकथावत् ॥ १ ॥
अग्निरुवाच ।
इति तस्य वचः श्रुत्वा विस्मयाकुलचेतनः ।
क्षीणं स्थित्वा जगामाशु स्नातुं व्याधस्तथा मुनिः ॥ २ ॥
क्षणं स्थित्वा विमृश्येति यावत् ॥ २ ॥
इति तौ चेरतुस्तत्र तपः शास्त्रविचारणैः ।
अकारणसुहृद्भूतावुभौ व्याधमहामुनी ॥ ३ ॥
अथाल्पेनैव कालेन मुनिर्निर्वाणमाययौ ।
देहं त्यक्त्वाऽपदेशान्ते परे परिणतिं गतः ॥ ४ ॥
अल्पेनैव कालेनेति मुनेः समाधौ बहुतरस्यापि कालस्याल्पताप्रतीतेरित्याशयः ।
यद्यप्यत्र यथाश्रुतग्रन्थात्पूर्वं मुनेर्देहत्यागः पश्चाच्चिरकालोत्तरं
व्याधस्य कामनां दातुं पद्मजागमनं प्रतीयते तथापि पूर्वं
मुनेर्भविष्यत्कथनग्रन्थे व्याधस्यवरलाभानन्तरं
मामापृच्छन्नमस्कृत्य तस्मिन्नेव क्षणे ततः । प्लुतिमेष्यसि सव्योम्नि
चित्तस्थार्थदिदृक्षया ॥ इति मुनिनोक्तत्वाद्व्याधस्योर्ध्वगमनकालेमुनेर्जीवनं
स्थितमेवेति पश्चादेव देहत्याग इति बोध्यम् । अपदेशस्य निर्दिष्टस्य आयुषोऽन्ते ॥ ४ ॥
कालेन बहुनान्येन ततो युगशतात्मना ।
व्याधस्य कामनां दातुं पद्मजन्मा समाययौ ॥ ५ ॥
व्याधः स्ववासनावेशं निवारयितुमक्षमः ।
जानन्नपि वरं पूर्वं वर्णितं समयाचत ॥ ६ ॥
पूर्वं मुनिना व्यर्थत्वेन वर्णितं वरं जानन्नपि समयाचत ॥ ६ ॥
ब्रह्मैवमस्त्विति प्रोच्य ययावभिमतां दिशम् ।
व्याधस्तपःफलं भोक्तुं खगवद्योम पुप्लुवे ॥ ७ ॥
वर्धमानेन देहेन जगत्पारे महानभः ।
वेगादगणितं कालं पूरयामास शैलवत् ॥ ८ ॥
जगत्पारे त्रैलोक्यादूर्ध्वम् । महानभः अव्याकृताकाशम् ॥ ८ ॥
महागरुडवेगेन तिर्यगूर्ध्वमधस्तथा ।
व्योम पूरयतस्तस्य कालो बहुतरो ययौ ॥ ९ ॥
अथ दीर्घेण कालेन यदा विद्याभ्रमस्य सः ।
अन्तं न समवाप्नोति तत्रोद्वेगमुपाययौ ॥ १० ॥
उद्वेगं तत्प्रयुक्तनिर्वेदम् ॥ १० ॥
उद्वेगादथ बद्ध्वासौ प्राणरेचनधारणाम् ।
प्राणांस्तत्याज नभसि शवीभूतमधोवपुः [अधोभुवीति पाठे
वपुरित्यध्याहार्यम् ।] ॥ ११ ॥
चित्तं प्राणान्वितं व्योम्नि ययौ तत्रैव सिन्धुताम् ।
विदूरथारिरूपां तामखिलावनिपालिनीम् ॥ १२ ॥
सिन्धुतां सिन्धुदेशराजताम् । विदूरथस्य अरिः शत्रुस्तद्रुपाम् ॥ १२ ॥
अदेहो मेरुशताकारमहाशव इवाभवत् ।
द्वितीयोर्वीनिभो व्योम्नः पपाताशनिवज्रवत् ॥ १३ ॥
त्यक्तदेहस्तु व्योममार्गे पपात ॥ १३ ॥
पिधानमिव कस्योर्वीवीथी कस्मिंश्चिदम्बरे ।
केशोण्ड्रकवदाभाते कस्मिंश्चिज्जागते भ्रमे ॥ १४ ॥
कस्य ब्रह्मणः कस्मिंश्चिज्जागते भ्रमे केशोण्ड्रकवदाभाते तत्र
कस्मिंश्चिदम्बरे उर्वीवीथी विशालं पिधानमिव स्थितः ॥ १४ ॥
आकारपूरिताशेषवसुधाचलमण्डलः ।
विपश्चिच्छ्रेष्ठ कथितमेतत्ते तन्महाशवम् ॥ १५ ॥
हे श्रेष्ठ हे विपश्चित् ते एतन्महाशवं सवृत्तान्तं यथावन्मया कथितम् ॥ १५ ॥
यस्मिञ्छवं सम्पतितं जगत्यवनिमण्डले ।
तदिदं जगदाभातमस्माकं स्वप्नपूर्यथा ॥ १६ ॥
अस्माकं चित्ते आभातं प्रत्यक्षं स्फुरितम् ॥ १६ ॥
तदेतच्छवमास्वाद्य शुष्का पूर्णा महोदरी ।
सम्पन्ना चण्डिका देवी रक्ता रक्तान्त्रपूरिता ॥ १७ ॥
रक्तेन आन्त्रैश्च पूरिता सती रक्ता रक्तवर्णा सम्पन्ना ॥ १७ ॥
मेदिनी मेदिनी जाता शवस्यैतस्य मेदसा ।
पूरिताऽपूर्वरूपेण हिमवद्गिरिरूपिणा ॥ १८ ॥
अपूर्वरूपेण आश्चर्यभूतेन ॥ १८ ॥
तदैवैतन्महामेदो मृद्धातुत्वमुपागतम् ।
कालेन वसुधा भूयो भूत्वा मृन्मयतां गता ॥ १९ ॥
भूयः प्रजातानि वनानि भूमौ ग्रामाः कृताः पत्तनसंयुताश्च ।
पातालतः साधुसमुत्थितास्ते शैलाः प्रवृत्ता व्यवहारलक्ष्मीः ॥ २० ॥
पूर्वं वनादीनां शवेन नाशनाद्भूयो वनानि प्रजातानि । ग्रामाश्च भूयः
कृताः । ते चूर्णिताः शैलाश्च भूयः पातालतः साधु यथापूर्वं समुत्थिताः ।
ततो जनानां व्यवहारलक्ष्मीः प्रवृत्तेत्यर्थः ॥ २० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० विय० श० शवनिर्णयो
नामाष्टपञ्चाशदधिकशततमः सर्गः ॥ १५८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शवनिर्णयो नामाष्टपञ्चाशदधिकशततमः सर्गः ॥ १५८ ॥